| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर ॥ ततः किमभवद्देवाः कथं च सुखिनोऽभवन् ॥ १॥
ब्रह्म-पुत्र महा-प्राज्ञ वद मे वदताम् वर ॥ ततस् किम् अभवत् देवाः कथम् च सुखिनः अभवन् ॥ १॥
brahma-putra mahā-prājña vada me vadatām vara .. tatas kim abhavat devāḥ katham ca sukhinaḥ abhavan .. 1..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ २॥
इति आकर्ण्य वचः तस्य व्यासस्य अमित-धीमतः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिव-पद-अम्बुजम् ॥ २॥
iti ākarṇya vacaḥ tasya vyāsasya amita-dhīmataḥ .. sanatkumāraḥ provāca smṛtvā śiva-pada-ambujam .. 2..
सनत्कुमार उवाच ।।
अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा ॥ संमंत्र्य दुःखितास्सर्वे ब्रह्माणं शरणं ययुः ॥ ३॥
अथ तद्-प्रभया दग्धाः देवाः हि इन्द्र-आदयः तथा ॥ संमंत्र्य दुःखिताः सर्वे ब्रह्माणम् शरणम् ययुः ॥ ३॥
atha tad-prabhayā dagdhāḥ devāḥ hi indra-ādayaḥ tathā .. saṃmaṃtrya duḥkhitāḥ sarve brahmāṇam śaraṇam yayuḥ .. 3..
नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलास्सुराः ॥ दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः ॥ ४ ॥
नत्वा पितामहम् प्रीत्या परिक्षिप्त-अखिलाः सुराः ॥ दुःखम् विज्ञापयामासुः विलोक्य अवसरम् ततस् ॥ ४ ॥
natvā pitāmaham prītyā parikṣipta-akhilāḥ surāḥ .. duḥkham vijñāpayāmāsuḥ vilokya avasaram tatas .. 4 ..
देवा ऊचुः ।।
धातस्त्रिपुरनाथेन सतारकसुतेन हि ॥ सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः ॥ ५ ॥
धातः त्रिपुर-नाथेन स तार्कक-सुतेन हि ॥ सर्वे प्रतापिताः नूनम् मयेन त्रिदिवौकसः ॥ ५ ॥
dhātaḥ tripura-nāthena sa tārkaka-sutena hi .. sarve pratāpitāḥ nūnam mayena tridivaukasaḥ .. 5 ..
अतस्ते शरणं याता दुःखिता हि विधे वयम् ॥ कुरु त्वं तद्वधोपायं सुखिनस्स्याम तद्यथा ॥ ६ ॥
अतस् ते शरणम् याताः दुःखिताः हि विधे वयम् ॥ कुरु त्वम् तद्-वध-उपायम् सुखिनः स्याम तत् यथा ॥ ६ ॥
atas te śaraṇam yātāḥ duḥkhitāḥ hi vidhe vayam .. kuru tvam tad-vadha-upāyam sukhinaḥ syāma tat yathā .. 6 ..
सनत्कुमार उवाच ।।
इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः ॥ प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान् ॥ ७ ॥
इति विज्ञापितः देवैः विहस्य भव-कृत् विधिः ॥ प्रत्युवाच अथ तान् सर्वान् मयतः भीत-मानसान् ॥ ७ ॥
iti vijñāpitaḥ devaiḥ vihasya bhava-kṛt vidhiḥ .. pratyuvāca atha tān sarvān mayataḥ bhīta-mānasān .. 7 ..
ब्रह्मोवाच ।।
न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः ॥ आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति ॥ ८ ॥
न भेतव्यम् सुराः तेभ्यः दानवेभ्यः विशेषतः ॥ आचक्षे तद्-वध-उपायम् शिवम् शर्वः करिष्यति ॥ ८ ॥
na bhetavyam surāḥ tebhyaḥ dānavebhyaḥ viśeṣataḥ .. ācakṣe tad-vadha-upāyam śivam śarvaḥ kariṣyati .. 8 ..
मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति ॥ तथापि पुण्यं वर्द्धैत नगरे त्रिपुरे पुनः ॥ ९ ॥
मत्तः विवर्धितः दैत्यः वधम् मत्तः न च अर्हति ॥ तथा अपि पुण्यम् नगरे त्रिपुरे पुनर् ॥ ९ ॥
mattaḥ vivardhitaḥ daityaḥ vadham mattaḥ na ca arhati .. tathā api puṇyam nagare tripure punar .. 9 ..
शिवं च प्रार्थयध्वं वै सर्वे देवास्सवासवाः ॥ सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति ॥ 2.5.2.१० ॥
शिवम् च प्रार्थयध्वम् वै सर्वे देवाः स वासवाः ॥ सर्व-अधीशः प्रसन्नः चेद् स वः कार्यम् करिष्यति ॥ २।५।२।१० ॥
śivam ca prārthayadhvam vai sarve devāḥ sa vāsavāḥ .. sarva-adhīśaḥ prasannaḥ ced sa vaḥ kāryam kariṣyati .. 2.5.2.10 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य विधेर्वाणीं सर्वे देवास्सवासवाः ॥ दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः ॥ ११ ॥
इति आकर्ण्य विधेः वाणीम् सर्वे देवाः स वासवाः ॥ दुखिताः ते ययुः तत्र यत्र आस्ते वृषभध्वजः ॥ ११ ॥
iti ākarṇya vidheḥ vāṇīm sarve devāḥ sa vāsavāḥ .. dukhitāḥ te yayuḥ tatra yatra āste vṛṣabhadhvajaḥ .. 11 ..
प्रणम्य भक्त्या देवेशं सर्वे प्रांजलयस्तदा ॥ तुष्टुवुर्विनतस्कंधाश्शंकरं लोकशंकरम् ॥ १२ ॥
प्रणम्य भक्त्या देवेशम् सर्वे प्रांजलयः तदा ॥ तुष्टुवुः विनत-स्कंधाः शंकरम् लोक-शंकरम् ॥ १२ ॥
praṇamya bhaktyā deveśam sarve prāṃjalayaḥ tadā .. tuṣṭuvuḥ vinata-skaṃdhāḥ śaṃkaram loka-śaṃkaram .. 12 ..
देवा ऊचुः ।।
नमो हिरण्यगर्भाय सर्वसृष्टि विधायिने ॥ नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥ १३ ॥
नमः हिरण्यगर्भाय सर्व-सृष्टि-विधायिने ॥ नमः स्थिति-कृते तुभ्यम् विष्णवे प्रभविष्णवे ॥ १३ ॥
namaḥ hiraṇyagarbhāya sarva-sṛṣṭi-vidhāyine .. namaḥ sthiti-kṛte tubhyam viṣṇave prabhaviṣṇave .. 13 ..
नमो हरस्वरूपाय भूतसंहारकारिणे ॥ निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे ॥ १४॥
नमः हर-स्वरूपाय भूत-संहार-कारिणे ॥ निर्गुणाय नमः तुभ्यम् शिवाय अमित तेजसे ॥ १४॥
namaḥ hara-svarūpāya bhūta-saṃhāra-kāriṇe .. nirguṇāya namaḥ tubhyam śivāya amita tejase .. 14..
अवस्थारहितायाथ निर्विकाराय वर्चसे॥ महाभूतात्मभूताय निर्लिप्ताय महात्मने॥ १५॥
अवस्था-रहिताय अथ निर्विकाराय वर्चसे॥ महाभूत-आत्म-भूताय निर्लिप्ताय महात्मने॥ १५॥
avasthā-rahitāya atha nirvikārāya varcase.. mahābhūta-ātma-bhūtāya nirliptāya mahātmane.. 15..
