| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता ॥ महाप्रभोश्शंकरस्य यत्र लीला च पावनी ॥ १॥
सनत्कुमार सर्वज्ञ कथा ते श्राविता अद्भुता ॥ महा-प्रभोः शंकरस्य यत्र लीला च पावनी ॥ १॥
sanatkumāra sarvajña kathā te śrāvitā adbhutā .. mahā-prabhoḥ śaṃkarasya yatra līlā ca pāvanī .. 1..
इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममो परि ॥ राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ॥ २॥
इदानीम् ब्रूहि सु प्रीत्या कृपाम् कृत्वा उपरि ॥ राहुः मुक्तः कुत्र गतः पुरुषेण महा-मुने ॥ २॥
idānīm brūhi su prītyā kṛpām kṛtvā upari .. rāhuḥ muktaḥ kutra gataḥ puruṣeṇa mahā-mune .. 2..
सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ॥ प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ॥ ३॥
इति आकर्ण्य वचः तस्य व्यासस्य अमित-मेधसः ॥ प्रत्युवाच प्रसन्न-आत्मा ब्रह्म-पुत्रः महा-मुनिः ॥ ३॥
iti ākarṇya vacaḥ tasya vyāsasya amita-medhasaḥ .. pratyuvāca prasanna-ātmā brahma-putraḥ mahā-muniḥ .. 3..
सनत्कुमार उवाच ।।
राहुर्विमुक्तो यस्तेन सोपि तद्वर्वरस्थले ॥ अतस्स वर्वरो भूत इति भूमौ प्रथां गतः ॥ ४॥
राहुः विमुक्तः यः तेन सः अपि तद्-वर्वर-स्थले ॥ अतस् स वर्वरः भूतः इति भूमौ प्रथाम् गतः ॥ ४॥
rāhuḥ vimuktaḥ yaḥ tena saḥ api tad-varvara-sthale .. atas sa varvaraḥ bhūtaḥ iti bhūmau prathām gataḥ .. 4..
ततः स मन्यमानस्स्वं पुनर्जनिमथानतः ॥ गतगर्वो जगामाथ जलंधरपुरं शनैः ॥ ५॥
ततस् स मन्यमानः स्वम् पुनर्जनिम् अथ आनतः ॥ गत-गर्वः जगाम अथ जलंधर-पुरम् शनैस् ॥ ५॥
tatas sa manyamānaḥ svam punarjanim atha ānataḥ .. gata-garvaḥ jagāma atha jalaṃdhara-puram śanais .. 5..
जलंधराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ॥ कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै ॥ ६ ॥
जलंधराय सः अभ्येत्य सर्वम् ईश-विचेष्टितम् ॥ कथयामास तत् व्यासात् व्यास दैत्य-ईश्वराय वै ॥ ६ ॥
jalaṃdharāya saḥ abhyetya sarvam īśa-viceṣṭitam .. kathayāmāsa tat vyāsāt vyāsa daitya-īśvarāya vai .. 6 ..
सनत्कुमार उवाच ।।
जलंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ॥ बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ॥ ७ ॥
जलंधरः तु तत् श्रुत्वा कोप-आकुलित-विग्रहः ॥ बभूव बलवान् सिन्धु-पुत्रः दैत्य-इन्द्र-सत्तमः ॥ ७ ॥
jalaṃdharaḥ tu tat śrutvā kopa-ākulita-vigrahaḥ .. babhūva balavān sindhu-putraḥ daitya-indra-sattamaḥ .. 7 ..
ततः कोपपराधीनमानसो दैत्यसत्तमः ॥ उद्योगं सवसैन्यानां दैत्यानामादिदेश ह ॥ ८ ॥
ततस् कोप-पर-अधीन-मानसः दैत्य-सत्तमः ॥ उद्योगम् सव-सैन्यानाम् दैत्यानाम् आदिदेश ह ॥ ८ ॥
tatas kopa-para-adhīna-mānasaḥ daitya-sattamaḥ .. udyogam sava-sainyānām daityānām ādideśa ha .. 8 ..
