| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्॥ अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः॥ १॥
ते गणाधिपतीन् दृष्ट्वा नन्दि-इभ-मुख-षण्मुखान्॥ अमर्षात् अभ्यधावन्त द्वंद्व-युद्धाय दानवाः॥ १॥
te gaṇādhipatīn dṛṣṭvā nandi-ibha-mukha-ṣaṇmukhān.. amarṣāt abhyadhāvanta dvaṃdva-yuddhāya dānavāḥ.. 1..
नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ॥ निशुंभः षण्मुखं देवमभ्यधावत शंकितः ॥ २॥
नन्दिनम् कालनेमिः च शुंभः लंबोदरम् तथा ॥ निशुंभः षण्मुखम् देवम् अभ्यधावत शंकितः ॥ २॥
nandinam kālanemiḥ ca śuṃbhaḥ laṃbodaram tathā .. niśuṃbhaḥ ṣaṇmukham devam abhyadhāvata śaṃkitaḥ .. 2..
निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ॥ हृदि विव्याध वेगेन मूर्छितस्स पपात ह ॥ ३॥
निशुंभः कार्तिकेयस्य मयूरम् पंचभिः शरैः ॥ हृदि विव्याध वेगेन मूर्छितः स पपात ह ॥ ३॥
niśuṃbhaḥ kārtikeyasya mayūram paṃcabhiḥ śaraiḥ .. hṛdi vivyādha vegena mūrchitaḥ sa papāta ha .. 3..
ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ॥ विव्याध स्यंदने तस्य हयान्यन्तारमेव च ॥ ४॥
ततस् शक्ति-धरः क्रुद्धः बाणैः पंचभिः एव च ॥ विव्याध स्यंदने तस्य हयानि अन्तारम् एव च ॥ ४॥
tatas śakti-dharaḥ kruddhaḥ bāṇaiḥ paṃcabhiḥ eva ca .. vivyādha syaṃdane tasya hayāni antāram eva ca .. 4..
शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ॥ जघान तरसा वीरो जगर्ज रणदुर्मदः ॥ ५॥
शरेण अन्येन तीक्ष्णेन निशुंभम् देव-वैरिणम् ॥ जघान तरसा वीरः जगर्ज रण-दुर्मदः ॥ ५॥
śareṇa anyena tīkṣṇena niśuṃbham deva-vairiṇam .. jaghāna tarasā vīraḥ jagarja raṇa-durmadaḥ .. 5..
असुरोऽपि निशुंभाख्यो महावीरोऽतिवीर्यवान् ॥ जघान कार्तिकेयं तं गर्जंतं स्वेषुणा रणे ॥ ६॥
असुरः अपि निशुंभ-आख्यः महा-वीरः अति वीर्यवान् ॥ जघान कार्तिकेयम् तम् गर्जंतम् स्व-इषुणा रणे ॥ ६॥
asuraḥ api niśuṃbha-ākhyaḥ mahā-vīraḥ ati vīryavān .. jaghāna kārtikeyam tam garjaṃtam sva-iṣuṇā raṇe .. 6..
ततश्शक्तिं कार्तिकेयो यावजग्राह रोषतः ॥ तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ॥ ७॥
ततस् शक्तिम् कार्तिकेयः यावत् जग्राह रोषतः ॥ तावत् निशुंभः वेगेन स्व-शक्त्या तम् अपातयत् ॥ ७॥
tatas śaktim kārtikeyaḥ yāvat jagrāha roṣataḥ .. tāvat niśuṃbhaḥ vegena sva-śaktyā tam apātayat .. 7..
एवं बभूव तत्रैव कार्तिकेयनिशुंभयोः ॥ आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ॥ ८॥
एवम् बभूव तत्र एव कार्तिकेय-निशुंभयोः ॥ आहवः हि महान् व्यास वीर-शब्दम् प्रगर्जतोः ॥ ८॥
evam babhūva tatra eva kārtikeya-niśuṃbhayoḥ .. āhavaḥ hi mahān vyāsa vīra-śabdam pragarjatoḥ .. 8..
