| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः ॥ तपश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ॥ १॥
ततस् च शंखचूडः असौ जैगीषव्य-उपदेशतः ॥ तपः चकार सु प्रीत्या ब्रह्मणः पुष्करे चिरम् ॥ १॥
tatas ca śaṃkhacūḍaḥ asau jaigīṣavya-upadeśataḥ .. tapaḥ cakāra su prītyā brahmaṇaḥ puṣkare ciram .. 1..
गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः॥ स एकाग्रमना भूत्वा करणानि निगृह्य च ॥ २॥
गुरु-दत्ताम् ब्रह्म-विद्याम् जजाप नियत-इन्द्रियः॥ सः एकाग्र-मनाः भूत्वा करणानि निगृह्य च ॥ २॥
guru-dattām brahma-vidyām jajāpa niyata-indriyaḥ.. saḥ ekāgra-manāḥ bhūtvā karaṇāni nigṛhya ca .. 2..
तपंतं पुष्करे तं वै शंखचूडं च दानवम् ॥ वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः ॥ ३॥
तपंतम् पुष्करे तम् वै शंखचूडम् च दानवम् ॥ वरम् दातुम् जगाम आशु ब्रह्मालोक-गुरुः विभुः ॥ ३॥
tapaṃtam puṣkare tam vai śaṃkhacūḍam ca dānavam .. varam dātum jagāma āśu brahmāloka-guruḥ vibhuḥ .. 3..
वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा॥ स दृष्ट्वा तं ननामाति नम्रस्तुष्टाव सद्गिरा ॥ ४ ॥
वरम् ब्रूहि इति प्रोवाच दानव-इन्द्रम् विधिः तदा॥ स दृष्ट्वा तम् ननाम अति नम्रः तुष्टाव सत्-गिरा ॥ ४ ॥
varam brūhi iti provāca dānava-indram vidhiḥ tadā.. sa dṛṣṭvā tam nanāma ati namraḥ tuṣṭāva sat-girā .. 4 ..
वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम्॥ तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ॥ ५॥
वरम् ययाचे ब्रह्माणम् अजेय-त्वम् दिवौकसाम्॥ तथा इति आह विधिः तम् वै सु प्रसन्नेन चेतसा ॥ ५॥
varam yayāce brahmāṇam ajeya-tvam divaukasām.. tathā iti āha vidhiḥ tam vai su prasannena cetasā .. 5..
श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम्॥ दत्तवाञ्शंखचूडाय सर्वत्र विजयप्रदम् ॥ ६॥
श्री-कृष्ण-कवचम् दिव्यम् जगत्-मंगल-मंगलम्॥ दत्तवान् शंखचूडाय सर्वत्र विजय-प्रदम् ॥ ६॥
śrī-kṛṣṇa-kavacam divyam jagat-maṃgala-maṃgalam.. dattavān śaṃkhacūḍāya sarvatra vijaya-pradam .. 6..
बदरीं संप्रयाहि त्वं तुलस्या सह तत्र वै ॥ विवाहं कुरु तत्रैव सा तपस्यति कामतः ॥ ७ ॥
बदरीम् संप्रयाहि त्वम् तुलस्या सह तत्र वै ॥ विवाहम् कुरु तत्र एव सा तपस्यति कामतः ॥ ७ ॥
badarīm saṃprayāhi tvam tulasyā saha tatra vai .. vivāham kuru tatra eva sā tapasyati kāmataḥ .. 7 ..
धर्मध्वजसुता सेति संदिदेश च तं विधिः ॥ अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ॥ ८॥
धर्मध्वज-सुता सा इति संदिदेश च तम् विधिः ॥ अन्तर्धानम् जगाम आशु पश्यतः तस्य तद्-क्षणात् ॥ ८॥
dharmadhvaja-sutā sā iti saṃdideśa ca tam vidhiḥ .. antardhānam jagāma āśu paśyataḥ tasya tad-kṣaṇāt .. 8..
