| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तदा देवगणास्सर्वे दानवैश्च पराजिताः ॥ दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥ १॥
तदा देव-गणाः सर्वे दानवैः च पराजिताः ॥ दुद्रुवुः भय-भीताः च शस्त्र-अस्त्र-क्षत-विग्रहाः ॥ १॥
tadā deva-gaṇāḥ sarve dānavaiḥ ca parājitāḥ .. dudruvuḥ bhaya-bhītāḥ ca śastra-astra-kṣata-vigrahāḥ .. 1..
ते परावृत्य विश्वेशं शंकरं शरणं ययुः ॥ त्राहि त्राहीति सर्वेशेत्यू चुर्विह्वलया गिरा।२॥
ते परावृत्य विश्वेशम् शंकरम् शरणम् ययुः ॥ त्राहि त्राहि इति सर्व-ईश इति ऊ चुः विह्वलया गिरा।२॥
te parāvṛtya viśveśam śaṃkaram śaraṇam yayuḥ .. trāhi trāhi iti sarva-īśa iti ū cuḥ vihvalayā girā.2..
दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः ॥ सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह॥ ३॥
दृष्ट्वा पराजयम् तेषाम् देव-आदीनाम् स शंकरः ॥ स भयम् वचनम् श्रुत्वा कोपम् उच्चैस् चकार ह॥ ३॥
dṛṣṭvā parājayam teṣām deva-ādīnām sa śaṃkaraḥ .. sa bhayam vacanam śrutvā kopam uccais cakāra ha.. 3..
निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ ॥ बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥ ४ ॥
निरीक्ष्य स कृपा-दृष्ट्या देवेभ्यः च अभयम् ददौ ॥ बलम् च स्व-गणानाम् वै वर्द्धयामास तेजसा ॥ ४ ॥
nirīkṣya sa kṛpā-dṛṣṭyā devebhyaḥ ca abhayam dadau .. balam ca sva-gaṇānām vai varddhayāmāsa tejasā .. 4 ..
शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैस्सह ॥ युयुधे निर्भयस्संख्ये महावीरो हरात्मजः ॥ ५ ॥
शिव-आज्ञप्तः तदा स्कन्दः दानवानाम् गणैः सह ॥ युयुधे निर्भयः संख्ये महा-वीरः हर-आत्मजः ॥ ५ ॥
śiva-ājñaptaḥ tadā skandaḥ dānavānām gaṇaiḥ saha .. yuyudhe nirbhayaḥ saṃkhye mahā-vīraḥ hara-ātmajaḥ .. 5 ..
कृत्वा क्रोधं वीरशब्दं देवो यस्तारकांतकः ॥ अक्षौहिणीनां शतकं समरे स जघान ह ॥ ६ ॥
कृत्वा क्रोधम् वीर-शब्दम् देवः यः तारकांतकः ॥ अक्षौहिणीनाम् शतकम् समरे स जघान ह ॥ ६ ॥
kṛtvā krodham vīra-śabdam devaḥ yaḥ tārakāṃtakaḥ .. akṣauhiṇīnām śatakam samare sa jaghāna ha .. 6 ..
रुधिरं पातयामास काली कमललोचना ॥ तेषां शिरांसि संछिद्य बभक्ष सहसा च सा ॥ ७॥
रुधिरम् पातयामास काली कमल-लोचना ॥ तेषाम् शिरांसि संछिद्य बभक्ष सहसा च सा ॥ ७॥
rudhiram pātayāmāsa kālī kamala-locanā .. teṣām śirāṃsi saṃchidya babhakṣa sahasā ca sā .. 7..
पपौ रक्तानि तेषां च दानवानां समं ततः ॥ युद्धं चकार विविधं सुरदानवभीषणम् ॥ ८॥
पपौ रक्तानि तेषाम् च दानवानाम् समम् ततस् ॥ युद्धम् चकार विविधम् सुर-दानव-भीषणम् ॥ ८॥
papau raktāni teṣām ca dānavānām samam tatas .. yuddham cakāra vividham sura-dānava-bhīṣaṇam .. 8..
