| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ॥ यच्छ्राविता महादिव्या कथेयं शांकरी शुभा ॥ १ ॥
ब्रह्मपुत्र नमः ते अस्तु धन्यः त्वम् शैव-सत्तम ॥ यत् श्राविता महा-दिव्या कथा इयम् शांकरी शुभा ॥ १ ॥
brahmaputra namaḥ te astu dhanyaḥ tvam śaiva-sattama .. yat śrāvitā mahā-divyā kathā iyam śāṃkarī śubhā .. 1 ..
इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ॥ स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥ २ ॥
इदानीम् ब्रूहि सु प्रीत्या चरितम् वैष्णवम् मुने ॥ स वृन्दाम् मोहयित्वा तु किम् अकार्षीत् कुतस् गतः ॥ २ ॥
idānīm brūhi su prītyā caritam vaiṣṇavam mune .. sa vṛndām mohayitvā tu kim akārṣīt kutas gataḥ .. 2 ..
।। सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ॥ वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम् ॥ ३ ॥
शृणु व्यास महा-प्राज्ञ शैव-प्रवर सत्तम ॥ वैष्णवम् चरितम् शंभु-चरित-आढ्यम् सु निर्मलम् ॥ ३ ॥
śṛṇu vyāsa mahā-prājña śaiva-pravara sattama .. vaiṣṇavam caritam śaṃbhu-carita-āḍhyam su nirmalam .. 3 ..
मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ॥ सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः ॥ ४ ॥
मौनीभूतेषु देवेषु ब्रह्म-आदिषु महेश्वरः ॥ सु प्रसन्नः अवदत् शंभुः शरण-आगत वत्सलः ॥ ४ ॥
maunībhūteṣu deveṣu brahma-ādiṣu maheśvaraḥ .. su prasannaḥ avadat śaṃbhuḥ śaraṇa-āgata vatsalaḥ .. 4 ..
शंभुरुवाच ।।
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ॥ जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम् ॥ ५ ॥
ब्रह्मन् देव-वराः सर्वे भवत्-अर्थे मया हतः ॥ जलंधरः मद्-अंशः उपि सत्यम् सत्यम् वदामि अहम् ॥ ५ ॥
brahman deva-varāḥ sarve bhavat-arthe mayā hataḥ .. jalaṃdharaḥ mad-aṃśaḥ upi satyam satyam vadāmi aham .. 5 ..
सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ॥ भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६ ॥
सुखम् आपुः न वा ताताः सत्यम् ब्रूत अमराः खलु ॥ भवत्-कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६ ॥
sukham āpuḥ na vā tātāḥ satyam brūta amarāḥ khalu .. bhavat-kṛte hi me līlā nirvikārasya sarvadā .. 6 ..
सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ॥ प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥ ७ ॥
अथ ब्रह्म-आदयः देवाः हर्षात् उत्फुल्ल-लोचनाः ॥ प्रणम्य शिरसा रुद्रम् शशंसुः विष्णु-चेष्टितम् ॥ ७ ॥
atha brahma-ādayaḥ devāḥ harṣāt utphulla-locanāḥ .. praṇamya śirasā rudram śaśaṃsuḥ viṣṇu-ceṣṭitam .. 7 ..
।। देवा ऊचुः ।।
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ॥ किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ॥ ८ ॥
महादेव त्वया देवाः रक्षिताः शत्रु-जात् भयात् ॥ किंचिद् अन्यत् समुद्भूतम् तत्र किम् करवामहै ॥ ८ ॥
mahādeva tvayā devāḥ rakṣitāḥ śatru-jāt bhayāt .. kiṃcid anyat samudbhūtam tatra kim karavāmahai .. 8 ..
वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ॥ भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥ ९ ॥
वृन्दाम् विमोहिताः नाथ विष्णुना हि प्रयत्नतः ॥ भस्मीभूता द्रुतम् वह्नौ परमाम् गतिम् आगता ॥ ९ ॥
vṛndām vimohitāḥ nātha viṣṇunā hi prayatnataḥ .. bhasmībhūtā drutam vahnau paramām gatim āgatā .. 9 ..
