| |
|

This overlay will guide you through the buttons:

व्यास उवाच।।
सनत्कुमार सर्वज्ञ वद त्वं वदतां वर॥ किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ॥ १ ॥
सनत्कुमार सर्वज्ञ वद त्वम् वदताम् वर॥ किम् अकार्षीत् हरिः तत्र धर्मम् तत्याज सा कथम् ॥ १ ॥
sanatkumāra sarvajña vada tvam vadatām vara.. kim akārṣīt hariḥ tatra dharmam tatyāja sā katham .. 1 ..
सनत्कुमार उपाच ।।
विष्णुर्जालंधरं गत्वा दैत्यस्य पुटभेदनम् ॥ पातिव्रत्यस्य भंगाय वृन्दायाश्चा करोन्मतिम् ॥ ॥ २ ॥
विष्णुः जालंधरम् गत्वा दैत्यस्य पुटभेदनम् ॥ पातिव्रत्यस्य भंगाय करोत् मतिम् ॥ ॥ २ ॥
viṣṇuḥ jālaṃdharam gatvā daityasya puṭabhedanam .. pātivratyasya bhaṃgāya karot matim .. .. 2 ..
वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः ॥ स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ॥ ३ ॥
वृन्दाम् स दर्शयामास स्वप्नम् मायाविनाम् वरः ॥ स्वयम् तत् नगर-उद्यानम् आस्थितः अद्भुत-विग्रहः ॥ ३ ॥
vṛndām sa darśayāmāsa svapnam māyāvinām varaḥ .. svayam tat nagara-udyānam āsthitaḥ adbhuta-vigrahaḥ .. 3 ..
अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता॥ हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह ॥ ४॥
अथ वृन्दा तदा देवी तद्-पत्नी निशि सुव्रता॥ हरेः माया-प्रभावात् तु दुस्स्वप्नम् सा ददर्श ह ॥ ४॥
atha vṛndā tadā devī tad-patnī niśi suvratā.. hareḥ māyā-prabhāvāt tu dussvapnam sā dadarśa ha .. 4..
स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह ॥ भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् ॥ ५ ॥
स्वप्न-मध्ये हि सा विष्णु-मायया प्रददर्श ह ॥ भर्त्तारम् महिष-आरूढम् तैल-अभ्यक्तम् दिश्-अंबरम् ॥ ५ ॥
svapna-madhye hi sā viṣṇu-māyayā pradadarśa ha .. bharttāram mahiṣa-ārūḍham taila-abhyaktam diś-aṃbaram .. 5 ..
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ॥ दक्षिणाशां गतं मुंडं तमसा च वृतं तदा ॥ ६॥
कृष्ण-प्रसून-भूषा-आढ्यम् क्रव्याद-गण-सेवितम् ॥ दक्षिण-आशाम् गतम् मुंडम् तमसा च वृतम् तदा ॥ ६॥
kṛṣṇa-prasūna-bhūṣā-āḍhyam kravyāda-gaṇa-sevitam .. dakṣiṇa-āśām gatam muṃḍam tamasā ca vṛtam tadā .. 6..
स्वपुरं सागरे मग्नं सहसैवात्मना सह ॥ इत्यादि बहुदुस्स्वप्नान्निशांते सा ददर्श ह ॥ ७॥
स्व-पुरम् सागरे मग्नम् सहसा एव आत्मना सह ॥ इत्यादि बहु-दुस्स्वप्नात् निशा-अंते सा ददर्श ह ॥ ७॥
sva-puram sāgare magnam sahasā eva ātmanā saha .. ityādi bahu-dussvapnāt niśā-aṃte sā dadarśa ha .. 7..
ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती ॥ ददर्शोदितमादित्यं सच्छिद्रं निःप्रभं मुहुः ॥ ८॥
ततस् प्रबुध्य सा बाला तम् स्वप्नम् स्वम् विचिन्वती ॥ ददर्श उदितम् आदित्यम् स छिद्रम् निःप्रभम् मुहुर् ॥ ८॥
tatas prabudhya sā bālā tam svapnam svam vicinvatī .. dadarśa uditam ādityam sa chidram niḥprabham muhur .. 8..
तदनिष्टमिदं ज्ञात्वा रुदंती भयविह्वला ॥ कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ॥ ९॥
तत् अनिष्टम् इदम् ज्ञात्वा रुदंती भय-विह्वला ॥ कुत्रचिद् ना आप सा शर्म गोपुर-अट्टाल-भूमिषु ॥ ९॥
tat aniṣṭam idam jñātvā rudaṃtī bhaya-vihvalā .. kutracid nā āpa sā śarma gopura-aṭṭāla-bhūmiṣu .. 9..
