| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ॥ अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव ॥ १ ॥
अथ वीर-गणैः रुद्रः रौद्र-रूपः महा-प्रभुः ॥ अभ्यगात् वृषभ-आरूढः संग्रामम् प्रहसन् इव ॥ १ ॥
atha vīra-gaṇaiḥ rudraḥ raudra-rūpaḥ mahā-prabhuḥ .. abhyagāt vṛṣabha-ārūḍhaḥ saṃgrāmam prahasan iva .. 1 ..
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ॥ निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः ॥ २ ॥
रुद्र-मायाम् तम् आलोक्य सिंह-नादैः गणाः पुनर् ॥ निवृत्ताः संगरे रौद्राः ये हि पूर्वम् पराजिताः ॥ २ ॥
rudra-māyām tam ālokya siṃha-nādaiḥ gaṇāḥ punar .. nivṛttāḥ saṃgare raudrāḥ ye hi pūrvam parājitāḥ .. 2 ..
वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः ॥ सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः ॥ ३ ॥
वीर शब्दम् च कुर्वन्तः ते अपि अन्ये शांकराः गणाः ॥ स उत्सवाः स आयुधाः दैत्यान् निजघ्नुः शर-वृष्टिभिः ॥ ३ ॥
vīra śabdam ca kurvantaḥ te api anye śāṃkarāḥ gaṇāḥ .. sa utsavāḥ sa āyudhāḥ daityān nijaghnuḥ śara-vṛṣṭibhiḥ .. 3 ..
दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ॥ शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ॥ ४ ॥
दैत्याः हि भीषणम् रुद्रम् सर्वे दृष्ट्वा विदुद्रुवुः ॥ शांकरम् पुरुषम् दृष्ट्वा पातकानि इव तद्-भयात् ॥ ४ ॥
daityāḥ hi bhīṣaṇam rudram sarve dṛṣṭvā vidudruvuḥ .. śāṃkaram puruṣam dṛṣṭvā pātakāni iva tad-bhayāt .. 4 ..
अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ॥ अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः ॥ ५ ॥
अथो जलंधरः दैत्यान् निवृत्तान् प्रेक्ष्य संगरे ॥ अभ्यधावत् स चंडीशम् मुंचन् बाणान् सहस्रशस् ॥ ५ ॥
atho jalaṃdharaḥ daityān nivṛttān prekṣya saṃgare .. abhyadhāvat sa caṃḍīśam muṃcan bāṇān sahasraśas .. 5 ..
निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः ॥ अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः ॥ ६ ॥
निशुंभ-शुंभ-प्रमुखाः दैत्य-इन्द्राः च सहस्रशस् ॥ अभिजग्मुः शिवम् वेगात् रोषात् संदष्ट-दच्छदाः ॥ ६ ॥
niśuṃbha-śuṃbha-pramukhāḥ daitya-indrāḥ ca sahasraśas .. abhijagmuḥ śivam vegāt roṣāt saṃdaṣṭa-dacchadāḥ .. 6 ..
कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ॥ घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः ॥ ७ ॥
कालनेमिः तथा वीरः खड्गरोमा बलाहकः ॥ घस्मरः च प्रचंडः च अपरे च अपि शिवम् ययुः ॥ ७ ॥
kālanemiḥ tathā vīraḥ khaḍgaromā balāhakaḥ .. ghasmaraḥ ca pracaṃḍaḥ ca apare ca api śivam yayuḥ .. 7 ..
बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते ॥ अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने ॥ ८॥
बाणैः संछादयामासुः द्रुतम् रुद्र-गणान् च ते ॥ अंगानि चिच्छिदुः वीराः शुंभ-आद्याः निखिलाः मुने ॥ ८॥
bāṇaiḥ saṃchādayāmāsuḥ drutam rudra-gaṇān ca te .. aṃgāni cicchiduḥ vīrāḥ śuṃbha-ādyāḥ nikhilāḥ mune .. 8..
बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः ॥ तद्बाणजालमाच्छिद्य बाणैराववृते नभः ॥ ९ ॥
बाण-अंधकार-संछन्नम् दृष्ट्वा गण-बलम् हरः ॥ तत् बाण-जालम् आच्छिद्य बाणैः आववृते नभः ॥ ९ ॥
bāṇa-aṃdhakāra-saṃchannam dṛṣṭvā gaṇa-balam haraḥ .. tat bāṇa-jālam ācchidya bāṇaiḥ āvavṛte nabhaḥ .. 9 ..
