| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ॥ तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥ १॥
अथ ब्रह्म-आदयः देवाः मुनयः च अखिलाः तथा ॥ तुष्टुवुः देवदेवेशम् वाग्भिः इष्टाभिः आनताः ॥ १॥
atha brahma-ādayaḥ devāḥ munayaḥ ca akhilāḥ tathā .. tuṣṭuvuḥ devadeveśam vāgbhiḥ iṣṭābhiḥ ānatāḥ .. 1..
देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ॥ साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥ २॥
देवदेव महादेव शरण-आगत-वत्सल ॥ साधु-सौख्य-प्रदः त्वम् हि सर्वदा भक्त-दुःख-हा ॥ २॥
devadeva mahādeva śaraṇa-āgata-vatsala .. sādhu-saukhya-pradaḥ tvam hi sarvadā bhakta-duḥkha-hā .. 2..
त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ॥ दुराराध्योऽसतां नाथ प्रसन्नस्सर्वदा भव ॥ ३।
त्वम् महा-अद्भुत-सत्-लीलः भक्ति-गम्यः दुरासदः ॥ दुराराध्यः असताम् नाथ प्रसन्नः सर्वदा भव ॥ ३।
tvam mahā-adbhuta-sat-līlaḥ bhakti-gamyaḥ durāsadaḥ .. durārādhyaḥ asatām nātha prasannaḥ sarvadā bhava .. 3.
वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ॥ यथामति महात्मानस्सर्वे गायंति सद्यशः ॥ ४॥
वेदः अपि महिमानम् ते न जानाति हि तत्त्वतः ॥ यथामति महात्मानः सर्वे गायंति सत्-यशः ॥ ४॥
vedaḥ api mahimānam te na jānāti hi tattvataḥ .. yathāmati mahātmānaḥ sarve gāyaṃti sat-yaśaḥ .. 4..
माहात्म्यमतिगूढं ते सहस्रवदनादयः ॥ सदा गायंति सुप्रीत्या पुनंति स्वगिरं हि ते ॥ ५ ॥
माहात्म्यम् अति गूढम् ते सहस्रवदन-आदयः ॥ सदा गायंति सु प्रीत्या पुनंति स्व-गिरम् हि ते ॥ ५ ॥
māhātmyam ati gūḍham te sahasravadana-ādayaḥ .. sadā gāyaṃti su prītyā punaṃti sva-giram hi te .. 5 ..
कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ॥ भक्तिगम्यस्सदा त्वं वा इति वेदा ब्रुवंति हि ॥ ६ ॥
कृपया तव देवेश ब्रह्म-ज्ञानी भवेत् जडः ॥ भक्ति-गम्यः सदा त्वम् वा इति वेदाः ब्रुवंति हि ॥ ६ ॥
kṛpayā tava deveśa brahma-jñānī bhavet jaḍaḥ .. bhakti-gamyaḥ sadā tvam vā iti vedāḥ bruvaṃti hi .. 6 ..
त्वं वै दीनदयालुश्च सर्वत्र व्यापकस्सदा ॥ आविर्भवसि सद्भक्त्या निर्विकारस्सतां गतिः ॥ ७ ॥
त्वम् वै दीन-दयालुः च सर्वत्र व्यापकः सदा ॥ आविस् भवसि सत्-भक्त्या निर्विकारः सताम् गतिः ॥ ७ ॥
tvam vai dīna-dayāluḥ ca sarvatra vyāpakaḥ sadā .. āvis bhavasi sat-bhaktyā nirvikāraḥ satām gatiḥ .. 7 ..
भक्त्यैव ते महेशान बहवस्सिद्धिमागताः ॥ इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥ ८ ।
भक्त्या एव ते महेशान बहवः सिद्धिम् आगताः ॥ इह सर्व-सुखम् भुक्त्वा दुःखिताः निर्विकारतः ॥ ८ ।
bhaktyā eva te maheśāna bahavaḥ siddhim āgatāḥ .. iha sarva-sukham bhuktvā duḥkhitāḥ nirvikārataḥ .. 8 .
पुरा यदुपतिर्भक्तो दाशार्हस्सिद्धिमागतः॥ कलावती च तत्पत्नी भक्त्यैव परमां प्रभो॥ ९॥
पुरा यदु-पतिः भक्तः दाशार्हः सिद्धिम् आगतः॥ कलावती च तद्-पत्नी भक्त्या एव परमाम् प्रभो॥ ९॥
purā yadu-patiḥ bhaktaḥ dāśārhaḥ siddhim āgataḥ.. kalāvatī ca tad-patnī bhaktyā eva paramām prabho.. 9..