नमस्ते भूतपतये महाभारसहिष्णवे ॥ तृष्णाहराय निर्वैराकृतये भूरितेजसे ॥ १६ ॥
नमः ते भूतपतये महा-भार-सहिष्णवे ॥ तृष्णा-हराय निर्वैर-आकृतये भूरि-तेजसे ॥ १६ ॥
namaḥ te bhūtapataye mahā-bhāra-sahiṣṇave .. tṛṣṇā-harāya nirvaira-ākṛtaye bhūri-tejase .. 16 ..
महादैत्यमहारण्यनाशिने दाववह्नये ॥ दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ॥ १७॥
महा-दैत्य-महा-अरण्य-नाशिने दाव-वह्नये ॥ दैत्य-द्रुम-कुठाराय नमः ते शूलपाणये ॥ १७॥
mahā-daitya-mahā-araṇya-nāśine dāva-vahnaye .. daitya-druma-kuṭhārāya namaḥ te śūlapāṇaye .. 17..
महादनुजनाशाय नमस्ते परमेश्वर ॥ अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक ॥ १८ ॥
महा-दनु-ज-नाशाय नमः ते परमेश्वर ॥ अम्बिका-पतये तुभ्यम् नमः सर्व-अस्त्र-धारक ॥ १८ ॥
mahā-danu-ja-nāśāya namaḥ te parameśvara .. ambikā-pataye tubhyam namaḥ sarva-astra-dhāraka .. 18 ..
नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ॥ नीलकंठाय रुद्राय नमस्ते रुद्ररूपिणे ॥ १९॥
नमः ते पार्वतीनाथ परमात्मन् महेश्वर ॥ नीलकंठाय रुद्राय नमः ते रुद्र-रूपिणे ॥ १९॥
namaḥ te pārvatīnātha paramātman maheśvara .. nīlakaṃṭhāya rudrāya namaḥ te rudra-rūpiṇe .. 19..
नमो वेदान्तवेद्याय मार्गातीताय ते नमः ॥ नमोगुणस्वरूपाय गुणिने गुणवर्जिते ॥ 2.5.2.२०॥
नमः वेदान्त-वेद्याय मार्ग-अतीताय ते नमः ॥ नमः-गुण-स्वरूपाय गुणिने गुण-वर्जिते ॥ २।५।२।२०॥
namaḥ vedānta-vedyāya mārga-atītāya te namaḥ .. namaḥ-guṇa-svarūpāya guṇine guṇa-varjite .. 2.5.2.20..
महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ॥ प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ॥ २१॥
महादेव नमः तुभ्यम् त्रिलोकी-नन्दनाय च ॥ प्रद्युम्नाय अनिरुद्धाय वासुदेवाय ते नमः ॥ २१॥
mahādeva namaḥ tubhyam trilokī-nandanāya ca .. pradyumnāya aniruddhāya vāsudevāya te namaḥ .. 21..
संकर्षणाय देवाय नमस्ते कंसनाशिने ॥ चाणूरमर्दिने तुभ्यं दामोदर विषादिने ॥ २२॥
संकर्षणाय देवाय नमः ते कंस-नाशिने ॥ चाणूर-मर्दिने तुभ्यम् दामोदर विषादिने ॥ २२॥
saṃkarṣaṇāya devāya namaḥ te kaṃsa-nāśine .. cāṇūra-mardine tubhyam dāmodara viṣādine .. 22..
हृषीकेशाच्युत विभो मृड शंकर ते नमः ॥ अधोक्षज गजाराते कामारे विषभक्षणः ॥ २३॥
हृषीकेश अच्युत विभो मृड शंकर ते नमः ॥ अधोक्षज गजाराते कामारे विष-भक्षणः ॥ २३॥
hṛṣīkeśa acyuta vibho mṛḍa śaṃkara te namaḥ .. adhokṣaja gajārāte kāmāre viṣa-bhakṣaṇaḥ .. 23..
नारायणाय देवाय नारायणपराय च ॥ नारायणस्वरूपाय नाराणयतनूद्भव ॥ २४ ॥
नारायणाय देवाय नारायण-परस्मै च ॥ ॥ २४ ॥
nārāyaṇāya devāya nārāyaṇa-parasmai ca .. .. 24 ..
