| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ नारदे हि गते दिवि ॥ दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात् ॥ १ ॥
सनत्कुमार सर्वज्ञ नारदे हि गते दिवि ॥ दैत्य-राज् किम् अकार्षीत् स तत् मे वद सु विस्तरात् ॥ १ ॥
sanatkumāra sarvajña nārade hi gate divi .. daitya-rāj kim akārṣīt sa tat me vada su vistarāt .. 1 ..
सनत्कुमार उवाच ।।
तमामंत्र्य गते दैत्यं नारदे दिवि दैत्यराट् ॥ तद्रूपश्रवणादासीदनंगज्वरपीडितः ॥ २॥
तम् आमंत्र्य गते दैत्यम् नारदे दिवि दैत्य-राज् ॥ तद्-रूप-श्रवणात् आसीत् अनंग-ज्वर-पीडितः ॥ २॥
tam āmaṃtrya gate daityam nārade divi daitya-rāj .. tad-rūpa-śravaṇāt āsīt anaṃga-jvara-pīḍitaḥ .. 2..
अथो जलंधरो दैत्यः कालाधीनः प्रनष्टधीः॥ दूतमाह्वाय यामास सैंहिकेयं विमोहितः ॥ ३ ॥
अथो जलंधरः दैत्यः काल-अधीनः प्रनष्ट-धीः॥ दूतम् आह्वाय यामास सैंहिकेयम् विमोहितः ॥ ३ ॥
atho jalaṃdharaḥ daityaḥ kāla-adhīnaḥ pranaṣṭa-dhīḥ.. dūtam āhvāya yāmāsa saiṃhikeyam vimohitaḥ .. 3 ..
आगतं तं समालोक्य कामाक्रांतमनास्स हि ॥ सुसंबोध्य समाचष्ट सिंधुपुत्रो जलंधरः ॥ ४॥
आगतम् तम् समालोक्य काम-आक्रांत-मनाः स हि ॥ सु संबोध्य समाचष्ट सिंधु-पुत्रः जलंधरः ॥ ४॥
āgatam tam samālokya kāma-ākrāṃta-manāḥ sa hi .. su saṃbodhya samācaṣṭa siṃdhu-putraḥ jalaṃdharaḥ .. 4..
जलंधर उवाच ।।
भोभो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक ॥ सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम् ॥ ५ ॥
भो भो दूत-वर-श्रेष्ठ सर्व-कार्य-प्रसाधक ॥ सैंहिकेय महा-प्राज्ञ कैलासम् गच्छ पर्वतम् ॥ ५ ॥
bho bho dūta-vara-śreṣṭha sarva-kārya-prasādhaka .. saiṃhikeya mahā-prājña kailāsam gaccha parvatam .. 5 ..
तत्रास्ति योगी शंभ्वाख्य स्तपस्वी च जटाधरः ॥ भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः॥ ५।
तत्र अस्ति योगी शंभु-आख्यः स्तपस्वी च जटाधरः ॥ भस्म-भूषित-सर्व-अङ्गः विरक्तः विजित-इन्द्रियः॥ ५।
tatra asti yogī śaṃbhu-ākhyaḥ stapasvī ca jaṭādharaḥ .. bhasma-bhūṣita-sarva-aṅgaḥ viraktaḥ vijita-indriyaḥ.. 5.
तत्र गत्वेति वक्तव्यं योगिनं दूत शंकरम् ॥ जटाधरं विरक्तं तं निर्भयेन हृदा त्वया ॥ ७ ॥
तत्र गत्वा इति वक्तव्यम् योगिनम् दूत शंकरम् ॥ जटाधरम् विरक्तम् तम् निर्भयेन हृदा त्वया ॥ ७ ॥
tatra gatvā iti vaktavyam yoginam dūta śaṃkaram .. jaṭādharam viraktam tam nirbhayena hṛdā tvayā .. 7 ..
हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् ॥ भूतप्रेतपिशाचादिसेवितेन वनौकसा ॥ ८ ॥
हे योगिन् ते दया-सिन्धो जाया-रत्नेन किम् भवेत् ॥ भूत-प्रेत-पिशाच-आदि-सेवितेन वनौकसा ॥ ८ ॥
he yogin te dayā-sindho jāyā-ratnena kim bhavet .. bhūta-preta-piśāca-ādi-sevitena vanaukasā .. 8 ..
मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी ॥ जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम् ॥ ९॥
मद्-नाथे भुवने योगिन् ना उचिता गतिः ईदृशी ॥ जाया-रत्नम् अतस् त्वम् मे देहि रत्नभुजे निजम् ॥ ९॥
mad-nāthe bhuvane yogin nā ucitā gatiḥ īdṛśī .. jāyā-ratnam atas tvam me dehi ratnabhuje nijam .. 9..
यानियानि सुरत्नानि त्रैलोक्ये तानि संति मे ॥ मदधीनं जगत्सर्वं विद्धि त्वं सचराचरम् ॥ 2.5.19.१०॥
यानि यानि सु रत्नानि त्रैलोक्ये तानि संति मे ॥ मद्-अधीनम् जगत् सर्वम् विद्धि त्वम् सचराचरम् ॥ २।५।१९।१०॥
yāni yāni su ratnāni trailokye tāni saṃti me .. mad-adhīnam jagat sarvam viddhi tvam sacarācaram .. 2.5.19.10..
इन्द्रस्य गजरत्नं चोच्चैःश्रवोरत्नमुत्तमम् ॥ बलाद्गृहीतं सहसा पारिजा ततरुस्तथा॥ ११॥
इन्द्रस्य गज-रत्नम् च उच्चैःश्रवः-रत्नम् उत्तमम् ॥ बलात् गृहीतम् सहसा पारिजा ततरुः तथा॥ ११॥
indrasya gaja-ratnam ca uccaiḥśravaḥ-ratnam uttamam .. balāt gṛhītam sahasā pārijā tataruḥ tathā.. 11..
विमानं हंससंयुक्तमंगणे मम तिष्ठति ॥ रत्नभूतं महादिव्यमुत्तमं वेधसोद्भुतम् ॥ १२ ॥
विमानम् हंस-संयुक्तम् अंगणे मम तिष्ठति ॥ रत्न-भूतम् महा-दिव्यम् उत्तमम् वेधसा उद्भुतम् ॥ १२ ॥
vimānam haṃsa-saṃyuktam aṃgaṇe mama tiṣṭhati .. ratna-bhūtam mahā-divyam uttamam vedhasā udbhutam .. 12 ..
महापद्मादिकं दिव्यं निधिरत्नं स्वदस्य च ॥ छत्रं मे वारुणं गेहे कांचनस्रावि तिष्ठति ॥ १३॥
महापद्म-आदिकम् दिव्यम् निधि-रत्नम् स्वदस्य च ॥ छत्रम् मे वारुणम् गेहे कांचन-स्रावि तिष्ठति ॥ १३॥
mahāpadma-ādikam divyam nidhi-ratnam svadasya ca .. chatram me vāruṇam gehe kāṃcana-srāvi tiṣṭhati .. 13..
किञ्जल्किनी महामाला सर्वदाऽम्लानपंकजा ॥ मत्पितुस्सा ममैवास्ति पाशश्च कंपतेस्तथा ॥ १४॥
सर्वदा ॥ मद्-पितुः सा मम एवा अस्ति पाशः च कंपतेः तथा ॥ १४॥
sarvadā .. mad-pituḥ sā mama evā asti pāśaḥ ca kaṃpateḥ tathā .. 14..
मृत्योरुत्क्रांतिदा शक्तिर्मया नीता बलाद्वरा॥ ददौ मह्यं शुचिर्दिव्ये शुचिशौचे च वाससी ॥ ।१५॥
मृत्योः उत्क्रांति-दा शक्तिः मया नीता बलात् वरा॥ ददौ मह्यम् शुचिः दिव्ये शुचि-शौचे च वाससी ॥ ।१५॥
mṛtyoḥ utkrāṃti-dā śaktiḥ mayā nītā balāt varā.. dadau mahyam śuciḥ divye śuci-śauce ca vāsasī .. .15..
