| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः॥ शिवलोकं महादिव्यं निराधारमभौतिकम्॥ १ ॥
गत्वा तदा एव स विधिः तदा व्यास रमेश्वरः॥ शिव-लोकम् महा-दिव्यम् निराधारम् अभौतिकम्॥ १ ॥
gatvā tadā eva sa vidhiḥ tadā vyāsa rameśvaraḥ.. śiva-lokam mahā-divyam nirādhāram abhautikam.. 1 ..
साह्लादोभ्यन्तरं विष्णुर्जगाम मुदिताननः ॥ नानारत्नपरिक्षिप्तं विलसंतं महोज्ज्वलम्॥ २ ॥
स आह्लाद-उभ्यन्तरम् विष्णुः जगाम मुदित-आननः ॥ नाना रत्न-परिक्षिप्तम् विलसन्तम् महा-उज्ज्वलम्॥ २ ॥
sa āhlāda-ubhyantaram viṣṇuḥ jagāma mudita-ānanaḥ .. nānā ratna-parikṣiptam vilasantam mahā-ujjvalam.. 2 ..
संप्राप्य प्रथमद्वारं विचित्रं गणसेवितम् ॥ शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ॥ ३ ॥
संप्राप्य प्रथम-द्वारम् विचित्रम् गण-सेवितम् ॥ शोभितम् परया लक्ष्म्या महा-उच्चम् अति सुन्दरम् ॥ ३ ॥
saṃprāpya prathama-dvāram vicitram gaṇa-sevitam .. śobhitam parayā lakṣmyā mahā-uccam ati sundaram .. 3 ..
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥ शोभिताञ्श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ॥ ४ ॥
ददर्श द्वारपालान् च रत्न-सिंहासन-स्थितान् ॥ शोभितान् श्वेत-वस्त्रैः च रत्न-भूषण-भूषितान् ॥ ४ ॥
dadarśa dvārapālān ca ratna-siṃhāsana-sthitān .. śobhitān śveta-vastraiḥ ca ratna-bhūṣaṇa-bhūṣitān .. 4 ..
पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् ॥ त्रिशूलादिधरान्वीरान्भस्मरुद्राक्षशोभितान् ॥ ५ ॥
पञ्चवक्त्र-त्रिनयनान् गौर-सुन्दर-विग्रहान् ॥ त्रिशूल-आदि-धरान् वीरान् भस्म-रुद्र-अक्ष-शोभितान् ॥ ५ ॥
pañcavaktra-trinayanān gaura-sundara-vigrahān .. triśūla-ādi-dharān vīrān bhasma-rudra-akṣa-śobhitān .. 5 ..
सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः ॥ कथयामास वृत्तान्तं प्रभुसंदर्शनार्थकम् ॥ ६ ॥
स ब्रह्मा अपि रमेशः च तान् प्रणम्य विनम्रकः ॥ कथयामास वृत्तान्तम् प्रभु-संदर्शन-अर्थकम् ॥ ६ ॥
sa brahmā api rameśaḥ ca tān praṇamya vinamrakaḥ .. kathayāmāsa vṛttāntam prabhu-saṃdarśana-arthakam .. 6 ..
तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ परं द्वारं महारम्यं विचित्रं परम प्रभम् ॥ ७॥
तद्-आज्ञाम् च ददुः तस्मै प्रविवेश तद्-आज्ञया ॥ परम् द्वारम् महा-रम्यम् विचित्रम् परम-प्रभम् ॥ ७॥
tad-ājñām ca daduḥ tasmai praviveśa tad-ājñayā .. param dvāram mahā-ramyam vicitram parama-prabham .. 7..
प्रभूपकंठगत्यर्थं वृत्तांतं संन्यवेदयत् ॥ तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ॥ ८॥
प्रभु-उपकंठ-गति-अर्थम् वृत्तांतम् संन्यवेदयत् ॥ तद्-द्वारपाय च आज्ञप्तः तेन अन्यम् प्रविवेश ह ॥ ८॥
prabhu-upakaṃṭha-gati-artham vṛttāṃtam saṃnyavedayat .. tad-dvārapāya ca ājñaptaḥ tena anyam praviveśa ha .. 8..