शतलक्षं गजेन्द्राणां शतलक्षं नृणां तथा ॥ समादायैकहस्तेन मुखे चिक्षेप लीलया ॥ ९ ॥
शत-लक्षम् गज-इन्द्राणाम् शत-लक्षम् नृणाम् तथा ॥ समादाय एक-हस्तेन मुखे चिक्षेप लीलया ॥ ९ ॥
śata-lakṣam gaja-indrāṇām śata-lakṣam nṛṇām tathā .. samādāya eka-hastena mukhe cikṣepa līlayā .. 9 ..
कबंधानां सहस्रं च सन्ननर्त रणे बहु ॥ महान् कोलाहलो जातः क्लीबानां च भयंकरः ॥ 2.5.37.१०॥
कबंधानाम् सहस्रम् च सन् ननर्त रणे बहु ॥ महान् कोलाहलः जातः क्लीबानाम् च भयंकरः ॥ २।५।३७।१०॥
kabaṃdhānām sahasram ca san nanarta raṇe bahu .. mahān kolāhalaḥ jātaḥ klībānām ca bhayaṃkaraḥ .. 2.5.37.10..
पुनः स्कंदः प्रकुप्योच्चैः शरवर्षाञ्चकार ह ॥ पातयामास क्षयतः कोटिशोऽसुरनायकान् ॥ ११॥
पुनर् स्कंदः प्रकुप्य उच्चैस् शर-वर्षान् चकार ह ॥ पातयामास क्षयतः कोटिशस् असुर-नायकान् ॥ ११॥
punar skaṃdaḥ prakupya uccais śara-varṣān cakāra ha .. pātayāmāsa kṣayataḥ koṭiśas asura-nāyakān .. 11..
दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः ॥ भीताः प्रदुद्रुवुस्सर्वे शेषा मरणतस्तदा ॥ १२ ॥
दानवाः शर-जालेन स्कन्दस्य क्षत-विग्रहाः ॥ भीताः प्रदुद्रुवुः सर्वे शेषाः मरणतः तदा ॥ १२ ॥
dānavāḥ śara-jālena skandasya kṣata-vigrahāḥ .. bhītāḥ pradudruvuḥ sarve śeṣāḥ maraṇataḥ tadā .. 12 ..
वृषपर्वा विप्रचित्तिर्दंडश्चापि विकंपनः ॥ स्कंदेन युयुधुस्सार्द्धं तेन सर्वे क्रमेण च ॥ १३॥
वृषपर्वा विप्रचित्तिः दंडः च अपि विकंपनः ॥ स्कंदेन युयुधुः सार्द्धम् तेन सर्वे क्रमेण च ॥ १३॥
vṛṣaparvā vipracittiḥ daṃḍaḥ ca api vikaṃpanaḥ .. skaṃdena yuyudhuḥ sārddham tena sarve krameṇa ca .. 13..
महामारी च युयुधे न बभूव पराङ्मुखी ॥ बभूवुस्ते क्षतांगाश्च स्कंदशक्तिप्रपीडिताः ॥ १४ ॥
महा-मारी च युयुधे न बभूव पराङ्मुखी ॥ बभूवुः ते क्षत-अंगाः च स्कंद-शक्ति-प्रपीडिताः ॥ १४ ॥
mahā-mārī ca yuyudhe na babhūva parāṅmukhī .. babhūvuḥ te kṣata-aṃgāḥ ca skaṃda-śakti-prapīḍitāḥ .. 14 ..
महामारीस्कंदयोश्च विजयोभूत्तदा मुने ॥ नेदुर्दुंदुभयस्स्वर्गे पुष्पवृष्टिः पपात ह ॥ १५ ॥
महामारी-स्कंदयोः च विजयः भूत् तदा मुने ॥ नेदुः दुंदुभयः स्वर्गे पुष्प-वृष्टिः पपात ह ॥ १५ ॥
mahāmārī-skaṃdayoḥ ca vijayaḥ bhūt tadā mune .. neduḥ duṃdubhayaḥ svarge puṣpa-vṛṣṭiḥ papāta ha .. 15 ..