तथा मित्रसहो राजा मदयंती च तत्प्रिया॥ भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥ 2.5.25.१० ॥
तथा मित्रसहः राजा मदयंती च तद्-प्रिया॥ भक्त्या एव तव देवेश कैवल्यम् परमम् ययौ ॥ २।५।२५।१० ॥
tathā mitrasahaḥ rājā madayaṃtī ca tad-priyā.. bhaktyā eva tava deveśa kaivalyam paramam yayau .. 2.5.25.10 ..
सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ॥ तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥ ११॥
सौमिनी नाम तनया कैकेय-अग्रभुवः तथा ॥ तव भक्त्या सुखम् प्राप परम् सत्-योगि-दुर्लभम् ॥ ११॥
sauminī nāma tanayā kaikeya-agrabhuvaḥ tathā .. tava bhaktyā sukham prāpa param sat-yogi-durlabham .. 11..
विमर्षणो नृपवरस्सप्तजन्मावधि प्रभो ॥ भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ॥ १२॥
विमर्षणः नृप-वरः सप्त-जन्म-अवधि प्रभो ॥ भुक्त्वा भोगान् च विविधान् त्वद्-भक्त्या प्राप सत्-गतिम् ॥ १२॥
vimarṣaṇaḥ nṛpa-varaḥ sapta-janma-avadhi prabho .. bhuktvā bhogān ca vividhān tvad-bhaktyā prāpa sat-gatim .. 12..
चन्द्रसेनो नृपवरस्त्वद्भक्त्या सर्वभोगभुक् ॥ दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥ १३॥
चन्द्रसेनः नृप-वरः त्वद्-भक्त्या सर्व-भोग-भुज् ॥ दुःख-मुक्तः सुखम् प्राप परम् अत्र परत्र च ॥ १३॥
candrasenaḥ nṛpa-varaḥ tvad-bhaktyā sarva-bhoga-bhuj .. duḥkha-muktaḥ sukham prāpa param atra paratra ca .. 13..
गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् ।परं सुखं महावीरशिष्यः प्राप परत्र वै ॥ १४ ॥
गोपी-पुत्रः श्रीकरः ते भक्त्या भुक्त्वा इह सत्-गतिम् ।परम् सुखम् महावीर-शिष्यः प्राप परत्र वै ॥ १४ ॥
gopī-putraḥ śrīkaraḥ te bhaktyā bhuktvā iha sat-gatim .param sukham mahāvīra-śiṣyaḥ prāpa paratra vai .. 14 ..
त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ॥ धर्मगुप्तं राजपुत्रमतार्षीस्सुखिनं त्विह ॥ ॥ १५ ॥
त्वम् सत्य-रथ-भू-जानेः दुःख-हर्ता गति-प्रदः ॥ धर्मगुप्तम् राज-पुत्रम् अतार्षीः सुखिनम् तु इह ॥ ॥ १५ ॥
tvam satya-ratha-bhū-jāneḥ duḥkha-hartā gati-pradaḥ .. dharmaguptam rāja-putram atārṣīḥ sukhinam tu iha .. .. 15 ..
तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ॥ त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥ १६॥
तथा शुचि-व्रतम् विप्रम् अदरिद्रम् महा-प्रभो ॥ त्वद्-भक्ति-वर्तिनम् मात्रा ज्ञानिनम् कृपया अकरोः ॥ १६॥
tathā śuci-vratam vipram adaridram mahā-prabho .. tvad-bhakti-vartinam mātrā jñāninam kṛpayā akaroḥ .. 16..
चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ॥ इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥ १७ ॥
चित्रवर्मा नृप-वरः त्वद्-भक्त्या प्राप सत्-गतिम् ॥ इह लोके सदा भुक्त्वा भोगान् अमर-दुर्लभान् ॥ १७ ॥
citravarmā nṛpa-varaḥ tvad-bhaktyā prāpa sat-gatim .. iha loke sadā bhuktvā bhogān amara-durlabhān .. 17 ..
चन्द्रांगदो राजपुत्रस्सीमंतिन्या स्त्रिया सह ॥ विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥ १८ ॥
चन्द्रांगदः राज-पुत्रः सीमंतिन्या स्त्रिया सह ॥ विहाय सकलम् दुःखम् सुखी प्राप महा-गतिम् ॥ १८ ॥
candrāṃgadaḥ rāja-putraḥ sīmaṃtinyā striyā saha .. vihāya sakalam duḥkham sukhī prāpa mahā-gatim .. 18 ..
द्विजो मंदरनामापि वेश्यागामी खलोऽधमः ॥ त्वद्भक्तः शिव संपूज्य तया सह गतिं गतः ॥ १९॥
द्विजः मंदर-नामा अपि वेश्या-गामी खलः अधमः ॥ त्वद्-भक्तः शिव संपूज्य तया सह गतिम् गतः ॥ १९॥
dvijaḥ maṃdara-nāmā api veśyā-gāmī khalaḥ adhamaḥ .. tvad-bhaktaḥ śiva saṃpūjya tayā saha gatim gataḥ .. 19..
