| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः ॥ उवाच विहसन्वाण्या मेघनादगभीरया ॥ १॥
अथा आकर्ण्य वचः शंभुः हरि-विध्योः सु दीनयोः ॥ उवाच विहसन् वाण्या मेघ-नाद-गभीरया ॥ १॥
athā ākarṇya vacaḥ śaṃbhuḥ hari-vidhyoḥ su dīnayoḥ .. uvāca vihasan vāṇyā megha-nāda-gabhīrayā .. 1..
शिव उवाच ।।
हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ॥ शंखचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम् ॥ २ ॥
हे हरे वत्स हे ब्रह्मन् त्यजतम् सर्वशस् भयम् ॥ शंखचूड-उद्भवम् भद्रम् सम्भविष्यति असंशयम् ॥ २ ॥
he hare vatsa he brahman tyajatam sarvaśas bhayam .. śaṃkhacūḍa-udbhavam bhadram sambhaviṣyati asaṃśayam .. 2 ..
शंखचूडस्य वृत्तांतं सर्वं जानामि तत्त्वतः ॥ कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो॥ ३॥
शंखचूडस्य वृत्तांतम् सर्वम् जानामि तत्त्वतः ॥ कृष्ण-भक्तस्य गोपस्य सुदाम्नः च पुरा प्रभो॥ ३॥
śaṃkhacūḍasya vṛttāṃtam sarvam jānāmi tattvataḥ .. kṛṣṇa-bhaktasya gopasya sudāmnaḥ ca purā prabho.. 3..
मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ॥ गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते॥ ४॥
मद्-आज्ञया हृषीकेशो कृष्ण-रूपम् विधाय च ॥ गो-शालायाम् स्थितः रम्ये गो-लोके मद्-अधिष्ठिते॥ ४॥
mad-ājñayā hṛṣīkeśo kṛṣṇa-rūpam vidhāya ca .. go-śālāyām sthitaḥ ramye go-loke mad-adhiṣṭhite.. 4..
स्वतंत्रोहमिति स्वं स मोहं मत्वा गतः पुरा ॥ क्रीडास्समकरोद्बह्वीस्स्वैरवर्तीव मोहितः ॥ ५॥
स्वतंत्रा ऊहम् इति स्वम् स मोहम् मत्वा गतः पुरा ॥ क्रीडाः समकरोत् बह्वीः स्वैरवर्ती इव मोहितः ॥ ५॥
svataṃtrā ūham iti svam sa moham matvā gataḥ purā .. krīḍāḥ samakarot bahvīḥ svairavartī iva mohitaḥ .. 5..
तं दृष्ट्वा मोहमत्युग्रं तस्याहं मायया स्वया ॥ तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल ॥ ६॥
तम् दृष्ट्वा मोहम् अति उग्रम् तस्य अहम् मायया स्वया ॥ तेषाम् संहृत्य सत्-बुद्धिम् शापम् दापितवान् किल ॥ ६॥
tam dṛṣṭvā moham ati ugram tasya aham māyayā svayā .. teṣām saṃhṛtya sat-buddhim śāpam dāpitavān kila .. 6..
इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ॥ ज्ञानयुक्तास्तदा ते तु मुक्तमोहास्सुबुद्धयः ॥ ॥ ७॥
इत्थम् कृत्वा स्व-लीलाम् ताम् मायाम् संहृतवान् अहम् ॥ ज्ञान-युक्ताः तदा ते तु मुक्त-मोहाः सु बुद्धयः ॥ ॥ ७॥
ittham kṛtvā sva-līlām tām māyām saṃhṛtavān aham .. jñāna-yuktāḥ tadā te tu mukta-mohāḥ su buddhayaḥ .. .. 7..
समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ॥ अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः॥ ८॥
समीपम् आगताः ते मे दीनीभूय प्रणम्य माम् ॥ अकुर्वन् सुनुतिम् भक्त्या करौ बद्ध्वा विनम्रकाः॥ ८॥
samīpam āgatāḥ te me dīnībhūya praṇamya mām .. akurvan sunutim bhaktyā karau baddhvā vinamrakāḥ.. 8..