स्कंदस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् ॥ दानवानां क्षयकरं यथाप्रकृतिकल्पकम् ॥ १६॥
स्कंदस्य समरम् दृष्ट्वा महा-रौद्रम् तम् अद्भुतम् ॥ दानवानाम् क्षय-करम् यथा प्रकृति-कल्पकम् ॥ १६॥
skaṃdasya samaram dṛṣṭvā mahā-raudram tam adbhutam .. dānavānām kṣaya-karam yathā prakṛti-kalpakam .. 16..
महामारीकृतं तच्चोपद्रवं क्षयहेतुकम्॥ चुकोपातीव सहसा सनद्धोभूत्स्वयं तदा ॥ १७॥
महा-मारीकृतम् तत् च उपद्रवम् क्षय-हेतुकम्॥ चुकोप अतीव सहसा स नद्धः भूत् स्वयम् तदा ॥ १७॥
mahā-mārīkṛtam tat ca upadravam kṣaya-hetukam.. cukopa atīva sahasā sa naddhaḥ bhūt svayam tadā .. 17..
वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम्॥ अभयं सर्ववीराणां नानारत्नपरिच्छदम्॥ १८॥
वरम् विमानम् आरुह्य नाना शस्त्र-अस्त्र-संयुतम्॥ अभयम् सर्व-वीराणाम् नाना रत्न-परिच्छदम्॥ १८॥
varam vimānam āruhya nānā śastra-astra-saṃyutam.. abhayam sarva-vīrāṇām nānā ratna-paricchadam.. 18..
महावीरैश्शंखचूडो जगाम रथमध्यतः ॥ धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥ १९॥
महा-वीरैः शंखचूडः जगाम रथ-मध्यतस् ॥ धनुः विकृष्य कर्ण-अन्तम् चकार शर-वर्षणम् ॥ १९॥
mahā-vīraiḥ śaṃkhacūḍaḥ jagāma ratha-madhyatas .. dhanuḥ vikṛṣya karṇa-antam cakāra śara-varṣaṇam .. 19..
तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयंकरी ॥ महाघोरांधकारश्च वधस्थाने बभूव ह ॥ 2.5.37.२०॥
तस्य सा शर-वृष्टिः च दुर्निवार्य्या भयंकरी ॥ महा-घोर-अंधकारः च वध-स्थाने बभूव ह ॥ २।५।३७।२०॥
tasya sā śara-vṛṣṭiḥ ca durnivāryyā bhayaṃkarī .. mahā-ghora-aṃdhakāraḥ ca vadha-sthāne babhūva ha .. 2.5.37.20..
देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः ॥ एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥ २१॥
देवाः प्रदुद्रुवुः सर्वे ये अन्ये नन्दीश्वर-आदयः ॥ एकः एव कार्त्तिकेयः तस्थौ समर-मूर्द्धनि ॥ २१॥
devāḥ pradudruvuḥ sarve ye anye nandīśvara-ādayaḥ .. ekaḥ eva kārttikeyaḥ tasthau samara-mūrddhani .. 21..
पर्वतानां च सर्पाणां नागानां शाखिनां तथा ॥ राजा चकार वृष्टिं च दुर्निवार्या भयंकरीम् ॥ २२ ॥
पर्वतानाम् च सर्पाणाम् नागानाम् शाखिनाम् तथा ॥ राजा चकार वृष्टिम् च दुर्निवार्या भयंकरीम् ॥ २२ ॥
parvatānām ca sarpāṇām nāgānām śākhinām tathā .. rājā cakāra vṛṣṭim ca durnivāryā bhayaṃkarīm .. 22 ..
तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः ॥ नीहारेण च सांद्रेण संवृतौ भास्करौ यथा ॥ २३॥
तद्-दृष्ट्या प्रहतः स्कन्दः बभूव शिव-नन्दनः ॥ नीहारेण च सांद्रेण संवृतौ भास्करौ यथा ॥ २३॥
tad-dṛṣṭyā prahataḥ skandaḥ babhūva śiva-nandanaḥ .. nīhāreṇa ca sāṃdreṇa saṃvṛtau bhāskarau yathā .. 23..
नानाविधां स्वमायां च चकार मयदर्शिताम् ॥ तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ॥ २४॥
नानाविधाम् स्व-मायाम् च चकार मय-दर्शिताम् ॥ ताम् न अविदन् सुराः के अपि गणाः च मुनि-सत्तम ॥ २४॥
nānāvidhām sva-māyām ca cakāra maya-darśitām .. tām na avidan surāḥ ke api gaṇāḥ ca muni-sattama .. 24..
तदैव शङ्खचूडश्च महामायी महाबलः ॥ शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥ २५॥
तदा एव शङ्खचूडः च महा-मायी महा-बलः ॥ शरेण एकेन दिव्येन धनुः चिच्छेद तस्य वै ॥ २५॥
tadā eva śaṅkhacūḍaḥ ca mahā-māyī mahā-balaḥ .. śareṇa ekena divyena dhanuḥ ciccheda tasya vai .. 25..
बभंज तद्रथं दिव्यं चिच्छेद रथपीडकान् ॥ मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥ २६॥
बभंज तद्-रथम् दिव्यम् चिच्छेद रथ-पीडकान् ॥ मयूरम् जर्जरीभूतम् दिव्य-अस्त्रेण चकार सः ॥ २६॥
babhaṃja tad-ratham divyam ciccheda ratha-pīḍakān .. mayūram jarjarībhūtam divya-astreṇa cakāra saḥ .. 26..
शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् ॥ मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥ २७॥
शक्तिम् चिक्षेप सूर्य-आभाम् तस्य वक्षसि घातिनीम् ॥ मूर्च्छाम् अवाप सहसा तद्-प्रहारेण स क्षणम् ॥ २७॥
śaktim cikṣepa sūrya-ābhām tasya vakṣasi ghātinīm .. mūrcchām avāpa sahasā tad-prahāreṇa sa kṣaṇam .. 27..
पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा ॥ रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥ २८ ॥
पुनर् च चेतनाम् प्राप्य कार्तिकः पर-वीर-हा ॥ रत्न-इन्द्र-सार-निर्माणम् आरुरोह स्व-वाहनम् ॥ २८ ॥
punar ca cetanām prāpya kārtikaḥ para-vīra-hā .. ratna-indra-sāra-nirmāṇam āruroha sva-vāhanam .. 28 ..
स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः ॥ शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम्॥ २९ ॥
स्मृत्वा पादौ महेशस्य स अम्बिकस्य च षण्मुखः ॥ शस्त्र-अस्त्राणि गृहीत्वा एव चकार रणम् उल्बणम्॥ २९ ॥
smṛtvā pādau maheśasya sa ambikasya ca ṣaṇmukhaḥ .. śastra-astrāṇi gṛhītvā eva cakāra raṇam ulbaṇam.. 29 ..
सर्प्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ॥ सर्वांश्चिच्छेद कोपेन दिव्या स्त्रेण शिवात्मजः ॥ 2.5.37.३०॥
सर्प्पान् च पर्वतान् च एव वृक्षान् च प्रस्तरान् तथा ॥ सर्वान् चिच्छेद कोपेन दिव्य-अस्त्रेण शिव-आत्मजः ॥ २।५।३७।३०॥
sarppān ca parvatān ca eva vṛkṣān ca prastarān tathā .. sarvān ciccheda kopena divya-astreṇa śiva-ātmajaḥ .. 2.5.37.30..
