| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
सा च गत्वा हि संग्रामं सिंहनादं चकार ह ॥ देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ॥ १ ॥
सा च गत्वा हि संग्रामम् सिंहनादम् चकार ह ॥ देव्याः च तेन नादेन मूर्च्छाम् आपुः च दानवाः ॥ १ ॥
sā ca gatvā hi saṃgrāmam siṃhanādam cakāra ha .. devyāḥ ca tena nādena mūrcchām āpuḥ ca dānavāḥ .. 1 ..
अट्टाट्टहासमशिवं चकार च पुनः पुनः ॥ तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ॥ २ ॥
अट्टाट्टहासम् अशिवम् चकार च पुनर् पुनर् ॥ तदा पपौ च माध्वीकम् ननर्त रण-मूर्द्धनि ॥ २ ॥
aṭṭāṭṭahāsam aśivam cakāra ca punar punar .. tadā papau ca mādhvīkam nanarta raṇa-mūrddhani .. 2 ..
उग्रदंष्ट्रा चोग्रदंडा कोटवी च पपौ मधु ॥ अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु संपपुः ॥ ३॥
उग्रदंष्ट्रा च उग्रदंडा कोटवी च पपौ मधु ॥ अन्याः च देव्यः तत्र आजौ ननृतुः मधु संपपुः ॥ ३॥
ugradaṃṣṭrā ca ugradaṃḍā koṭavī ca papau madhu .. anyāḥ ca devyaḥ tatra ājau nanṛtuḥ madhu saṃpapuḥ .. 3..
महान् कोलाहलो जातो गणदेवदले तदा॥ जहृषुर्बहुगर्जंतस्सर्वे सुरगणादयः ॥ ४ ॥
महान् कोलाहलः जातः गणदेव-दले तदा॥ जहृषुः बहु-गर्जन्तः सर्वे सुर-गण-आदयः ॥ ४ ॥
mahān kolāhalaḥ jātaḥ gaṇadeva-dale tadā.. jahṛṣuḥ bahu-garjantaḥ sarve sura-gaṇa-ādayaḥ .. 4 ..
दृष्ट्वा कालीं शंखचूडश्शीघ्रमाजौ समाययौ ॥ दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ॥ ५॥
दृष्ट्वा कालीम् शंखचूडः शीघ्रम् आजौ समाययौ ॥ दानवाः च भयम् प्राप्ताः राजा तेभ्यः अभयम् ददौ ॥ ५॥
dṛṣṭvā kālīm śaṃkhacūḍaḥ śīghram ājau samāyayau .. dānavāḥ ca bhayam prāptāḥ rājā tebhyaḥ abhayam dadau .. 5..
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम्॥ राजा जघान तं शीघ्रं वैष्णवांकितलीलया ॥ ६ ॥
काली चिक्षेप वह्निम् च प्रलय-अग्नि-शिखा-उपमम्॥ राजा जघान तम् शीघ्रम् वैष्णव-अंकित-लीलया ॥ ६ ॥
kālī cikṣepa vahnim ca pralaya-agni-śikhā-upamam.. rājā jaghāna tam śīghram vaiṣṇava-aṃkita-līlayā .. 6 ..
नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् ॥ वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम् ॥ ७॥
नारायण-अस्त्रम् सा देवी चिक्षेप तद्-उपरि अरम् ॥ वृद्धिम् जगाम तत् शस्त्रम् दृष्ट्वा वामम् च दानवम् ॥ ७॥
nārāyaṇa-astram sā devī cikṣepa tad-upari aram .. vṛddhim jagāma tat śastram dṛṣṭvā vāmam ca dānavam .. 7..
तं दृष्ट्वा शंखचूडश्च प्रलयाग्निशिखोपमम्॥ पपात दंडवद्भूमौ प्रणनाम पुनःपुनः॥ ८॥
तम् दृष्ट्वा शंखचूडः च प्रलय-अग्नि-शिखा-उपमम्॥ पपात दंड-वत् भूमौ प्रणनाम पुनर् पुनर्॥ ८॥
tam dṛṣṭvā śaṃkhacūḍaḥ ca pralaya-agni-śikhā-upamam.. papāta daṃḍa-vat bhūmau praṇanāma punar punar.. 8..
निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् ॥ ब्रह्मास्त्रमथ सा देवी चिक्षेप मंत्रपूर्वकम् ॥ ९ ॥
निवृत्तिम् प्राप तत् श्स्त्रम् दृष्ट्वा नम्रम् च दानवम् ॥ ब्रह्मास्त्रम् अथ सा देवी चिक्षेप मंत्र-पूर्वकम् ॥ ९ ॥
nivṛttim prāpa tat śstram dṛṣṭvā namram ca dānavam .. brahmāstram atha sā devī cikṣepa maṃtra-pūrvakam .. 9 ..
तं दृष्ट्वा प्रज्ज्वलंतं च प्रणम्य भुवि संस्थितः ॥ ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह ॥ 2.5.38.१० ॥
तम् दृष्ट्वा प्रज्ज्वलंतम् च प्रणम्य भुवि संस्थितः ॥ ब्रह्मास्त्रेण दानव-इन्द्रः विनिवारम् चकार ह ॥ २।५।३८।१० ॥
tam dṛṣṭvā prajjvalaṃtam ca praṇamya bhuvi saṃsthitaḥ .. brahmāstreṇa dānava-indraḥ vinivāram cakāra ha .. 2.5.38.10 ..
अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा ॥ चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मंत्रपूर्वकम् ॥ ११ ॥
अथ क्रुद्धः दानव-इन्द्रः धनुः आकृष्य रंहसा ॥ चिक्षेप दिव्यानि अस्त्राणि देव्यै वै मंत्र-पूर्वकम् ॥ ११ ॥
atha kruddhaḥ dānava-indraḥ dhanuḥ ākṛṣya raṃhasā .. cikṣepa divyāni astrāṇi devyai vai maṃtra-pūrvakam .. 11 ..
आहारं समरे चक्रे प्रसार्य मुखमायतम् ॥ जगर्ज साट्टहासं च दानवा भयमाययुः ॥ १२ ॥
आहारम् समरे चक्रे प्रसार्य मुखम् आयतम् ॥ जगर्ज स अट्टहासम् च दानवाः भयम् आययुः ॥ १२ ॥
āhāram samare cakre prasārya mukham āyatam .. jagarja sa aṭṭahāsam ca dānavāḥ bhayam āyayuḥ .. 12 ..
काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् ॥ देवी दिव्यास्त्रजालेन शतखंडं चकार सा ॥ १३ ॥
काल्यै चिक्षेप शक्तिम् स शत-योजनम् आयताम् ॥ देवी दिव्य-अस्त्र-जालेन शत-खंडम् चकार सा ॥ १३ ॥
kālyai cikṣepa śaktim sa śata-yojanam āyatām .. devī divya-astra-jālena śata-khaṃḍam cakāra sā .. 13 ..
स च वैष्णवमस्त्रं च चिक्षेप चंडिकोपरि ॥ माहेश्वरेण काली च विनिवारं चकार सा ॥ १४॥
स च वैष्णवम् अस्त्रम् च चिक्षेप चंडिका-उपरि ॥ माहेश्वरेण काली च विनिवारम् चकार सा ॥ १४॥
sa ca vaiṣṇavam astram ca cikṣepa caṃḍikā-upari .. māheśvareṇa kālī ca vinivāram cakāra sā .. 14..
एवं चिरतरं युद्धमन्योन्यं संबभूव ह॥ प्रेक्षका अभवन्सर्वे देवाश्च दानवा अपि॥ १५॥
एवम् चिरतरम् युद्धम् अन्योन्यम् संबभूव ह॥ प्रेक्षकाः अभवन् सर्वे देवाः च दानवाः अपि॥ १५॥
evam cirataram yuddham anyonyam saṃbabhūva ha.. prekṣakāḥ abhavan sarve devāḥ ca dānavāḥ api.. 15..