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ॥ सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ॥ ९॥
ततस् नन्दीश्वरः बाणैः कालनेमिम् अविध्यत ॥ सप्तभिः च हयान् केतुम् रथम् सारथिम् आच्छिनत् ॥ ९॥
tatas nandīśvaraḥ bāṇaiḥ kālanemim avidhyata .. saptabhiḥ ca hayān ketum ratham sārathim ācchinat .. 9..
कालनेमिश्च संकुद्धो धनुश्चिच्छेद नंदिनः ॥ स्वशरासननिर्मुक्तैर्महातीक्ष्णैश्शिलीमुखैः ॥ 2.5.21.१० ॥
कालनेमिः च संकुद्धः धनुः चिच्छेद नंदिनः ॥ स्व-शरासन-निर्मुक्तैः महा-तीक्ष्णैः शिलीमुखैः ॥ २।५।२१।१० ॥
kālanemiḥ ca saṃkuddhaḥ dhanuḥ ciccheda naṃdinaḥ .. sva-śarāsana-nirmuktaiḥ mahā-tīkṣṇaiḥ śilīmukhaiḥ .. 2.5.21.10 ..
अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ॥ तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम् ॥ ११॥
अथ नन्दीश्वरः वीरः कालनेमिम् महा-असुरम् ॥ तम् अपास्य च शूलेन वक्षसि अभ्यहनत् दृढम् ॥ ११॥
atha nandīśvaraḥ vīraḥ kālanemim mahā-asuram .. tam apāsya ca śūlena vakṣasi abhyahanat dṛḍham .. 11..
स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥ अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ॥ १२ ॥
स शूल-भिन्न-हृदयः हत-अश्वः हत-सारथिः ॥ अद्रेः शिखरम् उत्पाट्य नन्दिनम् समताडयत् ॥ १२ ॥
sa śūla-bhinna-hṛdayaḥ hata-aśvaḥ hata-sārathiḥ .. adreḥ śikharam utpāṭya nandinam samatāḍayat .. 12 ..
अथ शुंभो गणेशश्च रथमूषक वाहनौ ॥ युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ १३ ॥
अथ शुंभः गणेशः च रथमूषक वाहनौ ॥ युध्यमानौ शर-व्रातैः परस्परम् अविध्यताम् ॥ १३ ॥
atha śuṃbhaḥ gaṇeśaḥ ca rathamūṣaka vāhanau .. yudhyamānau śara-vrātaiḥ parasparam avidhyatām .. 13 ..
गणेशस्तु तदा शुंभं हृदि विव्याध पत्रिणा ॥ सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ १४ ॥
गणेशः तु तदा शुंभम् हृदि विव्याध पत्रिणा ॥ सारथिम् च त्रिभिः बाणैः पातयामास भू-तले ॥ १४ ॥
gaṇeśaḥ tu tadā śuṃbham hṛdi vivyādha patriṇā .. sārathim ca tribhiḥ bāṇaiḥ pātayāmāsa bhū-tale .. 14 ..
ततोऽतिक्रुद्धश्शुंभोऽपि बाणदृष्ट्या गणाधिपम् ॥ मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥ १५ ॥
ततस् अति क्रुद्धः शुंभः अपि बाण-दृष्ट्या गणाधिपम् ॥ मूषकम् च त्रिभिः विद्ध्वा ननाद जलद-स्वनः ॥ १५ ॥
tatas ati kruddhaḥ śuṃbhaḥ api bāṇa-dṛṣṭyā gaṇādhipam .. mūṣakam ca tribhiḥ viddhvā nanāda jalada-svanaḥ .. 15 ..
मूषकश्शरभिन्नाङ्गश्चचाल दृढवेदनः ॥ लम्बोदरश्च पतितः पदातिरभवत्स हि ॥ १६ ॥
मूषकः शर-भिन्न-अङ्गः चचाल दृढ-वेदनः ॥ लम्बोदरः च पतितः पदातिः अभवत् स हि ॥ १६ ॥
mūṣakaḥ śara-bhinna-aṅgaḥ cacāla dṛḍha-vedanaḥ .. lambodaraḥ ca patitaḥ padātiḥ abhavat sa hi .. 16 ..
