| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता ॥ ततश्च किमभूदाजौ कथं दैत्यो हतो वद ॥ १॥
विधेः श्रेष्ठ-सुत प्राज्ञः कथा इयम् श्राविता अद्भुता ॥ ततस् च किम् अभूत् आजौ कथम् दैत्यः हतः वद ॥ १॥
vidheḥ śreṣṭha-suta prājñaḥ kathā iyam śrāvitā adbhutā .. tatas ca kim abhūt ājau katham daityaḥ hataḥ vada .. 1..
सनत्कुमार उवाच।।
अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ॥ गांधर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ॥ २॥
अ दृश्य गिरिजाम् तत्र दैत्य-इन्द्रे रणम् आगते ॥ गांधर्वे च विलीने हि चैतन्यः अभूत् वृषध्वजः ॥ २॥
a dṛśya girijām tatra daitya-indre raṇam āgate .. gāṃdharve ca vilīne hi caitanyaḥ abhūt vṛṣadhvajaḥ .. 2..
अंतर्धानगतां मायां दृष्ट्वा बुद्धो हि शंकरः ॥ चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ॥ ३ ॥
अंतर्धान-गताम् मायाम् दृष्ट्वा बुद्धः हि शंकरः ॥ चुक्रोध अतीव संहारी लौकिकीम् गतिम् आश्रितः ॥ ३ ॥
aṃtardhāna-gatām māyām dṛṣṭvā buddhaḥ hi śaṃkaraḥ .. cukrodha atīva saṃhārī laukikīm gatim āśritaḥ .. 3 ..
ततश्शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ॥ स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैस्समवाकिरद्रणे ॥ ४ ॥
ततस् शिवः विस्मित-मानसः पुनर् जगाम युद्धाय जलंधरम् रुषा ॥ स च अपि दैत्यः पुनर् आगतम् शिवम् दृष्ट्वा शर-ओघैः समवाकिरत् रणे ॥ ४ ॥
tatas śivaḥ vismita-mānasaḥ punar jagāma yuddhāya jalaṃdharam ruṣā .. sa ca api daityaḥ punar āgatam śivam dṛṣṭvā śara-oghaiḥ samavākirat raṇe .. 4 ..
क्षिप्तं प्रभुस्तं शरजालमुग्रं जलंधरेणातिबलीयसा हरः ॥ प्रचिच्छेद शरैर्वरैर्निजैर्नचित्रमत्र त्रिभवप्रहंतुः ॥ ५॥
क्षिप्तम् प्रभुः तम् शर-जालम् उग्रम् जलंधरेण अति बलीयसा हरः ॥ प्रचिच्छेद शरैः वरैः निजैः न चित्रम् अत्र त्रि-भव-प्रहंतुः ॥ ५॥
kṣiptam prabhuḥ tam śara-jālam ugram jalaṃdhareṇa ati balīyasā haraḥ .. praciccheda śaraiḥ varaiḥ nijaiḥ na citram atra tri-bhava-prahaṃtuḥ .. 5..
ततो जलंधरो दृष्ट्वा रुद्र्मद्भुतविक्रमम् ॥ चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ॥ ६ ॥
ततस् जलंधरः दृष्ट्वा ॥ चकार मायया गौरीम् त्र्यम्बकम् मोहयन् इव ॥ ६ ॥
tatas jalaṃdharaḥ dṛṣṭvā .. cakāra māyayā gaurīm tryambakam mohayan iva .. 6 ..
रथोपरि गतां बद्धां रुदंतीं पार्वतीं शिवः ॥ निशुंभ शुंभदैत्यैश्च बध्यमानां ददर्श सः ॥ ७ ॥
रथ-उपरि गताम् बद्धाम् रुदंतीम् पार्वतीम् शिवः ॥ निशुंभ शुंभ-दैत्यैः च बध्यमानाम् ददर्श सः ॥ ७ ॥
ratha-upari gatām baddhām rudaṃtīm pārvatīm śivaḥ .. niśuṃbha śuṃbha-daityaiḥ ca badhyamānām dadarśa saḥ .. 7 ..
गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन्गतिम् ॥ बभूव प्राकृत इव शिवोप्युद्विग्नमानसः ॥ ८॥
गौरीम् तथाविधाम् दृष्ट्वा लौकिकीम् दर्शयन् गतिम् ॥ बभूव प्राकृतः इव शिवः अपि उद्विग्न-मानसः ॥ ८॥
gaurīm tathāvidhām dṛṣṭvā laukikīm darśayan gatim .. babhūva prākṛtaḥ iva śivaḥ api udvigna-mānasaḥ .. 8..
अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः॥ शिथिलांगो विषण्णात्मा विस्मृत्य स्वपराक्रमम्॥ ९॥
अवाक् मुख-स्थितः तूष्णीम् नाना लीला-विशारदः॥ शिथिल-अंगः विषण्ण-आत्मा विस्मृत्य स्व-पराक्रमम्॥ ९॥
avāk mukha-sthitaḥ tūṣṇīm nānā līlā-viśāradaḥ.. śithila-aṃgaḥ viṣaṇṇa-ātmā vismṛtya sva-parākramam.. 9..
ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः॥ आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥ 2.5.24.१०॥
ततस् जलंधरः वेगात् त्रिभिः विव्याध सायकैः॥ आपुंख-मग्नैः तम् रुद्रम् शिरसि उरसि च उदरे ॥ २।५।२४।१०॥
tatas jalaṃdharaḥ vegāt tribhiḥ vivyādha sāyakaiḥ.. āpuṃkha-magnaiḥ tam rudram śirasi urasi ca udare .. 2.5.24.10..
ततो रुद्रो महालीलो ज्ञानतत्त्वः क्षणात्प्रभुः ॥ रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥ ११ ॥
ततस् रुद्रः महा-लीलः ज्ञान-तत्त्वः क्षणात् प्रभुः ॥ रौद्र-रूप-धरः जातः ज्वाला-माला-अति भीषणः ॥ ११ ॥
tatas rudraḥ mahā-līlaḥ jñāna-tattvaḥ kṣaṇāt prabhuḥ .. raudra-rūpa-dharaḥ jātaḥ jvālā-mālā-ati bhīṣaṇaḥ .. 11 ..
तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः ॥ न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ॥ १२॥
तस्य अतीव महा-रौद्र-रूपम् दृष्ट्वा महा-असुराः ॥ न शेकुः प्रमुखे स्थातुम् भेजिरे ते दिशः दश ॥ १२॥
tasya atīva mahā-raudra-rūpam dṛṣṭvā mahā-asurāḥ .. na śekuḥ pramukhe sthātum bhejire te diśaḥ daśa .. 12..
निशुंभशुंभावपि यौ विख्यातौ वीरसत्तमौ ॥ आपे तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ॥ १३॥
निशुंभ-शुंभौ अपि यौ विख्यातौ वीर-सत्तमौ ॥ तौ शेकतुः ना एव रणे स्थातुम् मुनि-ईश्वर ॥ १३॥
niśuṃbha-śuṃbhau api yau vikhyātau vīra-sattamau .. tau śekatuḥ nā eva raṇe sthātum muni-īśvara .. 13..
जलंधरकृता मायांतर्हिताभूच्च तत्क्षणम् ॥ हाहाकारो महानासीत्संग्रामे सर्वतोमुखे ॥ १४॥
जलंधर-कृता माया अंतर्हिता अभूत् च तद्-क्षणम् ॥ हाहाकारः महान् आसीत् संग्रामे सर्वतोमुखे ॥ १४॥
jalaṃdhara-kṛtā māyā aṃtarhitā abhūt ca tad-kṣaṇam .. hāhākāraḥ mahān āsīt saṃgrāme sarvatomukhe .. 14..