जलंधर उवाच ।।
निर्गच्छंत्वखिला दैत्याः कालनेमिमुखाः खलु ॥ तथा शुंभनिशुम्भाद्या वीरास्स्वबलसंयुताः ॥ ९ ॥
निर्गच्छन्तु अखिलाः दैत्याः कालनेमि-मुखाः खलु ॥ तथा शुंभ-निशुम्भ-आद्याः वीराः स्व-बल-संयुताः ॥ ९ ॥
nirgacchantu akhilāḥ daityāḥ kālanemi-mukhāḥ khalu .. tathā śuṃbha-niśumbha-ādyāḥ vīrāḥ sva-bala-saṃyutāḥ .. 9 ..
कोटिर्वीरकुलोत्पन्नाः कंबुवंश्याश्च दौर्हृदाः ॥ कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च ॥ 2.5.20.१० ॥
कोटिः वीर-कुल-उत्पन्नाः कंबु-वंश्याः च दौर्हृदाः ॥ कालकाः कालकेयाः च मौर्याः धौम्राः तथा एव च ॥ २।५।२०।१० ॥
koṭiḥ vīra-kula-utpannāḥ kaṃbu-vaṃśyāḥ ca daurhṛdāḥ .. kālakāḥ kālakeyāḥ ca mauryāḥ dhaumrāḥ tathā eva ca .. 2.5.20.10 ..
इत्याज्ञाप्यासुरपतिस्सिंधुपुत्रो प्रतापवान् ॥ निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ॥ ११ ॥
इति आज्ञाप्य असुरपतिः सिंधुपुत्रो प्रतापवान् ॥ निर्जगाम आशु दैत्यानाम् कोटिभिः परिवारितः ॥ ११ ॥
iti ājñāpya asurapatiḥ siṃdhuputro pratāpavān .. nirjagāma āśu daityānām koṭibhiḥ parivāritaḥ .. 11 ..
ततस्तस्याग्रतश्शुक्रो राहुश्छिन्नशिरोऽभवत् ॥ मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा ॥ १२ ॥
ततस् तस्य अग्रतस् शुक्रः राहुः छिन्न-शिरः अभवत् ॥ मुकुटः च अपतत् भूमौ वेगात् प्रस्खलितः तदा ॥ १२ ॥
tatas tasya agratas śukraḥ rāhuḥ chinna-śiraḥ abhavat .. mukuṭaḥ ca apatat bhūmau vegāt praskhalitaḥ tadā .. 12 ..
व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः ॥ जाता अशकुना भूरि महानिद्रावि सूचकाः ॥ १३ ॥
व्यराजत नभः पूर्णम् प्रावृषि इव यथा घनैः ॥ जाताः अ शकुनाः भूरि महा-निद्रावि सूचकाः ॥ १३ ॥
vyarājata nabhaḥ pūrṇam prāvṛṣi iva yathā ghanaiḥ .. jātāḥ a śakunāḥ bhūri mahā-nidrāvi sūcakāḥ .. 13 ..
तस्योद्योगं तथा दृष्ट्वा गीर्वाणास्ते सवासवाः ॥ अलक्षितास्तदा जग्मुः कैलासं शंकरालयम् ॥ १४ ॥
तस्य उद्योगम् तथा दृष्ट्वा गीर्वाणाः ते स वासवाः ॥ अलक्षिताः तदा जग्मुः कैलासम् शंकर-आलयम् ॥ १४ ॥
tasya udyogam tathā dṛṣṭvā gīrvāṇāḥ te sa vāsavāḥ .. alakṣitāḥ tadā jagmuḥ kailāsam śaṃkara-ālayam .. 14 ..
तत्र गत्वा शिवं दृष्ट्वा सुप्रणम्य सवासवाः ॥ देवास्सर्वे नतस्कंधाः करौ बद्ध्वा च तुष्टुवुः ॥ १५॥
तत्र गत्वा शिवम् दृष्ट्वा सु प्रणम्य स वासवाः ॥ देवाः सर्वे नत-स्कंधाः करौ बद्ध्वा च तुष्टुवुः ॥ १५॥
tatra gatvā śivam dṛṣṭvā su praṇamya sa vāsavāḥ .. devāḥ sarve nata-skaṃdhāḥ karau baddhvā ca tuṣṭuvuḥ .. 15..
देवा ऊचुः ।।
देवदेव महादेव करुणाकर शंकर ॥ नमस्तेस्तु महेशान पाहि नश्शरणागतान् ॥ १६॥
देवदेव महादेव करुणाकर शंकर ॥ नमः ते तु महेशान पाहि नः शरण-आगतान् ॥ १६॥
devadeva mahādeva karuṇākara śaṃkara .. namaḥ te tu maheśāna pāhi naḥ śaraṇa-āgatān .. 16..