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ॥ तच्चिताभस्म संधारी तव मायाविमोहितः ॥ 2.5.26.१० ॥
वृन्दा-लावण्य-संभ्रांतः विष्णुः तिष्ठति मोहितः ॥ तत् चिता-भस्म संधारी तव माया-विमोहितः ॥ २।५।२६।१० ॥
vṛndā-lāvaṇya-saṃbhrāṃtaḥ viṣṇuḥ tiṣṭhati mohitaḥ .. tat citā-bhasma saṃdhārī tava māyā-vimohitaḥ .. 2.5.26.10 ..
स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ॥ न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥ ११ ॥
स सिद्ध-मुनि-संघैः च बोधितः अस्माभिः आदरात् ॥ न बुध्यते हरिः सोथ तव माया-विमोहितः ॥ ११ ॥
sa siddha-muni-saṃghaiḥ ca bodhitaḥ asmābhiḥ ādarāt .. na budhyate hariḥ sotha tava māyā-vimohitaḥ .. 11 ..
कृपां कुरु महेशान विष्णुं बोधय बोधय ॥ त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥ १२ ॥
कृपाम् कुरु महेशान विष्णुम् बोधय बोधय ॥ त्वद्-अधीनम् इदम् सर्वम् प्राकृतम् सचराचरम् ॥ १२ ॥
kṛpām kuru maheśāna viṣṇum bodhaya bodhaya .. tvad-adhīnam idam sarvam prākṛtam sacarācaram .. 12 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ॥ प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन् ॥ १३ ॥
इति आकर्ण्य महेशः हि वचनम् त्रिदिवौकसाम् ॥ प्रत्युवाच महा-लीलः स्वच्छन्दः तान् कृतांजलीन् ॥ १३ ॥
iti ākarṇya maheśaḥ hi vacanam tridivaukasām .. pratyuvāca mahā-līlaḥ svacchandaḥ tān kṛtāṃjalīn .. 13 ..
महेश उवाच ।।
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ॥ मोहिनी सर्वलोकानां मम माया दुरत्यया ॥ १४॥
हे ब्रह्मन् हे सुराः सर्वे मद्-वाक्यम् शृणुत आदरात् ॥ मोहिनी सर्व-लोकानाम् मम माया दुरत्यया ॥ १४॥
he brahman he surāḥ sarve mad-vākyam śṛṇuta ādarāt .. mohinī sarva-lokānām mama māyā duratyayā .. 14..
तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ॥ तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥ १५ ॥
तद्-अधीनम् जगत् सर्वम् यत् देव-असुर-मानुषम् ॥ तया एव मोहितः विष्णुः काम-अधीनः अभवत् हरिः ॥ १५ ॥
tad-adhīnam jagat sarvam yat deva-asura-mānuṣam .. tayā eva mohitaḥ viṣṇuḥ kāma-adhīnaḥ abhavat hariḥ .. 15 ..
उमाख्या सा महादेवी त्रिदेवजननी परा ॥ मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥ १६॥
उमा-आख्या सा महादेवी त्रिदेव-जननी परा ॥ मूलप्रकृतिः आख्याता सुरामा गिरिज-आत्मिका ॥ १६॥
umā-ākhyā sā mahādevī trideva-jananī parā .. mūlaprakṛtiḥ ākhyātā surāmā girija-ātmikā .. 16..
गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ॥ शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम् ॥ १७॥
गच्छध्वम् शरणाः देवाः विष्णु-मोह-अपनुत्तये ॥ शरण्याम् मोहिनी-मायाम् शिव-आख्याम् सर्व-काम-दाम् ॥ १७॥
gacchadhvam śaraṇāḥ devāḥ viṣṇu-moha-apanuttaye .. śaraṇyām mohinī-māyām śiva-ākhyām sarva-kāma-dām .. 17..
स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ॥ सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ॥ १८॥
स्तुतिम् कुरुत तस्याः च मद्-शक्तेः तोष-कारिणीम् ॥ सु प्रसन्ना यदि च सा सर्व-कार्यम् करिष्यति ॥ १८॥
stutim kuruta tasyāḥ ca mad-śakteḥ toṣa-kāriṇīm .. su prasannā yadi ca sā sarva-kāryam kariṣyati .. 18..
