| |
|

This overlay will guide you through the buttons:

शिव उवाच ।।
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ॥ यत्र पुण्यं प्रवर्तेत न हंतव्यो बुधैः क्वचित् ॥ १॥
अयम् वै त्रिपुराध्यक्ष पुण्यवान् वर्तते अधुना ॥ यत्र पुण्यम् प्रवर्तेत न हंतव्यः बुधैः क्वचिद् ॥ १॥
ayam vai tripurādhyakṣa puṇyavān vartate adhunā .. yatra puṇyam pravarteta na haṃtavyaḥ budhaiḥ kvacid .. 1..
जानामि देवकष्टं च विबुधास्सकलं महत्॥ दैत्यास्ते प्रबला हंतुमशक्यास्तु सुरासुरैः ॥ २॥
जानामि देव-कष्टम् च विबुधाः सकलम् महत्॥ दैत्याः ते प्रबलाः हंतुम् अशक्याः तु सुर-असुरैः ॥ २॥
jānāmi deva-kaṣṭam ca vibudhāḥ sakalam mahat.. daityāḥ te prabalāḥ haṃtum aśakyāḥ tu sura-asuraiḥ .. 2..
पुण्यवंतस्तु ते सर्वे समयास्तारकात्मजाः॥ दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ॥ ३॥
पुण्यवंतः तु ते सर्वे समयाः तारक-आत्मजाः॥ दुस्साध्यः तु वधः तेषाम् सर्वेषाम् पुर-वासिनाम् ॥ ३॥
puṇyavaṃtaḥ tu te sarve samayāḥ tāraka-ātmajāḥ.. dussādhyaḥ tu vadhaḥ teṣām sarveṣām pura-vāsinām .. 3..
मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ॥ सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयंभुवा ॥ ४ ॥
मित्र-द्रोहम् कथम् जानन् करोमि रण-कर्कशः ॥ सुहृद्-द्रोहे महत् पापम् पूर्वम् उक्तम् स्वयंभुवा ॥ ४ ॥
mitra-droham katham jānan karomi raṇa-karkaśaḥ .. suhṛd-drohe mahat pāpam pūrvam uktam svayaṃbhuvā .. 4 ..
ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ॥ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ५ ॥
ब्रह्म-घ्नम् च सुरापे च स्तेये भग्न-व्रते तथा ॥ निष्कृतिः विहिता सद्भिः कृतघ्ने ना अस्ति निष्कृतिः ॥ ५ ॥
brahma-ghnam ca surāpe ca steye bhagna-vrate tathā .. niṣkṛtiḥ vihitā sadbhiḥ kṛtaghne nā asti niṣkṛtiḥ .. 5 ..
मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ॥ विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः ॥ ६ ॥
मम भक्ताः तु ते दैत्याः मया वध्या कथम् सुराः ॥ विचार्यताम् भवद्भिः च धर्म-ज्ञैः एव धर्मतः ॥ ६ ॥
mama bhaktāḥ tu te daityāḥ mayā vadhyā katham surāḥ .. vicāryatām bhavadbhiḥ ca dharma-jñaiḥ eva dharmataḥ .. 6 ..
तावत्ते नैव हंतव्या यावद्भक्तिकृतश्च मे ॥ तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ॥ ७ ॥
तावत् ते ना एव हंतव्याः यावत् भक्ति-कृतः च मे ॥ तथा अपि विष्णवे देवाः निवेद्यम् कारणम् तु इदम् ॥ ७ ॥
tāvat te nā eva haṃtavyāḥ yāvat bhakti-kṛtaḥ ca me .. tathā api viṣṇave devāḥ nivedyam kāraṇam tu idam .. 7 ..
सनत्कुमार उवाच ।।
इत्येवं तद्वचः श्रुत्वा देवाश्शक्रपुरोगमाः ॥ न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ॥ ८ ॥
इति एवम् तत् वचः श्रुत्वा देवाः शक्र-पुरोगमाः ॥ न्यवेदयन् द्रुतम् सर्वे ब्रह्मणे प्रथमम् मुने ॥ ८ ॥
iti evam tat vacaḥ śrutvā devāḥ śakra-purogamāḥ .. nyavedayan drutam sarve brahmaṇe prathamam mune .. 8 ..