एवं पंचदशद्वारान्प्रविश्य कमलोद्भवः ॥ महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ॥ ९॥
एवम् पंचदश-द्वारान् प्रविश्य कमलोद्भवः ॥ महाद्वारम् गतः तत्र नन्दिनम् प्रददर्श ह ॥ ९॥
evam paṃcadaśa-dvārān praviśya kamalodbhavaḥ .. mahādvāram gataḥ tatra nandinam pradadarśa ha .. 9..
सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना॥ आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यंतरं मुदा ॥ 2.5.30.१०॥
सम्यक् नत्वा च तम् स्तुत्वा पूर्ववत् तेन नन्दिना॥ आज्ञप्तः च शनैस् विष्णुः विवेश अभ्यंतरम् मुदा ॥ २।५।३०।१०॥
samyak natvā ca tam stutvā pūrvavat tena nandinā.. ājñaptaḥ ca śanais viṣṇuḥ viveśa abhyaṃtaram mudā .. 2.5.30.10..
ददर्श गत्वा तत्रोच्चैस्सभां शंभोस्समुत्प्रभाम् ॥ तां पार्षदैः परिवृतां लसद्देहैस्सुभूषिताम् ॥ ११ ॥
ददर्श गत्वा तत्र उच्चैस् सभाम् शंभोः समुत्प्रभाम् ॥ ताम् पार्षदैः परिवृताम् लसत्-देहैः सु भूषिताम् ॥ ११ ॥
dadarśa gatvā tatra uccais sabhām śaṃbhoḥ samutprabhām .. tām pārṣadaiḥ parivṛtām lasat-dehaiḥ su bhūṣitām .. 11 ..
महेश्वरस्य रूपैश्च दिग्भुजैश्शुभकांतिभिः ॥ पञ्चवक्त्रैस्त्रिनयनैश्शितिकंठमहोज्ज्वलैः ॥ १२ ॥
महेश्वरस्य रूपैः च दिश्-भुजैः शुभ-कान्तिभिः ॥ पञ्चवक्त्रैः त्रिनयनैः शितिकंठ-महा-उज्ज्वलैः ॥ १२ ॥
maheśvarasya rūpaiḥ ca diś-bhujaiḥ śubha-kāntibhiḥ .. pañcavaktraiḥ trinayanaiḥ śitikaṃṭha-mahā-ujjvalaiḥ .. 12 ..
सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः ॥ नवेन्दुमंडलाकारां चतुरस्रां मनोहराम् ॥ १३ ॥
सत्-रत्न-युक्त-रुद्राक्ष-भस्म-आभरण-भूषितैः ॥ नव-इन्दु-मंडल-आकाराम् चतुर्-अस्राम् मनोहराम् ॥ १३ ॥
sat-ratna-yukta-rudrākṣa-bhasma-ābharaṇa-bhūṣitaiḥ .. nava-indu-maṃḍala-ākārām catur-asrām manoharām .. 13 ..
मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् ॥ अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ॥ १४ ॥
मणि-इन्द्र-हार-निर्माण-हीर-सार-सु शोभिताम् ॥ अमूल्य-रत्न-रचिताम् पद्म-पत्रैः च शोभिताम् ॥ १४ ॥
maṇi-indra-hāra-nirmāṇa-hīra-sāra-su śobhitām .. amūlya-ratna-racitām padma-patraiḥ ca śobhitām .. 14 ..
माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् ॥ पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया ॥ १५ ॥
माणिक्य-जाल-मालाभिः नाना चित्र-विचित्रिताम् ॥ पद्मराग-इन्द्र-रचिताम् अद्भुताम् शंकर-इच्छया ॥ १५ ॥
māṇikya-jāla-mālābhiḥ nānā citra-vicitritām .. padmarāga-indra-racitām adbhutām śaṃkara-icchayā .. 15 ..
सोपानशतकैर्युक्तां स्यमंतकविनिर्मितैः ॥ स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ॥ १६ ॥
सोपान-शतकैः युक्ताम् स्यमंतक-विनिर्मितैः ॥ स्वर्ण-सूत्र-ग्रन्थि-युक्तैः चारु-चन्दन-पल्लवैः ॥ १६ ॥
sopāna-śatakaiḥ yuktām syamaṃtaka-vinirmitaiḥ .. svarṇa-sūtra-granthi-yuktaiḥ cāru-candana-pallavaiḥ .. 16 ..