एवं योगीन्द्र रत्नानि सर्वाणि विलसंति मे ॥ अतस्त्वमपि मे देहि स्वस्त्रीरत्नं जटाधर ॥ १६ ॥ ॥
एवम् योगि-इन्द्र रत्नानि सर्वाणि विलसन्ति मे ॥ अतस् त्वम् अपि मे देहि स्व-स्त्री-रत्नम् जटाधर ॥ १६ ॥ ॥
evam yogi-indra ratnāni sarvāṇi vilasanti me .. atas tvam api me dehi sva-strī-ratnam jaṭādhara .. 16 .. ..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य नन्दिना स प्रवेशितः॥ जगामोग्रसभां राहुर्विस्मयोद्भुतलोचनः॥ १७॥
इति श्रुत्वा वचः तस्य नन्दिना स प्रवेशितः॥ जगाम उग्र-सभाम् राहुः विस्मय-उद्भुत-लोचनः॥ १७॥
iti śrutvā vacaḥ tasya nandinā sa praveśitaḥ.. jagāma ugra-sabhām rāhuḥ vismaya-udbhuta-locanaḥ.. 17..
तत्र गत्वा शिवं साक्षाद्देवदेवं महाप्रभुम्॥ स्वतेजोध्वस्ततमसं भस्मलेपविराजितम्॥ १८॥
तत्र गत्वा शिवम् साक्षात् देवदेवम् महा-प्रभुम्॥ स्व-तेजः-ध्वस्त-तमसम् भस्म-लेप-विराजितम्॥ १८॥
tatra gatvā śivam sākṣāt devadevam mahā-prabhum.. sva-tejaḥ-dhvasta-tamasam bhasma-lepa-virājitam.. 18..
महाराजोपचारे विलसंतं महाद्भुतम्॥ सर्वाङ्गसुन्दरं दिव्यभूषणैर्भूषितं हरम्॥ १९॥
महा-राज-उपचारे विलसन्तम् महा-अद्भुतम्॥ सर्व-अङ्ग-सुन्दरम् दिव्य-भूषणैः भूषितम् हरम्॥ १९॥
mahā-rāja-upacāre vilasantam mahā-adbhutam.. sarva-aṅga-sundaram divya-bhūṣaṇaiḥ bhūṣitam haram.. 19..
प्रणनाम च तं गर्वात्तत्तेजः क्रांतविग्रहः॥ निकटं गतवाञ्छंभोस्स दूतो राहुसंज्ञकः॥ 2.5.19.२०॥
प्रणनाम च तम् गर्वात् तत् तेजः क्रांत-विग्रहः॥ निकटम् गतवान् शंभोः स दूतः राहु-संज्ञकः॥ २।५।१९।२०॥
praṇanāma ca tam garvāt tat tejaḥ krāṃta-vigrahaḥ.. nikaṭam gatavān śaṃbhoḥ sa dūtaḥ rāhu-saṃjñakaḥ.. 2.5.19.20..
अथो तदग्र आसीनो वक्तुकामो हि सैंहिकः॥ त्र्यंबकं स तदा संज्ञाप्रेरितो वाक्यमब्रवीत् ॥ २१॥
अथ उ तद्-अग्रे आसीनः वक्तु-कामः हि सैंहिकः॥ त्र्यंबकम् स तदा संज्ञा-प्रेरितः वाक्यम् अब्रवीत् ॥ २१॥
atha u tad-agre āsīnaḥ vaktu-kāmaḥ hi saiṃhikaḥ.. tryaṃbakam sa tadā saṃjñā-preritaḥ vākyam abravīt .. 21..
दैत्यपन्नगसेव्यस्य त्रैलोक्याधिपतेस्सदा ॥ दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ २२॥
दैत्य-पन्नग-सेव्यस्य त्रैलोक्य-अधिपतेः सदा ॥ दूतः अहम् प्रेषितः तेन त्वद्-सकाशम् इह आगतः ॥ २२॥
daitya-pannaga-sevyasya trailokya-adhipateḥ sadā .. dūtaḥ aham preṣitaḥ tena tvad-sakāśam iha āgataḥ .. 22..
।। राहुरुवाच ।।
जलंधरोब्धितनयस्सर्वदैत्यजनेश्वरः ॥ त्रैलोक्यस्येश्वरस्सोथाभवत्सर्वाधिनायकः ॥ २३॥
जलंधर-उब्धि-तनयः सर्व-दैत्य-जन-ईश्वरः ॥ त्रैलोक्यस्य ईश्वरः सः उथा भवत् सर्व-अधिनायकः ॥ २३॥
jalaṃdhara-ubdhi-tanayaḥ sarva-daitya-jana-īśvaraḥ .. trailokyasya īśvaraḥ saḥ uthā bhavat sarva-adhināyakaḥ .. 23..