ततो लम्बोदरश्शुंभं हत्वा परशुना हृदि ॥ अपातयत्तदा भूमौ मूषकं चारुरोह सः ॥ १७ ॥
ततस् लम्बोदरः शुंभम् हत्वा परशुना हृदि ॥ अपातयत् तदा भूमौ मूषकम् च आरुरोह सः ॥ १७ ॥
tatas lambodaraḥ śuṃbham hatvā paraśunā hṛdi .. apātayat tadā bhūmau mūṣakam ca āruroha saḥ .. 17 ..
समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ॥ प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम् ॥ १८ ॥
समराय उद्यतः च अभूत् पुनर् गजमुखः विभुः ॥ प्रहस्य जघ्नतुः क्रोधात् तोत्रेण एव महा-द्विपम् ॥ १८ ॥
samarāya udyataḥ ca abhūt punar gajamukhaḥ vibhuḥ .. prahasya jaghnatuḥ krodhāt totreṇa eva mahā-dvipam .. 18 ..
कालनेमिर्निशुंभश्च ह्युभौ लंबोदरं शरैः ॥ युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम् ॥ १९ ॥
कालनेमिः निशुंभः च हि उभौ लंबोदरम् शरैः ॥ युगपद् चख्नतुः क्रोधात् आशीविष-समैः द्रुतम् ॥ १९ ॥
kālanemiḥ niśuṃbhaḥ ca hi ubhau laṃbodaram śaraiḥ .. yugapad cakhnatuḥ krodhāt āśīviṣa-samaiḥ drutam .. 19 ..
तं पीड्यमानमालोक्य वीरभद्रो महाबलः ॥ अभ्यधावत वेगेन कोटिभूतयुतस्तथा ॥ 2.5.21.२० ॥
तम् पीड्यमानम् आलोक्य वीरभद्रः महा-बलः ॥ अभ्यधावत वेगेन कोटि-भूत-युतः तथा ॥ २।५।२१।२० ॥
tam pīḍyamānam ālokya vīrabhadraḥ mahā-balaḥ .. abhyadhāvata vegena koṭi-bhūta-yutaḥ tathā .. 2.5.21.20 ..
कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ॥ पिशाचा डाकिनीसंघा गणाश्चापि समं ययुः ॥ २१॥
कूष्मांडाः भैरवाः च अपि वेतालाः योगिनी-गणाः ॥ पिशाचाः डाकिनी-संघाः गणाः च अपि समम् ययुः ॥ २१॥
kūṣmāṃḍāḥ bhairavāḥ ca api vetālāḥ yoginī-gaṇāḥ .. piśācāḥ ḍākinī-saṃghāḥ gaṇāḥ ca api samam yayuḥ .. 21..
ततः किलकिला शब्दैस्सिंहनादैश्सघर्घरैः ॥ विनादिता डमरुकैः पृथिवी समकंपत ॥ २२॥
ततस् किलकिला शब्दैः सिंहनादैः स घर्घरैः ॥ विनादिता डमरुकैः पृथिवी समकंपत ॥ २२॥
tatas kilakilā śabdaiḥ siṃhanādaiḥ sa ghargharaiḥ .. vināditā ḍamarukaiḥ pṛthivī samakaṃpata .. 22..
ततो भूताः प्रधावंतो भक्षयंति स्म दानवान् ॥ उत्पत्य पातयंति स्म ननृतुश्च रणांगणे ॥ २३॥
ततस् भूताः प्रधावन्तः भक्षयंति स्म दानवान् ॥ उत्पत्य पातयंति स्म ननृतुः च रण-अंगणे ॥ २३॥
tatas bhūtāḥ pradhāvantaḥ bhakṣayaṃti sma dānavān .. utpatya pātayaṃti sma nanṛtuḥ ca raṇa-aṃgaṇe .. 23..
एतस्मिन्नंतरे व्यासाभूतां नन्दीगुहश्च तौ॥ उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे ॥ २४॥
एतस्मिन् अन्तरे व्यास-अभूताम् नन्दीगुहः च तौ॥ उत्थित-अवाप्त-संज्ञौ हि जगर्जतुः अलम् रणे ॥ २४॥
etasmin antare vyāsa-abhūtām nandīguhaḥ ca tau.. utthita-avāpta-saṃjñau hi jagarjatuḥ alam raṇe .. 24..
