| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
स्वगेहमागते तस्मिञ्शंखचूडे विवाहिते॥ तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ॥ १ ॥
स्व-गेहम् आगते तस्मिन् शंखचूडे विवाहिते॥ तपः कृत्वा वरम् प्राप्य मुमुदुः दानव-आदयः ॥ १ ॥
sva-geham āgate tasmin śaṃkhacūḍe vivāhite.. tapaḥ kṛtvā varam prāpya mumuduḥ dānava-ādayaḥ .. 1 ..
स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः ॥ सर्वे सुरास्संमिलितास्समाजग्मुस्तदंतिकम्॥ २॥
स्व-लोकात् आशु निर्गत्य गुरुणा स्वेन संयुताः ॥ सर्वे सुराः संमिलिताः समाजग्मुः तद्-अंतिकम्॥ २॥
sva-lokāt āśu nirgatya guruṇā svena saṃyutāḥ .. sarve surāḥ saṃmilitāḥ samājagmuḥ tad-aṃtikam.. 2..
प्रणम्य तं सविनयं संस्तुत्य विविधादरात् ॥ स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम्॥ ३॥
प्रणम्य तम् स विनयम् संस्तुत्य विविध-आदरात् ॥ स्थिताः तत्र एव सु प्रीत्या मत्वा तेजस्विनम् विभुम्॥ ३॥
praṇamya tam sa vinayam saṃstutya vividha-ādarāt .. sthitāḥ tatra eva su prītyā matvā tejasvinam vibhum.. 3..
सोपि दम्भात्मजो दृष्ट्वा गतं कुल गुरुं च तम् ॥ प्रणनाम महाभक्त्या साष्टांगं परमादरात् ॥ ४ ॥
सः अपि दम्भ-आत्मजः दृष्ट्वा गतम् कुल गुरुम् च तम् ॥ प्रणनाम महा-भक्त्या स अष्टांगम् परम-आदरात् ॥ ४ ॥
saḥ api dambha-ātmajaḥ dṛṣṭvā gatam kula gurum ca tam .. praṇanāma mahā-bhaktyā sa aṣṭāṃgam parama-ādarāt .. 4 ..
अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् ॥ वृत्तांतं कथयामास देवदानवयोस्तदा ॥ ५ ॥
अथ शुक्रः कुल-आचार्यः दृष्ट्वा आशिषम् अनुत्तमम् ॥ वृत्तांतम् कथयामास देव-दानवयोः तदा ॥ ५ ॥
atha śukraḥ kula-ācāryaḥ dṛṣṭvā āśiṣam anuttamam .. vṛttāṃtam kathayāmāsa deva-dānavayoḥ tadā .. 5 ..
स्वाभाविकं च तद्वैरमसुराणां पराभवम् ॥ विजयं निर्जराणां च जीवसाहाय्यमेव च ॥ ६॥
स्वाभाविकम् च तत् वैरम् असुराणाम् पराभवम् ॥ विजयम् निर्जराणाम् च जीव-साहाय्यम् एव च ॥ ६॥
svābhāvikam ca tat vairam asurāṇām parābhavam .. vijayam nirjarāṇām ca jīva-sāhāyyam eva ca .. 6..
ततस्स सम्मतं कृत्वा सुरैस्सर्वैस्समुत्सवम् ॥ दानवाद्यसुराणां तमधिपं विदधे गुरुः ॥ ७॥
ततस् स सम्मतम् कृत्वा सुरैः सर्वैः समुत्सवम् ॥ दानव-आदि-असुराणाम् तम् अधिपम् विदधे गुरुः ॥ ७॥
tatas sa sammatam kṛtvā suraiḥ sarvaiḥ samutsavam .. dānava-ādi-asurāṇām tam adhipam vidadhe guruḥ .. 7..
तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् ॥ उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ॥ ६ ॥
तदा समुत्सवः जातः असुराणाम् मुदित-आत्मनाम् ॥ उपायनानि सु प्रीत्या ददुः तस्मै च ते अखिलाः ॥ ६ ॥
tadā samutsavaḥ jātaḥ asurāṇām mudita-ātmanām .. upāyanāni su prītyā daduḥ tasmai ca te akhilāḥ .. 6 ..
