| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ॥ दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम् ॥ १ ॥
तत्र स्थित्वा दानव-इन्द्रः महान्तम् दानव-ईश्वरम् ॥ दूतम् कृत्वा महा-विज्ञम् प्रेषयामास शंकरम् ॥ १ ॥
tatra sthitvā dānava-indraḥ mahāntam dānava-īśvaram .. dūtam kṛtvā mahā-vijñam preṣayāmāsa śaṃkaram .. 1 ..
स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ॥ वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २॥
स तत्र गत्वा दूतः च चन्द्रभालम् ददर्श ह ॥ वट-मूले समासीनम् सूर्य-कोटि-सम-प्रभम् ॥ २॥
sa tatra gatvā dūtaḥ ca candrabhālam dadarśa ha .. vaṭa-mūle samāsīnam sūrya-koṭi-sama-prabham .. 2..
कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ॥ शुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजस ॥ ३ ॥
कृत्वा योग-आसनम् दृष्ट्या मुद्रा-युक्तम् च स स्मितम् ॥ शुद्ध-स्फटिक-संकाशम् ज्वलन्तम् ब्रह्म-तेजस ॥ ३ ॥
kṛtvā yoga-āsanam dṛṣṭyā mudrā-yuktam ca sa smitam .. śuddha-sphaṭika-saṃkāśam jvalantam brahma-tejasa .. 3 ..
त्रिशूलपट्टिशधरं व्याघ्रचर्मांबरावृतम् ॥ भक्तमृत्युहरं शांतं गौरीकान्तं त्रिलोचनम् ॥ ४ ॥
त्रिशूल-पट्टिश-धरम् व्याघ्र-चर्म-अंबर-आवृतम् ॥ भक्त-मृत्यु-हरम् शांतम् गौरी-कान्तम् त्रिलोचनम् ॥ ४ ॥
triśūla-paṭṭiśa-dharam vyāghra-carma-aṃbara-āvṛtam .. bhakta-mṛtyu-haram śāṃtam gaurī-kāntam trilocanam .. 4 ..
तपसां फलदातारं कर्त्तारं सर्वसंपदाम् ॥ आशुतोषं प्रसन्नास्य भक्तानुग्रहकारकम् ॥ ५॥
तपसाम् फल-दातारम् कर्त्तारम् सर्व-संपदाम् ॥ आशु-तोषम् प्रसन्ना अस्य भक्त-अनुग्रह-कारकम् ॥ ५॥
tapasām phala-dātāram karttāram sarva-saṃpadām .. āśu-toṣam prasannā asya bhakta-anugraha-kārakam .. 5..
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ विश्वंभरं विश्वकरं विश्वसंहारकारणम् ॥ ६॥
च ॥ विश्वंभरम् विश्वकरम् विश्व-संहार-कारणम् ॥ ६॥
ca .. viśvaṃbharam viśvakaram viśva-saṃhāra-kāraṇam .. 6..
कारणं कारणानां च नरकार्णवतारणम् ॥ ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥ ७॥
कारणम् कारणानाम् च नरक-अर्णव-तारणम् ॥ ॥ ७॥
kāraṇam kāraṇānām ca naraka-arṇava-tāraṇam .. .. 7..
अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः॥ शंकरं सकुमारं च शिरसा प्रणनाम सः॥ ८॥
अवरुह्य रथात् दूतः तम् दृष्ट्वा दानव-ईश्वरः॥ शंकरम् स कुमारम् च शिरसा प्रणनाम सः॥ ८॥
avaruhya rathāt dūtaḥ tam dṛṣṭvā dānava-īśvaraḥ.. śaṃkaram sa kumāram ca śirasā praṇanāma saḥ.. 8..
वामतो भद्रकाली च स्कंदं तत्पुरतः स्थितम् ॥ लोकाशिषं ददौ तस्मै काली स्कंदश्च शंकरः ॥ ९॥
वामतस् भद्रकाली च स्कंदम् तद्-पुरतस् स्थितम् ॥ लोक-आशिषम् ददौ तस्मै काली स्कंदः च शंकरः ॥ ९॥
vāmatas bhadrakālī ca skaṃdam tad-puratas sthitam .. loka-āśiṣam dadau tasmai kālī skaṃdaḥ ca śaṃkaraḥ .. 9..
