| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ॥ सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १ ॥
तस्य तत् वाक्यम् आकर्ण्य सुरराज् ततस् ॥ स क्रोधः प्राह गिरिशः वीरभद्र-आदिकान् गणान् ॥ १ ॥
tasya tat vākyam ākarṇya surarāj tatas .. sa krodhaḥ prāha giriśaḥ vīrabhadra-ādikān gaṇān .. 1 ..
रुद्र उवाच ।।
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ॥ सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः ॥ २ ॥
हे वीरभद्र हे नंदिन् क्षेत्रपा-लष्ट-भैरवाः ॥ सर्वे गणाः च सन्नद्धाः स आयुधाः बल-शालिनः ॥ २ ॥
he vīrabhadra he naṃdin kṣetrapā-laṣṭa-bhairavāḥ .. sarve gaṇāḥ ca sannaddhāḥ sa āyudhāḥ bala-śālinaḥ .. 2 ..
कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया॥ स्वसेनया भद्रकाली निर्गच्छतु रणाय च॥ शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ॥ ३ ॥
कुमाराभ्याम् सह एव अद्य निर्गच्छन्तु मम आज्ञया॥ स्व-सेनया भद्रकाली निर्गच्छतु रणाय च॥ शंखचूड-वध-अर्थाय निर्गच्छामि अद्य स त्वरम् ॥ ॥ ३ ॥
kumārābhyām saha eva adya nirgacchantu mama ājñayā.. sva-senayā bhadrakālī nirgacchatu raṇāya ca.. śaṃkhacūḍa-vadha-arthāya nirgacchāmi adya sa tvaram .. .. 3 ..
सनत्कुमार उवाच ।।
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ॥ सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः ॥ ४ ॥
इति आज्ञाप्य महेशानः निर्ययौ सैन्य-संयुतः ॥ सर्वे वीर-गणाः तस्य अनु ययुः संप्रहर्षिताः ॥ ४ ॥
iti ājñāpya maheśānaḥ niryayau sainya-saṃyutaḥ .. sarve vīra-gaṇāḥ tasya anu yayuḥ saṃpraharṣitāḥ .. 4 ..
एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ॥ यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके ॥ ५॥
एतस्मिन् अन्तरे स्कंद-गण-ईशौ सर्व-सैन्यपौ ॥ यततुः मुदितौ नद्धौ स आयुधौ च शिव-अंतिके ॥ ५॥
etasmin antare skaṃda-gaṇa-īśau sarva-sainyapau .. yatatuḥ muditau naddhau sa āyudhau ca śiva-aṃtike .. 5..
वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ॥ विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः ॥ ६ ॥ ॥
वीरभद्रः च नन्दी च महाकालः सुभद्रकः ॥ विशालाक्षः च बाणः च पिंगलाक्षः विकंपनः ॥ ६ ॥ ॥
vīrabhadraḥ ca nandī ca mahākālaḥ subhadrakaḥ .. viśālākṣaḥ ca bāṇaḥ ca piṃgalākṣaḥ vikaṃpanaḥ .. 6 .. ..
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ॥ कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७ ॥
विरूपः विकृतिः च एव मणिभद्रः च बाष्कलः ॥ कपिल-आख्यः दीर्घदंष्द्रः विकरः ताम्रलोचनः ॥ ७ ॥
virūpaḥ vikṛtiḥ ca eva maṇibhadraḥ ca bāṣkalaḥ .. kapila-ākhyaḥ dīrghadaṃṣdraḥ vikaraḥ tāmralocanaḥ .. 7 ..
कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ॥ बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८॥
॥ बल-उन्मत्तः रण-श्लाघ्यः दुर्जयः दुर्गमः तथा ॥ ८॥
.. bala-unmattaḥ raṇa-ślāghyaḥ durjayaḥ durgamaḥ tathā .. 8..