वृत्तांतमवदन्सर्वं लज्जाकुलितमानसाः ॥ ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः ॥ ९॥
वृत्तांतम् अवदन् सर्वम् लज्जा-आकुलित-मानसाः ॥ ऊचुः मद्-पुरतस् दीनाः रक्ष-रक्ष इति वै गिरः ॥ ९॥
vṛttāṃtam avadan sarvam lajjā-ākulita-mānasāḥ .. ūcuḥ mad-puratas dīnāḥ rakṣa-rakṣa iti vai giraḥ .. 9..
तदा त्वहं भवस्तेषां संतुष्टः प्रोक्तवान् वचः॥ भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ॥ 2.5.31.१०॥
तदा तु अहम् भवः तेषाम् संतुष्टः प्रोक्तवान् वचः॥ भयम् त्यजत हे कृष्ण यूयम् सर्वे मद्-आज्ञया ॥ २।५।३१।१०॥
tadā tu aham bhavaḥ teṣām saṃtuṣṭaḥ proktavān vacaḥ.. bhayam tyajata he kṛṣṇa yūyam sarve mad-ājñayā .. 2.5.31.10..
रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति॥ मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ॥ ११ ॥
रक्षकः अहम् सदा प्रीत्या सु भद्रम् वः भविष्यति॥ मद्-इच्छया अखिलम् जातम् इदम् सर्वम् न संशयः ॥ ११ ॥
rakṣakaḥ aham sadā prītyā su bhadram vaḥ bhaviṣyati.. mad-icchayā akhilam jātam idam sarvam na saṃśayaḥ .. 11 ..
स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ॥ दानवस्तु भवेत्सोयं भारतेऽत्र न संशयः ॥ १२॥
स्व-स्थानम् गच्छ त्वम् सार्द्धम् राधया पार्षदेन च ॥ दानवः तु भवेत् सः यम् भारते अत्र न संशयः ॥ १२॥
sva-sthānam gaccha tvam sārddham rādhayā pārṣadena ca .. dānavaḥ tu bhavet saḥ yam bhārate atra na saṃśayaḥ .. 12..
शापोद्धारं करिष्येऽहं युवयोस्समये खलु ॥ मदुक्तमिति संधार्य शिरसा राधया सह ॥ १३॥
शाप-उद्धारम् करिष्ये अहम् युवयोः समये खलु ॥ मद्-उक्तम् इति संधार्य शिरसा राधया सह ॥ १३॥
śāpa-uddhāram kariṣye aham yuvayoḥ samaye khalu .. mad-uktam iti saṃdhārya śirasā rādhayā saha .. 13..
श्रीकृष्णोऽमोददत्यंतं स्वस्थानमगमत्सुधीः ॥ न्यष्ठातां सभयं तत्र मदाराधनतत्परौ॥ १४॥
श्री-कृष्णः अमोदत् अत्यन्तम् स्व-स्थानम् अगमत् सुधीः ॥ न्यष्ठाताम् स भयम् तत्र मद्-आराधन-तत्परौ॥ १४॥
śrī-kṛṣṇaḥ amodat atyantam sva-sthānam agamat sudhīḥ .. nyaṣṭhātām sa bhayam tatra mad-ārādhana-tatparau.. 14..
मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै॥ स सुदामाऽभवद्राधाशापतो दानवेश्वरः॥ १५॥
मत्वा अखिलम् मद्-अधीनम् अस्वतन्त्रम् निजम् च वै॥ स सुदामा अभवत् राधा-शापतः दानव-ईश्वरः॥ १५॥
matvā akhilam mad-adhīnam asvatantram nijam ca vai.. sa sudāmā abhavat rādhā-śāpataḥ dānava-īśvaraḥ.. 15..
शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ॥ क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ॥ १६॥
॥ क्लिश्नाति सु बलात् कृत्स्नम् सदा देव-गणम् कुधीः ॥ १६॥
.. kliśnāti su balāt kṛtsnam sadā deva-gaṇam kudhīḥ .. 16..