अथासौ शंखचूडस्य दूतः परमशास्त्रवित् ॥ उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः॥ 2.5.35.१०॥
अथा असौ शंखचूडस्य दूतः परम-शास्त्र-विद् ॥ उवाच शंकरम् नत्वा करौ बद्ध्वा शुभम् वचः॥ २।५।३५।१०॥
athā asau śaṃkhacūḍasya dūtaḥ parama-śāstra-vid .. uvāca śaṃkaram natvā karau baddhvā śubham vacaḥ.. 2.5.35.10..
।। दूत उवाच ।।
शंखचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ॥ वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ॥ ११ ॥
शंखचूडस्य दूतः अहम् त्वद्-सकाशम् इह आगतः ॥ वर्तते ते किम् इच्छ अद्य तत्त्वम् ब्रूहि महेश्वर ॥ ११ ॥
śaṃkhacūḍasya dūtaḥ aham tvad-sakāśam iha āgataḥ .. vartate te kim iccha adya tattvam brūhi maheśvara .. 11 ..
सनत्कुमार उवाच।।
इति श्रुत्वा च वचनं शंखचूडस्य शंकरः ॥ प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह॥ १२॥
इति श्रुत्वा च वचनम् शंखचूडस्य शंकरः ॥ प्रसन्न-आत्मा महादेवः भगवान् तम् उवाच ह॥ १२॥
iti śrutvā ca vacanam śaṃkhacūḍasya śaṃkaraḥ .. prasanna-ātmā mahādevaḥ bhagavān tam uvāca ha.. 12..
महादेव उवाच ।।
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ॥ कथनीयमिदं तस्मै निर्विवादं विचार्य च ॥ १३॥
शृणु दूत महा-प्राज्ञ वचः मम सुख-आवहम् ॥ कथनीयम् इदम् तस्मै निर्विवादम् विचार्य च ॥ १३॥
śṛṇu dūta mahā-prājña vacaḥ mama sukha-āvaham .. kathanīyam idam tasmai nirvivādam vicārya ca .. 13..
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ॥ १४ ॥
विधाता जगताम् ब्रह्मा पिता धर्मस्य धर्म-विद् ॥ मरीचिः तस्य पुत्रः च कश्यपः तद्-सुतः स्मृतः ॥ १४ ॥
vidhātā jagatām brahmā pitā dharmasya dharma-vid .. marīciḥ tasya putraḥ ca kaśyapaḥ tad-sutaḥ smṛtaḥ .. 14 ..
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ॥ तास्वेका च दनुस्साध्वी तत्सौभाग्यविवर्द्धिनी ॥ १५॥
दक्षः प्रीत्या ददौ तस्मै निज-कन्याः त्रयोदश ॥ तासु एका च दनुः साध्वी तद्-सौभाग्य-विवर्द्धिनी ॥ १५॥
dakṣaḥ prītyā dadau tasmai nija-kanyāḥ trayodaśa .. tāsu ekā ca danuḥ sādhvī tad-saubhāgya-vivarddhinī .. 15..
चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ॥ तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ १६॥
चत्वारः ते दनोः पुत्राः दानवाः तेजसा उल्बणाः ॥ तेषु एकः विप्रचित्तिः तु महा-बल-पराक्रमः ॥ १६॥
catvāraḥ te danoḥ putrāḥ dānavāḥ tejasā ulbaṇāḥ .. teṣu ekaḥ vipracittiḥ tu mahā-bala-parākramaḥ .. 16..
तत्पुत्रो धार्मिको दंभो दानवेन्द्रो महामतिः ॥ तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः॥ १७॥
तद्-पुत्रः धार्मिकः दंभः दानव-इन्द्रः महामतिः ॥ तस्य त्वम् तनयः श्रेष्ठः धर्म-आत्मा दानव-ईश्वरः॥ १७॥
tad-putraḥ dhārmikaḥ daṃbhaḥ dānava-indraḥ mahāmatiḥ .. tasya tvam tanayaḥ śreṣṭhaḥ dharma-ātmā dānava-īśvaraḥ.. 17..
पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ॥ अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ॥ १८॥
पुरा त्वम् पाषर्दः गोपः गोपेषु एव च धार्मिकः ॥ अधुना राधिका-शापात् जातः त्वम् दानव-ईश्वरः ॥ १८॥
purā tvam pāṣardaḥ gopaḥ gopeṣu eva ca dhārmikaḥ .. adhunā rādhikā-śāpāt jātaḥ tvam dānava-īśvaraḥ .. 18..