स दैत्यराजो बलवान्देवानामंतकोपमः ॥ योगिनं त्वां समुद्दिश्य स यदाह शृणुष्व तत् ॥ २४ ॥
स दैत्य-राजः बलवान् देवानाम् अंतक-उपमः ॥ योगिनम् त्वाम् समुद्दिश्य स यत् आह शृणुष्व तत् ॥ २४ ॥
sa daitya-rājaḥ balavān devānām aṃtaka-upamaḥ .. yoginam tvām samuddiśya sa yat āha śṛṇuṣva tat .. 24 ..
महादिव्यप्रभावस्य तस्य दैत्यपतेः प्रभोः ॥ सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥ २५ ॥
महा-दिव्य-प्रभावस्य तस्य दैत्य-पतेः प्रभोः ॥ सर्व-रत्न-ईश्वरस्य त्वम् आज्ञाम् शृणु वृषध्वज ॥ २५ ॥
mahā-divya-prabhāvasya tasya daitya-pateḥ prabhoḥ .. sarva-ratna-īśvarasya tvam ājñām śṛṇu vṛṣadhvaja .. 25 ..
श्मशानवासिनो नित्यमस्थिमालाधरस्य च ॥ दिगंबरस्य ते भार्या कथं हैमवती शुभम् ॥ २६॥
श्मशान-वासिनः नित्यम् अस्थि-माला-धरस्य च ॥ दिगंबरस्य ते भार्या कथम् हैमवती शुभम् ॥ २६॥
śmaśāna-vāsinaḥ nityam asthi-mālā-dharasya ca .. digaṃbarasya te bhāryā katham haimavatī śubham .. 26..
अहं रत्नाधिनाथोस्मि सा च स्त्रीरत्नसंज्ञिता ॥ तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥ २७॥
अहम् रत्नाधिनाथा अस्मि सा च स्त्री-रत्न-संज्ञिता ॥ तस्मात् मम एव सा योग्या ना एव भिक्षा-आशिनः तव ॥ २७॥
aham ratnādhināthā asmi sā ca strī-ratna-saṃjñitā .. tasmāt mama eva sā yogyā nā eva bhikṣā-āśinaḥ tava .. 27..
मम वश्यास्त्रयो लोका भुंजेऽहं मखभागकान् ॥ यानि संति त्रिलोकेस्मिन्रत्नानि मम सद्मनि ॥ २८ ॥
मम वश्याः त्रयः लोकाः भुंजे अहम् मख-भागकान् ॥ यानि संति त्रिलोके इस्मिन् रत्नानि मम सद्मनि ॥ २८ ॥
mama vaśyāḥ trayaḥ lokāḥ bhuṃje aham makha-bhāgakān .. yāni saṃti triloke ismin ratnāni mama sadmani .. 28 ..
वयं रत्नभुजस्त्वं तु योगी खलु दिगम्बरः ॥ स्वस्त्रीरत्नं देहि मह्यं राज्ञस्सुखकराः प्रजाः ॥ २९॥
वयम् रत्न-भुजः त्वम् तु योगी खलु दिगम्बरः ॥ स्व-स्त्री-रत्नम् देहि मह्यम् राज्ञः सुख-कराः प्रजाः ॥ २९॥
vayam ratna-bhujaḥ tvam tu yogī khalu digambaraḥ .. sva-strī-ratnam dehi mahyam rājñaḥ sukha-karāḥ prajāḥ .. 29..
सनत्कुमार उवाच ।।
वदत्येवं तथा राहौ भ्रूमध्याच्छूलपाणिनः ॥ अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥ 2.5.19.३० ॥
वदति एवम् तथा राहौ भ्रू-मध्यात् शूलपाणिनः ॥ अभवत् पुरुषः रौद्रः तीव्र-अशनि-सम-स्वनः ॥ २।५।१९।३० ॥
vadati evam tathā rāhau bhrū-madhyāt śūlapāṇinaḥ .. abhavat puruṣaḥ raudraḥ tīvra-aśani-sama-svanaḥ .. 2.5.19.30 ..