ततस्स शंखचूडो हि तपःसिद्धोऽतिपुष्करे ॥ गले बबंध कवचं जगन्मंगलमंगलम् ॥ ९॥
ततस् स शंखचूडः हि तपः-सिद्धः अति पुष्करे ॥ गले बबंध कवचम् जगत्-मंगल-मंगलम् ॥ ९॥
tatas sa śaṃkhacūḍaḥ hi tapaḥ-siddhaḥ ati puṣkare .. gale babaṃdha kavacam jagat-maṃgala-maṃgalam .. 9..
आज्ञया ब्राह्मणस्सोऽपि तपःसिद्धमनोरथः॥ समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम्॥ 2.5.28.१० ॥
आज्ञया ब्राह्मणः सः अपि तपः-सिद्ध-मनोरथः॥ समाययौ प्रहृष्ट-आस्यः तूर्णम् बदरिकाश्रमम्॥ २।५।२८।१० ॥
ājñayā brāhmaṇaḥ saḥ api tapaḥ-siddha-manorathaḥ.. samāyayau prahṛṣṭa-āsyaḥ tūrṇam badarikāśramam.. 2.5.28.10 ..
यदृच्छयाऽऽगतस्तत्र शंखचूडश्च दानवः॥ तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ॥ ११॥
यदृच्छया आगतः तत्र शंखचूडः च दानवः॥ तपः चरन्ती तुलसी यत्र धर्मध्वज-आत्मजा ॥ ११॥
yadṛcchayā āgataḥ tatra śaṃkhacūḍaḥ ca dānavaḥ.. tapaḥ carantī tulasī yatra dharmadhvaja-ātmajā .. 11..
सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता॥ सकटाक्षं ददर्शासौ तमेव पुरुषं परम्॥ १२॥
सुरूपा सु स्मिता तन्वी शुभ-भूषण-भूषिता॥ स कटाक्षम् ददर्श असौ तम् एव पुरुषम् परम्॥ १२॥
surūpā su smitā tanvī śubha-bhūṣaṇa-bhūṣitā.. sa kaṭākṣam dadarśa asau tam eva puruṣam param.. 12..
दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् ॥ उवास तत्समीपे तु मधुरं तामुवाच सः॥ १३॥
दृष्ट्वा ताम् ललिता रम्याम् सु शीलाम् सुन्दरीम् सतीम् ॥ उवास तद्-समीपे तु मधुरम् ताम् उवाच सः॥ १३॥
dṛṣṭvā tām lalitā ramyām su śīlām sundarīm satīm .. uvāsa tad-samīpe tu madhuram tām uvāca saḥ.. 13..
शंखचूड उवाच ।।
का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् ॥ मौनीभूता किंकरं मां संभावितुमिहार्हसि ॥ १४ ॥
का त्वम् कस्य सुता त्वम् हि किम् करोषि स्थिता अत्र किम् ॥ मौनीभूता किंकरम् माम् संभावितुम् इह अर्हसि ॥ १४ ॥
kā tvam kasya sutā tvam hi kim karoṣi sthitā atra kim .. maunībhūtā kiṃkaram mām saṃbhāvitum iha arhasi .. 14 ..
सनत्कुमार उवाच।।
इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा ॥ १५ ॥
इति एवम् वचनम् श्रुत्वा स कामम् तम् उवाच सा ॥ १५ ॥
iti evam vacanam śrutvā sa kāmam tam uvāca sā .. 15 ..
तुलस्युवाच ।।
धर्मध्वजसुताहं च तपस्यामि तपस्विनी॥ तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम्॥ १६॥
धर्मध्वज-सुता अहम् च तपस्यामि तपस्विनी॥ तपः-वने च तिष्ठामि कः त्वम् गच्छ यथासुखम्॥ १६॥
dharmadhvaja-sutā aham ca tapasyāmi tapasvinī.. tapaḥ-vane ca tiṣṭhāmi kaḥ tvam gaccha yathāsukham.. 16..
नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा ॥ निन्द्या दोषकरी माया शृंखला ह्यनुशायिनाम् ॥ १७॥
नारी-जातिः मोहिनी च ब्रह्म-आदीनाम् विष-उपमा ॥ निन्द्या दोष-करी माया शृंखला हि अनुशायिनाम् ॥ १७॥
nārī-jātiḥ mohinī ca brahma-ādīnām viṣa-upamā .. nindyā doṣa-karī māyā śṛṃkhalā hi anuśāyinām .. 17..