अथ दम्भात्मजो वीरश्शंखचूडः प्रतापवान्॥ राज्याभिषेकमासाद्य स रेजे सुरराट् तदा ॥ ९ ॥
अथ दम्भ-आत्मजः वीरः शंखचूडः प्रतापवान्॥ राज्य-अभिषेकम् आसाद्य स रेजे सुरराज् तदा ॥ ९ ॥
atha dambha-ātmajaḥ vīraḥ śaṃkhacūḍaḥ pratāpavān.. rājya-abhiṣekam āsādya sa reje surarāj tadā .. 9 ..
स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् ॥ रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ॥ 2.5.29.१०॥
स सेनाम् महतीम् कर्षन् दैत्य-दानव-रक्षसाम् ॥ रथम् आस्थाय तरसा जेतुम् शक्र-पुरीम् ययौ ॥ २।५।२९।१०॥
sa senām mahatīm karṣan daitya-dānava-rakṣasām .. ratham āsthāya tarasā jetum śakra-purīm yayau .. 2.5.29.10..
गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् ॥ विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव ॥ ११ ॥
गच्छन् स दानव-इन्द्रः तु तेषाम् सेवन-कुर्वताम् ॥ विरेजे शशि-वत् भानाम् ग्रहाणाम् ग्रह-राज् इव ॥ ११ ॥
gacchan sa dānava-indraḥ tu teṣām sevana-kurvatām .. vireje śaśi-vat bhānām grahāṇām graha-rāj iva .. 11 ..
आगच्छंतं शङ्खचूडमाकर्ण्याखण्डलस्स्वराट् ॥ निखिलैरमरैस्सार्द्धं तेन योद्धुं समुद्यतः ॥ १२ ॥
आगच्छन्तम् शङ्खचूडम् आकर्ण्य आखण्डलः स्वराज् ॥ निखिलैः अमरैः सार्द्धम् तेन योद्धुम् समुद्यतः ॥ १२ ॥
āgacchantam śaṅkhacūḍam ākarṇya ākhaṇḍalaḥ svarāj .. nikhilaiḥ amaraiḥ sārddham tena yoddhum samudyataḥ .. 12 ..
तदाऽसुरैस्सुराणां च संग्रामस्तुमुलो ह्यभूत् ॥ वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ॥ १३ ॥
तदा असुरैः सुराणाम् च संग्रामः तुमुलः हि अभूत् ॥ करः दः ॥ १३ ॥
tadā asuraiḥ surāṇām ca saṃgrāmaḥ tumulaḥ hi abhūt .. karaḥ daḥ .. 13 ..
महान्कोलाहलो जातो वीराणां गर्जतां रणे ॥ वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ॥ १४ ॥
महान् कोलाहलः जातः वीराणाम् गर्जताम् रणे ॥ वाद्य-ध्वनिः तथा च आसीत् तत्र वीर-त्ववर्द्धिनी ॥ १४ ॥
mahān kolāhalaḥ jātaḥ vīrāṇām garjatām raṇe .. vādya-dhvaniḥ tathā ca āsīt tatra vīra-tvavarddhinī .. 14 ..
देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः ॥ पराजयं च संप्रापुरसुरा दुद्रुवुर्भयात् ॥ १५॥
देवाः प्रकुप्य युयुधुः असुरैः बलवत्तराः ॥ पराजयम् च संप्रापुः असुराः दुद्रुवुः भयात् ॥ १५॥
devāḥ prakupya yuyudhuḥ asuraiḥ balavattarāḥ .. parājayam ca saṃprāpuḥ asurāḥ dudruvuḥ bhayāt .. 15..
पलायमानास्तान्दृष्ट्वा शंखचूडस्स्वयं प्रभुः ॥ युयुधे निर्जरैस्साकं सिंहनादं प्रगर्ज्य च ॥ १६ ॥
पलायमानाः तान् दृष्ट्वा शंखचूडः स्वयम् प्रभुः ॥ युयुधे निर्जरैः साकम् सिंहनादम् प्रगर्ज्य च ॥ १६ ॥
palāyamānāḥ tān dṛṣṭvā śaṃkhacūḍaḥ svayam prabhuḥ .. yuyudhe nirjaraiḥ sākam siṃhanādam pragarjya ca .. 16 ..
तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् ॥ प्रदुद्रुवुस्सुरास्सर्वे तत्सुतेजो न सेहिरे ॥ १७ ॥
तरसा सहसा चक्रे कदनम् त्रिदिवौकसाम् ॥ प्रदुद्रुवुः सुराः सर्वे तत् सु तेजः न सेहिरे ॥ १७ ॥
tarasā sahasā cakre kadanam tridivaukasām .. pradudruvuḥ surāḥ sarve tat su tejaḥ na sehire .. 17 ..
यत्र तत्र स्थिता दीना गिरीणां कंदरासु च ॥ तदधीना न स्वतंत्रा निष्प्रभाः सागरा यथा ॥ १८॥
यत्र तत्र स्थिताः दीनाः गिरीणाम् कंदरासु च ॥ तद्-अधीनाः न स्वतंत्राः निष्प्रभाः सागराः यथा ॥ १८॥
yatra tatra sthitāḥ dīnāḥ girīṇām kaṃdarāsu ca .. tad-adhīnāḥ na svataṃtrāḥ niṣprabhāḥ sāgarāḥ yathā .. 18..
सोपि दंभात्मजश्शूरो दानवेन्द्रः प्रतापवान् ॥ सुराधिकारान्संजह्रे सर्वाँल्लोकान्विजित्य च ॥ १९॥
सः उपि दंभ-आत्मजः शूरः दानव-इन्द्रः प्रतापवान् ॥ सुरा-अधिकारान् संजह्रे सर्वान् लोकान् विजित्य च ॥ १९॥
saḥ upi daṃbha-ātmajaḥ śūraḥ dānava-indraḥ pratāpavān .. surā-adhikārān saṃjahre sarvān lokān vijitya ca .. 19..
त्रैलोक्यं स्ववशंचक्रे यज्ञभागांश्च कृत्स्नशः ॥ स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ॥ 2.5.29.२०॥
त्रैलोक्यम् स्व-वशंचक्रे यज्ञ-भागान् च कृत्स्नशस् ॥ स्वयम् इन्द्रः बभूव अपि शासितम् निखिलम् जगत् ॥ २।५।२९।२०॥
trailokyam sva-vaśaṃcakre yajña-bhāgān ca kṛtsnaśas .. svayam indraḥ babhūva api śāsitam nikhilam jagat .. 2.5.29.20..
कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च ॥ कारयामास वायव्यमधिकारं स्वशक्तितः ॥ २१॥
कौबेरम् ऐन्दवम् सौर्यम् आग्नेयम् याम्यम् एव च ॥ कारयामास वायव्यम् अधिकारम् स्व-शक्तितः ॥ २१॥
kauberam aindavam sauryam āgneyam yāmyam eva ca .. kārayāmāsa vāyavyam adhikāram sva-śaktitaḥ .. 21..
देवानामसुराणां च दानवानां च रक्षसाम् ॥ गंधर्वाणां च नागानां किन्नराणां रसौकसाम् ॥ २२ ॥
देवानाम् असुराणाम् च दानवानाम् च रक्षसाम् ॥ गंधर्वाणाम् च नागानाम् किन्नराणाम् रसौकसाम् ॥ २२ ॥
devānām asurāṇām ca dānavānām ca rakṣasām .. gaṃdharvāṇām ca nāgānām kinnarāṇām rasaukasām .. 22 ..
त्रिलोकस्य परेषां च सकलानामधीश्वरः ॥ स बभूव महावीरश्शंखचूडो महाबली ॥ २३ ॥
त्रिलोकस्य परेषाम् च सकलानाम् अधीश्वरः ॥ स बभूव महा-वीरः शंखचूडः महा-बली ॥ २३ ॥
trilokasya pareṣām ca sakalānām adhīśvaraḥ .. sa babhūva mahā-vīraḥ śaṃkhacūḍaḥ mahā-balī .. 23 ..