नमस्ते सर्वरूपाय महानरकहारिणे ॥ पापापहारिणे तुभ्यं नमो वृषभवाहन ॥ २५॥
नमः ते सर्व-रूपाय महा-नरक-हारिणे ॥ पाप-अपहारिणे तुभ्यम् नमः वृषभवाहन ॥ २५॥
namaḥ te sarva-rūpāya mahā-naraka-hāriṇe .. pāpa-apahāriṇe tubhyam namaḥ vṛṣabhavāhana .. 25..
क्षणादिकालरूपाय स्वभक्तबलदायिने ॥ नानारूपाय रूपाय दैत्यचक्रविमर्दिने ॥ २६॥
क्षण-आदि-काल-रूपाय स्व-भक्त-बल-दायिने ॥ नाना रूपाय रूपाय दैत्य-चक्र-विमर्दिने ॥ २६॥
kṣaṇa-ādi-kāla-rūpāya sva-bhakta-bala-dāyine .. nānā rūpāya rūpāya daitya-cakra-vimardine .. 26..
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥ सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ॥ २७॥
नमः ब्रह्मण्यदेवाय गो-ब्राह्मण-हिताय च ॥ सहस्र-मूर्त्तये तुभ्यम् सहस्र-अवयवाय च ॥ २७॥
namaḥ brahmaṇyadevāya go-brāhmaṇa-hitāya ca .. sahasra-mūrttaye tubhyam sahasra-avayavāya ca .. 27..
धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ॥ वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥ ॥ २८॥
धर्म-रूपाय सत्त्वाय नमः सत्त्व-आत्मने हर ॥ वेद-वेद्य-स्वरूपाय नमः वेद-प्रियाय च ॥ ॥ २८॥
dharma-rūpāya sattvāya namaḥ sattva-ātmane hara .. veda-vedya-svarūpāya namaḥ veda-priyāya ca .. .. 28..
नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ॥ सदाचाराध्वगम्याय सदाचाराध्वगामिने ॥ २९॥
नमः वेद-स्वरूपाय वेद-वक्त्रे नमः नमः ॥ सत्-आचार-अध्व-गम्याय सत्-आचार-अध्व-गामिने ॥ २९॥
namaḥ veda-svarūpāya veda-vaktre namaḥ namaḥ .. sat-ācāra-adhva-gamyāya sat-ācāra-adhva-gāmine .. 29..
विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ॥ सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ॥ 2.5.2.३०॥
विष्टरश्रवसे तुभ्यम् नमः सत्य-मयाय च ॥ सत्य-प्रियाय सत्याय सत्य-गम्याय ते नमः ॥ २।५।२।३०॥
viṣṭaraśravase tubhyam namaḥ satya-mayāya ca .. satya-priyāya satyāya satya-gamyāya te namaḥ .. 2.5.2.30..
नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ॥ ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ॥ ३१॥
नमः ते मायिने तुभ्यम् माया-अधीशाय वै नमः ॥ ब्रह्म-गाय नमः तुभ्यम् ब्रह्मणे ब्रह्म-जाय च ॥ ३१॥
namaḥ te māyine tubhyam māyā-adhīśāya vai namaḥ .. brahma-gāya namaḥ tubhyam brahmaṇe brahma-jāya ca .. 31..
तपसे ते नमस्त्वीश तपसा फलदायिने ॥ स्तुत्याय स्तुतये नित्यं स्तुतिसंप्रीतचेतसे ॥ ३२॥
तपसे ते नमः तु ईश तपसा फल-दायिने ॥ स्तुत्याय स्तुतये नित्यम् स्तुति-संप्रीत-चेतसे ॥ ३२॥
tapase te namaḥ tu īśa tapasā phala-dāyine .. stutyāya stutaye nityam stuti-saṃprīta-cetase .. 32..