स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ॥ जघ्नतुश्च रणे दैत्यान्निरंतरशरव्रजैः॥ छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ॥
स नन्दी कार्तिकेयः च समायातौ त्वरा-अन्वितौ॥ जघ्नतुः च रणे दैत्यान् निरंतर-शर-व्रजैः॥ छिन्नैः भिन्नैः हतैः दैत्यैः पतितैः भक्षितैः तथा ॥
sa nandī kārtikeyaḥ ca samāyātau tvarā-anvitau.. jaghnatuḥ ca raṇe daityān niraṃtara-śara-vrajaiḥ.. chinnaiḥ bhinnaiḥ hataiḥ daityaiḥ patitaiḥ bhakṣitaiḥ tathā ..
एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ॥ वीरभद्रो गणाश्चान्ये जगर्जुस्समरेऽधिकम्॥ २७॥
एवम् नन्दी कार्तिकेयः विकटः च प्रतापवान् ॥ वीरभद्रः गणाः च अन्ये जगर्जुः समरे अधिकम्॥ २७॥
evam nandī kārtikeyaḥ vikaṭaḥ ca pratāpavān .. vīrabhadraḥ gaṇāḥ ca anye jagarjuḥ samare adhikam.. 27..
निशुंभशुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ॥ कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः ॥ २८ ॥
निशुंभ-शुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ॥ कालनेमिः महा-दैत्यः असुराः च अन्ये पराजिताः ॥ २८ ॥
niśuṃbha-śuṃbhau senānyau sindhuputrasya tau tathā .. kālanemiḥ mahā-daityaḥ asurāḥ ca anye parājitāḥ .. 28 ..
प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः ॥ रथेनातिपताकेन गणानभिययौ बली ॥ २९ ॥
प्रविध्वस्ताम् ततस् सेनाम् दृष्ट्वा सागरनन्दनः ॥ रथेन अति पताकेन गणान् अभिययौ बली ॥ २९ ॥
pravidhvastām tatas senām dṛṣṭvā sāgaranandanaḥ .. rathena ati patākena gaṇān abhiyayau balī .. 29 ..
ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ॥ जगर्जुरधिकं व्यास समरायोद्यतास्तदा ॥ 2.5.21.३० ॥
ततस् पराजिताः दैत्याः अपि अभूवन् महा-उत्सवाः ॥ जगर्जुः अधिकम् व्यास समराय उद्यताः तदा ॥ २।५।२१।३० ॥
tatas parājitāḥ daityāḥ api abhūvan mahā-utsavāḥ .. jagarjuḥ adhikam vyāsa samarāya udyatāḥ tadā .. 2.5.21.30 ..
सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ॥ नन्दिकार्तिकदंत्यास्यवीरभद्रादिका मुने ॥ ३१ ॥
सर्वे रुद्र-गणाः च अपि जगर्जुः जय-शालिनः ॥ नन्दि-कार्तिक-दंत्यास्य-वीरभद्र-आदिकाः मुने ॥ ३१ ॥
sarve rudra-gaṇāḥ ca api jagarjuḥ jaya-śālinaḥ .. nandi-kārtika-daṃtyāsya-vīrabhadra-ādikāḥ mune .. 31 ..
हस्त्यश्वरथसंह्रादश्शंखभेरीरवस्तथा ॥ अभवत्सिंहनादश्च सेनयोरुभयोस्तथा ॥ ३२ ॥
हस्ति-अश्व-रथ-संह्रादः शंख-भेरी-रवः तथा ॥ अभवत् सिंहनादः च सेनयोः उभयोः तथा ॥ ३२ ॥
hasti-aśva-ratha-saṃhrādaḥ śaṃkha-bherī-ravaḥ tathā .. abhavat siṃhanādaḥ ca senayoḥ ubhayoḥ tathā .. 32 ..
जलंधरशरव्रातैर्नीहारपटलैरिव ॥ द्यावापृथिव्योराच्छन्नमंतरं समपद्यत ॥ ३३॥
जलंधर-शर-व्रातैः नीहार-पटलैः इव ॥ द्यावापृथिव्योः आच्छन्नम् अंतरम् समपद्यत ॥ ३३॥
jalaṃdhara-śara-vrātaiḥ nīhāra-paṭalaiḥ iva .. dyāvāpṛthivyoḥ ācchannam aṃtaram samapadyata .. 33..