एवं स बुभुजे राज्यं राजराजेश्वरो महान् ॥ सर्वेषां भुवनानां च शंखचूडश्चिरं समाः ॥ २४ ॥
एवम् स बुभुजे राज्यम् राजराज-ईश्वरः महान् ॥ सर्वेषाम् भुवनानाम् च शंखचूडः चिरम् समाः ॥ २४ ॥
evam sa bubhuje rājyam rājarāja-īśvaraḥ mahān .. sarveṣām bhuvanānām ca śaṃkhacūḍaḥ ciram samāḥ .. 24 ..
तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः ॥ आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ॥ २५॥
तस्य राज्ये न दुर्भिक्षम् न मारी न अशुभ-ग्रहाः ॥ आधयः व्याधयः ना एव सुखिन्यः च प्रजाः सदा ॥ २५॥
tasya rājye na durbhikṣam na mārī na aśubha-grahāḥ .. ādhayaḥ vyādhayaḥ nā eva sukhinyaḥ ca prajāḥ sadā .. 25..
अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः ॥ ओषध्यो विविधाश्चासन्सफलास्सरसाः सदा ॥ २६॥
अ कृष्ट-पच्या पृथिवी ददौ सस्यानि अनेकशस् ॥ ओषध्यः विविधाः च आसन् स फलाः स रसाः सदा ॥ २६॥
a kṛṣṭa-pacyā pṛthivī dadau sasyāni anekaśas .. oṣadhyaḥ vividhāḥ ca āsan sa phalāḥ sa rasāḥ sadā .. 26..
मण्याकराश्च नितरां रत्नखन्यश्च सागराः॥ सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः ॥ २७ ॥
मणि-आकराः च नितराम् रत्न-खन्यः च सागराः॥ सदा पुष्प-फलाः वृक्षाः नद्यः तु सलिल-आवहाः ॥ २७ ॥
maṇi-ākarāḥ ca nitarām ratna-khanyaḥ ca sāgarāḥ.. sadā puṣpa-phalāḥ vṛkṣāḥ nadyaḥ tu salila-āvahāḥ .. 27 ..
देवान् विनाखिला जीवास्सुखिनो निर्विकारकाः ॥ स्वस्वधर्मा स्थितास्सर्वे चतुर्वर्णाश्रमाः परे ॥ २८॥
देवान् विना अखिलाः जीवाः सुखिनः निर्विकारकाः ॥ स्व-स्वधर्मा स्थिताः सर्वे चतुर्-वर्ण-आश्रमाः परे ॥ २८॥
devān vinā akhilāḥ jīvāḥ sukhinaḥ nirvikārakāḥ .. sva-svadharmā sthitāḥ sarve catur-varṇa-āśramāḥ pare .. 28..
तस्मिच्छासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् ॥ भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः॥ २९॥
तस्मिन् शासति त्रैलोक्ये न कश्चिद् दुःखितः अभवत् ॥ भ्रातृ-वैर-त्वम् आश्रित्य केवलम् दुःखिनः अमराः॥ २९॥
tasmin śāsati trailokye na kaścid duḥkhitaḥ abhavat .. bhrātṛ-vaira-tvam āśritya kevalam duḥkhinaḥ amarāḥ.. 29..
स शंखचूडः प्रबलः कृष्णस्य परमस्सखा ॥ कृष्णभक्तिरतस्साधुस्सदा गोलोकवासिनः ॥ 2.5.29.३० ॥
स शंखचूडः प्रबलः कृष्णस्य परमः सखा ॥ कृष्ण-भक्ति-रतः साधुः सदा गो लोक-वासिनः ॥ २।५।२९।३० ॥
sa śaṃkhacūḍaḥ prabalaḥ kṛṣṇasya paramaḥ sakhā .. kṛṣṇa-bhakti-rataḥ sādhuḥ sadā go loka-vāsinaḥ .. 2.5.29.30 ..
