| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ॥ सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १ ॥
स दूतः तत्र गत्वा च शिव-वाक्यम् जगाद ह ॥ स विस्तरम् यथार्थम् च निश्चयम् तस्य तत्त्वतः ॥ १ ॥
sa dūtaḥ tatra gatvā ca śiva-vākyam jagāda ha .. sa vistaram yathārtham ca niścayam tasya tattvataḥ .. 1 ..
तच्छुत्वा शंखचूडोऽसौ दानवेन्द्रः प्रतापवान् ॥ अंगीचकार सुप्रीत्या रणमेव स दानवः ॥ २ ॥
तत् शुत्वा शंखचूडः असौ दानव-इन्द्रः प्रतापवान् ॥ अंगीचकार सु प्रीत्या रणम् एव स दानवः ॥ २ ॥
tat śutvā śaṃkhacūḍaḥ asau dānava-indraḥ pratāpavān .. aṃgīcakāra su prītyā raṇam eva sa dānavaḥ .. 2 ..
समारुरोह यानं च सहामात्यैश्च सत्वरः॥ ॥ आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ॥ ३ ॥
समारुरोह यानम् च सह अमात्यैः च स त्वरः॥ ॥ आदिदेश स्व-सैन्यम् च युद्ध-अर्थम् शंकरेण च ॥ ३ ॥
samāruroha yānam ca saha amātyaiḥ ca sa tvaraḥ.. .. ādideśa sva-sainyam ca yuddha-artham śaṃkareṇa ca .. 3 ..
शिवस्स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ॥ स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ॥ ४ ॥
शिवः स्व-सैन्यम् देवान् च प्रेरयामास स त्वरः ॥ स्वयम् अपि अखिल-ईशः अपि सन्नद्धः भूत् च लीलया ॥ ४ ॥
śivaḥ sva-sainyam devān ca prerayāmāsa sa tvaraḥ .. svayam api akhila-īśaḥ api sannaddhaḥ bhūt ca līlayā .. 4 ..
युद्धारंभो बभूवाशु नेदुर्वाद्यानि भूरिशः ॥ कोलाहलश्च संजातो वीरशब्दस्तथैव च ॥ ५ ॥
युद्ध-आरंभः बभूव आशु नेदुः वाद्यानि भूरिशस् ॥ कोलाहलः च संजातः वीरशब्दः तथा एव च ॥ ५ ॥
yuddha-āraṃbhaḥ babhūva āśu neduḥ vādyāni bhūriśas .. kolāhalaḥ ca saṃjātaḥ vīraśabdaḥ tathā eva ca .. 5 ..
देवदानवयोर्युद्धं स्परमभून्मुने ॥ धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६ ॥
देव-दानवयोः युद्धम् स्परम् अभूत् मुने ॥ धर्मतः युयुधे तत्र देव-दानवयोः गणः ॥ ६ ॥
deva-dānavayoḥ yuddham sparam abhūt mune .. dharmataḥ yuyudhe tatra deva-dānavayoḥ gaṇaḥ .. 6 ..
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ॥ भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥
स्वयम् महा-इन्द्रः युयुधे सार्धम् च वृषपर्वणा ॥ भास्करः युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥
svayam mahā-indraḥ yuyudhe sārdham ca vṛṣaparvaṇā .. bhāskaraḥ yuyudhe vipracittinā saha dharmataḥ .. 7 ..
दंभेन सह विष्णुश्च चकार परमं रणम् ॥ कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८ ॥
दंभेन सह विष्णुः च चकार परमम् रणम् ॥ काल-असुरेण कालः च गोकर्णेन हुताशनः ॥ ८ ॥
daṃbhena saha viṣṇuḥ ca cakāra paramam raṇam .. kāla-asureṇa kālaḥ ca gokarṇena hutāśanaḥ .. 8 ..
कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥ भयंकरेण मृत्युश्च संहारेण यमस्तथा ॥ ९ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥ भयंकरेण मृत्युः च संहारेण यमः तथा ॥ ९ ॥
kuberaḥ kālakeyena viśvakarmā mayena ca .. bhayaṃkareṇa mṛtyuḥ ca saṃhāreṇa yamaḥ tathā .. 9 ..
कालम्बिकेन वरुणश्चंचलेन समीरणः ॥ बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ 2.5.36.१० ॥
कालम्बिकेन वरुणः चंचलेन समीरणः ॥ बुधः च घट-पृष्ठेन रक्त-अक्षेण शनैश्चरः ॥ २।५।३६।१० ॥
kālambikena varuṇaḥ caṃcalena samīraṇaḥ .. budhaḥ ca ghaṭa-pṛṣṭhena rakta-akṣeṇa śanaiścaraḥ .. 2.5.36.10 ..