भद्रायुस्ते नृपसुतस्सुखमाप गतव्यथः ॥ त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो ॥ 2.5.25.२०॥
भद्रायुः ते नृप-सुतः सुखम् आप गत-व्यथः ॥ त्वद्-भक्त-कृपया मात्रा गतिम् च परमाम् प्रभो ॥ २।५।२५।२०॥
bhadrāyuḥ te nṛpa-sutaḥ sukham āpa gata-vyathaḥ .. tvad-bhakta-kṛpayā mātrā gatim ca paramām prabho .. 2.5.25.20..
सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ॥ विमुक्तोऽभूदपि सदा भक्ष्यभोजी महेश्वर॥ २१ ॥
सर्व-स्त्री-भोग-निरतः दुर्जनः तव सेवया ॥ विमुक्तः अभूत् अपि सदा भक्ष्य-भोजी महेश्वर॥ २१ ॥
sarva-strī-bhoga-nirataḥ durjanaḥ tava sevayā .. vimuktaḥ abhūt api sadā bhakṣya-bhojī maheśvara.. 21 ..
शंबरश्शंकरे भक्तश्चिताभस्मधरस्सदा ॥ नियमाद्भस्मनश्शंभो स्वस्त्रिया ते पुरं गतः ॥ २२ ॥
शंबरः शंकरे भक्तः चिता-भस्म-धरः सदा ॥ नियमात् भस्मनः शंभो स्व-स्त्रिया ते पुरम् गतः ॥ २२ ॥
śaṃbaraḥ śaṃkare bhaktaḥ citā-bhasma-dharaḥ sadā .. niyamāt bhasmanaḥ śaṃbho sva-striyā te puram gataḥ .. 22 ..
भद्रसेनस्य तनयस्तथा मंत्रिसुतः प्रभो ॥ सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ॥ २३ ॥
भद्रसेनस्य तनयः तथा मंत्रि-सुतः प्रभो ॥ सुधर्म-शुभ-कर्माणौ सदा रुद्र-अक्ष-धारिणौ ॥ २३ ॥
bhadrasenasya tanayaḥ tathā maṃtri-sutaḥ prabho .. sudharma-śubha-karmāṇau sadā rudra-akṣa-dhāriṇau .. 23 ..
त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ॥ पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥ २४॥
त्वद्-कृपातः च तौ मुक्तौ आस्ताम् भुक्त-इह सत्-सुखम् ॥ पूर्व-जन्मनि यौ कीश-कुक्कुटौ रुद्र-भूषणौ ॥ २४॥
tvad-kṛpātaḥ ca tau muktau āstām bhukta-iha sat-sukham .. pūrva-janmani yau kīśa-kukkuṭau rudra-bhūṣaṇau .. 24..
पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ॥ सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥ २५॥
पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ॥ सत्-गतिम् प्रापतुः नाथ भक्त-उद्धार-परायण ॥ २५॥
piṃgalā ca mahānandā veśye dve tava bhaktitaḥ .. sat-gatim prāpatuḥ nātha bhakta-uddhāra-parāyaṇa .. 25..
शारदा विप्रतनया बालवैधव्यमागता ॥ तव भक्तेः प्रभावात्तु पुत्रसौभा ग्यवत्यभूत् ॥ २६ ॥
शारदा विप्र-तनया बाल-वैधव्यम् आगता ॥ तव भक्तेः प्रभावात् तु पुत्र-सौभा अभूत् ॥ २६ ॥
śāradā vipra-tanayā bāla-vaidhavyam āgatā .. tava bhakteḥ prabhāvāt tu putra-saubhā abhūt .. 26 ..
बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ॥ वंचुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥ २७ ॥
बिन्दुगः द्विजमात्रः हि वेश्या-भोगी च तद्-प्रिया ॥ वंचुका त्वद्-यशः श्रुत्वा परमाम् गतिम् आययौ ॥ २७ ॥
bindugaḥ dvijamātraḥ hi veśyā-bhogī ca tad-priyā .. vaṃcukā tvad-yaśaḥ śrutvā paramām gatim āyayau .. 27 ..
इत्यादि बहवस्सिद्धिं गता जीवास्तव प्रभो ॥ भक्तिभावान्महेशान दीनबन्धो कृपालय ॥ २८ ॥
इत्यादि बहवः सिद्धिम् गताः जीवाः तव प्रभो ॥ भक्ति-भावात् महेशान दीन-बन्धो कृपा-आलय ॥ २८ ॥
ityādi bahavaḥ siddhim gatāḥ jīvāḥ tava prabho .. bhakti-bhāvāt maheśāna dīna-bandho kṛpā-ālaya .. 28 ..