पूर्वशापप्रभावेण दानवीं योनिमाश्रितः ॥ न दानवमतिस्सोभूद्दानवत्वेऽपि वै मुने ॥ ३१ ॥
पूर्व-शाप-प्रभावेण दानवीम् योनिम् आश्रितः ॥ न दानव-मतिः सोभूत् दानव-त्वे अपि वै मुने ॥ ३१ ॥
pūrva-śāpa-prabhāveṇa dānavīm yonim āśritaḥ .. na dānava-matiḥ sobhūt dānava-tve api vai mune .. 31 ..
ततस्सुरगणास्सर्वे हृतराज्या पराजिताः ॥ संमंत्र्य सर्षयस्तात प्रययुर्ब्रह्मणस्सभाम् ॥ ३२ ॥
ततस् सुर-गणाः सर्वे हृत-राज्या पराजिताः ॥ संमंत्र्य स ऋषयः तात प्रययुः ब्रह्मणः सभाम् ॥ ३२ ॥
tatas sura-gaṇāḥ sarve hṛta-rājyā parājitāḥ .. saṃmaṃtrya sa ṛṣayaḥ tāta prayayuḥ brahmaṇaḥ sabhām .. 32 ..
तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः ॥ ब्रह्मणे कथयामासुस्सर्वं वृत्तांतमाकुलाः ॥ ३३ ॥
तत्र दृष्ट्वा विधातारम् नत्वा स्तुत्वा विशेषतः ॥ ब्रह्मणे कथयामासुः सर्वम् वृत्तांतम् आकुलाः ॥ ३३ ॥
tatra dṛṣṭvā vidhātāram natvā stutvā viśeṣataḥ .. brahmaṇe kathayāmāsuḥ sarvam vṛttāṃtam ākulāḥ .. 33 ..
ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि ॥ तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ॥ ३४ ॥
ब्रह्मा तदा समाश्वास्य सुरान् सर्वान् मुनीन् अपि ॥ तैः च सार्द्धम् ययौ लोके वैकुण्ठम् सुख-दम् सताम् ॥ ३४ ॥
brahmā tadā samāśvāsya surān sarvān munīn api .. taiḥ ca sārddham yayau loke vaikuṇṭham sukha-dam satām .. 34 ..
ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैस्सह ॥ किरीटिनं कुंडलिनं वनमालाविभूषितम् ॥ ३५ ॥
ददर्श तत्र लक्ष्मीशम् ब्रह्मा देव-गणैः सह ॥ किरीटिनम् कुंडलिनम् वनमाला-विभूषितम् ॥ ३५ ॥
dadarśa tatra lakṣmīśam brahmā deva-gaṇaiḥ saha .. kirīṭinam kuṃḍalinam vanamālā-vibhūṣitam .. 35 ..
शंखचक्रगदापद्मधरं देवं चतुर्भुजम् ॥ सनंदनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ॥ ३६ ॥
शंख-चक्र-गदा-पद्म-धरम् देवम् चतुर्भुजम् ॥ सनंदन-आद्यैः सिद्धैः च सेवितम् पीत-वाससम् ॥ ३६ ॥
śaṃkha-cakra-gadā-padma-dharam devam caturbhujam .. sanaṃdana-ādyaiḥ siddhaiḥ ca sevitam pīta-vāsasam .. 36 ..
दृष्ट्वा विष्णुं सुरास्सर्वे ब्रह्माद्यास्समुनीश्वराः ॥ प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ॥ ३७॥
दृष्ट्वा विष्णुम् सुराः सर्वे ब्रह्म-आद्याः स मुनि-ईश्वराः ॥ प्रणम्य तुष्टुवुः भक्त्या बद्धाञ्जलि-कराः विभुम् ॥ ३७॥
dṛṣṭvā viṣṇum surāḥ sarve brahma-ādyāḥ sa muni-īśvarāḥ .. praṇamya tuṣṭuvuḥ bhaktyā baddhāñjali-karāḥ vibhum .. 37..
देवा ऊचु ।।
देवदेव जगन्नाथ वैकुंठाधिपते प्रभो ॥ रक्षास्माञ्शरणापन्नाञ्छ्रीहरे त्रिजगद्गुरो ॥ ३८ ॥
देवदेव जगन्नाथ वैकुंठ-अधिपते प्रभो ॥ रक्ष अस्मान् शरण-आपन्नान् श्री-हरे त्रिजगद्गुरो ॥ ३८ ॥
devadeva jagannātha vaikuṃṭha-adhipate prabho .. rakṣa asmān śaraṇa-āpannān śrī-hare trijagadguro .. 38 ..