श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ॥ चतुर्विधस्वरूपाय जलस्थलजरूपिणे ॥ ३३॥
श्रुति-आचार-प्रसन्नाय स्तुति-आचार-प्रियाय च ॥ चतुर्विध-स्वरूपाय जल-स्थल-ज-रूपिणे ॥ ३३॥
śruti-ācāra-prasannāya stuti-ācāra-priyāya ca .. caturvidha-svarūpāya jala-sthala-ja-rūpiṇe .. 33..
सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ॥ देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ॥ ३४ ॥
सर्वे देव-आदयः नाथ श्रेष्ठ-त्वेन विभूतयः ॥ देवानाम् इन्द्र-रूपः असि ग्रहाणाम् त्वम् रविः मतः ॥ ३४ ॥
sarve deva-ādayaḥ nātha śreṣṭha-tvena vibhūtayaḥ .. devānām indra-rūpaḥ asi grahāṇām tvam raviḥ mataḥ .. 34 ..
सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ॥ श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ॥ ३५॥
सत्य-लोकः असि लोकानाम् सरिताम् द्यु-सरित् भवान् ॥ श्वेत-वर्णः असि वर्णानाम् सरसाम् मानसम् सरः ॥ ३५॥
satya-lokaḥ asi lokānām saritām dyu-sarit bhavān .. śveta-varṇaḥ asi varṇānām sarasām mānasam saraḥ .. 35..
शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ॥ क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ॥ ३६॥
शैलानाम् गिरि-जाता अतस् कामधुक्-त्वम् च गोषु ह ॥ क्षीरोदधिः तु सिन्धूनाम् धातूनाम् हाटकः भवान् ॥ ३६॥
śailānām giri-jātā atas kāmadhuk-tvam ca goṣu ha .. kṣīrodadhiḥ tu sindhūnām dhātūnām hāṭakaḥ bhavān .. 36..
वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर ॥ मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ॥ ३७॥
वर्णानाम् ब्राह्मणः असि त्वम् नृणाम् राजा असि शंकर ॥ मुक्ति-क्षेत्रेषु काशी त्वम् तीर्थानाम् तीर्थ-राज् भवान् ॥ ३७॥
varṇānām brāhmaṇaḥ asi tvam nṛṇām rājā asi śaṃkara .. mukti-kṣetreṣu kāśī tvam tīrthānām tīrtha-rāj bhavān .. 37..
उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ॥ कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ॥ ३८॥
उपलेषु समस्तेषु स्फटिकः त्वम् महेश्वर ॥ कमलः त्वम् प्रसूनेषु शैलेषु हिमवान् तथा ॥ ३८॥
upaleṣu samasteṣu sphaṭikaḥ tvam maheśvara .. kamalaḥ tvam prasūneṣu śaileṣu himavān tathā .. 38..
भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ॥ पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः ॥ ३९॥
भवान् वाच्-व्यवहारेषु भार्गवः त्वम् कविषु अपि ॥ पक्षिषु एव असि शरभः सिंहः हिंस्रेषु संमतः ॥ ३९॥
bhavān vāc-vyavahāreṣu bhārgavaḥ tvam kaviṣu api .. pakṣiṣu eva asi śarabhaḥ siṃhaḥ hiṃsreṣu saṃmataḥ .. 39..
शालग्रामशिला च त्वं शिलासु वृषभध्वज॥ पूज्य रूपेषु सर्वेषु नर्मदालिंगमेव हि ॥ 2.5.2.४०॥
शालग्राम-शिला च त्वम् शिलासु वृषभध्वज॥ पूज्य रूपेषु सर्वेषु नर्मदा-लिंगम् एव हि ॥ २।५।२।४०॥
śālagrāma-śilā ca tvam śilāsu vṛṣabhadhvaja.. pūjya rūpeṣu sarveṣu narmadā-liṃgam eva hi .. 2.5.2.40..
नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ॥ वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ॥ ४१ ॥
नन्दीश्वरः असि पशुषु वृषभः परमेश्वर ॥ वेदेषु उपनिषद्-रूपी यज्वनाम् शीत-भानुमान् ॥ ४१ ॥
nandīśvaraḥ asi paśuṣu vṛṣabhaḥ parameśvara .. vedeṣu upaniṣad-rūpī yajvanām śīta-bhānumān .. 41 ..