वह्निं निवारयामास पार्जन्येन शरेण ह ॥ रथं धनुश्च चिच्छेद शंखचूडस्य लीलया ॥ ३१॥
वह्निम् निवारयामास पार्जन्येन शरेण ह ॥ रथम् धनुः च चिच्छेद शंखचूडस्य लीलया ॥ ३१॥
vahnim nivārayāmāsa pārjanyena śareṇa ha .. ratham dhanuḥ ca ciccheda śaṃkhacūḍasya līlayā .. 31..
सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् ॥ वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥ ३२॥
सन्नाहम् सर्व-वाहान् च किरीटम् मुकुट-उज्ज्वलम् ॥ वीर-शब्दम् चकार असौ जगर्ज च पुनर् पुनर् ॥ ३२॥
sannāham sarva-vāhān ca kirīṭam mukuṭa-ujjvalam .. vīra-śabdam cakāra asau jagarja ca punar punar .. 32..
चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि ॥ ।तत्प्रहारेण संप्राप मूर्च्छां दीर्घतमेन च ॥ ३३॥
चिक्षेप शक्तिम् सूर्य-आभाम् दानव-इन्द्रस्य वक्षसि ॥ ।तद्-प्रहारेण संप्राप मूर्च्छाम् दीर्घतमेन च ॥ ३३॥
cikṣepa śaktim sūrya-ābhām dānava-indrasya vakṣasi .. .tad-prahāreṇa saṃprāpa mūrcchām dīrghatamena ca .. 33..
मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः ॥ चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ॥ ३४॥
मुहूर्त-मात्रम् तद्-क्लेशम् विनीय स महा-बलः ॥ चेतनाम् प्राप्य च उत्तस्थौ जगर्ज हरि-वर्च सः ॥ ३४॥
muhūrta-mātram tad-kleśam vinīya sa mahā-balaḥ .. cetanām prāpya ca uttasthau jagarja hari-varca saḥ .. 34..
शक्त्या जघान तं चापि कार्तिकेयं महाबलम् ॥ स पपात महीपृष्ठेऽमोघां कुर्वन्विधिप्रदाम् ॥ ३५॥
शक्त्या जघान तम् च अपि कार्तिकेयम् महा-बलम् ॥ स पपात मही-पृष्ठे अमोघाम् कुर्वन् विधि-प्रदाम् ॥ ३५॥
śaktyā jaghāna tam ca api kārtikeyam mahā-balam .. sa papāta mahī-pṛṣṭhe amoghām kurvan vidhi-pradām .. 35..
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥ ज्ञानेन तं शिवश्चापि जीवयामास लीलया॥ ३६॥
काली गृहीत्वा तम् क्रोडे निनाय शिव-सन्निधौ ॥ ज्ञानेन तम् शिवः च अपि जीवयामास लीलया॥ ३६॥
kālī gṛhītvā tam kroḍe nināya śiva-sannidhau .. jñānena tam śivaḥ ca api jīvayāmāsa līlayā.. 36..
ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ॥ गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥ ३७॥
ददौ बलम् अनंतम् च समुत्तस्थौ प्रतापवान् ॥ गमनाय मतिम् चक्रे पुनर् तत्र शिव-आत्मजः ॥ ३७॥
dadau balam anaṃtam ca samuttasthau pratāpavān .. gamanāya matim cakre punar tatra śiva-ātmajaḥ .. 37..
एतस्मिन्नंतरे वीरो वीरभद्रो महाबलः ॥ शंखचूडेन युयुधे समरे बलशालिना ॥ ३८॥
एतस्मिन् अन्तरे वीरः वीरभद्रः महा-बलः ॥ शंखचूडेन युयुधे समरे बल-शालिना ॥ ३८॥
etasmin antare vīraḥ vīrabhadraḥ mahā-balaḥ .. śaṃkhacūḍena yuyudhe samare bala-śālinā .. 38..