त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ॥ निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ॥ २९ ॥
त्वम् परः प्रकृतेः ब्रह्म पुरुषात् परमेश्वर ॥ ॥ २९ ॥
tvam paraḥ prakṛteḥ brahma puruṣāt parameśvara .. .. 29 ..
नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ॥ वयं ब्रह्मादयस्सर्वे तव दासा महेश्वर ॥ 2.5.25.३० ॥
नित्यम् ॥ वयम् ब्रह्म-आदयः सर्वे तव दासाः महेश्वर ॥ २।५।२५।३० ॥
nityam .. vayam brahma-ādayaḥ sarve tava dāsāḥ maheśvara .. 2.5.25.30 ..
प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ॥ त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ॥ ३१ ॥
प्रसन्नः भव देवेश रक्ष अस्मान् सर्वदा शिव ॥ त्वद्-प्रजाः च वयम् नाथ सदा त्वद्-शरणम् गताः ॥ ३१ ॥
prasannaḥ bhava deveśa rakṣa asmān sarvadā śiva .. tvad-prajāḥ ca vayam nātha sadā tvad-śaraṇam gatāḥ .. 31 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा च ते देवा ब्रह्माद्यास्समुनीश्वराः ॥ तूष्णीं बभूवुर्हि तदा शिवांघ्रिद्वन्द्वचेतसः ॥ ३२ ॥
इति स्तुत्वा च ते देवाः ब्रह्म-आद्याः स मुनि-ईश्वराः ॥ तूष्णीम् बभूवुः हि तदा शिव-अंघ्रि-द्वन्द्व-चेतसः ॥ ३२ ॥
iti stutvā ca te devāḥ brahma-ādyāḥ sa muni-īśvarāḥ .. tūṣṇīm babhūvuḥ hi tadā śiva-aṃghri-dvandva-cetasaḥ .. 32 ..
अथ शंभुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम्॥ दत्त्वा वरान्वरान्सद्यस्तत्रैवांतर्दधे प्रभुः ॥ ३३ ॥
अथ शंभुः महेशानः श्रुत्वा देव-स्तुतिम् शुभाम्॥ दत्त्वा वरान् वरान् सद्यस् तत्र एव अंतर्दधे प्रभुः ॥ ३३ ॥
atha śaṃbhuḥ maheśānaḥ śrutvā deva-stutim śubhām.. dattvā varān varān sadyas tatra eva aṃtardadhe prabhuḥ .. 33 ..
देवास्सर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ॥ स्वं स्वं धाम ययुः प्रीता गायंतः शिवसद्यशः ॥ ३४ ॥
देवाः सर्वे अपि मुदिताः ब्रह्म-आद्याः हत-शत्रवः ॥ स्वम् स्वम् धाम ययुः प्रीताः गायंतः शिव-सत्-यशः ॥ ३४ ॥
devāḥ sarve api muditāḥ brahma-ādyāḥ hata-śatravaḥ .. svam svam dhāma yayuḥ prītāḥ gāyaṃtaḥ śiva-sat-yaśaḥ .. 34 ..
इदं परममाख्यानं जलंधरविमर्दनम् ॥ महेशचरितं पुण्यं महाघौघविनाशनम् ॥ ३५ ॥
इदम् परमम् आख्यानम् जलंधर-विमर्दनम् ॥ ॥ ३५ ॥
idam paramam ākhyānam jalaṃdhara-vimardanam .. .. 35 ..
देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ॥ सर्वसौख्यप्रदा नित्यं महेशानंददायिनी ॥ ३६ ॥
देव-स्तुतिः इयम् पुण्या सर्व-पाप-प्रणाशिनी ॥ सर्व-सौख्य-प्रदा नित्यम् महेश-आनंद-दायिनी ॥ ३६ ॥
deva-stutiḥ iyam puṇyā sarva-pāpa-praṇāśinī .. sarva-saukhya-pradā nityam maheśa-ānaṃda-dāyinī .. 36 ..
यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ॥ भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ॥ ३७ ॥
यः पठेत् पाठयेत् वा अपि समाख्यानम् इदम् द्वयम् ॥ भुक्त्वा इह परम् सौख्यम् गाणपत्यम् अवाप्नुयात् ॥ ३७ ॥
yaḥ paṭhet pāṭhayet vā api samākhyānam idam dvayam .. bhuktvā iha param saukhyam gāṇapatyam avāpnuyāt .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनम् नाम पंचविंशः अध्यायः ॥ २५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe jalaṃdharavadhopākhyāne devastutivarṇanam nāma paṃcaviṃśaḥ adhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In