विह्वला वयमत्युग्रं जलंधरकृतात्प्रभो ॥ उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः॥ १७॥
विह्वलाः वयम् अति उग्रम् जलंधर-कृतात् प्रभो ॥ उपद्रवात् स देव-इन्द्राः स्थान-भ्रष्टाः क्षिति-स्थिताः॥ १७॥
vihvalāḥ vayam ati ugram jalaṃdhara-kṛtāt prabho .. upadravāt sa deva-indrāḥ sthāna-bhraṣṭāḥ kṣiti-sthitāḥ.. 17..
न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो ॥ तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम् ॥ १८॥
न जानासि कथम् स्वामिन् देव-आपत्तिम् इमाम् प्रभो ॥ तस्मात् नः रक्षण-अर्थाय जहि सागरनन्दनम् ॥ १८॥
na jānāsi katham svāmin deva-āpattim imām prabho .. tasmāt naḥ rakṣaṇa-arthāya jahi sāgaranandanam .. 18..
अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः ॥ नियोजितस्त्वया नाथ न क्षमस्सोऽद्य रक्षितुम् ॥ १९॥
अस्माकम् रक्षण-अर्थाय यत् पूर्वम् गरुडध्वजः ॥ नियोजितः त्वया नाथ न क्षमः सः अद्य रक्षितुम् ॥ १९॥
asmākam rakṣaṇa-arthāya yat pūrvam garuḍadhvajaḥ .. niyojitaḥ tvayā nātha na kṣamaḥ saḥ adya rakṣitum .. 19..
तदधीनो गृहे तस्य तिष्ठत्यद्य मया सह ॥ वयं च तत्र तिष्ठामस्तदाज्ञावशगास्सुराः ॥ 2.5.20.२०॥
तद्-अधीनः गृहे तस्य तिष्ठति अद्य मया सह ॥ वयम् च तत्र तिष्ठामः तद्-आज्ञा-वश-गाः सुराः ॥ २।५।२०।२०॥
tad-adhīnaḥ gṛhe tasya tiṣṭhati adya mayā saha .. vayam ca tatra tiṣṭhāmaḥ tad-ājñā-vaśa-gāḥ surāḥ .. 2.5.20.20..
अलक्षिता वयं चात्रागताश्शंभो त्वदंतिकम् ॥ स आयाति त्वया कर्त्तुं रणं सिंधुसुतो बली ॥ २१ ॥
अलक्षिताः वयम् च अत्र आगताः शंभो त्वद्-अंतिकम् ॥ सः आयाति त्वया कर्त्तुम् रणम् सिंधुसुतः बली ॥ २१ ॥
alakṣitāḥ vayam ca atra āgatāḥ śaṃbho tvad-aṃtikam .. saḥ āyāti tvayā karttum raṇam siṃdhusutaḥ balī .. 21 ..
अतस्स्वामिन्रणे त्वं तमविलंबं जलंधरम् ॥ हंतुमर्हसि सर्वज्ञ पाहि नश्शरणागतान् ॥ २२ ॥
अतस् स्वामिन् रणे त्वम् तम् अविलंबम् जलंधरम् ॥ हंतुम् अर्हसि सर्वज्ञ पाहि नः शरण-आगतान् ॥ २२ ॥
atas svāmin raṇe tvam tam avilaṃbam jalaṃdharam .. haṃtum arhasi sarvajña pāhi naḥ śaraṇa-āgatān .. 22 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा ते सुरास्सर्वे प्रभुं नत्वा सवासवाः ॥ पादौ निरीक्ष्य संतस्थुर्महेशस्य विनम्रकाः ॥ २३ ॥
इति उक्त्वा ते सुराः सर्वे प्रभुम् नत्वा स वासवाः ॥ पादौ निरीक्ष्य संतस्थुः महेशस्य विनम्रकाः ॥ २३ ॥
iti uktvā te surāḥ sarve prabhum natvā sa vāsavāḥ .. pādau nirīkṣya saṃtasthuḥ maheśasya vinamrakāḥ .. 23 ..
।। सनत्कुमार उवाच ।।
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ॥ द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत् ॥ २४॥
इति देव-वचः श्रुत्वा प्रहस्य वृषभध्वजः ॥ द्रुतम् विष्णुम् समाहूय वचनम् च इदम् अब्रवीत् ॥ २४॥
iti deva-vacaḥ śrutvā prahasya vṛṣabhadhvajaḥ .. drutam viṣṇum samāhūya vacanam ca idam abravīt .. 24..