मन्मायामोहितस्सोतिदुष्टमंत्रिसहा यवान् ॥ तद्भयं त्यजताश्वेव मयि शास्तरि वै सति ॥ १७ ॥
मद्-माया-मोहितः सः ऊति-दुष्ट-मंत्रि-सहाः यवान् ॥ तत् भयम् त्यजत आशु एव मयि शास्तरि वै सति ॥ १७ ॥
mad-māyā-mohitaḥ saḥ ūti-duṣṭa-maṃtri-sahāḥ yavān .. tat bhayam tyajata āśu eva mayi śāstari vai sati .. 17 ..
सनत्कुमार उवाच ।।
इत्यूचिवाञ्शिवो यावद्धरिब्रह्मपुरः कथाम् ॥ अभवत्तावदन्यच्च चरितं तन्मुने शृणु॥ १८॥
इति ऊचिवान् शिवः यावत् हरि-ब्रह्म-पुरस् कथाम् ॥ अभवत् तावत् अन्यत् च चरितम् तत् मुने शृणु॥ १८॥
iti ūcivān śivaḥ yāvat hari-brahma-puras kathām .. abhavat tāvat anyat ca caritam tat mune śṛṇu.. 18..
तस्मिन्नेवांतरे कृष्णो राधया पार्षदैः सह॥ सद्गोपैराययौ शंभुमनुकूलयितुं प्रभुम्॥ १९॥
तस्मिन् एव अंतरे कृष्णः राधया पार्षदैः सह॥ सत्-गोपैः आययौ शंभुम् अनुकूलयितुम् प्रभुम्॥ १९॥
tasmin eva aṃtare kṛṣṇaḥ rādhayā pārṣadaiḥ saha.. sat-gopaiḥ āyayau śaṃbhum anukūlayitum prabhum.. 19..
प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् ॥ संमतो विधिना प्रीत्या संतस्थौ शिवशासनात्॥ 2.5.31.२०॥
प्रभुम् प्रणम्य सत्-भक्त्या मिलित्वा हरिम् आदरात् ॥ संमतः विधिना प्रीत्या संतस्थौ शिव-शासनात्॥ २।५।३१।२०॥
prabhum praṇamya sat-bhaktyā militvā harim ādarāt .. saṃmataḥ vidhinā prītyā saṃtasthau śiva-śāsanāt.. 2.5.31.20..
ततः शंभुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ॥ श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ॥ २१ ॥
ततस् शंभुम् पुनर् नत्वा तुष्टाव विहित-अञ्जलिः ॥ श्री-कृष्णः मोह-निर्मुक्तः ज्ञात्वा तत्त्वम् शिवस्य हि ॥ २१ ॥
tatas śaṃbhum punar natvā tuṣṭāva vihita-añjaliḥ .. śrī-kṛṣṇaḥ moha-nirmuktaḥ jñātvā tattvam śivasya hi .. 21 ..
श्रीकृष्ण उवाच ।।
देवदेव महादेव परब्रह्म सतांगते ॥ क्षमस्व चापराधं मे प्रसीद परमेश्वर ॥ २२ ॥
देवदेव महादेव पर-ब्रह्म सतांगते ॥ क्षमस्व च अपराधम् मे प्रसीद परमेश्वर ॥ २२ ॥
devadeva mahādeva para-brahma satāṃgate .. kṣamasva ca aparādham me prasīda parameśvara .. 22 ..
त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ॥ सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ॥ २३॥
त्वत्तः शर्व च सर्वम् च त्वयि सर्वम् महेश्वर ॥ सर्वम् त्वम् निखिल-अधीश प्रसीद परमेश्वर ॥ २३॥
tvattaḥ śarva ca sarvam ca tvayi sarvam maheśvara .. sarvam tvam nikhila-adhīśa prasīda parameśvara .. 23..
त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ॥ त्वया नाथेन गौरीश सनाथास्सकला वयम् ॥ २४॥
त्वम् ज्योतिः परमम् साक्षात् सर्व-व्यापी सनातनः ॥ त्वया नाथेन गौरीश स नाथाः सकलाः वयम् ॥ २४॥
tvam jyotiḥ paramam sākṣāt sarva-vyāpī sanātanaḥ .. tvayā nāthena gaurīśa sa nāthāḥ sakalāḥ vayam .. 24..
सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ॥ तत्फलं प्राप्तवानस्मि शापं प्राप्तस्सवामकः ॥ २५॥
सर्व-उपरि निजम् मत्वा विहरन् मोहम् आश्रितः ॥ तद्-फलम् प्राप्तवान् अस्मि शापम् प्राप्तः स वामकः ॥ २५॥
sarva-upari nijam matvā viharan moham āśritaḥ .. tad-phalam prāptavān asmi śāpam prāptaḥ sa vāmakaḥ .. 25..
पार्षदप्रवरो यो मे सुदामा नाम गोपकः॥ स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ॥ २६ ॥
पार्षद-प्रवरः यः मे सुदामा नाम गोपकः॥ स राधा-शापतः स्वामिन् दानवीम् योनिम् आश्रितः ॥ २६ ॥
pārṣada-pravaraḥ yaḥ me sudāmā nāma gopakaḥ.. sa rādhā-śāpataḥ svāmin dānavīm yonim āśritaḥ .. 26 ..
अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ॥ शापोद्धारं कुरुष्वाद्य पाहि नश्शरणागतान्॥ २७॥
अस्मान् उद्धर दुर्ग्गेश प्रसीद परमेश्वर ॥ शाप-उद्धारम् कुरुष्व अद्य पाहि नः शरण-आगतान्॥ २७॥
asmān uddhara durggeśa prasīda parameśvara .. śāpa-uddhāram kuruṣva adya pāhi naḥ śaraṇa-āgatān.. 27..
इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह॥ प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः॥ २८
इति उक्त्वा विरराम एव श्री-कृष्णः राधया सह॥ प्रसन्नः अभूत् शिवः तत्र शरण-आगत-वत्सलः॥ २८
iti uktvā virarāma eva śrī-kṛṣṇaḥ rādhayā saha.. prasannaḥ abhūt śivaḥ tatra śaraṇa-āgata-vatsalaḥ.. 28
श्रीशिव उवाच ।।
हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ॥ मयानुगृह्णता तात सर्वमाचरितं त्विदम् ॥ २९॥
हे कृष्ण गोपिका-नाथ भयम् त्यज सुखी भव ॥ मया अनुगृह्णता तात सर्वम् आचरितम् तु इदम् ॥ २९॥
he kṛṣṇa gopikā-nātha bhayam tyaja sukhī bhava .. mayā anugṛhṇatā tāta sarvam ācaritam tu idam .. 29..
संभविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ॥ स्थातव्यं स्वाधिकारे च सावधानतया सदा ॥ 2.5.31.३० ॥
संभविष्यति ते भद्रम् गच्छ स्व-स्थानम् उत्तमम् ॥ स्थातव्यम् स्व-अधिकारे च सावधान-तया सदा ॥ २।५।३१।३० ॥
saṃbhaviṣyati te bhadram gaccha sva-sthānam uttamam .. sthātavyam sva-adhikāre ca sāvadhāna-tayā sadā .. 2.5.31.30 ..
विहरस्व यथाकामं मां विज्ञाय परात्परम् ॥ स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ॥ ३१॥
विहरस्व यथाकामम् माम् विज्ञाय परात्परम् ॥ स्व-कार्यम् कुरु निर्व्यग्रम् राधया पार्षदैः खलु ॥ ३१॥
viharasva yathākāmam mām vijñāya parātparam .. sva-kāryam kuru nirvyagram rādhayā pārṣadaiḥ khalu .. 31..
वाराहप्रवरे कल्पे तरुण्या राधया सह ॥ शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम्॥ ३२
वाराहप्रवरे कल्पे तरुण्या राधया सह ॥ शाप-प्रभावम् भुक्त्वा वै पुनर् आयास्यति स्वकम्॥ ३२
vārāhapravare kalpe taruṇyā rādhayā saha .. śāpa-prabhāvam bhuktvā vai punar āyāsyati svakam.. 32
सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ॥ दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत्॥ ३३॥
सुदामा पार्षदः यः हि तव कृष्ण प्रिय-प्रियः ॥ दानवीम् योनिम् आश्रित्य इदानीम् क्लिश्नाति वै जगत्॥ ३३॥
sudāmā pārṣadaḥ yaḥ hi tava kṛṣṇa priya-priyaḥ .. dānavīm yonim āśritya idānīm kliśnāti vai jagat.. 33..