ततस्सखीद्वययुता नगरोद्यानमागमत् ॥ तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ॥ 2.5.23.१०॥
ततस् सखी-द्वय-युता नगर-उद्यानम् आगमत् ॥ तत्र अपि सा गता बाला न प्राप कुत्रचिद् सुखम् ॥ २।५।२३।१०॥
tatas sakhī-dvaya-yutā nagara-udyānam āgamat .. tatra api sā gatā bālā na prāpa kutracid sukham .. 2.5.23.10..
ततो जलंधरस्त्री सा निर्विण्णोद्विग्नमानसा ॥ वनाद्वनांतरं याता नैव वेदात्मना तदा ॥ ११॥
ततस् जलंधर-स्त्री सा निर्विण्ण-उद्विग्न-मानसा ॥ वनात् वन-अंतरम् याता ना एव वेद आत्मना तदा ॥ ११॥
tatas jalaṃdhara-strī sā nirviṇṇa-udvigna-mānasā .. vanāt vana-aṃtaram yātā nā eva veda ātmanā tadā .. 11..
भ्रमती सा ततो बाला ददर्शातीव भीषणौ ॥ राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ॥ १२ ॥
भ्रमती सा ततस् बाला ददर्श अतीव भीषणौ ॥ राक्षसौ सिंह-वदनौ दृष्ट्वा दशन-भासुरौ ॥ १२ ॥
bhramatī sā tatas bālā dadarśa atīva bhīṣaṇau .. rākṣasau siṃha-vadanau dṛṣṭvā daśana-bhāsurau .. 12 ..
तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ॥ ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ॥ १३ ॥
तौ दृष्ट्वा विह्वला अतीव पलायन-परा तदा ॥ ददर्श तापसम् शांतम् स शिष्यम् मौनम् आस्थितम् ॥ १३ ॥
tau dṛṣṭvā vihvalā atīva palāyana-parā tadā .. dadarśa tāpasam śāṃtam sa śiṣyam maunam āsthitam .. 13 ..
ततस्तत्कंठमासाद्य निजां बाहुलतां भयात् ॥ मुने मां रक्ष शरणमागतास्मीत्यभाषत ॥ १४ ॥
ततस् तद्-कंठम् आसाद्य निजाम् बाहु-लताम् भयात् ॥ मुने माम् रक्ष शरणम् आगता अस्मि इति अभाषत ॥ १४ ॥
tatas tad-kaṃṭham āsādya nijām bāhu-latām bhayāt .. mune mām rakṣa śaraṇam āgatā asmi iti abhāṣata .. 14 ..
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ॥ हुंकारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ॥ १५ ॥
मुनिः ताम् विह्वलाम् दृष्ट्वा राक्षस-अनुगताम् तदा ॥ हुंकारेण एव तौ घोरौ चकार विमुखौ द्रुतम् ॥ १५ ॥
muniḥ tām vihvalām dṛṣṭvā rākṣasa-anugatām tadā .. huṃkāreṇa eva tau ghorau cakāra vimukhau drutam .. 15 ..
तद्धुंकारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ॥ विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ॥ १६॥
तत् हुंकार-भय-त्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ॥ विस्मिता अतीव दैत्य-इन्द्र-पत्नी सा अभूत् मुने हृदि ॥ १६॥
tat huṃkāra-bhaya-trastau dṛṣṭvā tau vimukhau gatau .. vismitā atīva daitya-indra-patnī sā abhūt mune hṛdi .. 16..
ततस्सा मुनिनाथं तं भयान्मुक्ता कृतांजलिः ॥ प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १७ ॥
ततस् सा मुनि-नाथम् तम् भयात् मुक्ता कृतांजलिः ॥ प्रणम्य दंड-वत् भूमौ वृन्दा वचनम् अब्रवीत् ॥ १७ ॥
tatas sā muni-nātham tam bhayāt muktā kṛtāṃjaliḥ .. praṇamya daṃḍa-vat bhūmau vṛndā vacanam abravīt .. 17 ..
वृन्दोवाच ।।
मुनिनाथ दयासिन्धो परपीडानिवारक ॥ रक्षिताहं त्वया घोराद्भयादस्मात्ख लोद्भवात् ॥ १८ ॥
॥ रक्षिता अहम् त्वया घोरात् भयात् अस्मात् ख ल-उद्भवात् ॥ १८ ॥
.. rakṣitā aham tvayā ghorāt bhayāt asmāt kha la-udbhavāt .. 18 ..