शैलादिं पंचभिर्विद्ध्वा गणेशं पंचभिश्शरैः ॥ वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ ३४ ॥
शैलादिम् पंचभिः विद्ध्वा गणेशम् पंचभिः शरैः ॥ वीरभद्रम् च विंशत्या ननाद जलद-स्वनः ॥ ३४ ॥
śailādim paṃcabhiḥ viddhvā gaṇeśam paṃcabhiḥ śaraiḥ .. vīrabhadram ca viṃśatyā nanāda jalada-svanaḥ .. 34 ..
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ॥ जलंधरं महावीरो रुद्रपुत्रो ननाद च ॥ ३५ ॥
कार्तिकेयः ततस् दैत्यम् शक्त्या विव्याध स त्वरम् ॥ जलंधरम् महा-वीरः रुद्र-पुत्रः ननाद च ॥ ३५ ॥
kārtikeyaḥ tatas daityam śaktyā vivyādha sa tvaram .. jalaṃdharam mahā-vīraḥ rudra-putraḥ nanāda ca .. 35 ..
स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ॥ पपात भूमौ त्वरितमुदतिष्ठन्महाबलः ॥ ३६ ॥
स पूर्ण-नयनः दैत्यः शक्ति-निर्भिन्न-देहकः ॥ पपात भूमौ त्वरितम् उदतिष्ठत् महा-बलः ॥ ३६ ॥
sa pūrṇa-nayanaḥ daityaḥ śakti-nirbhinna-dehakaḥ .. papāta bhūmau tvaritam udatiṣṭhat mahā-balaḥ .. 36 ..
ततः क्रोधपरीतात्मा कार्तिकेयं जलंधरः ॥ गदया ताडयामास हृदये दैत्यपुंगवः ॥ ३७॥
ततस् क्रोध-परीत-आत्मा कार्तिकेयम् जलंधरः ॥ गदया ताडयामास हृदये दैत्य-पुंगवः ॥ ३७॥
tatas krodha-parīta-ātmā kārtikeyam jalaṃdharaḥ .. gadayā tāḍayāmāsa hṛdaye daitya-puṃgavaḥ .. 37..
गदाप्रभावं सफलं दर्शयन्शंकरात्मजः ॥ विधिदत्तवराद्व्यास स तूर्णं भूतलेऽपतत् ॥ ३८ ॥
गदा-प्रभावम् सफलम् दर्शयन् शंकर-आत्मजः ॥ विधि-दत्त-वरात् व्यास स तूर्णम् भू-तले अपतत् ॥ ३८ ॥
gadā-prabhāvam saphalam darśayan śaṃkara-ātmajaḥ .. vidhi-datta-varāt vyāsa sa tūrṇam bhū-tale apatat .. 38 ..
तथैव नंदी ह्यपतद्भूतले गदया हतः ॥ महावीरोऽपि रिपुहा किंचिद्व्याकुलमानसः ॥ ३९ ॥
तथा एव नंदी हि अपतत् भू-तले गदया हतः ॥ महावीरः अपि रिपु-हा किंचिद् व्याकुल-मानसः ॥ ३९ ॥
tathā eva naṃdī hi apatat bhū-tale gadayā hataḥ .. mahāvīraḥ api ripu-hā kiṃcid vyākula-mānasaḥ .. 39 ..
ततो गणेश्वरः क्रुद्धस्स्मृत्वा शिवपदाम्बुजम् ॥ संप्राप्यातिबलो दैत्य गदां परशुनाच्छिनत् ॥ 2.5.21.४०॥
ततस् गणेश्वरः क्रुद्धः स्मृत्वा शिव-पद-अम्बुजम् ॥ संप्राप्य अतिबलः दैत्य गदाम् परशुना आच्छिनत् ॥ २।५।२१।४०॥
tatas gaṇeśvaraḥ kruddhaḥ smṛtvā śiva-pada-ambujam .. saṃprāpya atibalaḥ daitya gadām paraśunā ācchinat .. 2.5.21.40..