शापप्रभावाद्राधाया देवशत्रुश्च दानवः ॥ शङ्खचूडाभिधस्सोऽति दैत्यपक्षी सुरदुहः ॥ ३४ ॥
शाप-प्रभावात् राधायाः देवशत्रुः च दानवः ॥ शङ्खचूड-अभिधः सः अति दैत्य-पक्षी सुरदुहः ॥ ३४ ॥
śāpa-prabhāvāt rādhāyāḥ devaśatruḥ ca dānavaḥ .. śaṅkhacūḍa-abhidhaḥ saḥ ati daitya-pakṣī suraduhaḥ .. 34 ..
तेन निस्सारिता देवास्सेन्द्रा नित्यं प्रपीडिताः ॥ हृताधिकारा विकृतास्सर्वे याता दिशो दश ॥ ३५॥
तेन निस्सारिताः देवाः स इन्द्राः नित्यम् प्रपीडिताः ॥ हृत-अधिकाराः विकृताः सर्वे याताः दिशः दश ॥ ३५॥
tena nissāritāḥ devāḥ sa indrāḥ nityam prapīḍitāḥ .. hṛta-adhikārāḥ vikṛtāḥ sarve yātāḥ diśaḥ daśa .. 35..
ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ॥ तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ॥ ३६॥
ब्रह्म-अच्युतौ तद्-अर्थे ही हा आगतौ शरणम् मम ॥ तेषाम् क्लेश-विनिर्मोक्षम् करिष्ये न अत्र संशयः ॥ ३६॥
brahma-acyutau tad-arthe hī hā āgatau śaraṇam mama .. teṣām kleśa-vinirmokṣam kariṣye na atra saṃśayaḥ .. 36..
सनत्कुमार उवाच ।।
इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम्॥ हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ॥ ३७॥
इति उक्त्वा शंकरः कृष्णम् पुनर् प्रोवाच सादरम्॥ हरिम् विधिम् समाभाष्य वचनम् क्लेश-नाशनम् ॥ ३७॥
iti uktvā śaṃkaraḥ kṛṣṇam punar provāca sādaram.. harim vidhim samābhāṣya vacanam kleśa-nāśanam .. 37..
शिव उवाच ।।
हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ॥ गच्छतं त्वरितं तातौ देवानंदाय निर्भयम् ॥ ३८ ॥
हे हरे हे विधे प्रीत्या मम इदम् वचनम् शृणु ॥ गच्छतम् त्वरितम् तातौ देवानंदाय निर्भयम् ॥ ३८ ॥
he hare he vidhe prītyā mama idam vacanam śṛṇu .. gacchatam tvaritam tātau devānaṃdāya nirbhayam .. 38 ..
कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् ॥ देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम् ॥ ३९ ॥
कैलास-वासिनम् रुद्रम् मद्-रूपम् पूर्णम् उत्तमम् ॥ देव-कार्य-अर्थम् उद्भूतम् पृथक् आकृति-धारिणम् ॥ ३९ ॥
kailāsa-vāsinam rudram mad-rūpam pūrṇam uttamam .. deva-kārya-artham udbhūtam pṛthak ākṛti-dhāriṇam .. 39 ..
एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः ॥ कैलासे भक्तवशतस्संतिष्ठति गिरौ हरे ॥ 2.5.31.४० ॥
एतद्-अर्थे हि मद्-रूपः परिपूर्णतमः प्रभुः ॥ कैलासे भक्त-वशतस् संतिष्ठति गिरौ हरे ॥ २।५।३१।४० ॥
etad-arthe hi mad-rūpaḥ paripūrṇatamaḥ prabhuḥ .. kailāse bhakta-vaśatas saṃtiṣṭhati girau hare .. 2.5.31.40 ..