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ॥ अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः॥ ११॥
जयन्तः रत्न-सारेण वसवः वर्चसाम् गणैः ॥ अश्विनौ दीप्तिमद्भ्याम् च धूम्रेण नलकूबरः॥ ११॥
jayantaḥ ratna-sāreṇa vasavaḥ varcasām gaṇaiḥ .. aśvinau dīptimadbhyām ca dhūmreṇa nalakūbaraḥ.. 11..
धुरंधरेण धर्मश्च गणकाक्षेण मंगलः ॥ शोभाकरेण वैश्वानः पिपिटेन च मन्मथः॥ १२॥
धुरंधरेण धर्मः च गणकाक्षेण मंगलः ॥ शोभाकरेण वैश्वानः पिपिटेन च मन्मथः॥ १२॥
dhuraṃdhareṇa dharmaḥ ca gaṇakākṣeṇa maṃgalaḥ .. śobhākareṇa vaiśvānaḥ pipiṭena ca manmathaḥ.. 12..
गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ॥ धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३॥
गोकामुखेन चूर्णेन खड्ग-नाम्ना असुरेण च ॥ धूम्रेण संहलेन अपि विश्वेन च प्रतापिना ॥ १३॥
gokāmukhena cūrṇena khaḍga-nāmnā asureṇa ca .. dhūmreṇa saṃhalena api viśvena ca pratāpinā .. 13..
पलाशेन द्वादशाऽर्का युयुधुर्धर्मतः परे ॥ असुरैरमरास्सार्द्धं शिवसाहाय्यशालिनः ॥ १४ ॥
पलाशेन द्वादशा अर्काः युयुधुः धर्मतः परे ॥ असुरैः अमराः सार्द्धम् शिव-साहाय्य-शालिनः ॥ १४ ॥
palāśena dvādaśā arkāḥ yuyudhuḥ dharmataḥ pare .. asuraiḥ amarāḥ sārddham śiva-sāhāyya-śālinaḥ .. 14 ..
एकादश महारुद्राश्चैकादशभयंकरैः॥ असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ॥ १५॥
एकादश महारुद्राः च एकादश-भयंकरैः॥ असुरैः युयुधुः वीरैः मैहाबल-पराक्रमैः ॥ १५॥
ekādaśa mahārudrāḥ ca ekādaśa-bhayaṃkaraiḥ.. asuraiḥ yuyudhuḥ vīraiḥ maihābala-parākramaiḥ .. 15..
महामणिश्च युयुधे चोग्रचंडादिभिस्सह ॥ राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६ ॥
महामणिः च युयुधे च उग्रचंड-आदिभिः सह ॥ राहुणा सह चन्द्रः च जीवः शुक्रेण धर्मतः ॥ १६ ॥
mahāmaṇiḥ ca yuyudhe ca ugracaṃḍa-ādibhiḥ saha .. rāhuṇā saha candraḥ ca jīvaḥ śukreṇa dharmataḥ .. 16 ..
नन्दीश्वरादयस्सर्वे दानवप्रवरैस्सह ॥ युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७ ॥
नन्दीश्वर-आदयः सर्वे दानव-प्रवरैः सह ॥ युयुधुः च महा-युद्धे न उक्ताः विस्तरतः पृथक् ॥ १७ ॥
nandīśvara-ādayaḥ sarve dānava-pravaraiḥ saha .. yuyudhuḥ ca mahā-yuddhe na uktāḥ vistarataḥ pṛthak .. 17 ..
वटमूले तदा शंभुस्तस्थौ काल्याः सुतेन च ॥ सर्वे च युयुधुस्सैन्यसमूहास्सततं मुने ॥ १८॥
वट-मूले तदा शंभुः तस्थौ काल्याः सुतेन च ॥ सर्वे च युयुधुः सैन्य-समूहाः सततम् मुने ॥ १८॥
vaṭa-mūle tadā śaṃbhuḥ tasthau kālyāḥ sutena ca .. sarve ca yuyudhuḥ sainya-samūhāḥ satatam mune .. 18..
रत्नसिंहासने रम्ये कोटिदानवसंयुतः ॥ उवास शंखचूडश्च रत्नभूषणभूषितः ॥ १९ ॥
रत्न-सिंहासने रम्ये कोटि-दानव-संयुतः ॥ उवास शंखचूडः च रत्न-भूषण-भूषितः ॥ १९ ॥
ratna-siṃhāsane ramye koṭi-dānava-saṃyutaḥ .. uvāsa śaṃkhacūḍaḥ ca ratna-bhūṣaṇa-bhūṣitaḥ .. 19 ..