ईश्वर उवाच ।।
हृषीकेश महाविष्णो देवाश्चात्र समागताः ॥ जलंधरकृतापीडाश्शरणं मेऽतिविह्वलाः ॥ २५॥
हृषीकेश महाविष्णो देवाः च अत्र समागताः ॥ जलंधर-कृत-आपीडाः शरणम् मे अति विह्वलाः ॥ २५॥
hṛṣīkeśa mahāviṣṇo devāḥ ca atra samāgatāḥ .. jalaṃdhara-kṛta-āpīḍāḥ śaraṇam me ati vihvalāḥ .. 25..
जलंधरः कथं विष्णो संगरे न हत स्त्वया ॥ तद्गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ २६॥
जलंधरः कथम् विष्णो संगरे न हतः स्त्वया ॥ तद्-गृहम् च अपि यातः असि त्यक्त्वा वैकुण्ठम् आत्मनः ॥ २६॥
jalaṃdharaḥ katham viṣṇo saṃgare na hataḥ stvayā .. tad-gṛham ca api yātaḥ asi tyaktvā vaikuṇṭham ātmanaḥ .. 26..
मया नियोजितस्त्वं हि साधुसंरक्षणाय च ॥ निग्रहाय खलानां च स्वतंत्रेण विहारिणा ॥ २७॥
मया नियोजितः त्वम् हि साधु-संरक्षणाय च ॥ निग्रहाय खलानाम् च स्वतंत्रेण विहारिणा ॥ २७॥
mayā niyojitaḥ tvam hi sādhu-saṃrakṣaṇāya ca .. nigrahāya khalānām ca svataṃtreṇa vihāriṇā .. 27..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः ॥ प्रत्युवाच विनीतात्मा नतकस्साञ्जलिर्हरिः ॥ २८ ॥
इति आकर्ण्य महेशस्य वचनम् गरुडध्वजः ॥ प्रत्युवाच विनीत-आत्मा नतकः स अञ्जलिः हरिः ॥ २८ ॥
iti ākarṇya maheśasya vacanam garuḍadhvajaḥ .. pratyuvāca vinīta-ātmā natakaḥ sa añjaliḥ hariḥ .. 28 ..
विष्णुरुवाच ।।
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥ मया न निहतः संख्ये त्वमेनं जहि दानवम् ॥ २९॥
तव अंश-संभव-त्वात् च भ्रातृ-त्वात् च तथा श्रियः ॥ मया न निहतः संख्ये त्वम् एनम् जहि दानवम् ॥ २९॥
tava aṃśa-saṃbhava-tvāt ca bhrātṛ-tvāt ca tathā śriyaḥ .. mayā na nihataḥ saṃkhye tvam enam jahi dānavam .. 29..
महाबलो महावीरो जेयस्सर्वदिवौकसाम् ॥ अन्येषां चापि देवेश सत्यमेतद्ब्रवीम्यहम् ॥ 2.5.20.३० ॥
महा-बलः महा-वीरः जेयः सर्व-दिवौकसाम् ॥ अन्येषाम् च अपि देवेश सत्यम् एतत् ब्रवीमि अहम् ॥ २।५।२०।३० ॥
mahā-balaḥ mahā-vīraḥ jeyaḥ sarva-divaukasām .. anyeṣām ca api deveśa satyam etat bravīmi aham .. 2.5.20.30 ..
मया कृतो रणस्तेन चिरं देवान्वितेन वै ॥ मदुपायो न प्रवृत्तस्तस्मिन्दानवपुंगवे ॥ ३१ ॥
मया कृतः रणः तेन चिरम् देव-अन्वितेन वै ॥ मद्-उपायः न प्रवृत्तः तस्मिन् दानव-पुंगवे ॥ ३१ ॥
mayā kṛtaḥ raṇaḥ tena ciram deva-anvitena vai .. mad-upāyaḥ na pravṛttaḥ tasmin dānava-puṃgave .. 31 ..
तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु ॥ इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम् ॥ ३२ ॥
तद्-पराक्रमतः तुष्टः वरम् ब्रूहि इति अहम् खलु ॥ इति मद्-वचनम् श्रुत्वा स वव्रे वरम् उत्तमम् ॥ ३२ ॥
tad-parākramataḥ tuṣṭaḥ varam brūhi iti aham khalu .. iti mad-vacanam śrutvā sa vavre varam uttamam .. 32 ..