सनत्कुमार उवाच ।।
इत्युक्त्वा तुलसी तं च सरसं विरराम ह ॥ दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे ॥ १८ ॥
इति उक्त्वा तुलसी तम् च सरसम् विरराम ह ॥ दृष्ट्वा ताम् स स्मिताम् सः उपि प्रवक्तुम् उपचक्रमे ॥ १८ ॥
iti uktvā tulasī tam ca sarasam virarāma ha .. dṛṣṭvā tām sa smitām saḥ upi pravaktum upacakrame .. 18 ..
शंखचूड उवाच ।।
त्वया यत्कथितं देवि न च सर्वमलीककम् ॥ किञ्चित्सत्यमलीकं च किंचिन्मत्तो निशामय ॥ १९ ॥
त्वया यत् कथितम् देवि न च सर्वम् अलीककम् ॥ किञ्चिद् सत्यम् अलीकम् च किंचिद् मत्तः निशामय ॥ १९ ॥
tvayā yat kathitam devi na ca sarvam alīkakam .. kiñcid satyam alīkam ca kiṃcid mattaḥ niśāmaya .. 19 ..
पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः ॥ न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ॥ 2.5.28.२०॥
पतिव्रताः स्त्रियः याः च तासाम् मध्ये त्वम् अग्रणीः ॥ न च अहम् पाप-दृश् कामी तथा त्वम् न इति धीः मम ॥ २।५।२८।२०॥
pativratāḥ striyaḥ yāḥ ca tāsām madhye tvam agraṇīḥ .. na ca aham pāpa-dṛś kāmī tathā tvam na iti dhīḥ mama .. 2.5.28.20..
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना॥ गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ २१ ॥
आगच्छामि त्वद्-समीपम् आज्ञया ब्रह्मणः अधुना॥ गांधर्वेण विवाहेन त्वाम् ग्रहीष्यामि शोभने ॥ २१ ॥
āgacchāmi tvad-samīpam ājñayā brahmaṇaḥ adhunā.. gāṃdharveṇa vivāhena tvām grahīṣyāmi śobhane .. 21 ..
शंखचूडोऽहमेवास्मि देवविद्रावकारकः ॥ मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ॥ २२॥
शंखचूडः अहम् एव अस्मि देव-विद्राव-कारकः ॥ माम् न जानासि किम् भद्रे न श्रुतः अहम् कदाचन ॥ २२॥
śaṃkhacūḍaḥ aham eva asmi deva-vidrāva-kārakaḥ .. mām na jānāsi kim bhadre na śrutaḥ aham kadācana .. 22..
दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः ॥ सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा ॥ २३ ॥
दनु-वंश्यः विशेषेण मन्द-पुत्रः च दानवः ॥ सुदामा नाम गोपः ऊहम् पार्षदः च हरेः पुरा ॥ २३ ॥
danu-vaṃśyaḥ viśeṣeṇa manda-putraḥ ca dānavaḥ .. sudāmā nāma gopaḥ ūham pārṣadaḥ ca hareḥ purā .. 23 ..
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ॥ २४ ॥
अधुना दानव-इन्द्रः अहम् राधिकायाः च शापतः ॥ जातिस्मरः अहम् जानामि सर्वम् कृष्ण-प्रभावतः ॥ २४ ॥
adhunā dānava-indraḥ aham rādhikāyāḥ ca śāpataḥ .. jātismaraḥ aham jānāmi sarvam kṛṣṇa-prabhāvataḥ .. 24 ..
सनत्कुमार उवाच ।।
एवमुक्त्वा शंखचूडो विरराम च तत्पुरः॥ दानवेंद्रेण सेत्युक्ता वचनं सत्यमादरात् ॥ सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ २५॥
एवम् उक्त्वा शंखचूडः विरराम च तद्-पुरस्॥ दानव-इंद्रेण सा इति उक्ता वचनम् सत्यम् आदरात् ॥ स स्मितम् तुलसी तुष्टा प्रवक्तुम् उपचक्रमे ॥ २५॥
evam uktvā śaṃkhacūḍaḥ virarāma ca tad-puras.. dānava-iṃdreṇa sā iti uktā vacanam satyam ādarāt .. sa smitam tulasī tuṣṭā pravaktum upacakrame .. 25..