ततश्शापं ददौ रुद्रस्तयोश्शुंभनिशुंभयोः ॥ पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः ॥ १५॥
ततस् शापम् ददौ रुद्रः तयोः शुंभ-निशुंभयोः ॥ पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोध-संयुतः ॥ १५॥
tatas śāpam dadau rudraḥ tayoḥ śuṃbha-niśuṃbhayoḥ .. palāyamānau tau dṛṣṭvā dhikkṛtya krodha-saṃyutaḥ .. 15..
रुद्र उवाच ।।
युवां दुष्टावतिखलावपराधकरौ मम ॥ पार्वतीदंडदातारौ रणादस्मात्पराङ्मुखौ ॥ १६॥
युवाम् दुष्टौ अति खलौ अपराध-करौ मम ॥ पार्वती-दंड-दातारौ रणात् अस्मात् पराङ्मुखौ ॥ १६॥
yuvām duṣṭau ati khalau aparādha-karau mama .. pārvatī-daṃḍa-dātārau raṇāt asmāt parāṅmukhau .. 16..
पराङ्मुखो न हंतव्य इति वध्यौ न मे युवाम् ॥ मम युद्धादतिक्रांतौ गौर्य्या वध्यौ भविष्यतः ॥ १७ ॥
पराङ्मुखः न हंतव्यः इति वध्यौ न मे युवाम् ॥ मम युद्धात् अतिक्रांतौ गौर्य्याः वध्यौ भविष्यतः ॥ १७ ॥
parāṅmukhaḥ na haṃtavyaḥ iti vadhyau na me yuvām .. mama yuddhāt atikrāṃtau gauryyāḥ vadhyau bhaviṣyataḥ .. 17 ..
एवं वदति गौरीशे सिन्धुपुत्रो जलंधरः ॥ चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ॥ १८॥
एवम् वदति गौरीशे सिन्धुपुत्रः जलंधरः ॥ चुक्रोध अतीव रुद्राय ज्वलत्-ज्वलन-सन्निभः ॥ १८॥
evam vadati gaurīśe sindhuputraḥ jalaṃdharaḥ .. cukrodha atīva rudrāya jvalat-jvalana-sannibhaḥ .. 18..
रुद्रे रणे महावेगाद्ववर्ष निशिताञ्छरान्॥ बाणांधकारसंछन्नं तथा भूमितलं ह्यभूत् ॥ १९ ॥
रुद्रे रणे महा-वेगात् ववर्ष निशितान् शरान्॥ बाण-अंधकार-संछन्नम् तथा भूमि-तलम् हि अभूत् ॥ १९ ॥
rudre raṇe mahā-vegāt vavarṣa niśitān śarān.. bāṇa-aṃdhakāra-saṃchannam tathā bhūmi-talam hi abhūt .. 19 ..
यावद्रुद्रः प्रचिच्छेद तस्य बाणगणान्द्रुतम् ॥ तावत्सपरिघेणाशु जघान वृषभं बली ॥ 2.5.24.२०॥
यावत् रुद्रः प्रचिच्छेद तस्य बाण-गणान् द्रुतम् ॥ तावत् स परिघेण आशु जघान वृषभम् बली ॥ २।५।२४।२०॥
yāvat rudraḥ praciccheda tasya bāṇa-gaṇān drutam .. tāvat sa parigheṇa āśu jaghāna vṛṣabham balī .. 2.5.24.20..
वृषस्तेन प्रहारेण परवृत्तो रणांगणात् ॥ रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ॥ २१ ॥
वृषः तेन प्रहारेण परवृत्तः रण-अंगणात् ॥ रुद्रेण कृश्यमाणः अपि न तस्थौ रण-भूमिषु ॥ २१ ॥
vṛṣaḥ tena prahāreṇa paravṛttaḥ raṇa-aṃgaṇāt .. rudreṇa kṛśyamāṇaḥ api na tasthau raṇa-bhūmiṣu .. 21 ..
अथ लोके महारुद्रस्स्वीयं तेजोऽतिदुस्सहम् ॥ दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ॥ २२ ॥
अथ लोके महारुद्रः स्वीयम् तेजः अति दुस्सहम् ॥ दर्शयामास सर्वस्मै सत्यम् एतत् मुनि-ईश्वर ॥ २२ ॥
atha loke mahārudraḥ svīyam tejaḥ ati dussaham .. darśayāmāsa sarvasmai satyam etat muni-īśvara .. 22 ..