इत्यादयो गणेशानास्सैन्यानां पतयो वराः ॥ तेषां च गणनां वच्मि सावधानतया शृणु ॥ ९ ॥
इत्यादयः गण-ईशानाः सैन्यानाम् पतयः वराः ॥ तेषाम् च गणनाम् वच्मि सावधान-तया शृणु ॥ ९ ॥
ityādayaḥ gaṇa-īśānāḥ sainyānām patayaḥ varāḥ .. teṣām ca gaṇanām vacmi sāvadhāna-tayā śṛṇu .. 9 ..
शंखकर्णः कोटिगणैर्युतः परविमर्दकः ॥ दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ 2.5.33.१० ॥
शंख-कर्णः कोटि-गणैः युतः पर-विमर्दकः ॥ दशभिः केकराक्षः च विकृतः अष्टाभिः एव च ॥ २।५।३३।१० ॥
śaṃkha-karṇaḥ koṭi-gaṇaiḥ yutaḥ para-vimardakaḥ .. daśabhiḥ kekarākṣaḥ ca vikṛtaḥ aṣṭābhiḥ eva ca .. 2.5.33.10 ..
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥ षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः ॥ ११ ॥
चतुष्षष्ट्या विशाखः च नवभिः पारियात्रिकः ॥ षड्भिः सर्व-अन्तकः विकृत-आननः ॥ ११ ॥
catuṣṣaṣṭyā viśākhaḥ ca navabhiḥ pāriyātrikaḥ .. ṣaḍbhiḥ sarva-antakaḥ vikṛta-ānanaḥ .. 11 ..
जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
जालकः हि द्वादशभिः कोटिभिः गण-पुंगवः ॥ सप्तभिः समदः श्रीमान् दुन्दुभः अष्टाभिः एव च ॥ १२ ॥
jālakaḥ hi dvādaśabhiḥ koṭibhiḥ gaṇa-puṃgavaḥ .. saptabhiḥ samadaḥ śrīmān dundubhaḥ aṣṭābhiḥ eva ca .. 12 ..
पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ॥ कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा ॥ १३ ॥
पंचभिः च कराल-अक्षः षड्भिः संदारकः वरः ॥ कोटि-कोटिभिः एवा इह कंदुकः कुंडकः तथा ॥ १३ ॥
paṃcabhiḥ ca karāla-akṣaḥ ṣaḍbhiḥ saṃdārakaḥ varaḥ .. koṭi-koṭibhiḥ evā iha kaṃdukaḥ kuṃḍakaḥ tathā .. 13 ..
विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ॥ पिप्पलश्च सहस्रेण संनादश्च तथाविधः ॥ १४॥
विष्टंभः अष्टाभिः एव इह गणपः सर्व-सत्तमः ॥ पिप्पलः च सहस्रेण संनादः च तथाविधः ॥ १४॥
viṣṭaṃbhaḥ aṣṭābhiḥ eva iha gaṇapaḥ sarva-sattamaḥ .. pippalaḥ ca sahasreṇa saṃnādaḥ ca tathāvidhaḥ .. 14..
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ॥ महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५ ॥
आवेशनः तथा अष्टाभिः तु अष्टभिः चन्द्रतापनः ॥ महाकेशः सहस्रेण कोटीनाम् गणपः वृतः ॥ १५ ॥
āveśanaḥ tathā aṣṭābhiḥ tu aṣṭabhiḥ candratāpanaḥ .. mahākeśaḥ sahasreṇa koṭīnām gaṇapaḥ vṛtaḥ .. 15 ..
कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ॥ कालश्च कालकश्चैव महाकालश्शतेन वै ॥ १६ ॥
कुंडी द्वादशभिः वीरः तथा पर्वतकः शुभः ॥ कालः च कालकः च एव महाकालः शतेन वै ॥ १६ ॥
kuṃḍī dvādaśabhiḥ vīraḥ tathā parvatakaḥ śubhaḥ .. kālaḥ ca kālakaḥ ca eva mahākālaḥ śatena vai .. 16 ..
अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ॥ आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ॥ १७ ॥
कोट्या च कोट्या अग्निमुखः एव च ॥ आदित्यः हि अर्द्ध-कोट्या च तथा च एवम् घन-आवहः ॥ १७ ॥
koṭyā ca koṭyā agnimukhaḥ eva ca .. ādityaḥ hi arddha-koṭyā ca tathā ca evam ghana-āvahaḥ .. 17 ..
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥ अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः ॥ १८ ॥
सनाहः च शतेन एव कुमुदः कोटिभिः तथा ॥ अमोघः कोकिलः च एव शत-कोट्या सुमंत्रकः ॥ १८ ॥
sanāhaḥ ca śatena eva kumudaḥ koṭibhiḥ tathā .. amoghaḥ kokilaḥ ca eva śata-koṭyā sumaṃtrakaḥ .. 18 ..
काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ॥ महाबलश्च नवभिः पञ्चभिर्मधुपिंगल ॥ १९ ॥
काकपादः कोटि-षष्ट्या षष्ट्या संतानकः तथा ॥ महाबलः च नवभिः पञ्चभिः मधुपिंगल ॥ १९ ॥
kākapādaḥ koṭi-ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ tathā .. mahābalaḥ ca navabhiḥ pañcabhiḥ madhupiṃgala .. 19 ..
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ॥ कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ 2.5.33.२० ॥
नीलः नवत्या देवेशः पूर्णभद्रः तथा एव च ॥ कोटीनाम् च एव सप्तानाम् चतुर्वक्त्रः महा-बलः ॥ २।५।३३।२० ॥
nīlaḥ navatyā deveśaḥ pūrṇabhadraḥ tathā eva ca .. koṭīnām ca eva saptānām caturvaktraḥ mahā-balaḥ .. 2.5.33.20 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ॥ तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे ॥ २१ ॥
कोटि-कोटि-सहस्राणाम् शतैः विंशतिभिः तथा ॥ तत्र आजग्मुः तथा वीराः ते सर्वे संगर-उत्सवे ॥ २१ ॥
koṭi-koṭi-sahasrāṇām śataiḥ viṃśatibhiḥ tathā .. tatra ājagmuḥ tathā vīrāḥ te sarve saṃgara-utsave .. 21 ..
भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ॥ वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः ॥ २२॥
भूत-कोटि-सहस्रेण प्रमथैः कोटिभिः त्रिभिः ॥ वीरभद्रः चतुष्षष्ट्या लोमजानाम् त्रि-कोटिभिः ॥ २२॥
bhūta-koṭi-sahasreṇa pramathaiḥ koṭibhiḥ tribhiḥ .. vīrabhadraḥ catuṣṣaṣṭyā lomajānām tri-koṭibhiḥ .. 22..
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ॥ विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ॥ २३ ॥
काष्ठारूढः चतुःषष्ट्या सुकेशः वृषभः तथा ॥ विरूपाक्षः च भगवान् चतुष्षष्ट्या सनातनः ॥ २३ ॥
kāṣṭhārūḍhaḥ catuḥṣaṣṭyā sukeśaḥ vṛṣabhaḥ tathā .. virūpākṣaḥ ca bhagavān catuṣṣaṣṭyā sanātanaḥ .. 23 ..
तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ॥ संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः ॥ २४ ॥
तालकेतुः षष्-आस्यः च पंच-आस्यः च प्रतापवान् ॥ संवर्तकः तथा चैत्रः लंकुलीशः स्वयम् प्रभुः ॥ २४ ॥
tālaketuḥ ṣaṣ-āsyaḥ ca paṃca-āsyaḥ ca pratāpavān .. saṃvartakaḥ tathā caitraḥ laṃkulīśaḥ svayam prabhuḥ .. 24 ..