समर्थस्सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे ॥ किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥ १९ ॥
समर्थः सर्वथा त्वम् हि सर्वज्ञः अपि कृपा-निधे ॥ किंचिद् विज्ञप्तुम् इच्छामि कृपया तत् निशामय ॥ १९ ॥
samarthaḥ sarvathā tvam hi sarvajñaḥ api kṛpā-nidhe .. kiṃcid vijñaptum icchāmi kṛpayā tat niśāmaya .. 19 ..
जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ॥ स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ॥ 2.5.23.२०॥
जलंधरः हि मद्-भर्ता रुद्रम् योद्धुम् गतः प्रभो ॥ स तत्र आस्ते कथम् युद्धे तत् मे कथय सुव्रत ॥ २।५।२३।२०॥
jalaṃdharaḥ hi mad-bhartā rudram yoddhum gataḥ prabho .. sa tatra āste katham yuddhe tat me kathaya suvrata .. 2.5.23.20..
सनत्कुमार उवाच ।।
मुनिस्तद्वाक्यमाकर्ण्य मौनकपटमास्थितः ॥ कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्द्ध्वमवैक्षत ॥ २१॥
मुनिः तद्-वाक्यम् आकर्ण्य मौनक-पटम् आस्थितः ॥ कर्त्तुम् स्व-अर्थम् विधान-ज्ञः कृपया ऊर्द्ध्वम् अवैक्षत ॥ २१॥
muniḥ tad-vākyam ākarṇya maunaka-paṭam āsthitaḥ .. karttum sva-artham vidhāna-jñaḥ kṛpayā ūrddhvam avaikṣata .. 21..
तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ॥ ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥ २२ ॥
तावत् कपि-ईशौ आयातौ तम् प्रणम्य अग्रतस् स्थितौ ॥ ततस् तद्-भ्रू-लता-संज्ञा-नियुक्तौ गगनम् गतौ ॥ २२ ॥
tāvat kapi-īśau āyātau tam praṇamya agratas sthitau .. tatas tad-bhrū-latā-saṃjñā-niyuktau gaganam gatau .. 22 ..
नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ ॥ तस्यैव कं कबंधं च हस्तावास्तां मुनीश्वर ॥ २३ ॥
नीत्वा क्षण-अर्द्धम् आगत्य पुनर् तस्य अग्रतस् स्थितौ ॥ तस्य एव कम् कबंधम् च हस्तौ आस्ताम् मुनि-ईश्वर ॥ २३ ॥
nītvā kṣaṇa-arddham āgatya punar tasya agratas sthitau .. tasya eva kam kabaṃdham ca hastau āstām muni-īśvara .. 23 ..
शिरः कबंधं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा ॥ पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥ २४ ॥
शिरः कबंधम् हस्तौ तौ दृष्ट्वा अब्धि-तनयस्य सा ॥ पपात मूर्छिता भूमौ भर्तृ-व्यसन-दुःखिता ॥ २४ ॥
śiraḥ kabaṃdham hastau tau dṛṣṭvā abdhi-tanayasya sā .. papāta mūrchitā bhūmau bhartṛ-vyasana-duḥkhitā .. 24 ..
।। वृन्दोवाच ।।
यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो ॥ स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ २५ ॥
यः पुरा सुख-संवादैः विनोदयसि माम् प्रभो ॥ स कथम् न वदसि अद्य वल्लभाम् माम् अनागसम् ॥ २५ ॥
yaḥ purā sukha-saṃvādaiḥ vinodayasi mām prabho .. sa katham na vadasi adya vallabhām mām anāgasam .. 25 ..
येन देवास्सगंधर्वा निर्जिता विष्णुना सह ॥ कथं स तापसेनाद्य त्रैलोक्यविजयी हत ॥ २५ ॥
येन देवाः स गंधर्वाः निर्जिताः विष्णुना सह ॥ कथम् स तापसेन अद्य त्रैलोक्य-विजयी हत ॥ २५ ॥
yena devāḥ sa gaṃdharvāḥ nirjitāḥ viṣṇunā saha .. katham sa tāpasena adya trailokya-vijayī hata .. 25 ..
नांगीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता ॥ परं ब्रह्म शिवश्चेति वदंत्या दैत्यसत्तम ॥ २७॥
न अंगीकृतम् हि मे वाक्यम् रुद्र-तत्त्वम् अ जानता ॥ परम् ब्रह्म शिवः च इति वदंत्या दैत्य-सत्तम ॥ २७॥
na aṃgīkṛtam hi me vākyam rudra-tattvam a jānatā .. param brahma śivaḥ ca iti vadaṃtyā daitya-sattama .. 27..
ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः ॥ गर्वितेन त्वया नैव कुसंगवशगेन हि ॥ २८॥
ततस् त्वम् हि मया ज्ञातः तव सेवा-प्रभावतः ॥ गर्वितेन त्वया ना एव कुसंग-वशगेन हि ॥ २८॥
tatas tvam hi mayā jñātaḥ tava sevā-prabhāvataḥ .. garvitena tvayā nā eva kusaṃga-vaśagena hi .. 28..
इत्थंप्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया॥ विललाप विचित्रं सा हृदयेन विदूयता ॥ २९॥
इत्थम् प्रभाष्य बहुधा स्वधर्म-स्था च तद्-प्रिया॥ विललाप विचित्रम् सा हृदयेन विदूयता ॥ २९॥
ittham prabhāṣya bahudhā svadharma-sthā ca tad-priyā.. vilalāpa vicitram sā hṛdayena vidūyatā .. 29..
ततस्सा धैर्यमालंब्य दुःखोच्छ्रवा सान्विमुंचती ॥ उवाच मुनिवर्यं तं सुप्रणम्य कृतांजलिः ॥ 2.5.23.३०॥
ततस् सा धैर्यम् आलंब्य दुःख-उच्छ्रवा सा अन्विमुंचती ॥ उवाच मुनि-वर्यम् तम् सु प्रणम्य कृतांजलिः ॥ २।५।२३।३०॥
tatas sā dhairyam ālaṃbya duḥkha-ucchravā sā anvimuṃcatī .. uvāca muni-varyam tam su praṇamya kṛtāṃjaliḥ .. 2.5.23.30..
वृन्दोवाच ।। ।।
कृपानिधे मुनिश्रेष्ठ परोपकरणादर ॥ मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम् ॥ ३१ ॥
कृपा-निधे मुनि-श्रेष्ठ पर-उपकरण-आदर ॥ मयि कृत्वा कृपाम् साधो जीवय एनम् मम प्रभुम् ॥ ३१ ॥
kṛpā-nidhe muni-śreṣṭha para-upakaraṇa-ādara .. mayi kṛtvā kṛpām sādho jīvaya enam mama prabhum .. 31 ..
यत्त्वमस्य पुनश्शक्तो जीवनाय मतो मम ॥ अतस्संजीवयैनं मे प्राणनाथं मुनीश्वर ॥ ३२ ॥
यत् त्वम् अस्य पुनर् शक्तः जीवनाय मतः मम ॥ अतस् संजीवय एनम् मे प्राणनाथम् मुनि-ईश्वर ॥ ३२ ॥
yat tvam asya punar śaktaḥ jīvanāya mataḥ mama .. atas saṃjīvaya enam me prāṇanātham muni-īśvara .. 32 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणाः ॥ पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती ॥ ३३॥
इति उक्त्वा दैत्य-पत्नी सा पतिव्रत्य-परायणाः ॥ पादयोः पतिता तस्य दुःख-श्वासान् विमुञ्चती ॥ ३३॥
iti uktvā daitya-patnī sā pativratya-parāyaṇāḥ .. pādayoḥ patitā tasya duḥkha-śvāsān vimuñcatī .. 33..
मुनिरुवाच ।।
नायं जीवयितुं शक्तो रुद्रेण निहतो युधि ॥ रुद्रेण निहता युद्धे न जीवन्ति कदाचन ॥ ३४॥
न अयम् जीवयितुम् शक्तः रुद्रेण निहतः युधि ॥ रुद्रेण निहताः युद्धे न जीवन्ति कदाचन ॥ ३४॥
na ayam jīvayitum śaktaḥ rudreṇa nihataḥ yudhi .. rudreṇa nihatāḥ yuddhe na jīvanti kadācana .. 34..
तथापि कृपयाविष्ट एनं संजीवयाम्यहम् ॥ रक्ष्याश्शरणगाश्चेति जानन्धर्मं सनातनम् ॥ ३५।
तथा अपि कृपया आविष्टः एनम् संजीवयामि अहम् ॥ रक्ष्याः शरण-गाः च इति जानन् धर्मम् सनातनम् ॥ ३५।
tathā api kṛpayā āviṣṭaḥ enam saṃjīvayāmi aham .. rakṣyāḥ śaraṇa-gāḥ ca iti jānan dharmam sanātanam .. 35.