प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ॥ भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ॥ ४२ ॥
प्रतापिनाम् पावकः त्वम् शैवानाम् अच्युतः भवान् ॥ भारतम् त्वम् पुराणानाम् मकारः असि अक्षरेषु च ॥ ४२ ॥
pratāpinām pāvakaḥ tvam śaivānām acyutaḥ bhavān .. bhāratam tvam purāṇānām makāraḥ asi akṣareṣu ca .. 42 ..
प्रणवो बीजमंत्राणां दारुणानां विषं भवान् ॥ व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम् ॥ ४३ ॥
प्रणवः बीज-मंत्राणाम् दारुणानाम् विषम् भवान् ॥ व्योम-व्यप्तिमताम् त्वम् वै परमात्मा असि च आत्मनाम् ॥ ४३ ॥
praṇavaḥ bīja-maṃtrāṇām dāruṇānām viṣam bhavān .. vyoma-vyaptimatām tvam vai paramātmā asi ca ātmanām .. 43 ..
इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ॥ पावनानां जलं चासि जीवनानां तथामृतम् ॥ ४४ ॥
इन्द्रियाणाम् मनः च त्वम् दानानाम् अभयम् भवान् ॥ पावनानाम् जलम् च असि जीवनानाम् तथा अमृतम् ॥ ४४ ॥
indriyāṇām manaḥ ca tvam dānānām abhayam bhavān .. pāvanānām jalam ca asi jīvanānām tathā amṛtam .. 44 ..
लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ॥ नित्यकर्मसु सर्वेषु संध्योपास्तिर्भवान्मता ॥ ४५ ॥
लाभानाम् पुत्र-लाभः असि वायुः वेगवताम् असि ॥ नित्य-कर्मसु सर्वेषु संध्या-उपास्तिः भवान् मता ॥ ४५ ॥
lābhānām putra-lābhaḥ asi vāyuḥ vegavatām asi .. nitya-karmasu sarveṣu saṃdhyā-upāstiḥ bhavān matā .. 45 ..
क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ॥ पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि ॥ ४६॥
क्रतूनाम् अश्वमेधः असि युगानाम् प्रथमः युगः ॥ पुष्यः त्वम् सर्व-धिण्यानाम् अमावास्या तिथिषु असि ॥ ४६॥
kratūnām aśvamedhaḥ asi yugānām prathamaḥ yugaḥ .. puṣyaḥ tvam sarva-dhiṇyānām amāvāsyā tithiṣu asi .. 46..
सर्वर्तुषु वसंतस्त्वं सर्वपर्वसु संक्रमः ॥ कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ॥ ४७ ॥
सर्व-ऋतुषु वसंतः त्वम् सर्व-पर्वसु संक्रमः ॥ कुशः असि तृण-जातीनाम् स्थूलवृक्षेषु वै वटः ॥ ४७ ॥
sarva-ṛtuṣu vasaṃtaḥ tvam sarva-parvasu saṃkramaḥ .. kuśaḥ asi tṛṇa-jātīnām sthūlavṛkṣeṣu vai vaṭaḥ .. 47 ..
योगेषु च व्यतीपातस्सोमवल्ली लतासु च ॥ बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ॥ ४८ ॥
योगेषु च व्यतीपातः सोमवल्ली लतासु च ॥ बुद्धीनाम् धर्मबुद्धिः त्वम् कलत्रम् सुहृदाम् भवान् ॥ ४८ ॥
yogeṣu ca vyatīpātaḥ somavallī latāsu ca .. buddhīnām dharmabuddhiḥ tvam kalatram suhṛdām bhavān .. 48 ..