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ॥ प्रलयानलवद्धोरो बभूव सहसा प्रभुः ॥ २३ ॥
ततस् परम-संक्रुद्धः रुद्रः रौद्र-वपुः-धरः ॥ प्रलय-अनल-वत् होरः बभूव सहसा प्रभुः ॥ २३ ॥
tatas parama-saṃkruddhaḥ rudraḥ raudra-vapuḥ-dharaḥ .. pralaya-anala-vat horaḥ babhūva sahasā prabhuḥ .. 23 ..
दृष्ट्वा पुरः स्थितं दैत्यं मेघकूटमिव स्थितम् ॥ अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ॥ २४॥
दृष्ट्वा पुरस् स्थितम् दैत्यम् मेघ-कूटम् इव स्थितम् ॥ अवध्य-त्वम् अपि श्रुत्वा अपि अन्यैः अभ्युद्यतः अभवत् ॥ २४॥
dṛṣṭvā puras sthitam daityam megha-kūṭam iva sthitam .. avadhya-tvam api śrutvā api anyaiḥ abhyudyataḥ abhavat .. 24..
ब्रह्मणो वचनं रक्षन्रक्षको जगतां प्रभुः ॥ हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ॥ २५॥
ब्रह्मणः वचनम् रक्षन् रक्षकः जगताम् प्रभुः ॥ हृदा अनुग्रहम् आतन्वन् तद्-वधाय मनः दधत् ॥ २५॥
brahmaṇaḥ vacanam rakṣan rakṣakaḥ jagatām prabhuḥ .. hṛdā anugraham ātanvan tad-vadhāya manaḥ dadhat .. 25..
कोपं कृत्वा परं शूली पादांगुष्ठेन लीलया॥ महांभसि चकाराशु रथांगं रौद्रमद्भुतम्॥ २६॥
कोपम् कृत्वा परम् शूली पादांगुष्ठेन लीलया॥ महा-अंभसि चकार आशु रथांगम् रौद्रम् अद्भुतम्॥ २६॥
kopam kṛtvā param śūlī pādāṃguṣṭhena līlayā.. mahā-aṃbhasi cakāra āśu rathāṃgam raudram adbhutam.. 26..
कृत्वार्णवांभसि शितं भगवान्रथांगं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ॥ दक्षान्धकांतकपुरत्रययज्ञहंता लोकत्रयांतककरः प्रहसन्नुवाच ॥ २७॥
कृत्वा अर्णव-अंभसि शितम् भगवान् रथांगम् स्मृत्वा जगत्त्रयम् अनेन हतम् पुरारिः ॥ दक्ष-अन्धक-अंतक-पुरत्रय-यज्ञहंता लोकत्रय-अंतक-करः प्रहसन् उवाच ॥ २७॥
kṛtvā arṇava-aṃbhasi śitam bhagavān rathāṃgam smṛtvā jagattrayam anena hatam purāriḥ .. dakṣa-andhaka-aṃtaka-puratraya-yajñahaṃtā lokatraya-aṃtaka-karaḥ prahasan uvāca .. 27..
महारुद्र उवाच ।।
पादेन निर्मितं चक्रं जलंधर महाम्भसि ॥ बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा ॥ २८॥
पादेन निर्मितम् चक्रम् जलंधर महा-अम्भसि ॥ बलवान् यदि च उद्धर्त्तुम् तिष्ठ योद्धुम् न च अन्यथा ॥ २८॥
pādena nirmitam cakram jalaṃdhara mahā-ambhasi .. balavān yadi ca uddharttum tiṣṭha yoddhum na ca anyathā .. 28..
सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः॥ प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शंकरम्॥ २९॥
तस्य तत् वचनम् श्रुत्वा क्रोधेन आदीप्त-लोचनः॥ प्रदहन् इव चक्षुर्भ्याम् प्राह आलोक्य स शंकरम्॥ २९॥
tasya tat vacanam śrutvā krodhena ādīpta-locanaḥ.. pradahan iva cakṣurbhyām prāha ālokya sa śaṃkaram.. 29..
जलंधर उवाच।।
रेखामुद्धृत्य हत्वा च सगणं त्वां हि शंकर ॥ हत्वा लोकान्सुरैस्सार्द्धं स्वभागं गरुडो यथा ॥ 2.5.24.३०॥
रेखाम् उद्धृत्य हत्वा च स गणम् त्वाम् हि शंकर ॥ हत्वा लोकान् सुरैः सार्द्धम् स्व-भागम् गरुडः यथा ॥ २।५।२४।३०॥
rekhām uddhṛtya hatvā ca sa gaṇam tvām hi śaṃkara .. hatvā lokān suraiḥ sārddham sva-bhāgam garuḍaḥ yathā .. 2.5.24.30..
हंतुं चराचरं सर्वं समर्थोऽहं सवासवम् ॥ को महेश्वर मद्बाणैरभेद्यो भुवनत्रये॥ ३१॥
हंतुम् चराचरम् सर्वम् समर्थः अहम् स वासवम् ॥ कः महेश्वर मद्-बाणैः अभेद्यः भुवनत्रये॥ ३१॥
haṃtum carācaram sarvam samarthaḥ aham sa vāsavam .. kaḥ maheśvara mad-bāṇaiḥ abhedyaḥ bhuvanatraye.. 31..
बालभावेन भगवांतपसैव विनिर्जितः ॥ ब्रह्मा बलिष्ठः स्थाने मे मुनिभिस्सुरपुंगवैः ॥ ३२॥
बाल-भावेन भगवान् तपसा एव विनिर्जितः ॥ ब्रह्मा बलिष्ठः स्थाने मे मुनिभिः सुर-पुंगवैः ॥ ३२॥
bāla-bhāvena bhagavān tapasā eva vinirjitaḥ .. brahmā baliṣṭhaḥ sthāne me munibhiḥ sura-puṃgavaiḥ .. 32..
दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ॥ तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥ ३३ ॥
दग्धम् क्षणेन सकलम् त्रैलोक्यम् सचराचरम् ॥ तपसा किम् त्वया रुद्र निर्जितः भगवान् अपि ॥ ३३ ॥
dagdham kṣaṇena sakalam trailokyam sacarācaram .. tapasā kim tvayā rudra nirjitaḥ bhagavān api .. 33 ..
इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः ॥ न सेहिरे यथा नागा गंधं पक्षिपतेरिव ॥ ३४ ॥
इन्द्र-अग्नि-यम-वित्तेश-वायु-वारीश्वर-आदयः ॥ न सेहिरे यथा नागाः गंधम् पक्षिपतेः इव ॥ ३४ ॥
indra-agni-yama-vitteśa-vāyu-vārīśvara-ādayaḥ .. na sehire yathā nāgāḥ gaṃdham pakṣipateḥ iva .. 34 ..
न लब्धं दिवि भूमौ च वाहनं मम शंकर ॥ समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः ॥ ३५॥
न लब्धम् दिवि भूमौ च वाहनम् मम शंकर ॥ समस्तान् पर्वतान् प्राप्य धर्षिताः च गणेश्वराः ॥ ३५॥
na labdham divi bhūmau ca vāhanam mama śaṃkara .. samastān parvatān prāpya dharṣitāḥ ca gaṇeśvarāḥ .. 35..
गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुस्सुशोभनः ॥ धर्षितो बाहुदण्डेन कण्डा उत्सर्पणाय मे ॥ ३६॥
गिरि-इन्द्रः मन्दरः श्रीमान् नीलः मेरुः सु शोभनः ॥ धर्षितः बाहु-दण्डेन कण्डा उत्सर्पणाय मे ॥ ३६॥
giri-indraḥ mandaraḥ śrīmān nīlaḥ meruḥ su śobhanaḥ .. dharṣitaḥ bāhu-daṇḍena kaṇḍā utsarpaṇāya me .. 36..