।। सनत्कुमार उवाच ।।
इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने ॥ अंतर्दधे ततो विष्णुस्सर्वमायाविनां वरः॥ ३६॥
इति उक्त्वा स मुनिः तस्याः जीवयित्वा पतिम् मुने ॥ अंतर्दधे ततस् विष्णुः सर्व-मायाविनाम् वरः॥ ३६॥
iti uktvā sa muniḥ tasyāḥ jīvayitvā patim mune .. aṃtardadhe tatas viṣṇuḥ sarva-māyāvinām varaḥ.. 36..
द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः॥ वृन्दामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः ।३७॥
द्रुतम् स जीवितः तेन उत्थितः सागरनन्दनः॥ वृन्दाम् आलिंग्य तद्-वक्त्रम् चुचुंब प्रीत-मानसः ।३७॥
drutam sa jīvitaḥ tena utthitaḥ sāgaranandanaḥ.. vṛndām āliṃgya tad-vaktram cucuṃba prīta-mānasaḥ .37..
अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा ॥ जहौ शोकं च निखिलं स्वप्नवद्धृद्यमन्यत ॥ ३८॥
अथ वृन्दा अपि भर्तारम् दृष्ट्वा हर्षित-मानसा ॥ जहौ शोकम् च निखिलम् स्वप्न-वत् हृदि अमन्यत ॥ ३८॥
atha vṛndā api bhartāram dṛṣṭvā harṣita-mānasā .. jahau śokam ca nikhilam svapna-vat hṛdi amanyata .. 38..
अथ प्रसन्नहृदया सा हि संजातहृच्छया ॥ रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान् ॥ ३९ ॥
अथ प्रसन्न-हृदया सा हि संजात-हृच्छया ॥ रेमे तद्-वन-मध्य-स्था तद्-युक्ता बहु-वासरान् ॥ ३९ ॥
atha prasanna-hṛdayā sā hi saṃjāta-hṛcchayā .. reme tad-vana-madhya-sthā tad-yuktā bahu-vāsarān .. 39 ..
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ॥ निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ 2.5.23.४०॥
कदाचिद् सुरतस्य अंते दृष्ट्वा विष्णुम् तम् एव हि ॥ निर्भर्त्स्य क्रोध-संयुक्ता वृन्दा वचनम् अब्रवीत् ॥ २।५।२३।४०॥
kadācid suratasya aṃte dṛṣṭvā viṣṇum tam eva hi .. nirbhartsya krodha-saṃyuktā vṛndā vacanam abravīt .. 2.5.23.40..
वृन्दोवाच।।
धिक् तदेवं हरे शीलं परदाराभिगामिनः ॥ ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः॥ ४१॥
धिक् तत् एवम् हरे शीलम् पर-दार-अभिगामिनः ॥ ज्ञातः असि त्वम् मया सम्यक् मायी प्रत्यक्ष-तापसः॥ ४१॥
dhik tat evam hare śīlam para-dāra-abhigāminaḥ .. jñātaḥ asi tvam mayā samyak māyī pratyakṣa-tāpasaḥ.. 41..
सनत्कुमार उवाच ।।
इत्युक्त्वा क्रोधमापन्ना दर्शयंती स्वतेजसम् ॥ शशाप केशवं व्यास पातिव्रत्यरता च सा॥ ४२॥
इति उक्त्वा क्रोधम् आपन्ना दर्शयंती स्व-तेजसम् ॥ शशाप केशवम् व्यास पातिव्रत्य-रता च सा॥ ४२॥
iti uktvā krodham āpannā darśayaṃtī sva-tejasam .. śaśāpa keśavam vyāsa pātivratya-ratā ca sā.. 42..
रे महाधम दैत्यारे परधर्मविदूषक ॥ गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम् ॥ ४३॥
रे महा-अधम दैत्य-अरे पर-धर्म-विदूषक ॥ गृह्णीष्व शठ मद्-दत्तम् शापम् सर्व-विष-उल्बणम् ॥ ४३॥
re mahā-adhama daitya-are para-dharma-vidūṣaka .. gṛhṇīṣva śaṭha mad-dattam śāpam sarva-viṣa-ulbaṇam .. 43..
यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम॥ तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः॥ ४४॥
यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम॥ तौ एव राक्षसौ भूत्वा भार्याम् तव हरिष्यतः॥ ४४॥
yau tvayā māyayā khyātau svakīyau darśitau mama.. tau eva rākṣasau bhūtvā bhāryām tava hariṣyataḥ.. 44..
त्वं चापि भार्यादुःखार्तो वने कपिसहायवान्॥ भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५॥
त्वम् च अपि भार्या-दुःख-आर्तः वने कपि-सहायवान्॥ भ्रम सर्प-ईश्वरेण अयम् यः ते शिष्य-त्वम् आगतः॥
tvam ca api bhāryā-duḥkha-ārtaḥ vane kapi-sahāyavān.. bhrama sarpa-īśvareṇa ayam yaḥ te śiṣya-tvam āgataḥ..
सनत्कुमार उवाच।।
इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम्॥ विष्णुना वार्यमाणापि तस्मितासक्तचेतसा ॥ ४६॥
इति उक्त्वा सा तदा वृन्दा प्रविशत् हव्यवाहनम्॥ विष्णुना वार्यमाणा अपि तद्-स्मित-आसक्त-चेतसा ॥ ४६॥
iti uktvā sā tadā vṛndā praviśat havyavāhanam.. viṣṇunā vāryamāṇā api tad-smita-āsakta-cetasā .. 46..
तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने ॥ आगता खे समं दारैः सद्गतिं वै दिदृक्षवः ॥ ४७॥
तस्मिन् अवसरे देवाः ब्रह्म-आद्याः निखिलाः मुने ॥ आगता खे समम् दारैः सत्-गतिम् वै दिदृक्षवः ॥ ४७॥
tasmin avasare devāḥ brahma-ādyāḥ nikhilāḥ mune .. āgatā khe samam dāraiḥ sat-gatim vai didṛkṣavaḥ .. 47..
अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत्॥ पश्यतां सर्वदेवानामलोकमगमद्द्रुतम्॥ ४८॥
अथ दैत्य-इन्द्र-पत्न्याः तु तत् ज्योतिः परमम् महत्॥ पश्यताम् सर्व-देवानाम् अलोकम् अगमत् द्रुतम्॥ ४८॥
atha daitya-indra-patnyāḥ tu tat jyotiḥ paramam mahat.. paśyatām sarva-devānām alokam agamat drutam.. 48..
शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह ॥ आसीज्जयजयारावः खस्थितामर पंक्तिषु॥ ४९॥
शिवा-तनौ विलीनम् तत् वृन्दा-तेजः बभूव ह ॥ आसीत् जय-जय-आरावः ख-स्थित-अमर पंक्तिषु॥ ४९॥
śivā-tanau vilīnam tat vṛndā-tejaḥ babhūva ha .. āsīt jaya-jaya-ārāvaḥ kha-sthita-amara paṃktiṣu.. 49..
एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा॥ पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने ॥ 2.5.23.५०॥
एवम् वृन्दा महा-राज्ञी कालनेमि-सुता-उत्तमा॥ पातिव्रत्य-प्रभावात् च मुक्तिम् प्राप पराम् मुने ॥ २।५।२३।५०॥
evam vṛndā mahā-rājñī kālanemi-sutā-uttamā.. pātivratya-prabhāvāt ca muktim prāpa parām mune .. 2.5.23.50..
ततो हरिस्तामनुसंस्मन्मुहुर्वृन्दाचिताभस्मरजोवगुंठितः ॥ तत्रैव तस्थौ सुरसिद्धसंघकैः प्रबोध्यमानोपि ययौ न शांतिम् ॥ ५१ ॥
ततस् हरिः ताम् अनुसंस्मन् मुहुर् वृन्दाचिता-भस्म-रजः-वगुंठितः ॥ तत्र एव तस्थौ सुर-सिद्ध-संघकैः प्रबोध्यमानः अपि ययौ न शांतिम् ॥ ५१ ॥
tatas hariḥ tām anusaṃsman muhur vṛndācitā-bhasma-rajaḥ-vaguṃṭhitaḥ .. tatra eva tasthau sura-siddha-saṃghakaiḥ prabodhyamānaḥ api yayau na śāṃtim .. 51 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने वृन्दापतिव्रतभंगदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे जलंधर-वध-उपाख्याने वृन्दापतिव्रतभंगदेहत्यागवर्णनम् नाम त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe jalaṃdhara-vadha-upākhyāne vṛndāpativratabhaṃgadehatyāgavarṇanam nāma trayoviṃśaḥ adhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In