अथ कुद्धा महादेवी काली कालसमा रणे॥ जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ॥ १६॥
अथ कुद्धा महा-देवी काली काल-समा रणे॥ जग्राह मन्त्र-पूतम् च शरम् पाशुपतम् रुषा ॥ १६॥
atha kuddhā mahā-devī kālī kāla-samā raṇe.. jagrāha mantra-pūtam ca śaram pāśupatam ruṣā .. 16..
क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी॥ न क्षिपास्त्रमिदं देवि शंखचूडाय वै रुषा॥ १७॥
क्षेपात् पूर्वम् तत् निषेद्धुम् वाच् बभूव अशरीरिणी॥ न क्षिप अस्त्रम् इदम् देवि शंखचूडाय वै रुषा॥ १७॥
kṣepāt pūrvam tat niṣeddhum vāc babhūva aśarīriṇī.. na kṣipa astram idam devi śaṃkhacūḍāya vai ruṣā.. 17..
मृत्युः पाशुपतान्नास्त्यमोघादपि च चंडिके॥ शंखचूडस्य वीरस्योपायमन्यं विचारय॥ १८॥
मृत्युः पाशुपतात् ना अस्ति अमोघात् अपि च चंडिके॥ शंखचूडस्य वीरस्य उपायम् अन्यम् विचारय॥ १८॥
mṛtyuḥ pāśupatāt nā asti amoghāt api ca caṃḍike.. śaṃkhacūḍasya vīrasya upāyam anyam vicāraya.. 18..
इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् ॥ शतलक्षं दानवानां जघास लीलया क्षुधा ॥ १९॥
इति आकर्ण्य भद्रकाली न चिक्षेप तत् अस्त्रकम् ॥ शत-लक्षम् दानवानाम् जघास लीलया क्षुधा ॥ १९॥
iti ākarṇya bhadrakālī na cikṣepa tat astrakam .. śata-lakṣam dānavānām jaghāsa līlayā kṣudhā .. 19..
अत्तुं जगाम वेगेन शंखचूडं भयंकरी॥ दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ॥ 2.5.38.२०॥
अत्तुम् जगाम वेगेन शंखचूडम् भयंकरी॥ दिव्य-अस्त्रेण च रौद्रेण वारयामास दानवः ॥ २।५।३८।२०॥
attum jagāma vegena śaṃkhacūḍam bhayaṃkarī.. divya-astreṇa ca raudreṇa vārayāmāsa dānavaḥ .. 2.5.38.20..
अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् ॥ ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यंतभीकरम् ॥ २१ ॥
अथ क्रुद्धः दानव-इन्द्रः खड्गम् चिक्षेप स त्वरम् ॥ ग्रीष्म-सूर्य-उपमम् तीक्ष्ण-धारम् अत्यंत-भीकरम् ॥ २१ ॥
atha kruddhaḥ dānava-indraḥ khaḍgam cikṣepa sa tvaram .. grīṣma-sūrya-upamam tīkṣṇa-dhāram atyaṃta-bhīkaram .. 21 ..
सा काली तं समालोक्यायांतं प्रज्वलितं रुषा ॥ प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ॥ २२॥
सा काली तम् समालोक्य आयान्तम् प्रज्वलितम् रुषा ॥ प्रसार्य मुखम् आहारम् चक्रे तस्य च पश्यतः ॥ २२॥
sā kālī tam samālokya āyāntam prajvalitam ruṣā .. prasārya mukham āhāram cakre tasya ca paśyataḥ .. 22..
दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः ॥ प्राप्तानि पूर्वतश्चक्रे शतखंडानि तानि च ॥ २३॥
दिव्यानि अस्त्राणि च अन्यानि चिच्छेद दानव-ईश्वरः ॥ प्राप्तानि पूर्वतस् चक्रे शत-खंडानि तानि च ॥ २३॥
divyāni astrāṇi ca anyāni ciccheda dānava-īśvaraḥ .. prāptāni pūrvatas cakre śata-khaṃḍāni tāni ca .. 23..