त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो ॥ लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ॥ ३९ ॥
त्वम् एव जगताम् पाता त्रिलोक-ईश अच्युत प्रभो ॥ लक्ष्मीनिवास गोविन्द भक्त-प्राण नमः अस्तु ते ॥ ३९ ॥
tvam eva jagatām pātā triloka-īśa acyuta prabho .. lakṣmīnivāsa govinda bhakta-prāṇa namaḥ astu te .. 39 ..
इति स्तुत्वा सुरास्सर्वे रुरुदुः पुरतो हरेः ॥ तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥ 2.5.29.४० ॥
इति स्तुत्वा सुराः सर्वे रुरुदुः पुरतस् हरेः ॥ तत् श्रुत्वा भगवान् विष्णुः ब्रह्माणम् इदम् अब्रवीत् ॥ २।५।२९।४० ॥
iti stutvā surāḥ sarve ruruduḥ puratas hareḥ .. tat śrutvā bhagavān viṣṇuḥ brahmāṇam idam abravīt .. 2.5.29.40 ..
विष्णुरुवाच ।।
किमर्थमागतोसि त्वं वैकुंठं योगिदुर्लभम् ॥ किं कष्टं ते समुद्भूतं तत्त्वं वद ममाग्रतः ॥ ४१ ॥
किमर्थम् आगतः असि त्वम् वैकुंठम् योगि-दुर्लभम् ॥ किम् कष्टम् ते समुद्भूतम् तत् त्वम् वद मम अग्रतस् ॥ ४१ ॥
kimartham āgataḥ asi tvam vaikuṃṭham yogi-durlabham .. kim kaṣṭam te samudbhūtam tat tvam vada mama agratas .. 41 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः ॥ बद्धाञ्जलिपुटो भूत्वा विन यानतकन्धरः ॥ ४२ ॥
इति श्रुत्वा हरेः वाक्यम् प्रणम्य च मुहुर् मुहुर् ॥ बद्धाञ्जलि-पुटः भूत्वा विन या आनत-कन्धरः ॥ ४२ ॥
iti śrutvā hareḥ vākyam praṇamya ca muhur muhur .. baddhāñjali-puṭaḥ bhūtvā vina yā ānata-kandharaḥ .. 42 ..
वृत्तांतं कथयामास शंखचूडकृतं तदा ॥ देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ॥ ४३ ॥
वृत्तांतम् कथयामास शंखचूड-कृतम् तदा ॥ देव-कष्ट-समाख्यानम् पुरस् विष्णोः परात्मनः ॥ ४३ ॥
vṛttāṃtam kathayāmāsa śaṃkhacūḍa-kṛtam tadā .. deva-kaṣṭa-samākhyānam puras viṣṇoḥ parātmanaḥ .. 43 ..
हरिस्तद्वचनं श्रुत्वा सर्वतसर्वभाववित् ॥ प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति ॥ ४४ ॥
हरिः तत् वचनम् श्रुत्वा सर्वत-सर्व-भाव-विद् ॥ प्रहस्य उवाच भगवान् तत् रहस्यम् विधिम् प्रति ॥ ४४ ॥
hariḥ tat vacanam śrutvā sarvata-sarva-bhāva-vid .. prahasya uvāca bhagavān tat rahasyam vidhim prati .. 44 ..
श्रीभगवानुवाच ।।
शंखचूडस्य वृत्तांतं सर्वं जानामि पद्मज ॥ मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ४५॥ ।
शंखचूडस्य वृत्तांतम् सर्वम् जानामि पद्मज ॥ मद्-भक्तस्य च गोपस्य महा-तेजस्विनः पुरा ॥ ४५॥ ।
śaṃkhacūḍasya vṛttāṃtam sarvam jānāmi padmaja .. mad-bhaktasya ca gopasya mahā-tejasvinaḥ purā .. 45.. .