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ॥ देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५॥
लोक-अंतकः च दीप्त-आत्मा तथा दैत्यांतकः प्रभुः ॥ ॥ २५॥
loka-aṃtakaḥ ca dīpta-ātmā tathā daityāṃtakaḥ prabhuḥ .. .. 25..
अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ॥ कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६॥
अशनिः भानुकः च एव चतुः षष्ट्या सहस्रशस् ॥ कंकालः कालकः कालः नन्दी सर्वान्तकः तथा ॥ २६॥
aśaniḥ bhānukaḥ ca eva catuḥ ṣaṣṭyā sahasraśas .. kaṃkālaḥ kālakaḥ kālaḥ nandī sarvāntakaḥ tathā .. 26..
एते चान्ये च गणपा असंख्याता महाबलाः॥ युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ॥ २७ ॥
एते च अन्ये च गणपाः असंख्याताः महा-बलाः॥ युद्ध-अर्थम् निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ॥ २७ ॥
ete ca anye ca gaṇapāḥ asaṃkhyātāḥ mahā-balāḥ.. yuddha-artham niryayuḥ prītyā śaṃkhacūḍena nirbhayāḥ .. 27 ..
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥ २८॥
सर्वे सहस्र-हस्ताः च जटा-मुकुट-धारिणः ॥ चन्द्र-रेखा-अवतंसाः च नील-कंठाः त्रि-लोचनाः ॥ २८॥
sarve sahasra-hastāḥ ca jaṭā-mukuṭa-dhāriṇaḥ .. candra-rekhā-avataṃsāḥ ca nīla-kaṃṭhāḥ tri-locanāḥ .. 28..
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥ हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ॥ २९ ॥
रुद्राक्ष-आभरणाः सर्वे तथा सत्-भस्म-धारिणः ॥ हार-कुंडल-केयूर-मुकुट-आद्यैः अलंकृताः ॥ २९ ॥
rudrākṣa-ābharaṇāḥ sarve tathā sat-bhasma-dhāriṇaḥ .. hāra-kuṃḍala-keyūra-mukuṭa-ādyaiḥ alaṃkṛtāḥ .. 29 ..
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ॥ सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥ 2.5.33.३०॥
ब्रह्म-इन्द्र-विष्णु-संकाशाः अणिम-आदि-गुणैः वृताः ॥ सूर्य-कोटि-प्रतीकाशाः प्रवीणाः युद्ध-कर्मणि ॥ २।५।३३।३०॥
brahma-indra-viṣṇu-saṃkāśāḥ aṇima-ādi-guṇaiḥ vṛtāḥ .. sūrya-koṭi-pratīkāśāḥ pravīṇāḥ yuddha-karmaṇi .. 2.5.33.30..
पृथिवीचारिणः केचित्केचित्पातालचारिणः ॥ केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१ ॥
पृथिवी-चारिणः केचिद् केचिद् पाताल-चारिणः ॥ केचिद् व्योम-चराः केचिद् सप्त-स्वर्ग-चराः मुने ॥ ३१ ॥
pṛthivī-cāriṇaḥ kecid kecid pātāla-cāriṇaḥ .. kecid vyoma-carāḥ kecid sapta-svarga-carāḥ mune .. 31 ..
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥ ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह ॥ ३२॥
किम् बहु-उक्तेन देव-ऋषे सर्व-लोक-निवासिनः ॥ ययुः शिव-गणाः सर्वे युद्ध-अर्थम् दानवैः सह ॥ ३२॥
kim bahu-uktena deva-ṛṣe sarva-loka-nivāsinaḥ .. yayuḥ śiva-gaṇāḥ sarve yuddha-artham dānavaiḥ saha .. 32..
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये॥ वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्॥ ३३॥
अष्टौ च भैरवाः रौद्राः रुद्राः च एकादशा आशु ये॥ वसवः अष्टौ वासवः च आदित्याः द्वादश ते द्रुतम्॥ ३३॥
aṣṭau ca bhairavāḥ raudrāḥ rudrāḥ ca ekādaśā āśu ye.. vasavaḥ aṣṭau vāsavaḥ ca ādityāḥ dvādaśa te drutam.. 33..