सनत्कुमार उवाच ।।
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ॥ अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह ॥ १९॥
इति उक्त्वा तान् सुरान् शंभुः पञ्च-आस्यः भगवान् हरः ॥ अंतर्दधे द्रुतम् व्यास सर्वैः च स्व-गणैः सह ॥ १९॥
iti uktvā tān surān śaṃbhuḥ pañca-āsyaḥ bhagavān haraḥ .. aṃtardadhe drutam vyāsa sarvaiḥ ca sva-gaṇaiḥ saha .. 19..
देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ॥ मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्॥ 2.5.26.२०॥
देवाः च शासनात् शंभोः ब्रह्म-आद्याः हि स वासवा ॥ मनसा तुष्टुवुः मूलप्रकृतिम् भक्त-वत्सलाम्॥ २।५।२६।२०॥
devāḥ ca śāsanāt śaṃbhoḥ brahma-ādyāḥ hi sa vāsavā .. manasā tuṣṭuvuḥ mūlaprakṛtim bhakta-vatsalām.. 2.5.26.20..
देवा ऊचुः ।।
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ॥ यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥ २१॥
यद्-उद्भवाः सत्त्व-रजः-तमः-गुणाः सर्ग-स्थिति-ध्वंस-विधान कारका ॥ यद्-इच्छया विश्वम् इदम् भव-अभवौ तनोति मूलप्रकृतिम् नताः स्म ताम् ॥ २१॥
yad-udbhavāḥ sattva-rajaḥ-tamaḥ-guṇāḥ sarga-sthiti-dhvaṃsa-vidhāna kārakā .. yad-icchayā viśvam idam bhava-abhavau tanoti mūlaprakṛtim natāḥ sma tām .. 21..
पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ॥ यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥ २२॥
पाहि त्रयोविंश-गुणान् सु शब्दितान् जगती-अशेषे समधिष्ठिता परा ॥ यद्-रूप-कर्माणि-जगत्त्रयः अपि ते विदुः न मूलप्रकृतिम् नताः स्म ताम् ॥ २२॥
pāhi trayoviṃśa-guṇān su śabditān jagatī-aśeṣe samadhiṣṭhitā parā .. yad-rūpa-karmāṇi-jagattrayaḥ api te viduḥ na mūlaprakṛtim natāḥ sma tām .. 22..
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ॥ न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्॥ २३॥
यद्-भक्ति-युक्ताः पुरुषाः तु नित्यम् दारिद्र्य-मोह-अत्यय-संभव-आदीन् ॥ न प्राप्नुवंति एव हि भक्त-वत्सलाम् सदा एव मूलप्रकृतिम् नताः स्म ताम्॥ २३॥
yad-bhakti-yuktāḥ puruṣāḥ tu nityam dāridrya-moha-atyaya-saṃbhava-ādīn .. na prāpnuvaṃti eva hi bhakta-vatsalām sadā eva mūlaprakṛtim natāḥ sma tām.. 23..
कुरु कार्यं महादेवि देवानां नः परेश्वरि ॥ विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ॥ २४॥
कुरु कार्यम् महादेवि देवानाम् नः पर-ईश्वरि ॥ विष्णु-मोहम् ह शिवे दुर्गे देवि नमः अस्तु ते ॥ २४॥
kuru kāryam mahādevi devānām naḥ para-īśvari .. viṣṇu-moham ha śive durge devi namaḥ astu te .. 24..
जलंधरस्य शंभोश्च रणे कैलासवासिनः ॥ प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे ॥ २५ ॥
जलंधरस्य शंभोः च रणे कैलास-वासिनः ॥ प्रवृत्ते तद्-वध-अर्थाय गौरी-शासनतः शिवे ॥ २५ ॥
jalaṃdharasya śaṃbhoḥ ca raṇe kailāsa-vāsinaḥ .. pravṛtte tad-vadha-arthāya gaurī-śāsanataḥ śive .. 25 ..
वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ॥ स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥ २६॥
वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ॥ स्व-वृषात् त्याजिता वह्नौ भस्मीभूता गतिम् गता ॥ २६॥
vṛndā vimohitā devi viṣṇunā hi prayatnataḥ .. sva-vṛṣāt tyājitā vahnau bhasmībhūtā gatim gatā .. 26..
जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ॥ गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥ २७ ॥
जलंधरः हतः युद्धे तद्-भयात् मा चिताः वयम् ॥ गिरिशेन कृपाम् कृत्वा भक्त-अनुग्रह-कारिणा ॥ २७ ॥
jalaṃdharaḥ hataḥ yuddhe tad-bhayāt mā citāḥ vayam .. giriśena kṛpām kṛtvā bhakta-anugraha-kāriṇā .. 27 ..
तदाज्ञया वयं सर्वे शरणं ते समागताः ॥ त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ ॥ २८ ॥
तद्-आज्ञया वयम् सर्वे शरणम् ते समागताः ॥ त्वम् हि शंभुः युवाम् देवि भक्त-उद्धार-परायणौ ॥ २८ ॥
tad-ājñayā vayam sarve śaraṇam te samāgatāḥ .. tvam hi śaṃbhuḥ yuvām devi bhakta-uddhāra-parāyaṇau .. 28 ..
वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ॥ तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः ॥ २९॥
वृन्दा-लावण्य-संभ्रातः विष्णुः तिष्ठति तत्र वै ॥ तद्-चिता-भस्म-संधारी ज्ञान-भ्रष्टः विमोहितः ॥ २९॥
vṛndā-lāvaṇya-saṃbhrātaḥ viṣṇuḥ tiṣṭhati tatra vai .. tad-citā-bhasma-saṃdhārī jñāna-bhraṣṭaḥ vimohitaḥ .. 29..
संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ॥ न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥ 2.5.26.३०॥
संसिद्ध-सुर-संघैः च बोधितः अपि महेश्वरि ॥ न बुध्यते हरिः सोथ तव माया-विमोहितः ॥ २।५।२६।३०॥
saṃsiddha-sura-saṃghaiḥ ca bodhitaḥ api maheśvari .. na budhyate hariḥ sotha tava māyā-vimohitaḥ .. 2.5.26.30..
कृपां कुरु महादेवि हरिं बोधय बोधय ।यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत् ॥ ३१ ॥
कृपाम् कुरु महादेवि हरिम् बोधय बोधय ।यथा स्व-लोकम् पायात् स सु चित्तः सुर-कार्य-कृत् ॥ ३१ ॥
kṛpām kuru mahādevi harim bodhaya bodhaya .yathā sva-lokam pāyāt sa su cittaḥ sura-kārya-kṛt .. 31 ..
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ॥ ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम्॥ ३२ ॥
इति स्तुवंतः ते देवाः तेजः-मंडलम् आस्थितम् ॥ ददृशुः गगने तत्र ज्वाला-व्याप्ताः दिगंतरम्॥ ३२ ॥
iti stuvaṃtaḥ te devāḥ tejaḥ-maṃḍalam āsthitam .. dadṛśuḥ gagane tatra jvālā-vyāptāḥ digaṃtaram.. 32 ..
तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ॥ अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ॥ ३३ ॥
तद्-मध्यात् भारतीम् सर्वे ब्रह्म-आद्याः च स वासवाः ॥ अमराः शुश्रुवुः व्यास काम-दाम् व्योम-चारिणीम् ॥ ३३ ॥
tad-madhyāt bhāratīm sarve brahma-ādyāḥ ca sa vāsavāḥ .. amarāḥ śuśruvuḥ vyāsa kāma-dām vyoma-cāriṇīm .. 33 ..
आकाशवाण्युवाच ।।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥ गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ॥ ३४ ।
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैः गुणैः ॥ ॥ ३४ ।
aham eva tridhā bhinnā tiṣṭhāmi trividhaiḥ guṇaiḥ .. .. 34 .
तत्र गच्छत यूयं वै तासामंतिक आदरात्॥ मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम् ॥ ३५॥
तत्र गच्छत यूयम् वै तासाम् अंतिके आदरात्॥ मद्-आज्ञया प्रसन्नाः ताः विधास्यंते तत् ईप्सितम् ॥ ३५॥
tatra gacchata yūyam vai tāsām aṃtike ādarāt.. mad-ājñayā prasannāḥ tāḥ vidhāsyaṃte tat īpsitam .. 35..