महायुद्धो बभूवाथ देवासुरविमर्दनः ॥ नानायुधानि दिव्यानि चलंतिस्म महामृधे ॥ 2.5.36.२० ॥
महा-युद्धः बभूव अथ देव-असुर-विमर्दनः ॥ नाना आयुधानि दिव्यानि चलन्तिस्म महा-मृधे ॥ २।५।३६।२० ॥
mahā-yuddhaḥ babhūva atha deva-asura-vimardanaḥ .. nānā āyudhāni divyāni calantisma mahā-mṛdhe .. 2.5.36.20 ..
गदर्ष्टिपट्टिशाश्चक्रभुशुंडिप्रासमुद्गराः ॥ निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१ ॥
गद-ऋष्टि-पट्टिशाः चक्र-भुशुंडि-प्रास-मुद्गराः ॥ निस्त्रिंश-भल्ल-परिघाः शक्ति-उन्मुख-परश्वधाः ॥ २१ ॥
gada-ṛṣṭi-paṭṭiśāḥ cakra-bhuśuṃḍi-prāsa-mudgarāḥ .. nistriṃśa-bhalla-parighāḥ śakti-unmukha-paraśvadhāḥ .. 21 ..
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ॥ भिंदिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२ ॥
शर-तोमर-खड्गाः च शतघ्न्यः च सहस्रशस् ॥ भिंदिपाल-आदयः च अन्ये वीर-हस्तेषु शोभिताः ॥ २२ ॥
śara-tomara-khaḍgāḥ ca śataghnyaḥ ca sahasraśas .. bhiṃdipāla-ādayaḥ ca anye vīra-hasteṣu śobhitāḥ .. 22 ..
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महो त्सवाः ॥ वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३ ॥
शिरांसि चिच्छिदुः च एभिः वीराः तत्र महो त्सवाः ॥ वीराणाम् उभयोः च एव सैन्ययोः गर्जतोः रणे ॥ २३ ॥
śirāṃsi cicchiduḥ ca ebhiḥ vīrāḥ tatra maho tsavāḥ .. vīrāṇām ubhayoḥ ca eva sainyayoḥ garjatoḥ raṇe .. 23 ..
गजास्तुरंगा बहवः स्यन्दनाश्च पदातयः ॥ सारोहवाहा विविधास्तत्रासन् सुविखंडिताः ॥ २४ ॥
गजाः तुरंगाः बहवः स्यन्दनाः च पदातयः ॥ स आरोह-वाहाः विविधाः तत्र आसन् सु विखण्डिताः ॥ २४ ॥
gajāḥ turaṃgāḥ bahavaḥ syandanāḥ ca padātayaḥ .. sa āroha-vāhāḥ vividhāḥ tatra āsan su vikhaṇḍitāḥ .. 24 ..
निकृत्तबाहूरुकरकटिकर्णयुगांघ्रयः ॥ संछिन्नध्वजबाणासितनुत्र वरभूषणाः ॥ २५॥
निकृत्त-बाहु-ऊरु-कर-कटि-कर्ण-युग-अंघ्रयः ॥ संछिन्न-ध्वज-बाण-असि-तनुत्र वर-भूषणाः ॥ २५॥
nikṛtta-bāhu-ūru-kara-kaṭi-karṇa-yuga-aṃghrayaḥ .. saṃchinna-dhvaja-bāṇa-asi-tanutra vara-bhūṣaṇāḥ .. 25..
समुद्धतकिरीटैश्च शिरोभिस्सह कुंडलैः ॥ संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥ २६ ॥
समुद्धत-किरीटैः च शिरोभिः सह कुंडलैः ॥ संरंभ-नष्टैः आस्तीर्णा बभौ भूः करभ-ऊरुभिः ॥ २६ ॥
samuddhata-kirīṭaiḥ ca śirobhiḥ saha kuṃḍalaiḥ .. saṃraṃbha-naṣṭaiḥ āstīrṇā babhau bhūḥ karabha-ūrubhiḥ .. 26 ..
महाभुजैस्साभरणैस्संछिन्नैस्सायुधैस्तथा ॥ अंगैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७ ॥
महा-भुजैः स आभरणैः संछिन्नैः स आयुधैः तथा ॥ अंगैः अन्यैः च सहसा पटलैः वा स सारघैः ॥ २७ ॥
mahā-bhujaiḥ sa ābharaṇaiḥ saṃchinnaiḥ sa āyudhaiḥ tathā .. aṃgaiḥ anyaiḥ ca sahasā paṭalaiḥ vā sa sāraghaiḥ .. 27 ..
मृधे भटाः प्रधावंतः कबंधान् स्वशिरोक्षिभिः ॥ पश्यंतस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ॥ २८॥
मृधे भटाः प्रधावंतः कबंधान् स्व-शिर-उक्षिभिः ॥ पश्यंतः तत्र च उत्पेतुः उद्यत-आयुध-सत्-भुजैः ॥ २८॥
mṛdhe bhaṭāḥ pradhāvaṃtaḥ kabaṃdhān sva-śira-ukṣibhiḥ .. paśyaṃtaḥ tatra ca utpetuḥ udyata-āyudha-sat-bhujaiḥ .. 28..