ततो विधिं पुरस्कृत्य सर्वे देवास्सवासवाः॥ वैकुंठं प्रययुश्शीघ्रं सर्वे शोभासमन्वितम्॥ ९॥
ततस् विधिम् पुरस्कृत्य सर्वे देवाः स वासवाः॥ वैकुंठम् प्रययुः शीघ्रम् सर्वे शोभा-समन्वितम्॥ ९॥
tatas vidhim puraskṛtya sarve devāḥ sa vāsavāḥ.. vaikuṃṭham prayayuḥ śīghram sarve śobhā-samanvitam.. 9..
तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसंभ्रमाः॥ तुष्टुवुश्च महाभक्त्या कृतांजलिपुटास्सुराः ॥ 2.5.3.१०॥
तत्र गत्वा हरिम् दृष्ट्वा प्रणेमुः जात-संभ्रमाः॥ तुष्टुवुः च महा-भक्त्या कृत-अंजलि-पुटाः सुराः ॥ २।५।३।१०॥
tatra gatvā harim dṛṣṭvā praṇemuḥ jāta-saṃbhramāḥ.. tuṣṭuvuḥ ca mahā-bhaktyā kṛta-aṃjali-puṭāḥ surāḥ .. 2.5.3.10..
स्वदुःखकारणं सर्वं पूर्ववत्तदनंतरम् ॥ न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ॥ ११ ॥
स्व-दुःख-कारणम् सर्वम् पूर्ववत् तत् अनंतरम् ॥ न्यवेदयन् द्रुतम् तस्मै विष्णवे प्रभविष्णवे ॥ ११ ॥
sva-duḥkha-kāraṇam sarvam pūrvavat tat anaṃtaram .. nyavedayan drutam tasmai viṣṇave prabhaviṣṇave .. 11 ..
देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ॥ ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ॥ १२॥
देव-दुःखम् ततस् श्रुत्वा दत्तम् च त्रिपुरालये ॥ ज्ञात्वा व्रतम् च तेषाम् तत् विष्णुः वचनम् अब्रवीत् ॥ १२॥
deva-duḥkham tatas śrutvā dattam ca tripurālaye .. jñātvā vratam ca teṣām tat viṣṇuḥ vacanam abravīt .. 12..
विष्णुरुवाच ।।
इदं सत्यं वचश्चैव यत्र धर्मस्सनातनः ॥ तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ॥ १३॥
इदम् सत्यम् वचः च एव यत्र धर्मः सनातनः ॥ तत्र दुःखम् न जायेत सूर्ये दृष्टे यथा तमः ॥ १३॥
idam satyam vacaḥ ca eva yatra dharmaḥ sanātanaḥ .. tatra duḥkham na jāyeta sūrye dṛṣṭe yathā tamaḥ .. 13..
।। सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ॥ पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ॥ १४ ॥
इति एतत् वचनम् श्रुत्वा देवाः दुःखम् उपागताः ॥ पुनर् ऊचुः तथा विष्णुम् परिम्लान-मुख-अम्बुजाः ॥ १४ ॥
iti etat vacanam śrutvā devāḥ duḥkham upāgatāḥ .. punar ūcuḥ tathā viṣṇum parimlāna-mukha-ambujāḥ .. 14 ..
देवा ऊचुः ।।
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते॥ कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ॥ १५ ॥
कथम् च एव प्रकर्त्तव्यम् कथम् दुःखम् निरस्यते॥ कथम् भवेम सुखिनः कथम् स्थास्यामहे वयम् ॥ १५ ॥
katham ca eva prakarttavyam katham duḥkham nirasyate.. katham bhavema sukhinaḥ katham sthāsyāmahe vayam .. 15 ..
कथं धर्मा भविष्यंति त्रिपुरे जीविते सति ॥ देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ॥ १६ ॥
कथम् धर्माः भविष्यन्ति त्रिपुरे जीविते सति ॥ देव-दुःख-प्रदाः नूनम् सर्वे त्रिपुर-वासिनः ॥ १६ ॥
katham dharmāḥ bhaviṣyanti tripure jīvite sati .. deva-duḥkha-pradāḥ nūnam sarve tripura-vāsinaḥ .. 16 ..
किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ॥ नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ॥ १७ ॥ ॥
किम् वा ते त्रिपुरस्य इह वधः च एव विधीयताम् ॥ नो चेद् अकालिकी देव-संहतिः क्रियताम् ध्रुवम् ॥ १७ ॥ ॥
kim vā te tripurasya iha vadhaḥ ca eva vidhīyatām .. no ced akālikī deva-saṃhatiḥ kriyatām dhruvam .. 17 .. ..
सनत्कुमार उवाच ।।
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ॥ स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ॥ १८ ॥
इति उक्त्वा ते तदा देवाः दुःखम् कृत्वा पुनर् पुनर् ॥ स्थितिम् ना एव गतिम् ते वै चक्रुः देव-वरात् इह ॥ १८ ॥
iti uktvā te tadā devāḥ duḥkham kṛtvā punar punar .. sthitim nā eva gatim te vai cakruḥ deva-varāt iha .. 18 ..
तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् ॥ सोपि नारायणः श्रीमांश्चिंतयेच्चेतसा तथा॥ १९॥
तान् वै तथाविधान् दृष्ट्वा हीनान् विनय-संयुतान् ॥ सः अपि नारायणः श्रीमान् चिंतयेत् चेतसा तथा॥ १९॥
tān vai tathāvidhān dṛṣṭvā hīnān vinaya-saṃyutān .. saḥ api nārāyaṇaḥ śrīmān ciṃtayet cetasā tathā.. 19..
किं कार्यं देवकार्येषु मया देवसहा यिना ॥ शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति॥ 2.5.3.२०॥
किम् कार्यम् देव-कार्येषु मया देव-सहा यिना ॥ शिव-भक्ताः तु ते दैत्याः तारकस्य सुताः इति॥ २।५।३।२०॥
kim kāryam deva-kāryeṣu mayā deva-sahā yinā .. śiva-bhaktāḥ tu te daityāḥ tārakasya sutāḥ iti.. 2.5.3.20..
इति संचिन्त्य तत्काले विष्णुना प्रभविष्णुना ॥ ततो यज्ञास्स्मृतास्तेन देवकार्यार्थमक्षयाः ॥ २१ ॥
इति संचिन्त्य तद्-काले विष्णुना प्रभविष्णुना ॥ ततस् यज्ञाः स्मृताः तेन देव-कार्य-अर्थम् अक्षयाः ॥ २१ ॥
iti saṃcintya tad-kāle viṣṇunā prabhaviṣṇunā .. tatas yajñāḥ smṛtāḥ tena deva-kārya-artham akṣayāḥ .. 21 ..
तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ॥ आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ॥ २२ ॥
तद्-विष्णु-स्मृति-मात्रेण यज्ञाः ते तद्-क्षणम् द्रुतम् ॥ आगताः तत्र यत्र आस्ते श्रीपतिः पुरुषोत्तमः ॥ २२ ॥
tad-viṣṇu-smṛti-mātreṇa yajñāḥ te tad-kṣaṇam drutam .. āgatāḥ tatra yatra āste śrīpatiḥ puruṣottamaḥ .. 22 ..
ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ॥ प्रणम्य तुष्टुवुस्ते वै कृतांजलिपुटास्तदा ॥ २३॥
ततस् विष्णुम् यज्ञपतिम् पुराणम् पुरुषम् हरिम् ॥ प्रणम्य तुष्टुवुः ते वै कृत-अंजलि-पुटाः तदा ॥ २३॥
tatas viṣṇum yajñapatim purāṇam puruṣam harim .. praṇamya tuṣṭuvuḥ te vai kṛta-aṃjali-puṭāḥ tadā .. 23..
भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनम् ॥ सनातनस्तदा सेंद्रान्देवानालोक्य चाच्युतः ॥ २४ ॥
भगवान् अपि तान् दृष्ट्वा यज्ञान् प्राह सनातनम् ॥ सनातनः तदा स इंद्रान् देवान् आलोक्य च अच्युतः ॥ २४ ॥
bhagavān api tān dṛṣṭvā yajñān prāha sanātanam .. sanātanaḥ tadā sa iṃdrān devān ālokya ca acyutaḥ .. 24 ..
विष्णुरुवाच ।।
अनेनैव सदा देवा यजध्वं परमेश्वरम् ॥ पुरत्रयविनाशाय जगत्त्रयविभूतये ॥ २५॥
अनेन एव सदा देवाः यजध्वम् परमेश्वरम् ॥ पुरत्रय-विनाशाय जगत्त्रय-विभूतये ॥ २५॥
anena eva sadā devāḥ yajadhvam parameśvaram .. puratraya-vināśāya jagattraya-vibhūtaye .. 25..
सनत्कुमार उवाच।।
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ॥ प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ॥ २६॥
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ॥ प्रेम्णा ते प्रणतिम् कृत्वा यज्ञेशम् ते अस्तुवन् सुराः ॥ २६॥
acyutasya vacaḥ śrutvā devadevasya dhīmataḥ .. premṇā te praṇatim kṛtvā yajñeśam te astuvan surāḥ .. 26..
एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ॥ यज्ञोक्तेन विधानेन संपूर्णविधयो मुने ॥ २७ ॥
एवम् स्तुत्वा ततस् देवाः अजयन् यज्ञपूरुषम् ॥ यज्ञ-उक्तेन विधानेन संपूर्ण-विधयः मुने ॥ २७ ॥
evam stutvā tatas devāḥ ajayan yajñapūruṣam .. yajña-uktena vidhānena saṃpūrṇa-vidhayaḥ mune .. 27 ..
ततस्तस्माद्यज्ञकुंडात्समुत्पेतुस्सहस्रशः ॥ भूतसंघा महाकायाः शूलशक्तिगदायुधाः ॥ २८॥
ततस् तस्मात् यज्ञ-कुंडात् समुत्पेतुः सहस्रशस् ॥ भूत-संघाः महा-कायाः शूल-शक्ति-गदा-आयुधाः ॥ २८॥
tatas tasmāt yajña-kuṃḍāt samutpetuḥ sahasraśas .. bhūta-saṃghāḥ mahā-kāyāḥ śūla-śakti-gadā-āyudhāḥ .. 28..
ददृशुस्ते सुरास्तान् वै भूतसंघान्सहस्रशः ॥ शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान्॥ २९॥
ददृशुः ते सुराः तान् वै भूत-संघान् सहस्रशस् ॥ शूल-शक्ति-गदा-हस्तान् दण्ड-चाप-शिला-आयुधान्॥ २९॥
dadṛśuḥ te surāḥ tān vai bhūta-saṃghān sahasraśas .. śūla-śakti-gadā-hastān daṇḍa-cāpa-śilā-āyudhān.. 29..
नानाप्रहरणोपेतान् नानावेषधराँस्तथा॥ कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा॥ 2.5.3.३०॥
नाना प्रहरण-उपेतान् नाना वेष-धरान् तथा॥ कालाग्नि-रुद्र-सदृशान् कालसूर्य-उपमान् तदा॥ २।५।३।३०॥
nānā praharaṇa-upetān nānā veṣa-dharān tathā.. kālāgni-rudra-sadṛśān kālasūrya-upamān tadā.. 2.5.3.30..
दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ॥ भूतान्यज्ञपतिः श्रीमानुद्राज्ञाप्रतिपालकः ॥ ३१ ॥
दृष्ट्वा तान् अब्रवीत् विष्णुः प्रणिपत्य पुरस् स्थितान् ॥ भूतानि यज्ञपतिः श्रीमान् उद्र-आज्ञा-प्रतिपालकः ॥ ३१ ॥
dṛṣṭvā tān abravīt viṣṇuḥ praṇipatya puras sthitān .. bhūtāni yajñapatiḥ śrīmān udra-ājñā-pratipālakaḥ .. 31 ..