मद्भगिन्या मया सार्द्धं मद्गेहे ससुरो वस ॥ मदधीनो महाविष्णो इत्यहं तद्गृहं गतः ॥ ३३ ॥
मद्-भगिन्या मया सार्द्धम् मद्-गेहे स सुरः वस ॥ मद्-अधीनः महाविष्णो इति अहम् तद्-गृहम् गतः ॥ ३३ ॥
mad-bhaginyā mayā sārddham mad-gehe sa suraḥ vasa .. mad-adhīnaḥ mahāviṣṇo iti aham tad-gṛham gataḥ .. 33 ..
सनत्कुमार उवाच।।
इति विष्णोर्वचश्श्रुत्वा शकरस्स महेश्वरः ॥ विहस्योवाच सुप्रीतस्सदयो भक्तवत्सलः ॥ ३४॥
इति विष्णोः वचः श्रुत्वा शकरः स महेश्वरः ॥ विहस्य उवाच सु प्रीतः स दयः भक्त-वत्सलः ॥ ३४॥
iti viṣṇoḥ vacaḥ śrutvā śakaraḥ sa maheśvaraḥ .. vihasya uvāca su prītaḥ sa dayaḥ bhakta-vatsalaḥ .. 34..
महेश्वर उवाच ।।
हे विष्णो सुरवर्य त्वं शृणु मद्वाक्यमादरात् ॥ जलंधरं महादैत्यं हनिष्यामि न संशयः ॥ ३५ ॥
हे विष्णो सुर-वर्य त्वम् शृणु मद्-वाक्यम् आदरात् ॥ जलंधरम् महा-दैत्यम् हनिष्यामि न संशयः ॥ ३५ ॥
he viṣṇo sura-varya tvam śṛṇu mad-vākyam ādarāt .. jalaṃdharam mahā-daityam haniṣyāmi na saṃśayaḥ .. 35 ..
स्वस्थानं गच्छ निर्भीतो देवा गच्छंत्वपि ध्रुवम् ॥ निर्भया वीतसंदेहा हतं मत्वाऽसुराधिपम् ॥ ३६ ॥
स्व-स्थानम् गच्छ निर्भीतः देवाः गच्छंतु अपि ध्रुवम् ॥ निर्भयाः वीत-संदेहाः हतम् मत्वा असुर-अधिपम् ॥ ३६ ॥
sva-sthānam gaccha nirbhītaḥ devāḥ gacchaṃtu api dhruvam .. nirbhayāḥ vīta-saṃdehāḥ hatam matvā asura-adhipam .. 36 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा महेशस्य वचनं स रमापतिः ॥ सनिर्जरो जगामाशु स्वस्थानं गतसंशयः ॥ ३७॥
इति श्रुत्वा महेशस्य वचनम् स रमापतिः ॥ स निर्जरः जगाम आशु स्व-स्थानम् गत-संशयः ॥ ३७॥
iti śrutvā maheśasya vacanam sa ramāpatiḥ .. sa nirjaraḥ jagāma āśu sva-sthānam gata-saṃśayaḥ .. 37..
एतस्मिन्नंतरे व्यास स दैत्येन्द्रोऽतिविक्रमः ॥ सन्नद्धैरसुरैस्सार्द्धं शैलप्रांतं ययौ बली ॥ ३८॥
एतस्मिन् अन्तरे व्यास स दैत्य-इन्द्रः अतिविक्रमः ॥ सन्नद्धैः असुरैः सार्द्धम् शैल-प्रांतम् ययौ बली ॥ ३८॥
etasmin antare vyāsa sa daitya-indraḥ ativikramaḥ .. sannaddhaiḥ asuraiḥ sārddham śaila-prāṃtam yayau balī .. 38..
कैलासमवरुध्याथ महत्या सेनया युतः ॥ संतस्थौ कालसंकाशः कुर्वन्सिंहरवं महान् ॥ ३९ ॥
कैलासम् अवरुध्य अथ महत्या सेनया युतः ॥ संतस्थौ काल-संकाशः कुर्वन् सिंह-रवम् महान् ॥ ३९ ॥
kailāsam avarudhya atha mahatyā senayā yutaḥ .. saṃtasthau kāla-saṃkāśaḥ kurvan siṃha-ravam mahān .. 39 ..
अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्भवम् ॥ चुक्रोधातिमहेशानो महालीलः खलांतकः ॥ 2.5.20.४०
अथ कोलाहलम् श्रुत्वा दैत्य-नाद-समुद्भवम् ॥ चुक्रोध अति महा-ईशानः महा-लीलः खल-अंतकः ॥ २।५।२०।४०
atha kolāhalam śrutvā daitya-nāda-samudbhavam .. cukrodha ati mahā-īśānaḥ mahā-līlaḥ khala-aṃtakaḥ .. 2.5.20.40
समादिदेश संख्याय स्वगणान्स महाबलान् ॥ नंद्यादिकान्महादेवो महोतिः कौतुकी हरः ॥ ४१ ॥
समादिदेश संख्याय स्व-गणान् स महा-बलान् ॥ नंदि-आदिकात् महादेवः महा-ऊतिः कौतुकी हरः ॥ ४१ ॥
samādideśa saṃkhyāya sva-gaṇān sa mahā-balān .. naṃdi-ādikāt mahādevaḥ mahā-ūtiḥ kautukī haraḥ .. 41 ..
नन्दीभमुखसेनानीमुखास्सर्वे शिवाज्ञया ॥ गणाश्च समनह्यंत युद्धाया तित्वरान्विताः ॥ ४२ ॥
नन्दि-इभ-मुख-सेना-नी-मुखाः सर्वे शिव-आज्ञया ॥ गणाः च समनह्यन्त ति त्वरा-अन्विताः ॥ ४२ ॥
nandi-ibha-mukha-senā-nī-mukhāḥ sarve śiva-ājñayā .. gaṇāḥ ca samanahyanta ti tvarā-anvitāḥ .. 42 ..
अवतेरुर्गणास्सर्वे कैलासात्क्रोधदुर्मदाः ॥ वल्गतो रणशब्दांश्च महावीरा रणाय हि ॥ ४३ ॥
अवतेरुः गणाः सर्वे कैलासात् क्रोध-दुर्मदाः ॥ वल्गतः रण-शब्दान् च महा-वीराः रणाय हि ॥ ४३ ॥
avateruḥ gaṇāḥ sarve kailāsāt krodha-durmadāḥ .. valgataḥ raṇa-śabdān ca mahā-vīrāḥ raṇāya hi .. 43 ..
ततस्समभवद्युद्धं कैलासोपत्यकासु वै ॥ प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् ॥ ४४ ॥
ततस् समभवत् युद्धम् कैलास-उपत्यकासु वै ॥ प्रमथ-अधिप-दैत्यानाम् घोरम् शस्त्र-अस्त्र-संकुलम् ॥ ४४ ॥
tatas samabhavat yuddham kailāsa-upatyakāsu vai .. pramatha-adhipa-daityānām ghoram śastra-astra-saṃkulam .. 44 ..
भेरीमृदंगशंखौघैर्निस्वानैर्वीरहर्षणैः ॥ गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ॥ ४५ ॥
भेरी-मृदंग-शंख-ओघैः निस्वानैः वीर-हर्षणैः ॥ गज-अश्व-रथ-शब्दैः च नादिता भूः व्यकंपत ॥ ४५ ॥
bherī-mṛdaṃga-śaṃkha-oghaiḥ nisvānaiḥ vīra-harṣaṇaiḥ .. gaja-aśva-ratha-śabdaiḥ ca nāditā bhūḥ vyakaṃpata .. 45 ..
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ॥ व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम् ॥ ४६॥
शक्ति-तोमर-बाण-ओघैः मुसलैः पाश-पट्टिशैः ॥ व्यराजत नभः पूर्णम् मुक्ताभिः इव संवृतम् ॥ ४६॥
śakti-tomara-bāṇa-oghaiḥ musalaiḥ pāśa-paṭṭiśaiḥ .. vyarājata nabhaḥ pūrṇam muktābhiḥ iva saṃvṛtam .. 46..
निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत ॥ वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता ॥ ४७ ॥
निहतैः इव नाग-अश्वैः पत्तिभिः भूः व्यराजत ॥ वज्र-आहतैः पर्वत-इन्द्रैः पूर्वम् आसीत् सु संवृता ॥ ४७ ॥
nihataiḥ iva nāga-aśvaiḥ pattibhiḥ bhūḥ vyarājata .. vajra-āhataiḥ parvata-indraiḥ pūrvam āsīt su saṃvṛtā .. 47 ..