इन्द्रनीलमणिस्तंभैर्वेष्टितां सुमनोहराम् ॥ सुसंस्कृतां च सर्वत्र वासितां गंधवायुना ॥ १७ ॥
इन्द्रनील-मणि-स्तंभैः वेष्टिताम् सु मनोहराम् ॥ सु संस्कृताम् च सर्वत्र वासिताम् गंध-वायुना ॥ १७ ॥
indranīla-maṇi-staṃbhaiḥ veṣṭitām su manoharām .. su saṃskṛtām ca sarvatra vāsitām gaṃdha-vāyunā .. 17 ..
सहस्रयोजनायामां सुपूर्णां बहुकिंकरैः ॥ ददर्श शंकरं सांबं तत्र विष्णुस्सुरेश्वरः ॥ १८ ॥
सहस्र-योजन-आयामाम् सु पूर्णाम् बहु-किंकरैः ॥ ददर्श शंकरम् स अंबम् तत्र विष्णुः सुरेश्वरः ॥ १८ ॥
sahasra-yojana-āyāmām su pūrṇām bahu-kiṃkaraiḥ .. dadarśa śaṃkaram sa aṃbam tatra viṣṇuḥ sureśvaraḥ .. 18 ..
वसंतं मध्यदेशे च यथेन्दुतारकावृतम् ॥ अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ १९ ॥
वसंतम् मध्यदेशे च यथा इन्दु-तारका-वृतम् ॥ अमूल्य-रत्न-निर्माण-चित्र-सिंहासन-स्थितम् ॥ १९ ॥
vasaṃtam madhyadeśe ca yathā indu-tārakā-vṛtam .. amūlya-ratna-nirmāṇa-citra-siṃhāsana-sthitam .. 19 ..
किरीटिनं कुंडलिनं रत्नमालाविभूषितम् ॥ भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपंकजम् ॥ 2.5.30.२० ॥
किरीटिनम् कुंडलिनम् रत्न-माला-विभूषितम् ॥ भस्म-उद्धूलित-सर्व-अङ्गम् बिभ्रतम् केलि-पंकजम् ॥ २।५।३०।२० ॥
kirīṭinam kuṃḍalinam ratna-mālā-vibhūṣitam .. bhasma-uddhūlita-sarva-aṅgam bibhratam keli-paṃkajam .. 2.5.30.20 ..
पुरतो गीतनृत्यश्च पश्यंतं सस्मितं मुदा ॥ २१ ॥
पुरतस् गीत-नृत्यः च पश्यंतम् स स्मितम् मुदा ॥ २१ ॥
puratas gīta-nṛtyaḥ ca paśyaṃtam sa smitam mudā .. 21 ..
शांतं प्रसन्नमनसमुमाकांतं महोल्लसम् ॥ देव्या प्रदत्त ताम्बूलं भुक्तवंतं सुवासितम् ॥ २२ ॥
शांतम् प्रसन्न-मनसम् उमा-कान्तम् महा-उल्लसम् ॥ देव्या प्रदत्त ताम्बूलम् भुक्तवंतम् सु वासितम् ॥ २२ ॥
śāṃtam prasanna-manasam umā-kāntam mahā-ullasam .. devyā pradatta tāmbūlam bhuktavaṃtam su vāsitam .. 22 ..
गणैश्च परया भक्त्या सेवितं श्वेतचामरैः ॥ स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकंधरैः ॥ २३ ॥
गणैः च परया भक्त्या सेवितम् श्वेत-चामरैः ॥ स्तूयमानम् च सिद्धैः च भक्ति-नम्र-आत्म-कंधरैः ॥ २३ ॥
gaṇaiḥ ca parayā bhaktyā sevitam śveta-cāmaraiḥ .. stūyamānam ca siddhaiḥ ca bhakti-namra-ātma-kaṃdharaiḥ .. 23 ..
गुणातीतं परेशानं त्रिदेवजनकं विभुम् ॥ निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ॥ २४ ॥
गुण-अतीतम् पर-ईशानम् त्रिदेव-जनकम् विभुम् ॥ निर्विकल्पम् निराकारम् स आकारम् स्व-इच्छया शिवम् ॥ २४ ॥
guṇa-atītam para-īśānam trideva-janakam vibhum .. nirvikalpam nirākāram sa ākāram sva-icchayā śivam .. 24 ..