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ॥ कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ॥ ३४ ॥
हुताशनः च चन्द्रः च विश्वकर्मा अश्विनौ च तौ ॥ कुबेरः च यमः च एव निरृतिः नलकूबरः ॥ ३४ ॥
hutāśanaḥ ca candraḥ ca viśvakarmā aśvinau ca tau .. kuberaḥ ca yamaḥ ca eva nirṛtiḥ nalakūbaraḥ .. 34 ..
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ॥ ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥ ३१ ॥
वायुः च वरुणः च एव बुधः च मंगलः च वै ॥ ग्रहाः च अन्ये महेशेन कामदेवः च वीर्यवान् ॥ ३१ ॥
vāyuḥ ca varuṇaḥ ca eva budhaḥ ca maṃgalaḥ ca vai .. grahāḥ ca anye maheśena kāmadevaḥ ca vīryavān .. 31 ..
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ॥ स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥ ३६ ॥
उग्रदंष्ट्रः च उग्रदण्डः कोरटः कोटभः तथा ॥ स्वयम् शत-भुजा देवी भद्रकाली महेश्वरी ॥ ३६ ॥
ugradaṃṣṭraḥ ca ugradaṇḍaḥ koraṭaḥ koṭabhaḥ tathā .. svayam śata-bhujā devī bhadrakālī maheśvarī .. 36 ..
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता॥ ।रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥
रत्नेन्द्र-सार-निर्माण-विमान-उपरि संस्थिता॥ ।रक्त-वस्त्र-परीधाना रक्त-माल्य-अनुलेपना ॥ ३७॥
ratnendra-sāra-nirmāṇa-vimāna-upari saṃsthitā.. .rakta-vastra-parīdhānā rakta-mālya-anulepanā .. 37..
नृत्यंती च हसंती च गायंती सुस्वरं मुदा ॥ अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा॥ ३८॥
नृत्यंती च हसंती च गायंती सु स्वरम् मुदा ॥ अभयम् ददती स्वेभ्यः भयम् च अरिभ्यः एव सा॥ ३८॥
nṛtyaṃtī ca hasaṃtī ca gāyaṃtī su svaram mudā .. abhayam dadatī svebhyaḥ bhayam ca aribhyaḥ eva sā.. 38..
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ॥ शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्॥ ३९ ॥
बिभ्रती विकटाम् जिह्वाम् सु लोलाम् योजन-आयताम् ॥ शंख-चक्र-गदा-पद्म-खङ्ग-चर्म-धनुः-शरान्॥ ३९ ॥
bibhratī vikaṭām jihvām su lolām yojana-āyatām .. śaṃkha-cakra-gadā-padma-khaṅga-carma-dhanuḥ-śarān.. 39 ..
खर्परं वर्तुलाकारं गंभीरं योजनायतम्॥ त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ॥ 2.5.33.४० ॥
खर्परम् वर्तुल-आकारम् गंभीरम् योजन-आयतम्॥ त्रिशूलम् गगन-स्पर्शिम् शक्तिम् च योजन-आयताम् ॥ २।५।३३।४० ॥
kharparam vartula-ākāram gaṃbhīram yojana-āyatam.. triśūlam gagana-sparśim śaktim ca yojana-āyatām .. 2.5.33.40 ..
मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ॥ वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥ ४१॥
मुद्गरम् मुसलम् वक्त्रम् खङ्गम् फलकम् उल्बणम् ॥ वैष्णव-अस्त्रम् वारुण-अस्त्रम् वायव्यम् नागपाशकम् ॥ ४१॥
mudgaram musalam vaktram khaṅgam phalakam ulbaṇam .. vaiṣṇava-astram vāruṇa-astram vāyavyam nāgapāśakam .. 41..
नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ॥ पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्॥ ४२॥
नारायण-अस्त्रम् गांधर्वम् ब्रह्मास्त्रम् गारुडम् तथा ॥ पार्जन्यम् च पाशुपतम् जृंभण-अस्त्रम् च पार्वतम्॥ ४२॥
nārāyaṇa-astram gāṃdharvam brahmāstram gāruḍam tathā .. pārjanyam ca pāśupatam jṛṃbhaṇa-astram ca pārvatam.. 42..
महावीरं च सौरं च कालकालं महानलम् ॥ महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा ॥ ४३ ॥
महावीरम् च सौरम् च कालकालम् महा-अनलम् ॥ महेश्वर-अस्त्रम् याम्यम् च दंडम् संमोहनम् तथा ॥ ४३ ॥
mahāvīram ca sauram ca kālakālam mahā-analam .. maheśvara-astram yāmyam ca daṃḍam saṃmohanam tathā .. 43 ..
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम्॥ बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा ॥ ४४ ॥
समर्थम् अस्त्रकम् दिव्यम् दिव्य-अस्त्रम् शतकम् परम्॥ बिभ्रती च करैः सर्वैः अन्यानि अपि च सा तदा ॥ ४४ ॥
samartham astrakam divyam divya-astram śatakam param.. bibhratī ca karaiḥ sarvaiḥ anyāni api ca sā tadā .. 44 ..
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ॥ सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥ ४५ ॥
आगत्य तस्थौ सा तत्र योगिनीनाम् त्रि-कोटिभिः ॥ सार्द्धम् च डाकिनीनाम् वै विकटानाम् त्रि-कोटिभिः ॥ ४५ ॥
āgatya tasthau sā tatra yoginīnām tri-koṭibhiḥ .. sārddham ca ḍākinīnām vai vikaṭānām tri-koṭibhiḥ .. 45 ..
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥ वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥ ४६॥
भूत-प्रेत-पिशाचाः च कूष्माण्डाः ब्रह्मराक्षसाः ॥ वेतालाः राक्षसाः च एव यक्षाः च एव स किन्नराः ॥ ४६॥
bhūta-preta-piśācāḥ ca kūṣmāṇḍāḥ brahmarākṣasāḥ .. vetālāḥ rākṣasāḥ ca eva yakṣāḥ ca eva sa kinnarāḥ .. 46..
तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ॥ पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥ ४७ ॥
स्कंदः प्रणम्य चन्द्रशेखरम् ॥ पितुः पार्श्वे सहायः यः समुवास तद्-आज्ञया ॥ ४७ ॥
skaṃdaḥ praṇamya candraśekharam .. pituḥ pārśve sahāyaḥ yaḥ samuvāsa tad-ājñayā .. 47 ..
अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा॥ युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः ॥ ४८ ॥
अथ शम्भुः समानीय स्व-सैन्यम् सकलम् तदा॥ युद्ध-अर्थम् अगमत् रुद्रः शंङ्खचूडेन निर्भयः ॥ ४८ ॥
atha śambhuḥ samānīya sva-sainyam sakalam tadā.. yuddha-artham agamat rudraḥ śaṃṅkhacūḍena nirbhayaḥ .. 48 ..
चन्द्रभागानदीतीरे वटमूले मनोहरे ॥ तत्र तस्थौ महादेवो देवनिस्ता रहेतवे ॥ ४९ ॥
चन्द्रभागा-नदी-तीरे वट-मूले मनोहरे ॥ तत्र तस्थौ महादेवः देव-निस्तार-हेतवे ॥ ४९ ॥
candrabhāgā-nadī-tīre vaṭa-mūle manohare .. tatra tasthau mahādevaḥ deva-nistāra-hetave .. 49 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनम् नाम त्रयस्त्रिंशत्तमः अध्यायः ॥ ३३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṅkhacūḍavadhe mahādevayuddhayātrāvarṇanam nāma trayastriṃśattamaḥ adhyāyaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In