सिंहास्यप्रचलजिह्वस्सज्ज्वालनयनो महान् ॥ ऊर्द्ध्वकेशश्शुष्कतनुर्नृसिंह इव चापरः ॥ ३१ ॥
सिंह-आस्य-प्रचल-जिह्वः सत्-ज्वाल-नयनः महान् ॥ ऊर्द्ध्व-केशः शुष्क-तनुः नृसिंहः इव च अपरः ॥ ३१ ॥
siṃha-āsya-pracala-jihvaḥ sat-jvāla-nayanaḥ mahān .. ūrddhva-keśaḥ śuṣka-tanuḥ nṛsiṃhaḥ iva ca aparaḥ .. 31 ..
महातनुर्महाबाहुस्तालजंघो भयंकरः ॥ अभिदुद्राव वेगेन राहुं स पुरुषो द्रुतम् ॥ ३२॥
महा-तनुः महा-बाहुः तालजंघः भयंकरः ॥ अभिदुद्राव वेगेन राहुम् स पुरुषः द्रुतम् ॥ ३२॥
mahā-tanuḥ mahā-bāhuḥ tālajaṃghaḥ bhayaṃkaraḥ .. abhidudrāva vegena rāhum sa puruṣaḥ drutam .. 32..
स तं खादितु मायान्तं दृष्ट्वा राहुर्भयातुरः ॥ अधावदात वेगेन बहिस्तस्य च दधार तम् ॥ ३३॥
स तम् खादितु मा आयान्तम् दृष्ट्वा राहुः भय-आतुरः ॥ अधावत अदात वेगेन बहिस् तस्य च दधार तम् ॥ ३३॥
sa tam khāditu mā āyāntam dṛṣṭvā rāhuḥ bhaya-āturaḥ .. adhāvata adāta vegena bahis tasya ca dadhāra tam .. 33..
राहुरुवाच ।।
देवदेव महेशान पाहि मां शरणा गतम् ॥ सुराऽसुरैस्सदा वन्द्यः परमैश्वर्यवान् प्रभुः ॥ ३४॥
देवदेव महेशान पाहि माम् शरणा गतम् ॥ सुर-असुरैः सदा वन्द्यः परम-ऐश्वर्यवान् प्रभुः ॥ ३४॥
devadeva maheśāna pāhi mām śaraṇā gatam .. sura-asuraiḥ sadā vandyaḥ parama-aiśvaryavān prabhuḥ .. 34..
ब्राह्मणं मां महादेव खादितुं समुपागतः ॥ पुरुषोयं तवेशान सेवकोतिभयंकरः ॥ ३५ ॥
ब्राह्मणम् माम् महादेव खादितुम् समुपागतः ॥ पुरुषः अयम् तव ईशान सेवक-ऊति-भयंकरः ॥ ३५ ॥
brāhmaṇam mām mahādeva khāditum samupāgataḥ .. puruṣaḥ ayam tava īśāna sevaka-ūti-bhayaṃkaraḥ .. 35 ..
एतस्माद्रक्ष देवेश शरणागतवत्सलः ॥ न खादेत यथायं मां नमस्तेऽस्तु मुहुर्मुहुः ॥ ३६ ॥
एतस्मात् रक्ष देवेश शरण-आगत-वत्सलः ॥ न खादेत यथा अयम् माम् नमः ते अस्तु मुहुर् मुहुर् ॥ ३६ ॥
etasmāt rakṣa deveśa śaraṇa-āgata-vatsalaḥ .. na khādeta yathā ayam mām namaḥ te astu muhur muhur .. 36 ..
सनत्कुमार उवाच ।।
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदा मुने ॥ अब्रवीत्स्वगणं तं वै दीनानाथप्रियः प्रभुः ॥ ३७ ॥
महादेवः वचः श्रुत्वा ब्राह्मणस्य तदा मुने ॥ अब्रवीत् स्व-गणम् तम् वै दीन-अनाथ-प्रियः प्रभुः ॥ ३७ ॥
mahādevaḥ vacaḥ śrutvā brāhmaṇasya tadā mune .. abravīt sva-gaṇam tam vai dīna-anātha-priyaḥ prabhuḥ .. 37 ..
महादेव उवाच ।।
प्रभुं च ब्राह्मणं दूतं राह्वाख्यं शरणागतम् ॥ शरण्या रक्षणीया हि न दण्ड्या गणसत्तम ॥ ३८॥
प्रभुम् च ब्राह्मणम् दूतम् राह्व-आख्यम् शरण-आगतम् ॥ शरण्याः रक्षणीयाः हि न दण्ड्याः गण-सत्तम ॥ ३८॥
prabhum ca brāhmaṇam dūtam rāhva-ākhyam śaraṇa-āgatam .. śaraṇyāḥ rakṣaṇīyāḥ hi na daṇḍyāḥ gaṇa-sattama .. 38..