तुलस्युवाच ।।
त्वयाहमधुना ॥ सत्त्वविचारेण पराजिता॥ स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ॥ २६॥
त्वया अहम् अधुना ॥ सत्त्व-विचारेण पराजिता॥ स धन्यः पुरुषः लोके न स्त्रिया यः पराजितः ॥ २६॥
tvayā aham adhunā .. sattva-vicāreṇa parājitā.. sa dhanyaḥ puruṣaḥ loke na striyā yaḥ parājitaḥ .. 26..
सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः ॥ निन्दंति पितरो देवा मानवास्सकलाश्च तम् ॥ २७ ॥
सत्क्रिया उपि अशुचिः नित्यम् स पुमान् यः स्त्रिया जितः ॥ निन्दंति पितरः देवाः मानवाः सकलाः च तम् ॥ २७ ॥
satkriyā upi aśuciḥ nityam sa pumān yaḥ striyā jitaḥ .. nindaṃti pitaraḥ devāḥ mānavāḥ sakalāḥ ca tam .. 27 ..
शुध्येद्विप्रो दशाहेन जातके मृतसूतके ॥ क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ २८ ॥
शुध्येत् विप्रः दश-अहेन जातके मृत-सूतके ॥ क्षत्रियः द्वादश-अहेन वैश्यः पञ्चदश-अहतः ॥ २८ ॥
śudhyet vipraḥ daśa-ahena jātake mṛta-sūtake .. kṣatriyaḥ dvādaśa-ahena vaiśyaḥ pañcadaśa-ahataḥ .. 28 ..
शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् ॥ न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ॥ २९ ॥
शूद्रः मासेन शुध्येत् तु हि इति वेद-अनुशासनम् ॥ न शुचिः स्त्री-जितः क्वापि चिता-दाहम् विना पुमान् ॥ २९ ॥
śūdraḥ māsena śudhyet tu hi iti veda-anuśāsanam .. na śuciḥ strī-jitaḥ kvāpi citā-dāham vinā pumān .. 29 ..
न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् ॥ न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ॥ 2.5.28.३०॥
न गृह्णति इच्छया तस्मात् पितरः पिण्ड-तर्पणम् ॥ न गृह्णन्ति सुराः तेन दत्तम् पुष्प-फल-आदिकम् ॥ २।५।२८।३०॥
na gṛhṇati icchayā tasmāt pitaraḥ piṇḍa-tarpaṇam .. na gṛhṇanti surāḥ tena dattam puṣpa-phala-ādikam .. 2.5.28.30..
तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः ॥ विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ ३१ ॥
तस्य किम् ज्ञान-सु तपः जप-होम प्रपूजनैः ॥ विद्यया दानतः किम् वा स्त्रीभिः यस्य मनः हृतम् ॥ ३१ ॥
tasya kim jñāna-su tapaḥ japa-homa prapūjanaiḥ .. vidyayā dānataḥ kim vā strībhiḥ yasya manaḥ hṛtam .. 31 ..
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ॥ कृत्वा कांतपरीक्षां वै वृणुयात्कामिनी वरम् ॥ ३२ ॥
विद्या-प्रभाव-ज्ञान-अर्थम् मया त्वम् च परीक्षितः ॥ कृत्वा कान्त-परीक्षाम् वै वृणुयात् कामिनी वरम् ॥ ३२ ॥
vidyā-prabhāva-jñāna-artham mayā tvam ca parīkṣitaḥ .. kṛtvā kānta-parīkṣām vai vṛṇuyāt kāminī varam .. 32 ..
सनत्कुमार उवाच ।।
इत्येवं प्रवदंत्यां तु तुलस्यां तत्क्षणे विधिः ॥ तत्राजगाम संसृष्टा प्रोवाच वचनं ततः ॥ ३३ ॥
इति एवम् प्रवदंत्याम् तु तुलस्याम् तद्-क्षणे विधिः ॥ तत्र आजगाम संसृष्टा प्रोवाच वचनम् ततस् ॥ ३३ ॥
iti evam pravadaṃtyām tu tulasyām tad-kṣaṇe vidhiḥ .. tatra ājagāma saṃsṛṣṭā provāca vacanam tatas .. 33 ..