गंगा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ ॥ अरोणां मम भृत्यैश्च जयो लब्धो दिवौकसात् ॥ ३७ ॥
गंगा निरुद्धा बाहुभ्याम् लीला-अर्थम् हिमवत्-गिरौ ॥ अरोणाम् मम भृत्यैः च जयः लब्धः दिवौकसात् ॥ ३७ ॥
gaṃgā niruddhā bāhubhyām līlā-artham himavat-girau .. aroṇām mama bhṛtyaiḥ ca jayaḥ labdhaḥ divaukasāt .. 37 ..
वडवाया मुखं बद्धं गृहीत्वा तां करेण तु ॥ तत्क्षणादेव सकलमेकार्णवमभूत्तदा ॥ ३८ ॥
वडवायाः मुखम् बद्धम् गृहीत्वा ताम् करेण तु ॥ तद्-क्षणात् एव सकलम् एकार्णवम् अभूत् तदा ॥ ३८ ॥
vaḍavāyāḥ mukham baddham gṛhītvā tām kareṇa tu .. tad-kṣaṇāt eva sakalam ekārṇavam abhūt tadā .. 38 ..
ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ॥ सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ॥ ३९ ॥
ऐरावत-आदयः नागाः क्षिप्ताः सिन्धु-जल-उपरि ॥ स रथः भगवान् इन्द्रः क्षिप्तः च शत-योजनम् ॥ ३९ ॥
airāvata-ādayaḥ nāgāḥ kṣiptāḥ sindhu-jala-upari .. sa rathaḥ bhagavān indraḥ kṣiptaḥ ca śata-yojanam .. 39 ..
गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ॥ उर्वश्याद्या मयानीता नार्यः कारागृहांतरम् ॥ 2.5.24.४०॥
गरुडः अपि मया बद्धः नागपाशेन विष्णुना ॥ उर्वशी-आद्याः मया आनीताः नार्यः कारा-गृह-अंतरम् ॥ २।५।२४।४०॥
garuḍaḥ api mayā baddhaḥ nāgapāśena viṣṇunā .. urvaśī-ādyāḥ mayā ānītāḥ nāryaḥ kārā-gṛha-aṃtaram .. 2.5.24.40..
मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणाम् ॥ जलंधरं महादैत्यं सिंधुपुत्रं महाबलम् ॥ ४१ ॥
माम् न जानासि रुद्र त्वम् त्रैलोक्य-जय-कारिणाम् ॥ जलंधरम् महा-दैत्यम् सिंधु-पुत्रम् महा-बलम् ॥ ४१ ॥
mām na jānāsi rudra tvam trailokya-jaya-kāriṇām .. jalaṃdharam mahā-daityam siṃdhu-putram mahā-balam .. 41 ..
सनत्कुमार उवाच ।।
इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः ॥ न चचाल न सस्मार निहतान्दानवान्युधि ॥ ४२॥
इति उक्त्वा अथ महादेवम् तदा वारिधि-नन्दनः ॥ न चचाल न सस्मार निहतान् दानवान् युधि ॥ ४२॥
iti uktvā atha mahādevam tadā vāridhi-nandanaḥ .. na cacāla na sasmāra nihatān dānavān yudhi .. 42..
दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् ॥ तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः ॥ ४३॥
दुर्मदेन अविनीतेन दोर्भ्याम् आस्फोट्य दोः-बलात् ॥ तिरस्कृतः महादेवः वचनैः कटुक-अक्षरैः ॥ ४३॥
durmadena avinītena dorbhyām āsphoṭya doḥ-balāt .. tiraskṛtaḥ mahādevaḥ vacanaiḥ kaṭuka-akṣaraiḥ .. 43..