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥ वसासृङ्मांसपंकाढ्या भूरगम्याभवत्तदा ॥ ४८॥
प्रमथ-आहत-दैत्य-ओघैः दैत्य-आहत-गणैः तथा ॥ वसा-असृक्-मांस-पंक-आढ्या भूः अगम्या अभवत् तदा ॥ ४८॥
pramatha-āhata-daitya-oghaiḥ daitya-āhata-gaṇaiḥ tathā .. vasā-asṛk-māṃsa-paṃka-āḍhyā bhūḥ agamyā abhavat tadā .. 48..
प्रमथाहतदैत्यौघान्भार्गवस्समजीवयत् ॥ युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात् ॥ ४९॥
प्रमथ-आहत-दैत्य-ओघान् भार्गवः समजीवयत् ॥ युद्धे पुनर् पुनर् च एव मृतसंजीवनी बलात् ॥ ४९॥
pramatha-āhata-daitya-oghān bhārgavaḥ samajīvayat .. yuddhe punar punar ca eva mṛtasaṃjīvanī balāt .. 49..
दृष्ट्वा व्याकुलितांस्तांस्तु गणास्सर्वे भयार्दिताः ॥ शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम् ॥ 2.5.20.५०॥
दृष्ट्वा व्याकुलितान् तान् तु गणाः सर्वे भय-अर्दिताः ॥ शशंसुः देवदेवाय सर्वे शुक्र-विचेष्टितम् ॥ २।५।२०।५०॥
dṛṣṭvā vyākulitān tān tu gaṇāḥ sarve bhaya-arditāḥ .. śaśaṃsuḥ devadevāya sarve śukra-viceṣṭitam .. 2.5.20.50..
तच्छ्रुत्वा भगवान्रुद्रश्चकार क्रोधमुल्बणम् ॥ भयंकरोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः ॥ ५१॥
तत् श्रुत्वा भगवान् रुद्रः चकार क्रोधम् उल्बणम् ॥ भयंकरः अति रौद्रः च बभूव प्रज्वलन् दिशः ॥ ५१॥
tat śrutvā bhagavān rudraḥ cakāra krodham ulbaṇam .. bhayaṃkaraḥ ati raudraḥ ca babhūva prajvalan diśaḥ .. 51..
अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा ॥ तालजंघोदरी वक्त्रा स्तनापीडितभूरुहा ॥ ५२ ॥
अथ रुद्र-मुखात् कृत्या बभूव अतीव भीषणा ॥ ताल-जंघा-उदरी वक्त्रा स्तन-आपीडित-भूरुहा ॥ ५२ ॥
atha rudra-mukhāt kṛtyā babhūva atīva bhīṣaṇā .. tāla-jaṃghā-udarī vaktrā stana-āpīḍita-bhūruhā .. 52 ..
सा युद्धभूमिं तरसा ससाद मुनिसत्तम ॥ विचचार महाभीमा भक्षयंती महासुरान् ॥ ५३ ॥
सा युद्ध-भूमिम् तरसा ससाद मुनि-सत्तम ॥ विचचार महा-भीमा भक्षयंती महा-असुरान् ॥ ५३ ॥
sā yuddha-bhūmim tarasā sasāda muni-sattama .. vicacāra mahā-bhīmā bhakṣayaṃtī mahā-asurān .. 53 ..
अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् ॥ यत्रास्ते संवृतो दैत्यवरेन्द्रैस्स हि भार्गवः ॥ ५४॥
अथ सा रण-मध्ये हि जगाम गत-भीः द्रुतम् ॥ यत्र आस्ते संवृतः दैत्य-वर-इन्द्रैः स हि भार्गवः ॥ ५४॥
atha sā raṇa-madhye hi jagāma gata-bhīḥ drutam .. yatra āste saṃvṛtaḥ daitya-vara-indraiḥ sa hi bhārgavaḥ .. 54..
स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने ॥ भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ॥ ५५॥
स्व-तेजसा नभः व्याप्य भूमिम् कृत्वा च सा मुने ॥ भार्गवम् स्व-भगे धृत्वा जगाम अंतर्हिता नभः ॥ ५५॥
sva-tejasā nabhaḥ vyāpya bhūmim kṛtvā ca sā mune .. bhārgavam sva-bhage dhṛtvā jagāma aṃtarhitā nabhaḥ .. 55..