ब्रह्मोवाच ।।
किं करोषि शंखचूड संवादमनया सह ॥ गांधर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥ ३४ ॥
किम् करोषि शंखचूड संवादम् अनया सह ॥ गांधर्वेण विवाहेन त्वम् अस्याः ग्रहणम् कुरु ॥ ३४ ॥
kim karoṣi śaṃkhacūḍa saṃvādam anayā saha .. gāṃdharveṇa vivāhena tvam asyāḥ grahaṇam kuru .. 34 ..
त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती ॥ विदग्धाया विदग्धेन संगमो गुणवान् भवेत् ॥ ३५ ॥
त्वम् वै पुरुष-रत्नम् च स्त्री-रत्नम् च तु इयम् सती ॥ विदग्धायाः विदग्धेन संगमः गुणवान् भवेत् ॥ ३५ ॥
tvam vai puruṣa-ratnam ca strī-ratnam ca tu iyam satī .. vidagdhāyāḥ vidagdhena saṃgamaḥ guṇavān bhavet .. 35 ..
निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् ॥ योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥ ३६ ॥
निर्विरोधम् सुखम् राजन् कः वा त्यजति दुर्लभम् ॥ यः अविरोध-सुख-त्यागी स पशुः न अत्र संशयः ॥ ३६ ॥
nirvirodham sukham rājan kaḥ vā tyajati durlabham .. yaḥ avirodha-sukha-tyāgī sa paśuḥ na atra saṃśayaḥ .. 36 ..
किं त्वं परीक्षसे कांतमीदृशं गुणिनं सति ॥ देवानामसुराणां च दानवानां विमर्दकम् ॥ ३७ ॥
किम् त्वम् परीक्षसे कान्तम् ईदृशम् गुणिनम् सति ॥ देवानाम् असुराणाम् च दानवानाम् विमर्दकम् ॥ ३७ ॥
kim tvam parīkṣase kāntam īdṛśam guṇinam sati .. devānām asurāṇām ca dānavānām vimardakam .. 37 ..
अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा ॥ स्थानेस्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ॥ ३८ ॥
अनेन सार्द्धम् सु चिरम् विहारम् कुरु सर्वदा ॥ स्थाने स्थाने यथेच्छम् च सर्व-लोकेषु सुन्दरि ॥ ३८ ॥
anena sārddham su ciram vihāram kuru sarvadā .. sthāne sthāne yatheccham ca sarva-lokeṣu sundari .. 38 ..
अंते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः ॥ चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि॥ ३९॥
अन्ते प्राप्स्यति गोलोके श्री-कृष्णम् पुनर् एव सः ॥ चतुर्भुजम् च वैकुण्ठे मृते तस्मिन् त्वम् आप्स्यसि॥ ३९॥
ante prāpsyati goloke śrī-kṛṣṇam punar eva saḥ .. caturbhujam ca vaikuṇṭhe mṛte tasmin tvam āpsyasi.. 39..
सनत्कुमार उवाच।।
इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः॥ गांधर्वेण विवाहेन जगृहे तां च दानवः॥ 2.5.28.४०॥
इति एवम् आशिषम् दत्त्वा स्व-आलयम् तु ययौ विधिः॥ गांधर्वेण विवाहेन जगृहे ताम् च दानवः॥ २।५।२८।४०॥
iti evam āśiṣam dattvā sva-ālayam tu yayau vidhiḥ.. gāṃdharveṇa vivāhena jagṛhe tām ca dānavaḥ.. 2.5.28.40..
एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह॥ स रेमे रमया सार्द्धं वासगेहे मनोरमे॥ ४१॥
एवम् विवाह्य तुलसीम् पितुः स्थानम् जगाम ह॥ स रेमे रमया सार्द्धम् वासगेहे मनोरमे॥ ४१॥
evam vivāhya tulasīm pituḥ sthānam jagāma ha.. sa reme ramayā sārddham vāsagehe manorame.. 41..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः॥ २८॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडतपःकरणविवाहवर्णनम् नाम अष्टविंशः अध्यायः॥ २८॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍatapaḥkaraṇavivāhavarṇanam nāma aṣṭaviṃśaḥ adhyāyaḥ.. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In