तच्छ्रुत्वा दैत्यवचनममंगलमतीरितम् ॥ विजहास महादेवाः परमं क्रोधमादधे॥ ४४॥
तत् श्रुत्वा दैत्य-वचनम् अमंगलम् अतीरितम् ॥ विजहास महादेवाः परमम् क्रोधम् आदधे॥ ४४॥
tat śrutvā daitya-vacanam amaṃgalam atīritam .. vijahāsa mahādevāḥ paramam krodham ādadhe.. 44..
सुदर्शनाख्यं यच्चक्रं पदांगुष्ठविनिर्मितम्॥ जग्राह तत्करे रुद्रस्तेन हंतुं समुद्यतः ॥ ४५ ॥
सुदर्शन-आख्यम् यत् चक्रम् पद-अंगुष्ठ-विनिर्मितम्॥ जग्राह तद्-करे रुद्रः तेन हंतुम् समुद्यतः ॥ ४५ ॥
sudarśana-ākhyam yat cakram pada-aṃguṣṭha-vinirmitam.. jagrāha tad-kare rudraḥ tena haṃtum samudyataḥ .. 45 ..
सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः ॥ कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ४६ ॥
सुदर्शन-आख्यम् तत् चक्रम् चिक्षेप भगवान् हरः ॥ कोटि-सूर्य-प्रतीकाशम् प्रलय-अनल-सन्निभम् ॥ ४६ ॥
sudarśana-ākhyam tat cakram cikṣepa bhagavān haraḥ .. koṭi-sūrya-pratīkāśam pralaya-anala-sannibham .. 46 ..
प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ॥ जहार तच्छिरो वेगान्महदायतलोचनम् ॥ ४७ ॥
प्रदहत् रोदसी वेगात् तत् आसाद्य जलंधरम् ॥ जहार तद्-शिरः वेगात् महत् आयत-लोचनम् ॥ ४७ ॥
pradahat rodasī vegāt tat āsādya jalaṃdharam .. jahāra tad-śiraḥ vegāt mahat āyata-locanam .. 47 ..
रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ॥ शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत् ॥ ४८ ॥
रथात् कायः पपात उर्व्याम् नादयन् वसुधा-तलम् ॥ शिरः च अपि अब्धिपुत्रस्य हाहाकारः महान् अभूत् ॥ ४८ ॥
rathāt kāyaḥ papāta urvyām nādayan vasudhā-talam .. śiraḥ ca api abdhiputrasya hāhākāraḥ mahān abhūt .. 48 ..
द्विधा पपात तद्देहो ह्यंजनाद्रिरिवाचलः ॥ कुलिशेन यथा वारांनिधौ गिरिवरो द्विधा ॥ ४९ ॥
द्विधा पपात तद्-देहः हि अंजन-अद्रिः इव अचलः ॥ कुलिशेन यथा वारांनिधौ गिरि-वरः द्विधा ॥ ४९ ॥
dvidhā papāta tad-dehaḥ hi aṃjana-adriḥ iva acalaḥ .. kuliśena yathā vārāṃnidhau giri-varaḥ dvidhā .. 49 ..
तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ॥ ततस्समस्ता पृथिवी विकृताभून्मुनीश्वर ॥ 2.5.24.५० ॥
तस्य रौद्रेण रक्तेन सम्पूर्णम् अभवत् जगत् ॥ ततस् समस्ता पृथिवी विकृता अभूत् मुनि-ईश्वर ॥ २।५।२४।५० ॥
tasya raudreṇa raktena sampūrṇam abhavat jagat .. tatas samastā pṛthivī vikṛtā abhūt muni-īśvara .. 2.5.24.50 ..
तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च ॥ महारौरवमासाद्य रक्तकुंडमभूदिह ॥ ५१ ॥
तत् रक्तम् अखिलम् रुद्र-नियोगात् मांसम् एव च ॥ महारौरवम् आसाद्य रक्तकुंडम् अभूत् इह ॥ ५१ ॥
tat raktam akhilam rudra-niyogāt māṃsam eva ca .. mahārauravam āsādya raktakuṃḍam abhūt iha .. 51 ..