शृणुतस्सर्ववृत्तान्तमितिहासं पुरातनम् ॥ संदेहो नैव कर्तव्यश्शं करिष्यति शङ्करः ॥ ४६॥
शृणुतः सर्व-वृत्तान्तम् इतिहासम् पुरातनम् ॥ संदेहः ना एव कर्तव्यः शम् करिष्यति शङ्करः ॥ ४६॥
śṛṇutaḥ sarva-vṛttāntam itihāsam purātanam .. saṃdehaḥ nā eva kartavyaḥ śam kariṣyati śaṅkaraḥ .. 46..
सर्वोपरि च यस्यास्ति शिवलोकः परात्परः ॥ यत्र संराजते शंभुः परब्रह्म परमेश्वरः ॥ ४७॥
सर्व-उपरि च यस्य अस्ति शिव-लोकः परात्परः ॥ यत्र संराजते शंभुः पर-ब्रह्म परमेश्वरः ॥ ४७॥
sarva-upari ca yasya asti śiva-lokaḥ parātparaḥ .. yatra saṃrājate śaṃbhuḥ para-brahma parameśvaraḥ .. 47..
प्रकृतेः पुरुषस्यापि योधिष्ठाता त्रिशक्तिधृक् ॥ निर्गुणस्सगुणस्सोपि परं ज्योतिः स्वरूपवान् ॥ ४८॥
प्रकृतेः पुरुषस्य अपि यः अधिष्ठाता त्रि-शक्ति-धृक् ॥ निर्गुणः स गुणः सः अपि परम् ज्योतिः स्व-रूपवान् ॥ ४८॥
prakṛteḥ puruṣasya api yaḥ adhiṣṭhātā tri-śakti-dhṛk .. nirguṇaḥ sa guṇaḥ saḥ api param jyotiḥ sva-rūpavān .. 48..
यस्यांगजास्तु वै ब्रह्मंस्त्रयस्सृष्ट्यादिकारकाः ॥ सत्त्वादिगुणसंपन्ना विष्णुब्रह्महराभिधाः ॥ ४९॥
यस्य अंग-जाः तु वै ब्रह्मन् त्रयः सृष्टि-आदि-कारकाः ॥ सत्त्व-आदि-गुण-संपन्नाः विष्णु-ब्रह्म-हर-अभिधाः ॥ ४९॥
yasya aṃga-jāḥ tu vai brahman trayaḥ sṛṣṭi-ādi-kārakāḥ .. sattva-ādi-guṇa-saṃpannāḥ viṣṇu-brahma-hara-abhidhāḥ .. 49..
स एव परमात्मा हि विहरत्युमया सह ॥ यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ॥ 2.5.29.५०॥
सः एव परमात्मा हि विहरति उमया सह ॥ यत्र माया-विनिर्मुक्तः प्रकल्पकः ॥ २।५।२९।५०॥
saḥ eva paramātmā hi viharati umayā saha .. yatra māyā-vinirmuktaḥ prakalpakaḥ .. 2.5.29.50..
तत्समीपे च गोलोको गोशाला शंकरस्य वै ॥ तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह ॥ ५१ ॥
तद्-समीपे च गोलोकः गोशाला शंकरस्य वै ॥ तस्य इच्छया च मद्-रूपः कृष्णः वसति तत्र ह ॥ ५१ ॥
tad-samīpe ca golokaḥ gośālā śaṃkarasya vai .. tasya icchayā ca mad-rūpaḥ kṛṣṇaḥ vasati tatra ha .. 51 ..
तद्गवां रक्षणार्थाय तेनाज्ञप्तस्सदा सुखी॥ तत्संप्राप्तसुखस्सोपि संक्रीडति विहारवित्॥ ५२॥
तत् गवाम् रक्षण-अर्थाय तेन आज्ञप्तः सदा सुखी॥ तद्-संप्राप्त-सुखः सः अपि संक्रीडति विहार-विद्॥ ५२॥
tat gavām rakṣaṇa-arthāya tena ājñaptaḥ sadā sukhī.. tad-saṃprāpta-sukhaḥ saḥ api saṃkrīḍati vihāra-vid.. 52..