मत्तस्त्वत्तो न भेदोऽस्ति युवयोस्सेव्य एव सः ॥ चराचराणां सर्वेषां सुरादीनां च सर्वदा ॥ ४१ ॥
मत्तः त्वत्तः न भेदः अस्ति युवयोः सेव्यः एव सः ॥ चर-अचराणाम् सर्वेषाम् सुर-आदीनाम् च सर्वदा ॥ ४१ ॥
mattaḥ tvattaḥ na bhedaḥ asti yuvayoḥ sevyaḥ eva saḥ .. cara-acarāṇām sarveṣām sura-ādīnām ca sarvadā .. 41 ..
आवयोभेदकर्ता यस्स नरो नरकं व्रजेत् ॥ इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः ॥ ४२ ॥
आवयः-भेद-कर्ता यः स नरः नरकम् व्रजेत् ॥ इह अपि प्राप्नुयात् कृष्टम् पुत्र-पौत्र-विवर्जितः ॥ ४२ ॥
āvayaḥ-bheda-kartā yaḥ sa naraḥ narakam vrajet .. iha api prāpnuyāt kṛṣṭam putra-pautra-vivarjitaḥ .. 42 ..
इत्युक्तवंतं दुर्गेशं प्रणम्य च मुहुर्मुहुः ॥ राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ॥ ४३ ॥
इति उक्तवंतम् दुर्गेशम् प्रणम्य च मुहुर् मुहुर् ॥ राधया सहितः कृष्णः स्व-स्थानम् स गणः ययौ ॥ ४३ ॥
iti uktavaṃtam durgeśam praṇamya ca muhur muhur .. rādhayā sahitaḥ kṛṣṇaḥ sva-sthānam sa gaṇaḥ yayau .. 43 ..
हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ॥ मुहुर्मुहुः प्रणम्येशं वैकुंठं ययतुर्द्रुतम् ॥ ४४ ॥
हरिः ब्रह्मा च तौ व्यास स आनन्दौ गत-साध्वसौ ॥ मुहुर् मुहुर् प्रणम्य ईशम् वैकुंठम् ययतुः द्रुतम् ॥ ४४ ॥
hariḥ brahmā ca tau vyāsa sa ānandau gata-sādhvasau .. muhur muhur praṇamya īśam vaikuṃṭham yayatuḥ drutam .. 44 ..
तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ॥ तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ॥ ४५ ॥
तत्र आगत्य अखिलम् वृत्तम् देवेभ्यः विनिवेद्य तौ ॥ तान् आदाय ब्रह्म-विष्णू कैलासम् ययतुः गिरिम् ॥ ४५ ॥
tatra āgatya akhilam vṛttam devebhyaḥ vinivedya tau .. tān ādāya brahma-viṣṇū kailāsam yayatuḥ girim .. 45 ..
तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् ॥ दीनरक्षात्तदेहं च सगुणं देवनायकम् ॥ ४६ ॥
तत्र दृष्ट्वा महेशानम् पार्वती-वल्लभम् प्रभुम् ॥ दीन-रक्ष-आत्त-देहम् च स गुणम् देव-नायकम् ॥ ४६ ॥
tatra dṛṣṭvā maheśānam pārvatī-vallabham prabhum .. dīna-rakṣa-ātta-deham ca sa guṇam deva-nāyakam .. 46 ..
तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा ॥ करौ बद्ध्वा नतस्कंधा विनयेन समन्विताः ॥ ४७ ॥
तुष्टुवुः पूर्ववत् सर्वे भक्त्या गद्गदया गिरा ॥ करौ बद्ध्वा नत-स्कंधाः विनयेन समन्विताः ॥ ४७ ॥
tuṣṭuvuḥ pūrvavat sarve bhaktyā gadgadayā girā .. karau baddhvā nata-skaṃdhāḥ vinayena samanvitāḥ .. 47 ..
देवा ऊचुः ।।
देवदेव महादेव गिरिजानाथ शंकर ॥ वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ॥ ४८ ॥
देवदेव महादेव गिरिजानाथ शंकर ॥ वयम् त्वाम् शरण-आपन्नाः रक्ष देवान् भय-आकुलान् ॥ ४८ ॥
devadeva mahādeva girijānātha śaṃkara .. vayam tvām śaraṇa-āpannāḥ rakṣa devān bhaya-ākulān .. 48 ..