अमायमजमाद्यञ्च मायाधीशं परात्परम् ॥ प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ॥ २५ ॥
अमायम् अजम् आद्यञ्च च माया-अधीशम् परात्परम् ॥ प्रकृतेः पुरुषस्य अपि परमम् स्व-प्रभुम् सदा ॥ २५ ॥
amāyam ajam ādyañca ca māyā-adhīśam parātparam .. prakṛteḥ puruṣasya api paramam sva-prabhum sadā .. 25 ..
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् ॥ विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृतांजली ॥ २६ ॥
एवम् विशिष्टम् तम् दृष्ट्वा परिपूर्णतमम् समम् ॥ विष्णुः ब्रह्मा तुष्टुवतुः प्रणम्य सु कृत-अंजली ॥ २६ ॥
evam viśiṣṭam tam dṛṣṭvā paripūrṇatamam samam .. viṣṇuḥ brahmā tuṣṭuvatuḥ praṇamya su kṛta-aṃjalī .. 26 ..
विष्णुविधी ऊचतुः ।।
देवदेव महादेव परब्रह्माखिलेश्वर ॥ त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो ॥ २७ ॥
देवदेव महादेव पर-ब्रह्म अखिल-ईश्वर ॥ त्रिगुण-अतीत निर्व्यग्र त्रि-देव-जनक प्रभो ॥ २७ ॥
devadeva mahādeva para-brahma akhila-īśvara .. triguṇa-atīta nirvyagra tri-deva-janaka prabho .. 27 ..
वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो ॥ शंखचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ॥ २८ ॥
वयम् ते शरण-आपन्नाः रक्षस्मान् दुखितान् विभो ॥ शंखचूड-अर्दितान् क्लिष्टान् सत्-नाथान् परमेश्वर ॥ २८ ॥
vayam te śaraṇa-āpannāḥ rakṣasmān dukhitān vibho .. śaṃkhacūḍa-arditān kliṣṭān sat-nāthān parameśvara .. 28 ..
अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः ॥ अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ॥ २९ ॥
अयम् यः अधिष्ठितः लोकः गोलोकः इति स स्मृतः ॥ अधिष्ठाता तस्य विभुः कृष्णः अयम् त्वद्-अधिष्ठितः ॥ २९ ॥
ayam yaḥ adhiṣṭhitaḥ lokaḥ golokaḥ iti sa smṛtaḥ .. adhiṣṭhātā tasya vibhuḥ kṛṣṇaḥ ayam tvad-adhiṣṭhitaḥ .. 29 ..
पार्षदप्रवरस्तस्य सुदामा दैवयंत्रितः ॥ राधाशप्तो बभूवाथ शंखचूडश्च दानवः ॥ 2.5.30.३० ॥
पार्षद-प्रवरः तस्य सुदामा दैव-यंत्रितः ॥ राधा-शप्तः बभूव अथ शंखचूडः च दानवः ॥ २।५।३०।३० ॥
pārṣada-pravaraḥ tasya sudāmā daiva-yaṃtritaḥ .. rādhā-śaptaḥ babhūva atha śaṃkhacūḍaḥ ca dānavaḥ .. 2.5.30.30 ..
तेन निस्सारिताः शंभो पीड्यमानाः समंततः ॥ हृताधिकारस्त्रिदशा विचरंति महीतले ॥ ३१ ॥
तेन निस्सारिताः शंभो पीड्यमानाः समंततः ॥ हृत-अधिकारः त्रिदशाः विचरन्ति मही-तले ॥ ३१ ॥
tena nissāritāḥ śaṃbho pīḍyamānāḥ samaṃtataḥ .. hṛta-adhikāraḥ tridaśāḥ vicaranti mahī-tale .. 31 ..
त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् ॥ तं घातय महेशान लोकानां सुखमावह ॥ ३२ ॥
त्वाम् विना न स वध्यः च सर्वेषाम् त्रिदिवौकसाम् ॥ तम् घातय महेशान लोकानाम् सुखम् आवह ॥ ३२ ॥
tvām vinā na sa vadhyaḥ ca sarveṣām tridivaukasām .. tam ghātaya maheśāna lokānām sukham āvaha .. 32 ..