दानवीं योनिमायातस्तत्त्वतो न हि दानवः ॥ निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना ॥ १९ ॥
दानवीम् योनिम् आयातः तत्त्वतः न हि दानवः ॥ निज-वृतम् पुरा ज्ञात्वा देव-वैरम् त्यज अधुना ॥ १९ ॥
dānavīm yonim āyātaḥ tattvataḥ na hi dānavaḥ .. nija-vṛtam purā jñātvā deva-vairam tyaja adhunā .. 19 ..
द्रोहं न कुरु तैस्सार्द्धं स्वपदं भुंक्ष्व सादरम् ॥ नाधिकं सविकारं च कुरु राज्यं विचार्य च ॥ 2.5.35.२० ॥
द्रोहम् न कुरु तैः सार्द्धम् स्व-पदम् भुंक्ष्व सादरम् ॥ न अधिकम् स विकारम् च कुरु राज्यम् विचार्य च ॥ २।५।३५।२० ॥
droham na kuru taiḥ sārddham sva-padam bhuṃkṣva sādaram .. na adhikam sa vikāram ca kuru rājyam vicārya ca .. 2.5.35.20 ..
देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ॥ निजराज्ये सुखं तिष्ठ तिष्ठंतु स्वपदे सुराः ॥ २१ ॥
देहि राज्यम् च देवानाम् मद्-प्रीतिम् रक्ष दानव ॥ निज-राज्ये सुखम् तिष्ठ तिष्ठन्तु स्व-पदे सुराः ॥ २१ ॥
dehi rājyam ca devānām mad-prītim rakṣa dānava .. nija-rājye sukham tiṣṭha tiṣṭhantu sva-pade surāḥ .. 21 ..
अलं भूतविरोधेन देवद्रोहेण किं पुनः ॥ कुलीनाश्शुद्धकर्माणः सर्वे कश्यपवंशजाः ॥ २२ ॥
अलम् भूत-विरोधेन देव-द्रोहेण किम् पुनर् ॥ कुलीनाः शुद्ध-कर्माणः सर्वे कश्यप-वंश-जाः ॥ २२ ॥
alam bhūta-virodhena deva-droheṇa kim punar .. kulīnāḥ śuddha-karmāṇaḥ sarve kaśyapa-vaṃśa-jāḥ .. 22 ..
यानि कानि च पापानि ब्रह्महत्या दिकानि च ॥ ज्ञातिद्रोहजपापस्य कलां नार्हंति षोडशीम् ॥ २३ ॥
यानि कानि च पापानि ब्रह्महत्या-दिकानि च ॥ ज्ञाति-द्रोह-ज-पापस्य कलाम् न अर्हन्ति षोडशीम् ॥ २३ ॥
yāni kāni ca pāpāni brahmahatyā-dikāni ca .. jñāti-droha-ja-pāpasya kalām na arhanti ṣoḍaśīm .. 23 ..
सनत्कुमार उवाच ।।
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ॥ प्रोवाच शंकरस्तस्मै बोधयन् ज्ञानमुत्तमम् ॥ २४ ॥
इत्यादि-बहु-वार्त्ताम् च श्रुति-स्मृति-पराम् शुभाम् ॥ प्रोवाच शंकरः तस्मै बोधयन् ज्ञानम् उत्तमम् ॥ २४ ॥
ityādi-bahu-vārttām ca śruti-smṛti-parām śubhām .. provāca śaṃkaraḥ tasmai bodhayan jñānam uttamam .. 24 ..
शिक्षितश्शंखचूडेन स दूतस्तर्कवित्तम ॥ उवाच वचनं नम्रो भवितव्यविमोहितः ॥ २५ ॥
शिक्षितः शंखचूडेन स दूतः तर्क-वित्तम ॥ उवाच वचनम् नम्रः भवितव्य-विमोहितः ॥ २५ ॥
śikṣitaḥ śaṃkhacūḍena sa dūtaḥ tarka-vittama .. uvāca vacanam namraḥ bhavitavya-vimohitaḥ .. 25 ..