वल्गंतोऽतितरां वीरा युयुधुश्च परस्परम् ॥ शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥ २९ ॥
वल्गंतः अतितराम् वीराः युयुधुः च परस्परम् ॥ शस्त्र-अस्त्रैः विविधैः तत्र महा-बल-पराक्रमाः ॥ २९ ॥
valgaṃtaḥ atitarām vīrāḥ yuyudhuḥ ca parasparam .. śastra-astraiḥ vividhaiḥ tatra mahā-bala-parākramāḥ .. 29 ..
केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ॥ व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥ 2.5.36.३० ॥
केचिद् स्वर्ण-मुखैः बाणैः विनिहत्य भटान् मृधे ॥ व्यनदन् वीर-सन्नादम् स तोयाः इव तोयदाः ॥ २।५।३६।३० ॥
kecid svarṇa-mukhaiḥ bāṇaiḥ vinihatya bhaṭān mṛdhe .. vyanadan vīra-sannādam sa toyāḥ iva toyadāḥ .. 2.5.36.30 ..
सर्वतश्शरकूटेन वीरस्सरथसारथिम् ॥ वीरं संछादयामास प्रावृट्सूर्यमिवांबुदः ॥ ३१ ॥
सर्वतस् शर-कूटेन वीरः स रथ-सारथिम् ॥ वीरम् संछादयामास प्रावृष्-सूर्यम् इव अंबुदः ॥ ३१ ॥
sarvatas śara-kūṭena vīraḥ sa ratha-sārathim .. vīram saṃchādayāmāsa prāvṛṣ-sūryam iva aṃbudaḥ .. 31 ..
अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ॥ आह्वयंतो विशंतोऽग्रे क्षिपंतो मर्मभिर्मिथः ॥ ३२ ॥
अन्योन्यम् अभिसंसृत्य युयुधुः द्वन्द्व-योधिनः ॥ आह्वयंतः विशंतः अग्रे क्षिपंतः मर्मभिः मिथस् ॥ ३२ ॥
anyonyam abhisaṃsṛtya yuyudhuḥ dvandva-yodhinaḥ .. āhvayaṃtaḥ viśaṃtaḥ agre kṣipaṃtaḥ marmabhiḥ mithas .. 32 ..
सर्वतो वीरसंघाश्च नानाबाहुध्वजायुधाः ॥ व्यदृश्यंत महासंख्ये कुर्वंतः सिंहसंरवम् ॥ ३३ ॥
सर्वतस् वीर-संघाः च नाना बाहु-ध्वज-आयुधाः ॥ व्यदृश्यंत महा-संख्ये कुर्वंतः सिंह-संरवम् ॥ ३३ ॥
sarvatas vīra-saṃghāḥ ca nānā bāhu-dhvaja-āyudhāḥ .. vyadṛśyaṃta mahā-saṃkhye kurvaṃtaḥ siṃha-saṃravam .. 33 ..
महारवान्स्वशंखांश्च विदध्मुर्वै पृथक् पृथक्॥ वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥ ३४॥
महा-रवान् स्व-शंखान् च विदध्मुः वै पृथक् पृथक्॥ वल्गनम् चक्रिरे तत्र महा-वीराः प्रहर्षिताः ॥ ३४॥
mahā-ravān sva-śaṃkhān ca vidadhmuḥ vai pṛthak pṛthak.. valganam cakrire tatra mahā-vīrāḥ praharṣitāḥ .. 34..
एवं चिरतरं कालं देवदानवयोर्महत् ॥ बभूव युद्धं विकटं करालं वीरहर्षदम् ॥ ३५॥
एवम् चिरतरम् कालम् देव-दानवयोः महत् ॥ बभूव युद्धम् विकटम् करालम् वीर-हर्ष-दम् ॥ ३५॥
evam cirataram kālam deva-dānavayoḥ mahat .. babhūva yuddham vikaṭam karālam vīra-harṣa-dam .. 35..
महाप्रभोश्च लीलेयं शंकरस्य परात्मनः॥ यया समीहितं सर्वं सदेवासुरमानुषम्॥ ३६॥ ॥
महा-प्रभोः च लीला इयम् शंकरस्य परात्मनः॥ यया समीहितम् सर्वम् स देव-असुर-मानुषम्॥ ३६॥ ॥
mahā-prabhoḥ ca līlā iyam śaṃkarasya parātmanaḥ.. yayā samīhitam sarvam sa deva-asura-mānuṣam.. 36.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शंखचूडवधे परस्परयुद्धवर्णनम् नाम षट्त्रिंशः अध्यायः ॥ ३६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍavadhe parasparayuddhavarṇanam nāma ṣaṭtriṃśaḥ adhyāyaḥ .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In