सनत्कुमार उवाच ।।
इत्युक्तौ गिरिजेशेन सगणः करुणात्मना ॥ राहुं तत्याज सहसा ब्राह्मणेति श्रुताक्षरः ॥ ३९ ॥
इति उक्तौ गिरिजा-ईशेन स गणः करुण-आत्मना ॥ राहुम् तत्याज सहसा ब्राह्मण इति श्रुत-अक्षरः ॥ ३९ ॥
iti uktau girijā-īśena sa gaṇaḥ karuṇa-ātmanā .. rāhum tatyāja sahasā brāhmaṇa iti śruta-akṣaraḥ .. 39 ..
राहुं त्यक्त्वाम्बरे सोथ पुरुषो दीनया गिरा ॥ शिवोपकंठमागत्य महादेवं व्यजिज्ञपत् ॥ 2.5.19.४० ॥
राहुम् त्यक्त्वा अम्बरे सः उथ पुरुषः दीनया गिरा ॥ शिव-उपकंठम् आगत्य महादेवम् व्यजिज्ञपत् ॥ २।५।१९।४० ॥
rāhum tyaktvā ambare saḥ utha puruṣaḥ dīnayā girā .. śiva-upakaṃṭham āgatya mahādevam vyajijñapat .. 2.5.19.40 ..
पुरुष उवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ त्याजितं मम भक्ष्यं ते शरणागतवत्सलः ॥ ४१ ॥
देवदेव महादेव करुणाकर शंकर ॥ त्याजितम् मम भक्ष्यम् ते शरण-आगत-वत्सलः ॥ ४१ ॥
devadeva mahādeva karuṇākara śaṃkara .. tyājitam mama bhakṣyam te śaraṇa-āgata-vatsalaḥ .. 41 ..
क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा ॥ किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ॥ ४२ ॥
क्षुधा माम् बाधते स्वामिन् क्षुध्-क्षामः च अस्मि सर्वथा ॥ किम् भक्ष्यम् मम देवेश तत् आज्ञापय माम् प्रभो ॥ ४२ ॥
kṣudhā mām bādhate svāmin kṣudh-kṣāmaḥ ca asmi sarvathā .. kim bhakṣyam mama deveśa tat ājñāpaya mām prabho .. 42 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य पुरुषस्य महाप्रभुः ॥ प्रत्युवाचाद्भुतोतिः स कौतुकी स्वहितंकरः ॥ ४३ ॥
इति आकर्ण्य वचः तस्य पुरुषस्य महा-प्रभुः ॥ प्रत्युवाच अद्भुत-ऊतिः स कौतुकी स्व-हितंकरः ॥ ४३ ॥
iti ākarṇya vacaḥ tasya puruṣasya mahā-prabhuḥ .. pratyuvāca adbhuta-ūtiḥ sa kautukī sva-hitaṃkaraḥ .. 43 ..
महेश्वर उवाच ।।
बुभुक्षा यदि तेऽतीव क्षुधा त्वां बाधते यदि ॥ संभक्षयात्मनश्शीघ्रं मांसं त्वं हस्तपादयोः ॥ ४४ ॥
बुभुक्षा यदि ते अतीव क्षुधा त्वाम् बाधते यदि ॥ संभक्षय आत्मनः शीघ्रम् मांसम् त्वम् हस्त-पादयोः ॥ ४४ ॥
bubhukṣā yadi te atīva kṣudhā tvām bādhate yadi .. saṃbhakṣaya ātmanaḥ śīghram māṃsam tvam hasta-pādayoḥ .. 44 ..
सनत्कुमार उवाच ।।
शिवेनैवमाज्ञप्तश्चखाद पुरुषस्स्वकम् ॥ हस्तपादोद्भवं मांसं शिरश्शेषोऽ भवद्यथा ॥ ४५ ॥
शिवेन एवम् आज्ञप्तः चखाद पुरुषः स्वकम् ॥ हस्त-पाद-उद्भवम् मांसम् शिरः-शेषः भवत् यथा ॥ ४५ ॥
śivena evam ājñaptaḥ cakhāda puruṣaḥ svakam .. hasta-pāda-udbhavam māṃsam śiraḥ-śeṣaḥ bhavat yathā .. 45 ..