दूत उवाच ।।
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ॥ तथ्यं किंचिद्यथार्थं च श्रूयतां मे निवेदनम् ॥ २६ ॥
त्वया यत् कथितम् देव न अन्यथा तत् तथा वचः ॥ तथ्यम् किंचिद् यथार्थम् च श्रूयताम् मे निवेदनम् ॥ २६ ॥
tvayā yat kathitam deva na anyathā tat tathā vacaḥ .. tathyam kiṃcid yathārtham ca śrūyatām me nivedanam .. 26 ..
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ तत्किमीशासुराणां च न सुराणां वद प्रभो ॥ २७॥
ज्ञाति-द्रोहे महत् पापम् त्वया उक्तम् अधुना च यत् ॥ तत् किम् ईश-असुराणाम् च न सुराणाम् वद प्रभो ॥ २७॥
jñāti-drohe mahat pāpam tvayā uktam adhunā ca yat .. tat kim īśa-asurāṇām ca na surāṇām vada prabho .. 27..
सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ॥ निर्णयं ब्रूहि तत्राद्य कुरु संदेहभंजनम् ॥ २८ ॥
सर्वेषाम् इति चेद् तत् वै तदा वच्मि विचार्य च ॥ निर्णयम् ब्रूहि तत्र अद्य कुरु संदेह-भंजनम् ॥ २८ ॥
sarveṣām iti ced tat vai tadā vacmi vicārya ca .. nirṇayam brūhi tatra adya kuru saṃdeha-bhaṃjanam .. 28 ..
मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ॥ शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ॥ २९ ॥
मधु-कैटभयोः दैत्य-वरयोः प्रलय-अर्णवे ॥ शिरः-छेदम् चकार असौ कस्मात् चक्री महेश्वर ॥ २९ ॥
madhu-kaiṭabhayoḥ daitya-varayoḥ pralaya-arṇave .. śiraḥ-chedam cakāra asau kasmāt cakrī maheśvara .. 29 ..
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं कुतः ॥ भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ॥ 2.5.35.३० ॥
त्रिपुरैः सह संयुद्धम् भस्म-त्व-करणम् कुतस् ॥ भवान् चकार गिरिश सुरपक्षी इति विश्रुतम् ॥ २।५।३५।३० ॥
tripuraiḥ saha saṃyuddham bhasma-tva-karaṇam kutas .. bhavān cakāra giriśa surapakṣī iti viśrutam .. 2.5.35.30 ..
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ॥ सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः ॥ ३१ ॥
गृहीत्वा तस्य सर्व-स्वम् कुतस् प्रस्थापितः बलिः ॥ सुतल-आदि समुद्धर्तुम् तद्-द्वारे च गदाधरः ॥ ३१ ॥
gṛhītvā tasya sarva-svam kutas prasthāpitaḥ baliḥ .. sutala-ādi samuddhartum tad-dvāre ca gadādharaḥ .. 31 ..
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ शुंभादयोऽसुराश्चैव कथं देवैर्निपातिताः ॥ ३२ ॥
स भ्रातृकः हिरण्याक्षः कथम् देवैः च हिंसितः ॥ शुंभ-आदयः असुराः च एव कथम् देवैः निपातिताः ॥ ३२ ॥
sa bhrātṛkaḥ hiraṇyākṣaḥ katham devaiḥ ca hiṃsitaḥ .. śuṃbha-ādayaḥ asurāḥ ca eva katham devaiḥ nipātitāḥ .. 32 ..
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः॥ ३३॥
पुरा समुद्र-मथने पीयूषम् भक्षितम् सुरैः ॥ क्लेश-भाजः वयम् तत्र ते सर्वे फल-भोगिनः॥ ३३॥
purā samudra-mathane pīyūṣam bhakṣitam suraiḥ .. kleśa-bhājaḥ vayam tatra te sarve phala-bhoginaḥ.. 33..
क्रीडाभांडमिदं विश्वं कालस्य परमात्मनः॥ स ददाति यदा यस्मै तस्यै तस्यैश्वर्यं भवे त्तदा ॥ ३४॥
क्रीडा-भांडम् इदम् विश्वम् कालस्य परमात्मनः॥ स ददाति यदा यस्मै तस्यै तस्य ऐश्वर्यम् भवेत् तदा ॥ ३४॥
krīḍā-bhāṃḍam idam viśvam kālasya paramātmanaḥ.. sa dadāti yadā yasmai tasyai tasya aiśvaryam bhavet tadā .. 34..
देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ॥ पराजयो जयस्तेषां कालाधीनः क्रमेण च ॥ ३५ ॥
देव-दानवयोः वैरम् शश्वत् नैमित्तिकम् सदा ॥ पराजयः जयः तेषाम् काल-अधीनः क्रमेण च ॥ ३५ ॥
deva-dānavayoḥ vairam śaśvat naimittikam sadā .. parājayaḥ jayaḥ teṣām kāla-adhīnaḥ krameṇa ca .. 35 ..
तवानयोर्विरोधे च गमनं निष्फलं भवेत् ॥ समसंबंधिनां तद्वै रोचते नेश्वरस्य ते ॥ ३६ ॥
तव अनयोः विरोधे च गमनम् निष्फलम् भवेत् ॥ सम-संबंधिनाम् तत् वै रोचते न ईश्वरस्य ते ॥ ३६ ॥
tava anayoḥ virodhe ca gamanam niṣphalam bhavet .. sama-saṃbaṃdhinām tat vai rocate na īśvarasya te .. 36 ..
सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ॥ इयं ते रहिता लज्जा स्पर्द्धास्माभिस्सहाधुना ॥ ३७ ॥
सुर-असुराणाम् सर्वेषाम् ईश्वरस्य महात्मनः ॥ इयम् ते रहिता लज्जा स्पर्द्धा अस्माभिः सह अधुना ॥ ३७ ॥
sura-asurāṇām sarveṣām īśvarasya mahātmanaḥ .. iyam te rahitā lajjā sparddhā asmābhiḥ saha adhunā .. 37 ..
यतोधिका चैव कीर्तिर्हानिश्चैव पराजये ॥ तवैतद्विपरीतं च मनसा संविचार्य ताम् ॥ ३८॥
यतस् अधिका च एव कीर्तिः हानिः च एव पराजये ॥ तव एतत् विपरीतम् च मनसा संविचार्य ताम् ॥ ३८॥
yatas adhikā ca eva kīrtiḥ hāniḥ ca eva parājaye .. tava etat viparītam ca manasā saṃvicārya tām .. 38..
सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा संप्रहस्य त्रिलोचनः॥ यथोचितं च मधुरमुवाच दानवेश्वरम् ॥ ३९॥
इति एतत् वचनम् श्रुत्वा संप्रहस्य त्रिलोचनः॥ यथोचितम् च मधुरम् उवाच दानव-ईश्वरम् ॥ ३९॥
iti etat vacanam śrutvā saṃprahasya trilocanaḥ.. yathocitam ca madhuram uvāca dānava-īśvaram .. 39..
महेश उवाच ।।
वयं भक्तपराधीना न स्वतंत्राः कदापि हि ॥ तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ॥ 2.5.35.४०॥
वयम् भक्त-पर-अधीनाः न स्वतंत्राः कदापि हि ॥ तद्-इच्छया तद्-कर्माणः न कस्य अपि च पक्षिणः ॥ २।५।३५।४०॥
vayam bhakta-para-adhīnāḥ na svataṃtrāḥ kadāpi hi .. tad-icchayā tad-karmāṇaḥ na kasya api ca pakṣiṇaḥ .. 2.5.35.40..
पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ॥ मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे ॥ ४१ ॥
पुरा विधि-प्रार्थनया युद्धम् आदौ हरेः अपि ॥ मधु-कैटभयोः देति अवरयोः प्रलय-अर्णवे ॥ ४१ ॥
purā vidhi-prārthanayā yuddham ādau hareḥ api .. madhu-kaiṭabhayoḥ deti avarayoḥ pralaya-arṇave .. 41 ..
देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ॥ प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ॥ ४२॥
देव-प्रार्थनया तेन हिरण्यकशिपोः पुरा ॥ प्रह्राद-अर्थम् वधः अकारि भक्तानाम् हित-कारिणा ॥ ४२॥
deva-prārthanayā tena hiraṇyakaśipoḥ purā .. prahrāda-artham vadhaḥ akāri bhaktānām hita-kāriṇā .. 42..
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं ततः ॥ देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ॥ ४३ ॥
त्रिपुरैः सह संयुद्धम् भस्म-त्व-करणम् ततस् ॥ देव-प्रार्थनया अकारि मया अपि च पुरा श्रुतम् ॥ ४३ ॥
tripuraiḥ saha saṃyuddham bhasma-tva-karaṇam tatas .. deva-prārthanayā akāri mayā api ca purā śrutam .. 43 ..