साधकानां शुचीनां त्वं प्राणायामो महेश्वर ॥ ज्योतिर्लिंगेषु सर्वेषु भवान् विश्वे श्वरो मतः ॥ ४९ ॥
साधकानाम् शुचीनाम् त्वम् प्राणायामः महेश्वर ॥ ज्योतिः-लिंगेषु सर्वेषु भवान् विश्वे श्वरः मतः ॥ ४९ ॥
sādhakānām śucīnām tvam prāṇāyāmaḥ maheśvara .. jyotiḥ-liṃgeṣu sarveṣu bhavān viśve śvaraḥ mataḥ .. 49 ..
धर्मस्त्वं सर्वबंधूनामाश्रमाणां परो भवान् ॥ मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः ॥ 2.5.2.५०॥
धर्मः त्वम् सर्व-बंधूनाम् आश्रमाणाम् परः भवान् ॥ मोक्षः त्वम् सर्व-वर्णेषु रुद्राणाम् नीललोहितः ॥ २।५।२।५०॥
dharmaḥ tvam sarva-baṃdhūnām āśramāṇām paraḥ bhavān .. mokṣaḥ tvam sarva-varṇeṣu rudrāṇām nīlalohitaḥ .. 2.5.2.50..
आदित्यानां वासुदेवो हनूमान्वानरेषु च ॥ यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ॥ ५१ ॥
आदित्यानाम् वासुदेवः हनूमान् वानरेषु च ॥ यज्ञानाम् जप-यज्ञः असि रामः शस्त्रभृताम् भवान् ॥ ५१ ॥
ādityānām vāsudevaḥ hanūmān vānareṣu ca .. yajñānām japa-yajñaḥ asi rāmaḥ śastrabhṛtām bhavān .. 51 ..
गंधर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ॥ मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ॥ ५२ ॥
गंधर्वाणाम् चित्र-रथः वसूनाम् पावकः ध्रुवम् ॥ मासानाम् अधिमासः त्वम् व्रतानाम् त्वम् चतुर्दशी ॥ ५२ ॥
gaṃdharvāṇām citra-rathaḥ vasūnām pāvakaḥ dhruvam .. māsānām adhimāsaḥ tvam vratānām tvam caturdaśī .. 52 ..
ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ॥ अनंतस्त्वं हि नागानां पितॄणामर्यमा भवान् ॥ ५३ ॥
ऐरावतः गज-इन्द्राणाम् सिद्धानाम् कपिलः मतः ॥ अनंतः त्वम् हि नागानाम् पितॄणाम् अर्यमा भवान् ॥ ५३ ॥
airāvataḥ gaja-indrāṇām siddhānām kapilaḥ mataḥ .. anaṃtaḥ tvam hi nāgānām pitṝṇām aryamā bhavān .. 53 ..
कालः कलयतां च त्वं दैत्यानां बलिरेव च ॥ किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ॥ ५४॥
कालः कलयताम् च त्वम् दैत्यानाम् बलिः एव च ॥ किम् बहु-उक्तेन देवेश सर्वम् विष्टभ्य वै जगत् ॥ ५४॥
kālaḥ kalayatām ca tvam daityānām baliḥ eva ca .. kim bahu-uktena deveśa sarvam viṣṭabhya vai jagat .. 54..
एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ॥ ५५ ॥
एक-अंशेन स्थितः त्वम् हि बहिस् स्थः अन्वितः एव च ॥ ५५ ॥
eka-aṃśena sthitaḥ tvam hi bahis sthaḥ anvitaḥ eva ca .. 55 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा सुरास्सर्वे महादेवं वृषध्वजम् ॥ स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम् ॥ ५६॥
इति स्तुत्वा सुराः सर्वे महादेवम् वृषध्वजम् ॥ स्तोत्रैः नानाविधैः दिंव्यैः शूलिनम् परमेश्वरम् ॥ ५६॥
iti stutvā surāḥ sarve mahādevam vṛṣadhvajam .. stotraiḥ nānāvidhaiḥ diṃvyaiḥ śūlinam parameśvaram .. 56..
