| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
विधितात महाबुद्धे मुने जीव चिरं समाः ॥ कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ॥ १॥
विधितात महाबुद्धे मुने जीव चिरम् समाः ॥ कथितम् सु महत् चित्रम् चरितम् चन्द्रमौलिनः ॥ १॥
vidhitāta mahābuddhe mune jīva ciram samāḥ .. kathitam su mahat citram caritam candramaulinaḥ .. 1..
शिवदूते गते तत्र शङ्खचूडश्च दानवः ॥ किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ॥ २ ॥
शिव-दूते गते तत्र शङ्खचूडः च दानवः ॥ किम् चकार प्रतापी स तत्त्वम् वद सु विस्तरम् ॥ २ ॥
śiva-dūte gate tatra śaṅkhacūḍaḥ ca dānavaḥ .. kim cakāra pratāpī sa tattvam vada su vistaram .. 2 ..
सनत्कुमार उवाच ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान् ॥ उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम् ॥ ३ ॥
अथ दूते गते तत्र शंखचूडः प्रतापवान् ॥ उवाच तुलसीम् वार्ताम् गत्वा अभ्यंतरम् एव ताम् ॥ ३ ॥
atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān .. uvāca tulasīm vārtām gatvā abhyaṃtaram eva tām .. 3 ..
शङ्खचूड उवाच ।।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ॥ तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ॥ ४ ॥
शम्भु-दूत-मुखात् देवि युद्धाय अहम् समुद्यतः ॥ तेन गच्छामि अहम् योद्धुम् शासनम् कुरु मे ध्रुवम् ॥ ४ ॥
śambhu-dūta-mukhāt devi yuddhāya aham samudyataḥ .. tena gacchāmi aham yoddhum śāsanam kuru me dhruvam .. 4 ..
इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्॥ क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ॥ ५ ॥
इति एवम् उक्त्वा स ज्ञानी नाना बोधनतः प्रियाम्॥ क्रीडाम् चकार हर्षेण तम् अन् आदृत्य शंकरम् ॥ ५ ॥
iti evam uktvā sa jñānī nānā bodhanataḥ priyām.. krīḍām cakāra harṣeṇa tam an ādṛtya śaṃkaram .. 5 ..
तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ॥ नानाकामकलाभिश्च निशि चाटुशुतैरपि ॥ ६ ॥
तौ दम्पती चिक्रीडाते निमग्नौ सुख-सागरे ॥ नाना काम-कलाभिः च निशि चाटु-शुतैः अपि ॥ ६ ॥
tau dampatī cikrīḍāte nimagnau sukha-sāgare .. nānā kāma-kalābhiḥ ca niśi cāṭu-śutaiḥ api .. 6 ..
ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ॥ नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम् ॥ ७ ॥
ब्राह्मे मुहूर्ते उत्थाय प्रातर् कृत्यम् विधाय च ॥ नित्य-कार्यम् च कृत्वा आदौ ददौ दानम् अनंतकम् ॥ ७ ॥
brāhme muhūrte utthāya prātar kṛtyam vidhāya ca .. nitya-kāryam ca kṛtvā ādau dadau dānam anaṃtakam .. 7 ..
पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ॥ पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम् ॥ ८ ॥
पुत्रम् कृत्वा च राज-इन्द्रम् सर्वेषु दान-वेषु च ॥ पुत्रे समर्प्य भार्याम् च स राज्यम् सर्व-संपदम् ॥ ८ ॥
putram kṛtvā ca rāja-indram sarveṣu dāna-veṣu ca .. putre samarpya bhāryām ca sa rājyam sarva-saṃpadam .. 8 ..
प्रियामाश्वासयामास स राजा रुदतीं पुनः ॥ निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९ ।
प्रियाम् आश्वासयामास स राजा रुदतीम् पुनर् ॥ निषेधतीम् च गमनम् नाना वार्ताम् प्रकथ्य च ॥ ९ ।
priyām āśvāsayāmāsa sa rājā rudatīm punar .. niṣedhatīm ca gamanam nānā vārtām prakathya ca .. 9 .
निजसेनापतिं वीरं समाहूय समादृतः ॥ आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः ॥ 2.5.34.१० ॥
निज-सेनापतिम् वीरम् समाहूय समादृतः ॥ आदिदेश स स नद्धः संग्रामम् कर्तु अमुद्यतः ॥ २।५।३४।१० ॥
nija-senāpatim vīram samāhūya samādṛtaḥ .. ādideśa sa sa naddhaḥ saṃgrāmam kartu amudyataḥ .. 2.5.34.10 ..
शंखचूड उवाच।।
अद्य सेनापते वीरास्सर्वे समरशालिनः ॥ संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च ॥ ११ ॥
अद्य सेनापते वीराः सर्वे समर-शालिनः ॥ संनद्ध-अखिल-कर्माणः निर्गच्छन्तु रणाय च ॥ ११ ॥
adya senāpate vīrāḥ sarve samara-śālinaḥ .. saṃnaddha-akhila-karmāṇaḥ nirgacchantu raṇāya ca .. 11 ..
दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ॥ कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः ॥ १२ ॥
दैत्याः च दानवाः युधाः ॥ कंकानाम् बलिनाम् शीघ्रम् सेनाः निर्यांतु निर्भयाः ॥ १२ ॥
daityāḥ ca dānavāḥ yudhāḥ .. kaṃkānām balinām śīghram senāḥ niryāṃtu nirbhayāḥ .. 12 ..
पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ॥ कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ॥ १३ ॥
पञ्चाशत् असुराणाम् हि निर्गच्छन्तु कुलानि वै ॥ कोटि-वीर्याणि युद्ध-अर्थम् शम्भुना देव-पक्षिणा ॥ १३ ॥
pañcāśat asurāṇām hi nirgacchantu kulāni vai .. koṭi-vīryāṇi yuddha-artham śambhunā deva-pakṣiṇā .. 13 ..
संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ॥ निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात् ॥ १४ ॥
संनद्धानि च धौम्राणाम् कुलानि च शतम् द्रुतम् ॥ निर्गच्छन्तु रण-अर्थम् हि शम्भुना मम शासनात् ॥ १४ ॥
saṃnaddhāni ca dhaumrāṇām kulāni ca śatam drutam .. nirgacchantu raṇa-artham hi śambhunā mama śāsanāt .. 14 ..
कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ॥ सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५ ॥
कालकेयाः च मौर्याः च दौर्हृदाः कालकाः तथा ॥ सज्जाः निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५ ॥
kālakeyāḥ ca mauryāḥ ca daurhṛdāḥ kālakāḥ tathā .. sajjāḥ niryāntu yuddhāya rudreṇa mama śāsanāt .. 15 ..
सनत्कुमार उवाच ।।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ॥ निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ॥ १६ ॥
इति आज्ञाप्य असुर-पतिः दानव-इन्द्रः महा-बलः ॥ निर्जगाम महा-सैन्यः सहस्रैः बहुभिः वृतः ॥ १६ ॥
iti ājñāpya asura-patiḥ dānava-indraḥ mahā-balaḥ .. nirjagāma mahā-sainyaḥ sahasraiḥ bahubhiḥ vṛtaḥ .. 16 ..
तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ महारथो महावीरो रथिनां प्रवरो रणे ॥ १७ ॥
तस्य सेनापतिः च एव युद्ध-शास्त्र-विशारदः ॥ महा-रथः महा-वीरः रथिनाम् प्रवरः रणे ॥ १७ ॥
tasya senāpatiḥ ca eva yuddha-śāstra-viśāradaḥ .. mahā-rathaḥ mahā-vīraḥ rathinām pravaraḥ raṇe .. 17 ..
त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ॥ बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ॥ १८॥
त्रि-लक्ष-अक्षौहिणी-युक्तः मांडल्यम् च चकार ह ॥ बहिस् बभूव शिबिरात् रणे वीर-भयङ्करः ॥ १८॥
tri-lakṣa-akṣauhiṇī-yuktaḥ māṃḍalyam ca cakāra ha .. bahis babhūva śibirāt raṇe vīra-bhayaṅkaraḥ .. 18..
रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ॥ गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल॥ ॥ ॥
रत्न-इन्द्रम् सार-निर्माणम् विमानम् अभिरुह्य सः ॥ गुरु-वर्गम् पुरस्कृत्य रण-अर्थम् प्रययौ किल॥ ॥ ॥
ratna-indram sāra-nirmāṇam vimānam abhiruhya saḥ .. guru-vargam puraskṛtya raṇa-artham prayayau kila.. .. ..
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ॥ सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्॥ 2.5.34.२०॥
पुष्प-भद्रा-नदी-तीरे यत्र अक्षयवटः शुभः ॥ सिद्धाश्रमे च सिद्धानाम् सिद्धिक्षेत्रम् सु सिद्धि-दम्॥ २।५।३४।२०॥
puṣpa-bhadrā-nadī-tīre yatra akṣayavaṭaḥ śubhaḥ .. siddhāśrame ca siddhānām siddhikṣetram su siddhi-dam.. 2.5.34.20..
कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ॥ पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे॥ २१॥
कपिलस्य ततस् स्थानम् पुण्य-क्षेत्रे च भारते ॥ पश्चिम-उदधि-पूर्वे च मलयस्य हि पश्चिमे॥ २१॥
kapilasya tatas sthānam puṇya-kṣetre ca bhārate .. paścima-udadhi-pūrve ca malayasya hi paścime.. 21..
श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ॥ पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा॥ २२॥
श्रीशैल-उत्तर-भागे च गंधमादन-दक्षिणे ॥ पंच-योजन-विस्तीर्णम् दैर्घ्ये शतगुणः तथा॥ २२॥
śrīśaila-uttara-bhāge ca gaṃdhamādana-dakṣiṇe .. paṃca-yojana-vistīrṇam dairghye śataguṇaḥ tathā.. 22..
शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा॥ पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती॥ २३।
शुद्ध-स्फटिक-संकाशा भारते च सु पुण्य-दा॥ पुष्पभद्रा नदी रम्या जल-पूर्णा सरस्वती॥ २३।
śuddha-sphaṭika-saṃkāśā bhārate ca su puṇya-dā.. puṣpabhadrā nadī ramyā jala-pūrṇā sarasvatī.. 23.
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ॥ सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ॥ २४॥
॥ सरस्वती-संश्रिता च निर्गता सा हिमालयात् ॥ २४॥
.. sarasvatī-saṃśritā ca nirgatā sā himālayāt .. 24..
गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ॥ तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह ॥ २५॥
गोमंतम् वामतस् कृत्वा प्रविष्टा पश्चिम-उदधौ ॥ तत्र गत्वा शंखचूडः शिव सेनाम् ददर्श ह ॥ २५॥
gomaṃtam vāmatas kṛtvā praviṣṭā paścima-udadhau .. tatra gatvā śaṃkhacūḍaḥ śiva senām dadarśa ha .. 25..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडयात्रावर्णनम् नाम चतुस्त्रिंशः अध्यायः ॥ ३४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍayātrāvarṇanam nāma catustriṃśaḥ adhyāyaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In