सर्वेश्वर्यास्सर्वमातुर्देवप्रार्थनया पुरा ॥ आसीच्छुंभादिभिर्युद्धं वधस्तेषां तया कृतः ॥ ४४ ॥
सर्व-ईश्वर्याः सर्व-मातुः देव-प्रार्थनया पुरा ॥ आसीत् शुंभ-आदिभिः युद्धम् वधः तेषाम् तया कृतः ॥ ४४ ॥
sarva-īśvaryāḥ sarva-mātuḥ deva-prārthanayā purā .. āsīt śuṃbha-ādibhiḥ yuddham vadhaḥ teṣām tayā kṛtaḥ .. 44 ..
अद्यापि त्रिदशास्सर्वे ब्रह्माणं शरणं ययुः ॥ स सदेवो हरिर्मां च देवश्शरणमागतः ॥ ४५ ॥
अद्या अपि त्रिदशाः सर्वे ब्रह्माणम् शरणम् ययुः ॥ स स देवः हरिः माम् च देवः शरणम् आगतः ॥ ४५ ॥
adyā api tridaśāḥ sarve brahmāṇam śaraṇam yayuḥ .. sa sa devaḥ hariḥ mām ca devaḥ śaraṇam āgataḥ .. 45 ..
हरिब्रह्मादिकानां च प्रार्थनावशतोप्यहम् ॥ सुराणामीश्वरो दूत युद्धार्थमगमं खलु ॥ ४६ ॥
हरि-ब्रह्म-आदिकानाम् च प्रार्थना-वशता उपि अहम् ॥ सुराणाम् ईश्वरः दूत युद्ध-अर्थम् अगमम् खलु ॥ ४६ ॥
hari-brahma-ādikānām ca prārthanā-vaśatā upi aham .. surāṇām īśvaraḥ dūta yuddha-artham agamam khalu .. 46 ..
पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ॥ ये ये हताश्च दैतेया नहि केपि त्वया समाः ॥ ४७ ॥
पार्षद-प्रवरः त्वम् हि कृष्णस्य च महात्मनः ॥ ये ये हताः च दैतेयाः नहि के अपि त्वया समाः ॥ ४७ ॥
pārṣada-pravaraḥ tvam hi kṛṣṇasya ca mahātmanaḥ .. ye ye hatāḥ ca daiteyāḥ nahi ke api tvayā samāḥ .. 47 ..
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ देवकार्यार्थमीशोहं विनयेन च प्रेषितः ॥ ४८ ॥
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ देव-कार्य-अर्थम् ईशः हम् विनयेन च प्रेषितः ॥ ४८ ॥
kā lajjā mahatī rājan mama yuddhe tvayā saha .. deva-kārya-artham īśaḥ ham vinayena ca preṣitaḥ .. 48 ..
गच्छ त्वं शंखचूडे वै कथनीयं च मे वचः ॥ स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ॥ ४९ ॥
गच्छ त्वम् शंखचूडे वै कथनीयम् च मे वचः ॥ स च युक्तम् करोतु अत्र सुर-कार्यम् करोमि अहम् ॥ ४९ ॥
gaccha tvam śaṃkhacūḍe vai kathanīyam ca me vacaḥ .. sa ca yuktam karotu atra sura-kāryam karomi aham .. 49 ..
इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ॥ उत्तस्थौ शंखचूडस्य दूतोऽगच्छत्तदंतिकम् ॥ 2.5.35.५०॥
इति उक्त्वा शंकरः तत्र विरराम महेश्वरः ॥ उत्तस्थौ शंखचूडस्य दूतः अगच्छत् तद्-अंतिकम् ॥ २।५।३५।५०॥
iti uktvā śaṃkaraḥ tatra virarāma maheśvaraḥ .. uttasthau śaṃkhacūḍasya dūtaḥ agacchat tad-aṃtikam .. 2.5.35.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे शिवदूतसंवादो नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शंखचूडवधे शिवदूतसंवादः नाम पंचत्रिंशः अध्यायः ॥ ३५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍavadhe śivadūtasaṃvādaḥ nāma paṃcatriṃśaḥ adhyāyaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In