त्वमेव निर्गुणस्सत्योऽनंतोऽनंतपराक्रमः ॥ सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः ॥ ३३ ॥
त्वम् एव निर्गुणः सत्यः अनंतः अनंत-पराक्रमः ॥ स गुणः च सन्निवेशः प्रकृतेः पुरुषात् परः ॥ ३३ ॥
tvam eva nirguṇaḥ satyaḥ anaṃtaḥ anaṃta-parākramaḥ .. sa guṇaḥ ca sanniveśaḥ prakṛteḥ puruṣāt paraḥ .. 33 ..
रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो ॥ सत्त्वेन पालने विष्णुस्त्रिभुवावन कारकः ॥ ३४ ॥
रजसा सृष्टि-समये त्वम् ब्रह्मा सृष्टि-कृत् प्रभो ॥ सत्त्वेन पालने विष्णुः त्रिभुवौ अन कारकः ॥ ३४ ॥
rajasā sṛṣṭi-samaye tvam brahmā sṛṣṭi-kṛt prabho .. sattvena pālane viṣṇuḥ tribhuvau ana kārakaḥ .. 34 ..
तमसा प्रलये रुद्रो जगत्संहारकारकः ॥ निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिः स्वरूपकः ॥ ३५ ॥
॥ निस्त्रैगुण्ये शिव-आख्यातः तुर्य्यः ज्योतिः स्वरूपकः ॥ ३५ ॥
.. nistraiguṇye śiva-ākhyātaḥ turyyaḥ jyotiḥ svarūpakaḥ .. 35 ..
त्वं दीक्षया च गोलोके त्वं गवां परिपालकः॥ त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ॥ ३६॥
त्वम् दीक्षया च गो-लोके त्वम् गवाम् परिपालकः॥ त्वद्-गो-शाला-मध्य-गः च कृष्णः क्रीडति अहर्निशम् ॥ ३६॥
tvam dīkṣayā ca go-loke tvam gavām paripālakaḥ.. tvad-go-śālā-madhya-gaḥ ca kṛṣṇaḥ krīḍati aharniśam .. 36..
त्वं सर्वकारणं स्वामी विधि विष्ण्वीश्वरः परम् ॥ निर्विकारी सदा साक्षी परमात्मा परेश्वरः ॥ ३७ ॥
त्वम् सर्व-कारणम् स्वामी विधि विष्णु-ईश्वरः परम् ॥ निर्विकारी सदा साक्षी परमात्मा पर-ईश्वरः ॥ ३७ ॥
tvam sarva-kāraṇam svāmī vidhi viṣṇu-īśvaraḥ param .. nirvikārī sadā sākṣī paramātmā para-īśvaraḥ .. 37 ..
दीनानाथसहायी च दीनानां प्रतिपालकः ॥ दीनबंधुस्त्रिलोकेशश्शरणागतवत्सलः ॥ ३८ ॥
दीन-अनाथ-सहायी च दीनानाम् प्रतिपालकः ॥ दीन-बंधुः त्रिलोक-ईशः शरण-आगत-वत्सलः ॥ ३८ ॥
dīna-anātha-sahāyī ca dīnānām pratipālakaḥ .. dīna-baṃdhuḥ triloka-īśaḥ śaraṇa-āgata-vatsalaḥ .. 38 ..
अस्मानुद्धर गौरीश प्रसीद परमेश्वरः ॥ त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ॥ ३९ ॥
अस्मान् उद्धर गौरीश प्रसीद परमेश्वरः ॥ त्वद्-अधीनाः वयम् नाथ यत् इच्छसि तथा कुरु ॥ ३९ ॥
asmān uddhara gaurīśa prasīda parameśvaraḥ .. tvad-adhīnāḥ vayam nātha yat icchasi tathā kuru .. 39 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा॥ विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ॥ 2.5.30.४०॥
इति उक्त्वा तौ सुरौ व्यास हरिः ब्रह्मा च वै तदा॥ विरेमतुः शिवम् नत्वा करौ बद्ध्वा विनीतकौ॥ २।५।३०।४०॥
iti uktvā tau surau vyāsa hariḥ brahmā ca vai tadā.. virematuḥ śivam natvā karau baddhvā vinītakau.. 2.5.30.40..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ॥ ३० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडवधे देवदेवस्तुतिः नाम त्रिंशः अध्यायः ॥ ३० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍavadhe devadevastutiḥ nāma triṃśaḥ adhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In