तस्य नारी समाख्याता राधेति जगदम्बिका॥ प्रकृतेः परमा मूर्तिः पंचमी सुविहारिणी ॥ ५३॥
तस्य नारी समाख्याता राधा इति जगदम्बिका॥ प्रकृतेः परमा मूर्तिः पंचमी सु विहारिणी ॥ ५३॥
tasya nārī samākhyātā rādhā iti jagadambikā.. prakṛteḥ paramā mūrtiḥ paṃcamī su vihāriṇī .. 53..
बहुगोपाश्च गोप्यश्च तत्र संति तदंगजाः ॥ सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ॥ ५४॥
बहु-गोपाः च गोप्यः च तत्र संति तद्-अंगजाः ॥ सु विहार-पराः नित्यम् राधा-कृष्ण-अनुवर्तिनः ॥ ५४॥
bahu-gopāḥ ca gopyaḥ ca tatra saṃti tad-aṃgajāḥ .. su vihāra-parāḥ nityam rādhā-kṛṣṇa-anuvartinaḥ .. 54..
स एव लीलया शंभोरिदानीं मोहितोऽनया ॥ संप्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ॥ ५५ ॥
सः एव लीलया शंभोः इदानीम् मोहितः अनया ॥ संप्राप्तः दानवीम् योनिम् मुधा शापात् स्व-दुःख-दाम् ॥ ५५ ॥
saḥ eva līlayā śaṃbhoḥ idānīm mohitaḥ anayā .. saṃprāptaḥ dānavīm yonim mudhā śāpāt sva-duḥkha-dām .. 55 ..
रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा॥ ततस्स्वदेहमुत्सृज्य पार्षदस्स भविष्यति ॥ ५६॥
रुद्र-शूलेन तद्-मृत्यु कृष्णेन विहितः पुरा॥ ततस् स्व-देहम् उत्सृज्य पार्षदः स भविष्यति ॥ ५६॥
rudra-śūlena tad-mṛtyu kṛṣṇena vihitaḥ purā.. tatas sva-deham utsṛjya pārṣadaḥ sa bhaviṣyati .. 56..
इति विज्ञाय देवेश न भयं कर्तुमर्हसि॥ शंकर शरणं यावस्स सद्यश्शंविधास्यति ॥ ५७ ॥
इति विज्ञाय देवेश न भयम् कर्तुम् अर्हसि॥ शंकर शरणम् यावः स सद्यस् शम् विधास्यति ॥ ५७ ॥
iti vijñāya deveśa na bhayam kartum arhasi.. śaṃkara śaraṇam yāvaḥ sa sadyas śam vidhāsyati .. 57 ..
अहं त्वं चामरास्सर्वे तिष्ठंतीह विसाध्वसाः ॥ ५८ ॥ सनत्कुमार उवाच ॥
अहम् त्वम् च अमराः सर्वे तिष्ठन्ति इह विसाध्वसाः ॥ ५८ ॥ सनत्कुमारः उवाच ॥
aham tvam ca amarāḥ sarve tiṣṭhanti iha visādhvasāḥ .. 58 .. sanatkumāraḥ uvāca ..
सनत्कुमार उवाच ।।
इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह ॥ संस्मरन्मनसा शंभुं सर्वेशं भक्तवत्सलम् ॥ ५९ ॥
इति उक्त्वा स विधिः विष्णुः शिव-लोकम् जगाम ह ॥ संस्मरन् मनसा शंभुम् सर्व-ईशम् भक्त-वत्सलम् ॥ ५९ ॥
iti uktvā sa vidhiḥ viṣṇuḥ śiva-lokam jagāma ha .. saṃsmaran manasā śaṃbhum sarva-īśam bhakta-vatsalam .. 59 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधोपाख्याने शंखचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शंखचूड-वध-उपाख्याने शंखचूडराज्यकरणवर्णनपूर्वक-तत्पूर्वभववृत्तचरित्रवर्णनम् नाम एकोनत्रिंशः अध्यायः ॥ २९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍa-vadha-upākhyāne śaṃkhacūḍarājyakaraṇavarṇanapūrvaka-tatpūrvabhavavṛttacaritravarṇanam nāma ekonatriṃśaḥ adhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In