विद्रुतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तथा ॥ प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः ॥ ५६ ॥
विद्रुतम् भार्गवम् दृष्ट्वा दैत्य-सैन्य-गणाः तथा ॥ प्रम्लान-वदनाः युद्धात् निर्जग्मुः युद्ध-दुर्मदाः ॥ ५६ ॥
vidrutam bhārgavam dṛṣṭvā daitya-sainya-gaṇāḥ tathā .. pramlāna-vadanāḥ yuddhāt nirjagmuḥ yuddha-durmadāḥ .. 56 ..
अथोऽभज्यत दैत्यानां सेना गणभयार्दिता ॥ वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः ॥ ५७॥
अथो अभज्यत दैत्यानाम् सेना गण-भय-अर्दिता ॥ वायु-वेग-हता यद्वत् प्रकीर्णा तृण-संहतिः ॥ ५७॥
atho abhajyata daityānām senā gaṇa-bhaya-arditā .. vāyu-vega-hatā yadvat prakīrṇā tṛṇa-saṃhatiḥ .. 57..
भग्नां गणभयाद्दैत्यसेनां दृष्ट्वातिमर्षिताः ॥ निशुंभशुंभौ सेनान्यौ कालनेमिश्च चुक्रुधुः ॥ ५८॥
भग्नाम् गण-भयात् दैत्य-सेनाम् दृष्ट्वा अति मर्षिताः ॥ निशुंभ-शुंभौ सेनान्यौ कालनेमिः च चुक्रुधुः ॥ ५८॥
bhagnām gaṇa-bhayāt daitya-senām dṛṣṭvā ati marṣitāḥ .. niśuṃbha-śuṃbhau senānyau kālanemiḥ ca cukrudhuḥ .. 58..
त्रयस्ते वरयामासुर्गणसेनां महाबलाः ॥ मुंचंतश्शरवर्षाणि प्रावृषीव बलाहकाः ॥ ५९॥
त्रयः ते वरयामासुः गण-सेनाम् महा-बलाः ॥ मुंचंतः शर-वर्षाणि प्रावृषि इव बलाहकाः ॥ ५९॥
trayaḥ te varayāmāsuḥ gaṇa-senām mahā-balāḥ .. muṃcaṃtaḥ śara-varṣāṇi prāvṛṣi iva balāhakāḥ .. 59..
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥ रुरुधुः खं दिशस्सर्वा गणसेनामकंपयन् ॥ 2.5.20.६० ॥
ततस् दैत्य-शर-ओघाः ते शलभानाम् इव व्रजाः ॥ रुरुधुः खम् दिशः सर्वाः गण-सेनाम् अकंपयन् ॥ २।५।२०।६० ॥
tatas daitya-śara-oghāḥ te śalabhānām iva vrajāḥ .. rurudhuḥ kham diśaḥ sarvāḥ gaṇa-senām akaṃpayan .. 2.5.20.60 ..
गणाश्शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥ वसंतकिंशुकाभासा न प्राजानन्हि किंचन ॥ ६१ ॥
गणाः शर-शतैः भिन्नाः रुधिर-आसार-वर्षिणः ॥ वसंत-किंशुक-आभासाः न प्राजानन् हि किंचन ॥ ६१ ॥
gaṇāḥ śara-śataiḥ bhinnāḥ rudhira-āsāra-varṣiṇaḥ .. vasaṃta-kiṃśuka-ābhāsāḥ na prājānan hi kiṃcana .. 61 ..
ततः प्रभग्नं स्वबलं विलोक्य नन्द्यादिलंबोदरकार्त्तिकेयाः ॥ त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ॥ ६२॥
ततस् प्रभग्नम् स्व-बलम् विलोक्य नन्दि-आदि-लंबोदर-कार्त्तिकेयाः ॥ त्वरा-अन्विताः दैत्य-वरान् प्रसह्य निवारयामासुः अमर्षणाः ते ॥ ६२॥
tatas prabhagnam sva-balam vilokya nandi-ādi-laṃbodara-kārttikeyāḥ .. tvarā-anvitāḥ daitya-varān prasahya nivārayāmāsuḥ amarṣaṇāḥ te .. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे जलंधरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe jalaṃdharavadhopākhyāne sāmānyagaṇāsurayuddhavarṇanam nāma viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In