विष्णुरुवाच ।।
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ॥ गच्छन्तु त्रिपुरं सद्यस्सर्वे हि बलवत्तराः ॥ ३२ ॥
भूताः शृणुत मद्-वाक्यम् देव-कार्य-अर्थम् उद्यताः ॥ गच्छन्तु त्रिपुरम् सद्यस् सर्वे हि बलवत्तराः ॥ ३२ ॥
bhūtāḥ śṛṇuta mad-vākyam deva-kārya-artham udyatāḥ .. gacchantu tripuram sadyas sarve hi balavattarāḥ .. 32 ..
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ॥ पुनर्यथागता भूतागंतुमर्हथ भूतये ॥ ३३॥
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्य-पुरत्रयम् ॥ पुनर् यथा आगताः भूत आगंतुम् अर्हथ भूतये ॥ ३३॥
gatvā dagdhvā ca bhittvā ca bhaṅktvā daitya-puratrayam .. punar yathā āgatāḥ bhūta āgaṃtum arhatha bhūtaye .. 33..
सनत्कुमार उवाच ।।
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ॥ प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ॥ ३४॥
तत् श्रुत्वा भगवत्-वाक्यम् ततस् भूत-गणाः च ते ॥ प्रणम्य देवदेवम् तम् ययुः दैत्य-पुरत्रयम् ॥ ३४॥
tat śrutvā bhagavat-vākyam tatas bhūta-gaṇāḥ ca te .. praṇamya devadevam tam yayuḥ daitya-puratrayam .. 34..
गत्वा तत्प्रविशंतश्च त्रिपुराधिपतेजसि ॥ भस्मसादभवन्सद्यश्शलभा इव पावके ॥ ३५॥
गत्वा तत् प्रविशंतः च त्रिपुर-अधिप-तेजसि ॥ भस्मसात् अभवन् सद्यस् शलभाः इव पावके ॥ ३५॥
gatvā tat praviśaṃtaḥ ca tripura-adhipa-tejasi .. bhasmasāt abhavan sadyas śalabhāḥ iva pāvake .. 35..
अवशिष्टाश्च ये केचित्पलायनपरायणाः ॥ निस्सृत्यारं समायाता हरेर्निकटमाकुलाः ॥ ३६॥
अवशिष्टाः च ये केचिद् पलायन-परायणाः ॥ निस्सृत्य अरम् समायाताः हरेः निकटम् आकुलाः ॥ ३६॥
avaśiṣṭāḥ ca ye kecid palāyana-parāyaṇāḥ .. nissṛtya aram samāyātāḥ hareḥ nikaṭam ākulāḥ .. 36..
तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः॥ चिंतयामास भगवान्मनसा पुरुषोत्तमः ॥ ३७ ॥
तान् दृष्ट्वा स हरिः श्रुत्वा तत् च वृत्तम् अशेषतस्॥ चिंतयामास भगवान् मनसा पुरुषोत्तमः ॥ ३७ ॥
tān dṛṣṭvā sa hariḥ śrutvā tat ca vṛttam aśeṣatas.. ciṃtayāmāsa bhagavān manasā puruṣottamaḥ .. 37 ..
किं कृत्यमधुना कार्यमिति संतप्तमानसः ॥ संतप्तानमरान्सर्वानाज्ञाय च सवासवान् ॥ ३८ ॥
किम् कृत्यम् अधुना कार्यम् इति संतप्त-मानसः ॥ संतप्तान् अमरान् सर्वान् आज्ञाय च स वासवान् ॥ ३८ ॥
kim kṛtyam adhunā kāryam iti saṃtapta-mānasaḥ .. saṃtaptān amarān sarvān ājñāya ca sa vāsavān .. 38 ..
कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ॥ देवकार्यं करिष्यामीत्यासीच्चिंतासमाकुलः ॥ ३९॥
कथम् तेषाम् च दैत्यानाम् बलात् हत्वा पुरत्रयम् ॥ देव-कार्यम् करिष्यामि इति आसीत् चिंता-समाकुलः ॥ ३९॥
katham teṣām ca daityānām balāt hatvā puratrayam .. deva-kāryam kariṣyāmi iti āsīt ciṃtā-samākulaḥ .. 39..
नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ॥ इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ॥ 2.5.3.४० ॥
नाशः अभिचारतः ना अस्ति धर्मिष्ठानाम् न संशयः ॥ इति प्राह स्वयम् च ईशः श्रुति-आचार-प्रमाण-कृत् ॥ २।५।३।४० ॥
nāśaḥ abhicārataḥ nā asti dharmiṣṭhānām na saṃśayaḥ .. iti prāha svayam ca īśaḥ śruti-ācāra-pramāṇa-kṛt .. 2.5.3.40 ..
दैत्याश्च ते हि धर्मिष्ठास्सर्वे त्रिपुरवासिनः ॥ तस्मादवध्यतां प्राप्ता नान्यथा सुरपुंगवाः ॥ ४१॥
दैत्याः च ते हि धर्मिष्ठाः सर्वे त्रिपुर-वासिनः ॥ तस्मात् अवध्य-ताम् प्राप्ताः न अन्यथा सुर-पुंगवाः ॥ ४१॥
daityāḥ ca te hi dharmiṣṭhāḥ sarve tripura-vāsinaḥ .. tasmāt avadhya-tām prāptāḥ na anyathā sura-puṃgavāḥ .. 41..
कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयंति ते ॥ मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा ॥ ४२ ॥
कृत्वा तु सु महत् पापम् रुद्रम् अभ्यर्चयन्ति ते ॥ मुच्यंते पातकैः सर्वैः पद्म-पत्रम् इव अंभसा ॥ ४२ ॥
kṛtvā tu su mahat pāpam rudram abhyarcayanti te .. mucyaṃte pātakaiḥ sarvaiḥ padma-patram iva aṃbhasā .. 42 ..
रुद्राभ्यर्चनतो देवाः सर्वे कामा भवंति हि ॥ नानोपभोगसंपत्तिर्वश्यतां याति वै भुवि ॥ ४३ ॥
रुद्र-अभ्यर्चनतः देवाः सर्वे कामाः भवन्ति हि ॥ नाना उपभोग-संपत्तिः वश्य-ताम् याति वै भुवि ॥ ४३ ॥
rudra-abhyarcanataḥ devāḥ sarve kāmāḥ bhavanti hi .. nānā upabhoga-saṃpattiḥ vaśya-tām yāti vai bhuvi .. 43 ..
तस्मात्तद्भोगिनो दैत्या लिंगार्चनपरायणाः॥ अनेकविधसंपत्तेर्मोक्षस्यापि परत्र च ॥ ४४॥
तस्मात् तद्-भोगिनः दैत्याः लिंग-अर्चन-परायणाः॥ अनेकविध-संपत्तेः मोक्षस्य अपि परत्र च ॥ ४४॥
tasmāt tad-bhoginaḥ daityāḥ liṃga-arcana-parāyaṇāḥ.. anekavidha-saṃpatteḥ mokṣasya api paratra ca .. 44..
ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ॥ दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ॥ ४५॥
ततस् कृत्वा धर्म-विघ्नम् तेषाम् एव आत्म-मायया ॥ दैत्यानाम् देव-कार्य-अर्थम् हरिष्ये त्रिपुरम् क्षणात् ॥ ४५॥
tatas kṛtvā dharma-vighnam teṣām eva ātma-māyayā .. daityānām deva-kārya-artham hariṣye tripuram kṣaṇāt .. 45..
विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ॥ कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ॥ ४६॥
विचार्य इत्थम् ततस् तेषाम् भगवान् पुरुषोत्तमः ॥ कर्तुम् व्यवस्थितः पश्चात् धर्म-विघ्नम् सुर-अरिणाम् ॥ ४६॥
vicārya ittham tatas teṣām bhagavān puruṣottamaḥ .. kartum vyavasthitaḥ paścāt dharma-vighnam sura-ariṇām .. 46..
यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ॥ यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि ॥ ४७॥
यावत् च वेद धर्माः तु यावत् वै शंकर-अर्चनम् ॥ यावत् च शुचि-कृत्या-आदि तावत् नाशः भवेत् न हि ॥ ४७॥
yāvat ca veda dharmāḥ tu yāvat vai śaṃkara-arcanam .. yāvat ca śuci-kṛtyā-ādi tāvat nāśaḥ bhavet na hi .. 47..
तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ॥ त्यक्तलिंगार्चना दैत्या भविष्यंति न संशयः ॥ ४८ ॥
तस्मात् एवम् प्रकर्तव्यम् वेद-धर्मः ततस् व्रजेत् ॥ त्यक्त-लिंग-अर्चनाः दैत्याः भविष्यंति न संशयः ॥ ४८ ॥
tasmāt evam prakartavyam veda-dharmaḥ tatas vrajet .. tyakta-liṃga-arcanāḥ daityāḥ bhaviṣyaṃti na saṃśayaḥ .. 48 ..
इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ॥ तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम् ॥ ४९ ॥
इति निश्चित्य वै विष्णुः विघ्न-अर्थम् अकरोत् तदा ॥ तेषाम् धर्मस्य दैत्यानाम् उपायम् श्रुति खण्डनम् ॥ ४९ ॥
iti niścitya vai viṣṇuḥ vighna-artham akarot tadā .. teṣām dharmasya daityānām upāyam śruti khaṇḍanam .. 49 ..
तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ॥ शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ॥ 2.5.3.५० ॥
तदा एव उवाच देवान् स विष्णुः देव-सहाय-कृत् ॥ शिव-आज्ञया शिवेन एव आज्ञप्तः त्रैलोक्य-रक्षणे ॥ २।५।३।५० ॥
tadā eva uvāca devān sa viṣṇuḥ deva-sahāya-kṛt .. śiva-ājñayā śivena eva ājñaptaḥ trailokya-rakṣaṇe .. 2.5.3.50 ..
।। विष्णुरुवाच ।।
हे देवास्सकला यूयं गच्छत स्वगृहान्ध्रुवम् ॥ देवकार्यं करिष्यामि यथामति न संशयः ॥ ५१ ॥
हे देवाः सकलाः यूयम् गच्छत स्व-गृहान् ध्रुवम् ॥ देव-कार्यम् करिष्यामि यथामति न संशयः ॥ ५१ ॥
he devāḥ sakalāḥ yūyam gacchata sva-gṛhān dhruvam .. deva-kāryam kariṣyāmi yathāmati na saṃśayaḥ .. 51 ..
तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ॥ स्वभक्तिरहिताञ्ज्ञात्वा तान्करिष्यति भस्मसात् ॥ ५२ ॥
तान् रुद्रात् विमुखान् नूनम् करिष्यामि सु यत्नतः ॥ स्व-भक्ति-रहितान् ज्ञात्वा तान् करिष्यति भस्मसात् ॥ ५२ ॥
tān rudrāt vimukhān nūnam kariṣyāmi su yatnataḥ .. sva-bhakti-rahitān jñātvā tān kariṣyati bhasmasāt .. 52 ..
।। सनत्कुमार उवाच ।।
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ॥ स्वस्वधामानि विश्वस्ता ययुर्ब्रह्मापि मोदिताः ॥ ५३ ॥
तद्-आज्ञाम् शिरसा आधाय श्वासिताः ते अमराः मुने ॥ स्व-स्व-धामानि विश्वस्ताः ययुः ब्रह्म अपि मोदिताः ॥ ५३ ॥
tad-ājñām śirasā ādhāya śvāsitāḥ te amarāḥ mune .. sva-sva-dhāmāni viśvastāḥ yayuḥ brahma api moditāḥ .. 53 ..
ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ॥ तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ॥ ५४॥
ततस् च एव अकरोत् विष्णुः देव-अर्थम् हितम् उत्तमम् ॥ तत् एव श्रूयताम् सम्यक् सर्व-पाप-प्रणाशनम् ॥ ५४॥
tatas ca eva akarot viṣṇuḥ deva-artham hitam uttamam .. tat eva śrūyatām samyak sarva-pāpa-praṇāśanam .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनम् नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe tripuravadhopākhyāne bhūtatripuradharmavarṇanam nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In