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥ प्रचंडबाणजालोघैरपातयत भूतले ॥ 2.5.22.१०॥
दैत्यान् च बाण-वात्याभिः पीडितान् अकरोत् तदा ॥ प्रचंड-बाण-जाल-ओघैः अपातयत भू-तले ॥ २।५।२२।१०॥
daityān ca bāṇa-vātyābhiḥ pīḍitān akarot tadā .. pracaṃḍa-bāṇa-jāla-oghaiḥ apātayata bhū-tale .. 2.5.22.10..
खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ॥ बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा ॥ ११॥
खड्ग-रोम-शिरः कायात् तथा परशुना आच्छिनत् ॥ बलाहकस्य च शिरः खट्वांगेन अकरोत् द्विधा ॥ ११॥
khaḍga-roma-śiraḥ kāyāt tathā paraśunā ācchinat .. balāhakasya ca śiraḥ khaṭvāṃgena akarot dvidhā .. 11..
स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ॥ महावीर प्रचंडं च चकर्त्त विशिखेन ह ॥ १२ ॥
स बद्ध्वा घस्मरम् दैत्यम् पाशेन अभ्यहनत् भुवि ॥ महावीर प्रचंडम् च चकर्त्त विशिखेन ह ॥ १२ ॥
sa baddhvā ghasmaram daityam pāśena abhyahanat bhuvi .. mahāvīra pracaṃḍam ca cakartta viśikhena ha .. 12 ..
वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ॥ न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ॥ १३॥
वृषभेण हताः केचिद् केचिद् बाणैः निपातिता ॥ न शेकुः असुराः स्थातुम् सिंह-अर्दिताः इव ॥ १३॥
vṛṣabheṇa hatāḥ kecid kecid bāṇaiḥ nipātitā .. na śekuḥ asurāḥ sthātum siṃha-arditāḥ iva .. 13..
ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे ॥ शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्॥ १४॥
ततस् क्रोध-परीत-आत्मा दैत्यान् धिक्कृतवान् रणे ॥ शुंभ-आदिकान् महा-दैत्यः प्रहसन् प्राह धैर्यवान्॥ १४॥
tatas krodha-parīta-ātmā daityān dhikkṛtavān raṇe .. śuṃbha-ādikān mahā-daityaḥ prahasan prāha dhairyavān.. 14..
जलंधर उवाच ।।
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ॥ न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ॥ १५॥
किम् वः उच्चरितैः मातुः धावद्भिः पृष्ठतस् हतैः ॥ न हि भीत-वधः श्लाघ्यः स्वर्ग-दः शूर-मानिनाम् ॥ १५॥
kim vaḥ uccaritaiḥ mātuḥ dhāvadbhiḥ pṛṣṭhatas hataiḥ .. na hi bhīta-vadhaḥ ślāghyaḥ svarga-daḥ śūra-māninām .. 15..
यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ॥ अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा॥ १६ ॥
यदि वः प्रधने सारः वा क्षुल्लकाः हृदि ॥ अग्रे तिष्ठत मात्रम् मे न चेद् ग्राम्य-सुखे स्पृहा॥ १६ ॥
yadi vaḥ pradhane sāraḥ vā kṣullakāḥ hṛdi .. agre tiṣṭhata mātram me na ced grāmya-sukhe spṛhā.. 16 ..
रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ॥ यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ॥ १७॥
रणे मृत्युः वरः च अस्ति सर्व-काम-फल-प्रदः ॥ यशः-प्रदः विशेषेण मोक्ष-दः अपि प्रकीर्त्तितः ॥ १७॥
raṇe mṛtyuḥ varaḥ ca asti sarva-kāma-phala-pradaḥ .. yaśaḥ-pradaḥ viśeṣeṇa mokṣa-daḥ api prakīrttitaḥ .. 17..
सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् ॥ परिव्राट् परमज्ञानी रणे यत्संमुखे हतः ॥ १८॥
सूर्यस्य मंडलम् भित्त्वा यायात् वै परमम् पदम् ॥ परिव्राज् परम-ज्ञानी रणे यद्-संमुखे हतः ॥ १८॥
sūryasya maṃḍalam bhittvā yāyāt vai paramam padam .. parivrāj parama-jñānī raṇe yad-saṃmukhe hataḥ .. 18..
मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः॥ अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि ॥ १९॥
मृत्योः भयम् न कर्तव्यम् कदाचिद् कुत्रचिद् बुधैः॥ अनिर्वार्यः यतस् हि एषः उपायैः निखिलैः अपि ॥ १९॥
mṛtyoḥ bhayam na kartavyam kadācid kutracid budhaiḥ.. anirvāryaḥ yatas hi eṣaḥ upāyaiḥ nikhilaiḥ api .. 19..
मृत्युर्जन्मवतां वीरा देहेन सह जायते॥ अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः ॥ 2.5.22.२०॥
मृत्युः जन्मवताम् वीराः देहेन सह जायते॥ अद्य वा अब्द-शतात् वा मृत्युः वै प्राणिनाम् ध्रुवः ॥ २।५।२२।२०॥
mṛtyuḥ janmavatām vīrāḥ dehena saha jāyate.. adya vā abda-śatāt vā mṛtyuḥ vai prāṇinām dhruvaḥ .. 2.5.22.20..
तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ॥ सर्वथा परमानन्द इहामुत्राप्यसंशयः ॥ २१॥
तत् मृत्यु-भयम् उत्सार्य युध्यध्वम् समरे मुदा ॥ सर्वथा परमानन्दः इह अमुत्र अपि असंशयः ॥ २१॥
tat mṛtyu-bhayam utsārya yudhyadhvam samare mudā .. sarvathā paramānandaḥ iha amutra api asaṃśayaḥ .. 21..
सनत्कुमार उवाच ।।
इत्युक्त्वा बोधयामास स्ववीरान्बहुशस्स हि॥ धैर्यं दधुर्न ते भीता पलायंत रणाद्द्रुतम् ॥ २२॥
इति उक्त्वा बोधयामास स्व-वीरान् बहुशस् स हि॥ धैर्यम् दधुः न ते भीता पलायन्त रणात् द्रुतम् ॥ २२॥
iti uktvā bodhayāmāsa sva-vīrān bahuśas sa hi.. dhairyam dadhuḥ na te bhītā palāyanta raṇāt drutam .. 22..
अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् ॥ चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः ॥ २३॥
अथ दृष्ट्वा स्व-सैन्यम् तत् पलायन-परायणम् ॥ चुक्रोध अति महा-वीरः सिंधु-पुत्रः जलंधरः ॥ २३॥
atha dṛṣṭvā sva-sainyam tat palāyana-parāyaṇam .. cukrodha ati mahā-vīraḥ siṃdhu-putraḥ jalaṃdharaḥ .. 23..
ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः॥ आह्वापयामास रणे तीव्राशनिसमस्वनः ॥ २४ ॥
ततस् क्रोध-परीत-आत्मा क्रोधात् रुद्रम् जलंधरः॥ आह्वापयामास रणे तीव्र-अशनि-सम-स्वनः ॥ २४ ॥
tatas krodha-parīta-ātmā krodhāt rudram jalaṃdharaḥ.. āhvāpayāmāsa raṇe tīvra-aśani-sama-svanaḥ .. 24 ..
।। जलंधर उवाच ।।
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ॥ यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥ २५॥
युद्ध्यस्व अद्य मया सार्द्धम् किम् एभिः निहतैः तव ॥ यत् च किञ्चिद् बलम् ते अस्ति तत् दर्शय जटाधर ॥ २५॥
yuddhyasva adya mayā sārddham kim ebhiḥ nihataiḥ tava .. yat ca kiñcid balam te asti tat darśaya jaṭādhara .. 25..
सनत्कुमार उवाच ।।
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ॥ जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम् ॥ २६ ॥
इति उक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ॥ जलंधरः महा-दैत्यः शंभुम् अक्लिष्ट-कारिणम् ॥ २६ ॥
iti uktvā bāṇa saptatyā jaghāna vṛṣabhadhvajam .. jalaṃdharaḥ mahā-daityaḥ śaṃbhum akliṣṭa-kāriṇam .. 26 ..
तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम्॥ निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव॥ २७॥
तान् अप्राप्तान् महादेवः जलंधर-शरान् द्रुतम्॥ निजैः हि निशितैः बाणैः चिच्छेद प्रहसन् इव॥ २७॥
tān aprāptān mahādevaḥ jalaṃdhara-śarān drutam.. nijaiḥ hi niśitaiḥ bāṇaiḥ ciccheda prahasan iva.. 27..
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ॥ जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने ॥ २८ ॥
ततस् हयान् ध्वजम् छत्रम् धनुः चिच्छेद सप्तभिः ॥ जलंधरस्य दैत्यस्य न तत् चित्रम् हरे मुने ॥ २८ ॥
tatas hayān dhvajam chatram dhanuḥ ciccheda saptabhiḥ .. jalaṃdharasya daityasya na tat citram hare mune .. 28 ..
स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ॥ अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्॥ २९ ॥
स छिन्न-धन्वा विरथः पाथोधि-तनयः असुरः ॥ अभ्यधावत् शिवम् क्रुद्धः गदाम् उद्यम्य वेगवान्॥ २९ ॥
sa chinna-dhanvā virathaḥ pāthodhi-tanayaḥ asuraḥ .. abhyadhāvat śivam kruddhaḥ gadām udyamya vegavān.. 29 ..
प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ॥ पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत् ॥ 2.5.22.३०॥
प्रभुः गदाम् च तद्-क्षिप्ताम् सहसा एव महेश्वरः ॥ पाराशर्यम् महा-लीलः द्रुतम् बाणैः द्विधा अकरोत् ॥ २।५।२२।३०॥
prabhuḥ gadām ca tad-kṣiptām sahasā eva maheśvaraḥ .. pārāśaryam mahā-līlaḥ drutam bāṇaiḥ dvidhā akarot .. 2.5.22.30..
तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ॥ अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया॥ ३१॥
तथा अपि मुष्टिम् उद्यम्य महा-क्रुद्धः महा-असुरः ॥ अभ्युद्ययौ महा-वेगात् द्रुतम् तम् तद्-जिघांसया॥ ३१॥
tathā api muṣṭim udyamya mahā-kruddhaḥ mahā-asuraḥ .. abhyudyayau mahā-vegāt drutam tam tad-jighāṃsayā.. 31..
तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः ॥ अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ॥ ३२॥
तावत् एव ईश्वरेण आशु बाण-ओघैः स जलंधरः ॥ अक्लिष्ट-कर्मकारेण क्रोश-मात्रम् अपाकृतः ॥ ३२॥
tāvat eva īśvareṇa āśu bāṇa-oghaiḥ sa jalaṃdharaḥ .. akliṣṭa-karmakāreṇa krośa-mātram apākṛtaḥ .. 32..
ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् ॥ ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्॥ ३३॥
ततस् जलंधरः दैत्यः रुद्रम् मत्वा बल-अधिकम् ॥ ससर्ज मायाम् गांधर्वीम् अद्भुताम् रुद्र-मोहिनीम्॥ ३३॥
tatas jalaṃdharaḥ daityaḥ rudram matvā bala-adhikam .. sasarja māyām gāṃdharvīm adbhutām rudra-mohinīm.. 33..
तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः ॥ आविर्भूता अनेके च रुद्रमोहनहेतवे॥ ३४॥
तस्य माया-प्रभावात् तु गंधर्व-अप्सरसाम् गणाः ॥ आविर्भूताः अनेके च रुद्र-मोहन-हेतवे॥ ३४॥
tasya māyā-prabhāvāt tu gaṃdharva-apsarasām gaṇāḥ .. āvirbhūtāḥ aneke ca rudra-mohana-hetave.. 34..
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः॥ तालवेणुमृदंगांश्च वादयन्तिस्म चापरे ॥ ३५॥
ततस् जगुः च ननृतुः गंधर्व-अप्सरसाम् गणाः॥ ताल-वेणु-मृदंगान् च वादयन्तिस्म स्म च अपरे ॥ ३५॥
tatas jaguḥ ca nanṛtuḥ gaṃdharva-apsarasām gaṇāḥ.. tāla-veṇu-mṛdaṃgān ca vādayantisma sma ca apare .. 35..
तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः ॥ पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥ ३६॥
तत् दृष्ट्वा महत् आश्चर्यम् गणैः रुद्रः विमोहितः ॥ पतितानि अपि शस्त्राणि करेभ्यः न विवेद सः ॥ ३६॥
tat dṛṣṭvā mahat āścaryam gaṇaiḥ rudraḥ vimohitaḥ .. patitāni api śastrāṇi karebhyaḥ na viveda saḥ .. 36..
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः॥ कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्॥ ३७ ॥
एकाग्रीभूतम् आलोक्य रुद्रम् दैत्यः जलंधरः॥ कामतः स जगाम आशु यत्र गौरी स्थिता अभवत्॥ ३७ ॥
ekāgrībhūtam ālokya rudram daityaḥ jalaṃdharaḥ.. kāmataḥ sa jagāma āśu yatra gaurī sthitā abhavat.. 37 ..
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ॥ दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः ॥ ३८॥
युद्धे शुंभ-निशुंभ-आख्यौ स्थापयित्वा महा-बलौ ॥ दश-दोस्-दण्ड-पंचास्यः त्रिनेत्रः च जटाधरः ॥ ३८॥
yuddhe śuṃbha-niśuṃbha-ākhyau sthāpayitvā mahā-balau .. daśa-dos-daṇḍa-paṃcāsyaḥ trinetraḥ ca jaṭādharaḥ .. 38..
महावृषभमारूढस्सर्वथा रुद्रसंनिभः ॥ आसुर्य्या मायया व्यास स बभूव जलंधरः ॥ ३९॥
महा-वृषभम् आरूढः सर्वथा रुद्र-संनिभः ॥ आसुर्य्या मायया व्यास स बभूव जलंधरः ॥ ३९॥
mahā-vṛṣabham ārūḍhaḥ sarvathā rudra-saṃnibhaḥ .. āsuryyā māyayā vyāsa sa babhūva jalaṃdharaḥ .. 39..
अथ रुद्रं समायातमालोक्य भववल्लभा ॥ अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ 2.5.22.४०॥
अथ रुद्रम् समायातम् आलोक्य भव-वल्लभा ॥ अभ्याययौ सखी-मध्यात् तद्-दर्शन-पथे अभवत् ॥ २।५।२२।४०॥
atha rudram samāyātam ālokya bhava-vallabhā .. abhyāyayau sakhī-madhyāt tad-darśana-pathe abhavat .. 2.5.22.40..
यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः ॥ तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा॥ ४१ ॥
यावत् ददर्श चार्वंगी पार्वतीम् दनुज-ईश्वरः ॥ तावत् स वीर्यम् मुमुचे जड-अंगः च अभवत् तदा॥ ४१ ॥
yāvat dadarśa cārvaṃgī pārvatīm danuja-īśvaraḥ .. tāvat sa vīryam mumuce jaḍa-aṃgaḥ ca abhavat tadā.. 41 ..
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ॥ जगामांतर्हिता वेगात्सा तदोत्तरमानसम्॥ ४२॥
अथ ज्ञात्वा तदा गौरी दानवम् भय-विह्वला ॥ जगाम अंतर्हिता वेगात् सा तदा उत्तर-मानसम्॥ ४२॥
atha jñātvā tadā gaurī dānavam bhaya-vihvalā .. jagāma aṃtarhitā vegāt sā tadā uttara-mānasam.. 42..
तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव॥ जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ॥ ४३॥
ताम् अ दृश्य ततस् दैत्यः क्षणात् विद्युत्-लताम् इव॥ जवेन अगात् पुनर् योद्धुम् यत्र देवः महेश्वरः ॥ ४३॥
tām a dṛśya tatas daityaḥ kṣaṇāt vidyut-latām iva.. javena agāt punar yoddhum yatra devaḥ maheśvaraḥ .. 43..
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ॥ तावद्ददर्श तं देवं सोपविष्टं समीपगम् ॥ ४४॥
पार्वती अपि महा-विष्णुम् सस्मार मनसा तदा ॥ तावत् ददर्श तम् देवम् स उपविष्टम् समीप-गम् ॥ ४४॥
pārvatī api mahā-viṣṇum sasmāra manasā tadā .. tāvat dadarśa tam devam sa upaviṣṭam samīpa-gam .. 44..
तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया ॥ प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम् ॥ ४५॥
तम् दृष्ट्वा पार्वती विष्णुम् जगन्माता शिवप्रिया ॥ प्रसन्न-मनसा उवाच प्रणमंतम् कृत-अंजलिम् ॥ ४५॥
tam dṛṣṭvā pārvatī viṣṇum jaganmātā śivapriyā .. prasanna-manasā uvāca praṇamaṃtam kṛta-aṃjalim .. 45..
पार्वत्युवाच ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ॥ तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ ४६ ॥
विष्णो जलंधरः दैत्यः कृतवान् परम-अद्भुतम् ॥ तत् किम् न विदितम् ते अस्ति चेष्टितम् तस्य दुर्मतेः ॥ ४६ ॥
viṣṇo jalaṃdharaḥ daityaḥ kṛtavān parama-adbhutam .. tat kim na viditam te asti ceṣṭitam tasya durmateḥ .. 46 ..
तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ॥ प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः ॥ ४७ ॥
तत् श्रुत्वा जगदम्बायाः वचनम् गरुडध्वजः ॥ प्रत्युवाच शिवाम् नत्वा स अंजलिः नम्र-कंधरः ॥ ४७ ॥
tat śrutvā jagadambāyāḥ vacanam garuḍadhvajaḥ .. pratyuvāca śivām natvā sa aṃjaliḥ namra-kaṃdharaḥ .. 47 ..
।। श्रीभगवानुवाच ।।
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ॥ यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ॥ ४८॥
भवत्याः कृपया देवि तत् वृत्तम् विदितम् मया ॥ यत् आज्ञापय माम् मातर् तत् कुर्य्याम् त्वद्-अनुज्ञया ॥ ४८॥
bhavatyāḥ kṛpayā devi tat vṛttam viditam mayā .. yat ājñāpaya mām mātar tat kuryyām tvad-anujñayā .. 48..
सनत्कुमार उचाच ।।
तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती ॥ हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् ॥ ४९ ॥
तत् श्रुत्वा विष्णु-वचनम् पुनर् अपि आह पार्वती ॥ हृषीकेशम् जगन्माता धर्म-नीतिम् सुशिक्षयन् ॥ ४९ ॥
tat śrutvā viṣṇu-vacanam punar api āha pārvatī .. hṛṣīkeśam jaganmātā dharma-nītim suśikṣayan .. 49 ..
पार्वत्युवाच ।।
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ॥ तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ॥ 2.5.22.५०॥
तेन एव दर्शितः पन्थाः बुध्यस्व त्वम् तथा एव हि ॥ तद्-स्त्री-पाति-व्रतम् धर्मम् भ्रष्टम् कुरु मद्-आज्ञया ॥ २।५।२२।५०॥
tena eva darśitaḥ panthāḥ budhyasva tvam tathā eva hi .. tad-strī-pāti-vratam dharmam bhraṣṭam kuru mad-ājñayā .. 2.5.22.50..
नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर॥ पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ॥ ५१ ॥
न अन्यथा स महा-दैत्यः भवेत् वध्यः रमेश्वर॥ पातिव्रत-समः न अन्यः धर्मः अस्ति पृथिवी-तले ॥ ५१ ॥
na anyathā sa mahā-daityaḥ bhavet vadhyaḥ rameśvara.. pātivrata-samaḥ na anyaḥ dharmaḥ asti pṛthivī-tale .. 51 ..
सनत्कुमार उवाच ।।
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ॥ छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम् ॥ ५२ ॥
इति अनुज्ञाम् समाकर्ण्य शिरसा आधाय ताम् हरिः ॥ छल कर्त्तुम् जगाम आशु पुनर् जालंधरम् पुरम् ॥ ५२ ॥
iti anujñām samākarṇya śirasā ādhāya tām hariḥ .. chala karttum jagāma āśu punar jālaṃdharam puram .. 52 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे जलंधर-वध-उपाख्याने जलंधरयुद्धवर्णनम् नाम द्वाविंशः अध्यायः ॥ २२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe jalaṃdhara-vadha-upākhyāne jalaṃdharayuddhavarṇanam nāma dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In