सनत्कुमार उवाच।।
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ॥ देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने॥ ३६॥
शृण्वताम् इति ताम् वाचम् अंतर्द्धानम् अगात् महः ॥ देवानाम् विस्मय-उत्फुल्ल-नेत्राणाम् तत् तदा मुने॥ ३६॥
śṛṇvatām iti tām vācam aṃtarddhānam agāt mahaḥ .. devānām vismaya-utphulla-netrāṇām tat tadā mune.. 36..
ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात्॥ गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः॥ ३७॥
ततस् सवें अपि ते देवाः श्रुत्वा तद्-वाक्यम् आदरात्॥ गौरीम् लक्ष्मीम् सुराम् च एव नेमुः तद्-वाक्य-चोदिताः॥ ३७॥
tatas saveṃ api te devāḥ śrutvā tad-vākyam ādarāt.. gaurīm lakṣmīm surām ca eva nemuḥ tad-vākya-coditāḥ.. 37..
तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः॥ नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ॥ ३८॥
तुष्टुवुः च महा-भक्त्या देवीः ताः सकलाः सुराः॥ नानाविधाभिः वाग्भिः ते ब्रह्म-आद्याः नत-मस्तकाः ॥ ३८॥
tuṣṭuvuḥ ca mahā-bhaktyā devīḥ tāḥ sakalāḥ surāḥ.. nānāvidhābhiḥ vāgbhiḥ te brahma-ādyāḥ nata-mastakāḥ .. 38..
ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ॥ महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम् ॥ ३९॥
ततस् अरम् व्यास देव्यः ताः आविर्भूताः च तद्-पुरस् ॥ महा-अद्भुतैः स्व-तेजोभिः भासयंत्यः दिगंतरम् ॥ ३९॥
tatas aram vyāsa devyaḥ tāḥ āvirbhūtāḥ ca tad-puras .. mahā-adbhutaiḥ sva-tejobhiḥ bhāsayaṃtyaḥ digaṃtaram .. 39..
अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा॥ प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन्॥ 2.5.26.४०॥
अथ ताः अमराः दृष्ट्वा सु प्रसन्नेन चेतसा॥ प्रणम्य तुष्टुवुः भक्त्या स्व-कार्यम् च न्यवेदयन्॥ २।५।२६।४०॥
atha tāḥ amarāḥ dṛṣṭvā su prasannena cetasā.. praṇamya tuṣṭuvuḥ bhaktyā sva-kāryam ca nyavedayan.. 2.5.26.40..
ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ॥ बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ॥ ४१॥
ततस् च एताः सुरान् दृष्ट्वा प्रणतान् भक्त-वत्सलः ॥ बीजानि प्रददुः तेभ्यः वाक्यम् ऊचुः च सादरम् ॥ ४१॥
tatas ca etāḥ surān dṛṣṭvā praṇatān bhakta-vatsalaḥ .. bījāni pradaduḥ tebhyaḥ vākyam ūcuḥ ca sādaram .. 41..
देव्य ऊचुः।।
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति॥ निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥ ४२॥
इमानि तत्र बीजानि विष्णुः यत्र अवतिष्ठति॥ निर्वपध्वम् ततस् कार्यम् भवताम् सिद्धिम् एष्यति ॥ ४२॥
imāni tatra bījāni viṣṇuḥ yatra avatiṣṭhati.. nirvapadhvam tatas kāryam bhavatām siddhim eṣyati .. 42..
सनत्कुमार उवाच ।।
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने॥ रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ॥ ४३॥
इति उक्त्वा ताः ततस् देव्या ऊंतर्हिताः अभवन् मुने॥ रुद्र-विष्णु-विधीनाम् हि शक्तयः त्रिगुण-आत्मिकाः ॥ ४३॥
iti uktvā tāḥ tatas devyā ūṃtarhitāḥ abhavan mune.. rudra-viṣṇu-vidhīnām hi śaktayaḥ triguṇa-ātmikāḥ .. 43..
ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ॥ तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः॥ ४४॥
ततस् तुष्टाः सुराः सर्वे ब्रह्म-आद्याः च स वासवाः ॥ तानि बीजानि संगृह्य ययुः यत्र हरिः स्थितः॥ ४४॥
tatas tuṣṭāḥ surāḥ sarve brahma-ādyāḥ ca sa vāsavāḥ .. tāni bījāni saṃgṛhya yayuḥ yatra hariḥ sthitaḥ.. 44..
वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः॥ स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने॥ ४५॥
वृन्द-आचिता-भूमि-तले चिक्षिपुः तानि ते सुराः॥ स्मृत्वा ताः संस्थिताः तत्र शिव-शक्ति-अंशकाः मुने॥ ४५॥
vṛnda-ācitā-bhūmi-tale cikṣipuḥ tāni te surāḥ.. smṛtvā tāḥ saṃsthitāḥ tatra śiva-śakti-aṃśakāḥ mune.. 45..
निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन्॥ धात्री च मालती चैव तुलसी च मुनीश्वर ॥ ४६ ॥
निक्षिप्तेभ्यः च बीजेभ्यः वनस्पत्यः त्रयः अभवन्॥ धात्री च मालती च एव तुलसी च मुनि-ईश्वर ॥ ४६ ॥
nikṣiptebhyaḥ ca bījebhyaḥ vanaspatyaḥ trayaḥ abhavan.. dhātrī ca mālatī ca eva tulasī ca muni-īśvara .. 46 ..
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥ गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः ॥ ४७॥
॥ गौरी-भवा च तुलसी तमः-सत्त्व-रजः-गुणाः ॥ ४७॥
.. gaurī-bhavā ca tulasī tamaḥ-sattva-rajaḥ-guṇāḥ .. 47..
विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ॥ उदतिष्ठत्तदा तासु रागातिशयविभ्रमात् ॥ ४८ ॥
विष्णुः वनस्पतीः दृष्ट्वा तदा स्त्री-रूपिणीः मुने ॥ उदतिष्ठत् तदा तासु राग-अतिशय-विभ्रमात् ॥ ४८ ॥
viṣṇuḥ vanaspatīḥ dṛṣṭvā tadā strī-rūpiṇīḥ mune .. udatiṣṭhat tadā tāsu rāga-atiśaya-vibhramāt .. 48 ..
दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ॥ तं चापि तुलसी धात्री रागेणैवावलोकताम् ॥ ४९ ॥
दृष्ट्वा स याचते मोहात् काम-आसक्तेन चेतसा ॥ तम् च अपि तुलसी धात्री रागेण एव अवलोकताम् ॥ ४९ ॥
dṛṣṭvā sa yācate mohāt kāma-āsaktena cetasā .. tam ca api tulasī dhātrī rāgeṇa eva avalokatām .. 49 ..
यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ॥ तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत्॥ 2.5.26.५०॥
यत् च बीजम् पुरा लक्ष्म्याः मायया एव समर्पितम् ॥ तस्मात् तद्-उद्भवा नारी तस्मिन् ईर्ष्या-परा अभवत्॥ २।५।२६।५०॥
yat ca bījam purā lakṣmyāḥ māyayā eva samarpitam .. tasmāt tad-udbhavā nārī tasmin īrṣyā-parā abhavat.. 2.5.26.50..
अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ॥ धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥ ५१॥
अतस् सा बर्बरी-इति आख्याम् अवाप अतीव गर्हिताम् ॥ धात्री-तुलस्यौ तद्-रागात् तस्य प्रीति-प्रदे सदा ॥ ५१॥
atas sā barbarī-iti ākhyām avāpa atīva garhitām .. dhātrī-tulasyau tad-rāgāt tasya prīti-prade sadā .. 51..
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ॥ वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ॥
ततस् विस्मृत-दुःखः असौ विष्णुः ताभ्याम् सह एव तु ॥ वैकुंठम् अगमत् तुष्टः सर्व-देवैः नमस्कृतः ॥
tatas vismṛta-duḥkhaḥ asau viṣṇuḥ tābhyām saha eva tu .. vaikuṃṭham agamat tuṣṭaḥ sarva-devaiḥ namaskṛtaḥ ..
कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ॥ सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ॥ ५३॥
कार्तिके मासि विप्र-इन्द्र धात्री च तुलसी सदा ॥ सर्व-देव-प्रिया अज्ञेया विष्णोः च एव विशेषतः ॥ ५३॥
kārtike māsi vipra-indra dhātrī ca tulasī sadā .. sarva-deva-priyā ajñeyā viṣṇoḥ ca eva viśeṣataḥ .. 53..
तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ॥ त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ॥ ५४॥
तत्र अपि तुलसी धन्या अतीव श्रेष्ठा महा-मुने ॥ त्यक्त्वा गणेशम् सर्वेषाम् प्रीति-दा सर्व-काम-दा ॥ ५४॥
tatra api tulasī dhanyā atīva śreṣṭhā mahā-mune .. tyaktvā gaṇeśam sarveṣām prīti-dā sarva-kāma-dā .. 54..
वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः॥ नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ॥ ५५॥
वैकुण्ठ-स्थम् हरिम् दृष्ट्वा ब्रह्म-इन्द्र-आद्याः च ते अमराः॥ नत्वा स्तुत्वा महा-विष्णुम् स्व-स्व-धामानि वै ययुः ॥ ५५॥
vaikuṇṭha-stham harim dṛṣṭvā brahma-indra-ādyāḥ ca te amarāḥ.. natvā stutvā mahā-viṣṇum sva-sva-dhāmāni vai yayuḥ .. 55..
वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान्॥ सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम् ॥ ५६॥
वैकुण्ठः अपि स्व-लोक-स्थः भ्रष्ट-मोहः सु बोधवान्॥ सुखी च अभूत् मुनि-श्रेष्ठ पूर्ववत् संस्मरन् शिवम् ॥ ५६॥
vaikuṇṭhaḥ api sva-loka-sthaḥ bhraṣṭa-mohaḥ su bodhavān.. sukhī ca abhūt muni-śreṣṭha pūrvavat saṃsmaran śivam .. 56..
इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ॥ सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम्॥ ५७॥
इति आख्यानम् अघोघ-घ्नम् सर्व-काम-प्रदम् नृणाम् ॥ सर्व काम-विकार-घ्नम् सर्व विज्ञान वर्द्धन॥ ५७॥
iti ākhyānam aghogha-ghnam sarva-kāma-pradam nṛṇām .. sarva kāma-vikāra-ghnam sarva vijñāna varddhana.. 57..
य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन्॥ शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ॥ ५८॥
यः इदम् हि पठेत् नित्यम् पाठयेत् वा अपि भक्तिमन्॥ शृणुयात् श्रावयेत् वा अपि स याति परमाम् गतिम् ॥ ५८॥
yaḥ idam hi paṭhet nityam pāṭhayet vā api bhaktiman.. śṛṇuyāt śrāvayet vā api sa yāti paramām gatim .. 58..
पठित्वा य इदं धीमानाख्यानं परमोत्तमम्॥ संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः॥ ५९॥
पठित्वा यः इदम् धीमान् आख्यानम् परम-उत्तमम्॥ संग्रामम् प्रविशेत् वीरः विजयी स्यात् न संशयः॥ ५९॥
paṭhitvā yaḥ idam dhīmān ākhyānam parama-uttamam.. saṃgrāmam praviśet vīraḥ vijayī syāt na saṃśayaḥ.. 59..
विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम्॥ वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम्॥ 2.5.26.६०॥
विप्राणाम् ब्रह्म-विद्या-दम् सत्रियाणाम् जय-प्रदम्॥ वैश्यानाम् सर्व-धन-दम् शूद्राणाम् सुख-दम् तु इदम्॥ २।५।२६।६०॥
viprāṇām brahma-vidyā-dam satriyāṇām jaya-pradam.. vaiśyānām sarva-dhana-dam śūdrāṇām sukha-dam tu idam.. 2.5.26.60..
शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम्॥ इहलोके परत्रापि सदा सद्गतिदायकम्॥ ६१॥
शंभु-भक्ति-प्रदम् व्यास सर्वेषाम् पाप-नाशनम्॥ इहलोके परत्र अपि सदा सत्-गति-दायकम्॥ ६१॥
śaṃbhu-bhakti-pradam vyāsa sarveṣām pāpa-nāśanam.. ihaloke paratra api sadā sat-gati-dāyakam.. 61..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥ २६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनम् नाम षड्विंशः अध्यायः ॥ २६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe jalaṃdharavadhānaṃtaradevīstutiviṣṇumohavidhvaṃsavarṇanam nāma ṣaḍviṃśaḥ adhyāyaḥ .. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In