प्रत्यूचुः प्रस्तुतं दीनास्स्वार्थं स्वार्थविचक्षणाः ॥ वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने ॥ ५७ ॥
प्रत्यूचुः प्रस्तुतम् दीनाः स्व-अर्थम् स्व-अर्थ-विचक्षणाः ॥ वासव-आद्याः नत-स्कधाः कृताञ्जलि-पुटाः मुने ॥ ५७ ॥
pratyūcuḥ prastutam dīnāḥ sva-artham sva-artha-vicakṣaṇāḥ .. vāsava-ādyāḥ nata-skadhāḥ kṛtāñjali-puṭāḥ mune .. 57 ..
देवा ऊचुः ।।
पराजिता महादेव भ्रातृभ्यां सहितेन तु ॥ भगवंस्तारकोत्पन्नैः सर्वे देवास्सवासवाः ॥ ५८ ॥
पराजिताः महादेव भ्रातृभ्याम् सहितेन तु ॥ भगवन् तारक-उत्पन्नैः सर्वे देवाः स वासवाः ॥ ५८ ॥
parājitāḥ mahādeva bhrātṛbhyām sahitena tu .. bhagavan tāraka-utpannaiḥ sarve devāḥ sa vāsavāḥ .. 58 ..
त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः ॥ विध्वस्तास्सर्वसंसिद्धास्सर्वमुत्सादितं जगत् ॥ ५९ ॥
त्रैलोक्यम् स्व-वशम् नीतम् तथा च मुनि-सत्तमाः ॥ विध्वस्ताः सर्व-संसिद्धाः सर्वम् उत्सादितम् जगत् ॥ ५९ ॥
trailokyam sva-vaśam nītam tathā ca muni-sattamāḥ .. vidhvastāḥ sarva-saṃsiddhāḥ sarvam utsāditam jagat .. 59 ..
यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः ॥ प्रवर्तितो ह्यधर्मस्तैर्ऋषीणां च निवारितः ॥ 2.5.2.६० ॥
यज्ञ-भागान् समग्रान् तु स्वयम् गृह्णाति दारुणः ॥ प्रवर्तितः हि अधर्मः तैः ऋषीणाम् च निवारितः ॥ २।५।२।६० ॥
yajña-bhāgān samagrān tu svayam gṛhṇāti dāruṇaḥ .. pravartitaḥ hi adharmaḥ taiḥ ṛṣīṇām ca nivāritaḥ .. 2.5.2.60 ..
अवध्यास्सर्वभूतानां नियतं तारकात्मजाः ॥ तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर ॥ ६१॥
अवध्याः सर्व-भूतानाम् नियतम् तारक-आत्मजाः ॥ तद्-इच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर ॥ ६१॥
avadhyāḥ sarva-bhūtānām niyatam tāraka-ātmajāḥ .. tad-icchayā prakurvanti sarve karmāṇi śaṃkara .. 61..
यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः ॥ तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत् ॥ ६२॥
यावत् न क्षीयते दैत्यैः घोरैः त्रिपुर-वासिभिः ॥ तावत् विधीयताम् नीतिः यया संरक्ष्यते जगत् ॥ ६२॥
yāvat na kṣīyate daityaiḥ ghoraiḥ tripura-vāsibhiḥ .. tāvat vidhīyatām nītiḥ yayā saṃrakṣyate jagat .. 62..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् ॥ शिवः संभाषमाणानां प्रतिवाक्यमुवाच सः ॥ ६३॥
इति आकर्ण्य वचः तेषाम् इन्द्र-आदीनाम् दिवौकसाम् ॥ शिवः संभाषमाणानाम् प्रतिवाक्यम् उवाच सः ॥ ६३॥
iti ākarṇya vacaḥ teṣām indra-ādīnām divaukasām .. śivaḥ saṃbhāṣamāṇānām prativākyam uvāca saḥ .. 63..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिर्नाम द्वितीयोऽध्यायः॥ २॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे देवस्तुतिः नाम द्वितीयः अध्यायः॥ २॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe devastutiḥ nāma dvitīyaḥ adhyāyaḥ.. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In