शंखचूडदानवेन्द्रं जहि देवनिषूदनम् ॥ तेन विक्लाविता देवाः संग्रामे च पराजिताः ॥ ४९॥
शंखचूड-दानव-इन्द्रम् जहि देव-निषूदनम् ॥ तेन विक्लाविताः देवाः संग्रामे च पराजिताः ॥ ४९॥
śaṃkhacūḍa-dānava-indram jahi deva-niṣūdanam .. tena viklāvitāḥ devāḥ saṃgrāme ca parājitāḥ .. 49..
हृताधिकाराः कुतले विचरंति यथा नराः ॥ देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात् ॥ 2.5.31.५० ॥
हृत-अधिकाराः कु तले विचरन्ति यथा नराः ॥ देव-लोकः हि दुर्दृश्यः तेषाम् आसीत् च तद्-भयात् ॥ २।५।३१।५० ॥
hṛta-adhikārāḥ ku tale vicaranti yathā narāḥ .. deva-lokaḥ hi durdṛśyaḥ teṣām āsīt ca tad-bhayāt .. 2.5.31.50 ..
दीनोद्धर कृपासिन्धो देवानुद्धर संकटात् ॥ शक्रं भयान्महेशानहत्वा तं दानवाधिपम् ॥ ५१ ॥
दीन उद्धर कृपा-सिन्धो देवान् उद्धर संकटात् ॥ शक्रम् भयात् महा-ईशान् अ हत्वा तम् दानव-अधिपम् ॥ ५१ ॥
dīna uddhara kṛpā-sindho devān uddhara saṃkaṭāt .. śakram bhayāt mahā-īśān a hatvā tam dānava-adhipam .. 51 ..
इति श्रुत्वा वचश्शंभुर्देवानां भक्तवत्सलः ॥ उवाच विहसन् वाण्या मेघनादगभीरया ॥ ५२ ॥
इति श्रुत्वा वचः शंभुः देवानाम् भक्त-वत्सलः ॥ उवाच विहसन् वाण्या मेघ-नाद-गभीरया ॥ ५२ ॥
iti śrutvā vacaḥ śaṃbhuḥ devānām bhakta-vatsalaḥ .. uvāca vihasan vāṇyā megha-nāda-gabhīrayā .. 52 ..
श्रीशंकर उवाच ।।
हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ॥ शंखचूडं वधिष्यामि सगणं नात्र संशयः ॥ ५३॥
हे हरे हे विधे देवाः स्व-स्थानम् गच्छत धुवम् ॥ शंखचूडम् वधिष्यामि स गणम् न अत्र संशयः ॥ ५३॥
he hare he vidhe devāḥ sva-sthānam gacchata dhuvam .. śaṃkhacūḍam vadhiṣyāmi sa gaṇam na atra saṃśayaḥ .. 53..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ॥ ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ॥ ५४ ॥
इति आकर्ण्य महेशस्य वचः पीयूष-संनिभम् ॥ ते सर्वे प्रमुदा हि आसन् नष्टम् मत्वा च दानवम् ॥ ५४ ॥
iti ākarṇya maheśasya vacaḥ pīyūṣa-saṃnibham .. te sarve pramudā hi āsan naṣṭam matvā ca dānavam .. 54 ..
हरिर्जगाम वैकुंठं सत्यलोके विधिस्तदा ॥ प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ॥ ५५ ॥
हरिः जगाम वैकुंठम् सत्य-लोके विधिः तदा ॥ प्रणिपत्य महेशम् च सुर-आद्याः स्व-पदम् ययुः ॥ ५५ ॥
hariḥ jagāma vaikuṃṭham satya-loke vidhiḥ tadā .. praṇipatya maheśam ca sura-ādyāḥ sva-padam yayuḥ .. 55 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडवधे शिवोपदेशः नाम एकत्रिंशः अध्यायः ॥ ३१ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍavadhe śivopadeśaḥ nāma ekatriṃśaḥ adhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In