दृष्ट्वा शिरोवशेषं तु सुप्रसन्नस्सदाशिवः ॥ पुरुषं भीमकर्माणं तमुवाच सविस्मयः ॥ ४६ ॥
दृष्ट्वा शिरः-वशेषम् तु सु प्रसन्नः सदाशिवः ॥ पुरुषम् भीम-कर्माणम् तम् उवाच स विस्मयः ॥ ४६ ॥
dṛṣṭvā śiraḥ-vaśeṣam tu su prasannaḥ sadāśivaḥ .. puruṣam bhīma-karmāṇam tam uvāca sa vismayaḥ .. 46 ..
शिव उवाच ।।
हे महागण धन्यस्त्वं मदाज्ञाप्रतिपालकः ॥ संतुष्टश्चास्मि तेऽतीव कर्मणानेन सत्तम ॥ ४७ ॥
हे महा-गण धन्यः त्वम् मद्-आज्ञा-प्रतिपालकः ॥ संतुष्टः च अस्मि ते अतीव कर्मणा अनेन सत्तम ॥ ४७ ॥
he mahā-gaṇa dhanyaḥ tvam mad-ājñā-pratipālakaḥ .. saṃtuṣṭaḥ ca asmi te atīva karmaṇā anena sattama .. 47 ..
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारकस्सदा ॥ महागणो महावीरस्सर्वदुष्टभयंकरः ॥ ४८॥
त्वम् कीर्तिमुख-संज्ञः हि भव मद्-द्वारकः सदा ॥ महा-गणः महावीरः सर्व-दुष्ट-भयंकरः ॥ ४८॥
tvam kīrtimukha-saṃjñaḥ hi bhava mad-dvārakaḥ sadā .. mahā-gaṇaḥ mahāvīraḥ sarva-duṣṭa-bhayaṃkaraḥ .. 48..
मत्प्रियस्त्वं मदर्चायां सदा पूज्योऽहि मज्जनैः ॥ त्वदर्चां ये न कुर्वंति नैव ते मत्प्रियंकराः ॥ ४९ ॥
मद्-प्रियः त्वम् मद्-अर्चायाम् सदा पूज्यः अहि मज्जनैः ॥ त्वद्-अर्चाम् ये न कुर्वन्ति न एव ते मद्-प्रियंकराः ॥ ४९ ॥
mad-priyaḥ tvam mad-arcāyām sadā pūjyaḥ ahi majjanaiḥ .. tvad-arcām ye na kurvanti na eva te mad-priyaṃkarāḥ .. 49 ..
सनत्कुमार उवाच ।।
इति शंभोर्वरं प्राप्य पुरुषः प्रजहर्ष सः ॥ तदाप्रभृति देवेश द्वारे कीर्तिमुखः स्थितः ॥ 2.5.19.५०॥
इति शंभोः वरम् प्राप्य पुरुषः प्रजहर्ष सः ॥ तदा प्रभृति देवेश द्वारे कीर्तिमुखः स्थितः ॥ २।५।१९।५०॥
iti śaṃbhoḥ varam prāpya puruṣaḥ prajaharṣa saḥ .. tadā prabhṛti deveśa dvāre kīrtimukhaḥ sthitaḥ .. 2.5.19.50..
पूजनीयो विशेषेण स गणश्शिवपूजने ॥ नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥ ५१॥
पूजनीयः विशेषेण स गणः शिव-पूजने ॥ न अर्चयन्ति इह ये पूर्वम् तेषाम् अर्चा वृथा भवेत् ॥ ५१॥
pūjanīyaḥ viśeṣeṇa sa gaṇaḥ śiva-pūjane .. na arcayanti iha ye pūrvam teṣām arcā vṛthā bhavet .. 51..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने दूतसंवादो नाम एकोनविंशोऽध्यायः॥ १९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् पञ्चमे युद्ध-खण्डे जलंधरवधोपाख्याने दूतसंवादः नाम एकोनविंशः अध्यायः॥ १९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām pañcame yuddha-khaṇḍe jalaṃdharavadhopākhyāne dūtasaṃvādaḥ nāma ekonaviṃśaḥ adhyāyaḥ.. 19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In