तत्तेजो निर्गतं देहाद्रुद्रे च लयमागमत् ॥ वृन्दादेहोद्भवं यद्वद्गौर्य्यां हि विलयं गतम् ॥ ५२॥
तत् तेजः निर्गतम् देहात् रुद्रे च लयम् आगमत् ॥ वृन्दा-देह-उद्भवम् यद्वत् गौर्याम् हि विलयम् गतम् ॥ ५२॥
tat tejaḥ nirgatam dehāt rudre ca layam āgamat .. vṛndā-deha-udbhavam yadvat gauryām hi vilayam gatam .. 52..
जलंधरं हतं दृष्ट्वा देवगन्धर्वपन्नगाः ॥ अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन् ॥ ५३ ॥
जलंधरम् हतम् दृष्ट्वा देव-गन्धर्व-पन्नगाः ॥ अभवन् सु प्रसन्नाः च साधु देव इति च अब्रुवन् ॥ ५३ ॥
jalaṃdharam hatam dṛṣṭvā deva-gandharva-pannagāḥ .. abhavan su prasannāḥ ca sādhu deva iti ca abruvan .. 53 ..
सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः ॥ पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः ॥ ५४ ॥
सर्वे प्रसन्न-ताम् याताः देव-सिद्ध-मुनि-ईश्वराः ॥ पुष्प-वृष्टिम् प्रकुर्वाणाः तत् यशः जगुः उच्चकैस् ॥ ५४ ॥
sarve prasanna-tām yātāḥ deva-siddha-muni-īśvarāḥ .. puṣpa-vṛṣṭim prakurvāṇāḥ tat yaśaḥ jaguḥ uccakais .. 54 ..
देवांगना महामोदान्ननृतुः प्रेमविह्वलाः ॥ कलस्वराः कलपदं किन्नरैस्सह संजगुः ॥ ५५॥
देव-अंगनाः महा-आमोदान् ननृतुः प्रेम-विह्वलाः ॥ कल-स्वराः कलपदम् किन्नरैः सह संजगुः ॥ ५५॥
deva-aṃganāḥ mahā-āmodān nanṛtuḥ prema-vihvalāḥ .. kala-svarāḥ kalapadam kinnaraiḥ saha saṃjaguḥ .. 55..
दिशः प्रसेदुस्सर्वाश्च हते वृन्दापतौ मुने ॥ ववुः पुण्यास्सुखस्पर्शा वायवस्त्रिविधा अपि ॥ ५६ ॥
दिशः प्रसेदुः सर्वाः च हते वृन्दापतौ मुने ॥ ववुः पुण्याः सुख-स्पर्शाः वायवः त्रिविधाः अपि ॥ ५६ ॥
diśaḥ praseduḥ sarvāḥ ca hate vṛndāpatau mune .. vavuḥ puṇyāḥ sukha-sparśāḥ vāyavaḥ trividhāḥ api .. 56 ..
चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा ॥ अग्नयो जज्वलुश्शांता बभूव विकृतं नभः ॥ ५७ ॥
चन्द्रमाः शीत-ताम् यातः रविः तेपे सु तेजसा ॥ अग्नयः जज्वलुः शांताः बभूव विकृतम् नभः ॥ ५७ ॥
candramāḥ śīta-tām yātaḥ raviḥ tepe su tejasā .. agnayaḥ jajvaluḥ śāṃtāḥ babhūva vikṛtam nabhaḥ .. 57 ..
एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने ॥ हतेऽब्धितनये तस्मिन्हरेणानतमूर्तिना ॥ ५८ ॥
एवम् त्रैलोक्यम् अखिलम् स्वास्थ्यम् आप अधिकम् मुने ॥ हते अब्धितनये तस्मिन् हरेण आनत-मूर्तिना ॥ ५८ ॥
evam trailokyam akhilam svāsthyam āpa adhikam mune .. hate abdhitanaye tasmin hareṇa ānata-mūrtinā .. 58 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे जलंधरवर्णनम् नाम चतुर्विशः अध्यायः ॥ २४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe jalaṃdharavarṇanam nāma caturviśaḥ adhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In