ववर्ष समरेऽस्त्राणि यानियानि च दानवः ॥ चिच्छेद लीलया वीरस्तानितानि निजैश्शरैः ॥ ३९॥
ववर्ष समरे अस्त्राणि यानि यानि च दानवः ॥ चिच्छेद लीलया वीरः तानितानि निजैः शरैः ॥ ३९॥
vavarṣa samare astrāṇi yāni yāni ca dānavaḥ .. ciccheda līlayā vīraḥ tānitāni nijaiḥ śaraiḥ .. 39..
दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः ॥ तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥ 2.5.37.४० ॥
दिव्यानि अस्त्राणि शतशस् मुमुचे दानव-ईश्वरः ॥ तानि चिच्छेद तम् बाणैः वीरभद्रः प्रतापवान् ॥ २।५।३७।४० ॥
divyāni astrāṇi śataśas mumuce dānava-īśvaraḥ .. tāni ciccheda tam bāṇaiḥ vīrabhadraḥ pratāpavān .. 2.5.37.40 ..
अथातीव चुकोपोच्चैश्शंखचूडः प्रतापवान् ॥ शक्त्या जघानोरसि तं स चकंपे पपात कौ ॥ ४१ ॥
अथा अतीव चुकोप उच्चैस् शंखचूडः प्रतापवान् ॥ शक्त्या जघान उरसि तम् स चकंपे पपात कौ ॥ ४१ ॥
athā atīva cukopa uccais śaṃkhacūḍaḥ pratāpavān .. śaktyā jaghāna urasi tam sa cakaṃpe papāta kau .. 41 ..
क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः ॥ जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥ ४२॥
क्षणेन चेतनाम् प्राप्य समुत्तस्थौ गणेश्वरः ॥ जग्राह च धनुः भूयस् वीरभद्रः गणाग्रणीः ॥ ४२॥
kṣaṇena cetanām prāpya samuttasthau gaṇeśvaraḥ .. jagrāha ca dhanuḥ bhūyas vīrabhadraḥ gaṇāgraṇīḥ .. 42..
एतस्मिन्नंतरे काली जगाम समरं पुनः ॥ भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया॥ ४३ ॥
एतस्मिन् अन्तरे काली जगाम समरम् पुनर् ॥ भक्षितुम् दानवान् स्वान् च रक्षितुम् कार्तिक-इच्छया॥ ४३ ॥
etasmin antare kālī jagāma samaram punar .. bhakṣitum dānavān svān ca rakṣitum kārtika-icchayā.. 43 ..
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ सर्वे देवाश्च गंधर्वा यक्षा रक्षांसि पन्नगाः ॥ ४४ ॥
वीराः ताम् अनुजग्मुः च ते च नन्दीश्वर-आदयः ॥ सर्वे देवाः च गंधर्वाः यक्षाः रक्षांसि पन्नगाः ॥ ४४ ॥
vīrāḥ tām anujagmuḥ ca te ca nandīśvara-ādayaḥ .. sarve devāḥ ca gaṃdharvāḥ yakṣāḥ rakṣāṃsi pannagāḥ .. 44 ..
वाद्यभांडाश्च बहुशश्शतशो मधुवाहकाः ॥ पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥ ४५ ॥
वाद्य-भांडाः च बहुशस् शतशस् मधु-वाहकाः ॥ पुनर् समुद्यताः च आसन् वीराः उभयतस् अखिलाः ॥ ४५ ॥
vādya-bhāṃḍāḥ ca bahuśas śataśas madhu-vāhakāḥ .. punar samudyatāḥ ca āsan vīrāḥ ubhayatas akhilāḥ .. 45 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखंडे शंखचूडवधे ससैन्यशंखचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसहितायाम् पञ्चमे युद्ध-खंडे शंखचूडवधे स सैन्यशंखचूडयुद्धवर्णनम् नाम सप्तत्रिंशः अध्यायः ॥ ३७ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasahitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍavadhe sa sainyaśaṃkhacūḍayuddhavarṇanam nāma saptatriṃśaḥ adhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In