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥ सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ ४१॥
वीरभद्रः त्रिभिः बाणैः हृदि विव्याध दानवम् ॥ सप्तभिः च हयान् केतुम् धनुः छत्रम् च चिच्छिदे ॥ ४१॥
vīrabhadraḥ tribhiḥ bāṇaiḥ hṛdi vivyādha dānavam .. saptabhiḥ ca hayān ketum dhanuḥ chatram ca cicchide .. 41..
ततोऽतिक्रुद्धो दैत्येन्द्रश्शक्तिमुद्यम्य दारुणाम् ॥ गणेशं पातयामास रथमन्यं समारुहत् ॥ ४२॥
ततस् अति क्रुद्धः दैत्य-इन्द्रः शक्तिम् उद्यम्य दारुणाम् ॥ गणेशम् पातयामास रथम् अन्यम् समारुहत् ॥ ४२॥
tatas ati kruddhaḥ daitya-indraḥ śaktim udyamya dāruṇām .. gaṇeśam pātayāmāsa ratham anyam samāruhat .. 42..
अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ॥ विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः ॥ ४३॥
अभ्यगात् अथ वेगेन स दैत्य-इन्द्रः महा-बलः ॥ विगणय्य हृदा तम् वै वीरभद्रम् रुषा अन्वितः ॥ ४३॥
abhyagāt atha vegena sa daitya-indraḥ mahā-balaḥ .. vigaṇayya hṛdā tam vai vīrabhadram ruṣā anvitaḥ .. 43..
वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ॥ ननाद च महावीरो दैत्यराजो जलंधरः ॥ ४४ ॥
वीरभद्रम् जघान आशु तीक्ष्णेन आशीविषेण तम् ॥ ननाद च महा-वीरः दैत्य-राजः जलंधरः ॥ ४४ ॥
vīrabhadram jaghāna āśu tīkṣṇena āśīviṣeṇa tam .. nanāda ca mahā-vīraḥ daitya-rājaḥ jalaṃdharaḥ .. 44 ..
वीरभद्रोऽपि संकुद्धस्सितधारेण चेषुणा ॥ चिच्छेद तच्छरं चैव विव्याध महेषुणा ॥ ४५॥
वीरभद्रः अपि संकुद्धः सित-धारेण च इषुणा ॥ चिच्छेद तद्-शरम् च एव विव्याध महा-इषुणा ॥ ४५॥
vīrabhadraḥ api saṃkuddhaḥ sita-dhāreṇa ca iṣuṇā .. ciccheda tad-śaram ca eva vivyādha mahā-iṣuṇā .. 45..
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ॥ नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ ॥ ४६ ॥
ततस् तौ सूर्य-संकाशौ युयुधाते परस्परम् ॥ नाना शस्त्रैः तथा अस्त्रैः च चिरम् वीर-वर-उत्तमौ ॥ ४६ ॥
tatas tau sūrya-saṃkāśau yuyudhāte parasparam .. nānā śastraiḥ tathā astraiḥ ca ciram vīra-vara-uttamau .. 46 ..
वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ॥ धनुश्चिच्छेद रथिनः पताकां चापि वेगतः ॥ ४७ ॥
वीरभद्रः ततस् तस्य हयान् बाणैः अपातयत् ॥ धनुः चिच्छेद रथिनः पताकाम् च अपि वेगतः ॥ ४७ ॥
vīrabhadraḥ tatas tasya hayān bāṇaiḥ apātayat .. dhanuḥ ciccheda rathinaḥ patākām ca api vegataḥ .. 47 ..
अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ॥ वीरभद्रोपकठं स द्रुतमाप महाबलः ॥ ४८ ॥
अथो स दैत्य-राजः हि पुप्लुवे परिघ-आयुधः ॥ वीरभद्र-उपकठम् स द्रुतम् आप महा-बलः ॥ ४८ ॥
atho sa daitya-rājaḥ hi pupluve parigha-āyudhaḥ .. vīrabhadra-upakaṭham sa drutam āpa mahā-balaḥ .. 48 ..
परिघेनातिमहता वीरभद्रं जघान ह ॥ सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च ॥ ४९ ॥
परिघेन अति महता वीरभद्रम् जघान ह ॥ सबलः अब्धि-तनयः मूर्ध्नि वीरः जगर्ज च ॥ ४९ ॥
parighena ati mahatā vīrabhadram jaghāna ha .. sabalaḥ abdhi-tanayaḥ mūrdhni vīraḥ jagarja ca .. 49 ..
परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ॥ वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु ॥ 2.5.21.५०॥
परिघेन अति महता भिन्न-मूर्द्धा गणाधिपः ॥ वीरभद्रः पपात उर्व्याम् मुमोच रुधिरम् बहु ॥ २।५।२१।५०॥
parighena ati mahatā bhinna-mūrddhā gaṇādhipaḥ .. vīrabhadraḥ papāta urvyām mumoca rudhiram bahu .. 2.5.21.50..
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥ अपागच्छन्रणं हित्वा क्रोशमाना महेश्वरम् ॥ ५१ ॥
पतितम् वीरभद्रम् तु दृष्ट्वा रुद्र-गणाः भयात् ॥ अपागच्छन् रणम् हित्वा क्रोशमानाः महेश्वरम् ॥ ५१ ॥
patitam vīrabhadram tu dṛṣṭvā rudra-gaṇāḥ bhayāt .. apāgacchan raṇam hitvā krośamānāḥ maheśvaram .. 51 ..
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥ निजपार्श्वस्थितान् वीरानपृच्छद्गणसत्तमान् ॥ ५२ ॥
अथ कोलाहलम् श्रुत्वा गणानाम् चन्द्रशेखरः ॥ निज-पार्श्व-स्थितान् वीरान् अपृच्छत् गण-सत्तमान् ॥ ५२ ॥
atha kolāhalam śrutvā gaṇānām candraśekharaḥ .. nija-pārśva-sthitān vīrān apṛcchat gaṇa-sattamān .. 52 ..
शंकर उवाच ।।
किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् ॥ विचार्यतां महावीराश्शांतिः कार्या मया ध्रुवम् ॥ ५३॥
किमर्थम् मद्-गणानाम् हि महा-कोलाहलः अभवत् ॥ विचार्यताम् महावीराः शांतिः कार्या मया ध्रुवम् ॥ ५३॥
kimartham mad-gaṇānām hi mahā-kolāhalaḥ abhavat .. vicāryatām mahāvīrāḥ śāṃtiḥ kāryā mayā dhruvam .. 53..
यावत्स देवेशो गणान्पप्रच्छ सादरम् ॥ तावद्गणवरास्ते हि समायाताः प्रभुं प्रति ॥ ५४ ॥
यावत् स देवेशः गणान् पप्रच्छ सादरम् ॥ तावत् गण-वराः ते हि समायाताः प्रभुम् प्रति ॥ ५४ ॥
yāvat sa deveśaḥ gaṇān papraccha sādaram .. tāvat gaṇa-varāḥ te hi samāyātāḥ prabhum prati .. 54 ..
तान्दृष्ट्वा विकलान्रुद्रः पप्रच्छ इति कुशलं प्रभुः ॥ यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात् ॥ ५५॥
तान् दृष्ट्वा विकलान् रुद्रः पप्रच्छ इति कुशलम् प्रभुः ॥ यथावत् ते गणाः वृत्तम् समाचख्युः च विस्तरात् ॥ ५५॥
tān dṛṣṭvā vikalān rudraḥ papraccha iti kuśalam prabhuḥ .. yathāvat te gaṇāḥ vṛttam samācakhyuḥ ca vistarāt .. 55..
तच्छ्रुत्वा भगवानुद्रो महालीलाकरः प्रभुः ॥ अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन् ॥ ५६॥
तत् श्रुत्वा भगवान् उद्रः महा-लीला-करः प्रभुः ॥ अभयम् दत्तवान् तेभ्यः महा-उत्साहम् प्रवर्द्धयन् ॥ ५६॥
tat śrutvā bhagavān udraḥ mahā-līlā-karaḥ prabhuḥ .. abhayam dattavān tebhyaḥ mahā-utsāham pravarddhayan .. 56..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरोपाख्याने विशे षयुद्धवर्णनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे जलंधर-उपाख्याने विशे षयुद्धवर्णनम् नाम एकविंशतितमः अध्यायः ॥ २१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe jalaṃdhara-upākhyāne viśe ṣayuddhavarṇanam nāma ekaviṃśatitamaḥ adhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In