पुनरत्तुं महादेवी वेगतस्तं जगाम ह ॥ सर्वसिद्धेश्वरः श्रीमानंतर्धानं चकार सः ॥ २४॥
पुनर् अत्तुम् महादेवी वेगतः तम् जगाम ह ॥ सर्व-सिद्ध-ईश्वरः श्रीमान् अंतर्धानम् चकार सः ॥ २४॥
punar attum mahādevī vegataḥ tam jagāma ha .. sarva-siddha-īśvaraḥ śrīmān aṃtardhānam cakāra saḥ .. 24..
वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् ॥ बभंज च रथं तस्य जघान किल सारथिम् ॥ २५॥
वेगेन मुष्टिना काली तम् अ दृष्ट्वा च दानवम् ॥ बभंज च रथम् तस्य जघान किल सारथिम् ॥ २५॥
vegena muṣṭinā kālī tam a dṛṣṭvā ca dānavam .. babhaṃja ca ratham tasya jaghāna kila sārathim .. 25..
अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः ॥ भद्रकाल्यै शंखचूडः प्रलयाग्निशिखो पमम् ॥ २६॥
अथा आगत्य द्रुतम् मायी चक्रम् चिक्षेप वेगतः ॥ भद्रकाल्यै शंखचूडः प्रलय-अग्नि-शिखा उपमम् ॥ २६॥
athā āgatya drutam māyī cakram cikṣepa vegataḥ .. bhadrakālyai śaṃkhacūḍaḥ pralaya-agni-śikhā upamam .. 26..
सा देवी तं तदा चक्रं वामहस्तेन लीलया ॥ जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ॥ २७॥ ।
सा देवी तम् तदा चक्रम् वाम-हस्तेन लीलया ॥ जग्राह स्व-मुखेन एव आहारम् चक्रे रुषा द्रुतम् ॥ २७॥ ।
sā devī tam tadā cakram vāma-hastena līlayā .. jagrāha sva-mukhena eva āhāram cakre ruṣā drutam .. 27.. .
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ॥ बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः ॥ २८॥
मुष्ट्या जघान तम् देवी महा-कोपेन वेगतः ॥ बभ्राम दानव-इन्द्रः अपि क्षणम् मूर्च्छाम् अवाप सः ॥ २८॥
muṣṭyā jaghāna tam devī mahā-kopena vegataḥ .. babhrāma dānava-indraḥ api kṣaṇam mūrcchām avāpa saḥ .. 28..
क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान्॥ न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ॥ २९॥
क्षणेन चेतनाम् प्राप्य स च उत्तस्थौ प्रतापवान्॥ न चक्रे बाहु युद्धम् च मातृ-बुद्ध्या तया सह ॥ २९॥
kṣaṇena cetanām prāpya sa ca uttasthau pratāpavān.. na cakre bāhu yuddham ca mātṛ-buddhyā tayā saha .. 29..
गृहीत्वा दानवं देवी भ्रामयित्वा पुनःपुनः ॥ ऊर्द्ध्वं च प्रापयामास महाकोपेन वेगतः ॥ 2.5.38.३०॥
गृहीत्वा दानवम् देवी भ्रामयित्वा पुनर् पुनर् ॥ ऊर्द्ध्वम् च प्रापयामास महा-कोपेन वेगतः ॥ २।५।३८।३०॥
gṛhītvā dānavam devī bhrāmayitvā punar punar .. ūrddhvam ca prāpayāmāsa mahā-kopena vegataḥ .. 2.5.38.30..
उत्पपात च वेगेन शंखचूडः प्रतापवान् ॥ निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम् ॥ ३१॥
उत्पपात च वेगेन शंखचूडः प्रतापवान् ॥ निपत्य च समुत्तस्थ प्रणम्य भद्रकालिकाम् ॥ ३१॥
utpapāta ca vegena śaṃkhacūḍaḥ pratāpavān .. nipatya ca samuttastha praṇamya bhadrakālikām .. 31..
रत्नेन्द्रसारनिर्माणविमानं सुमनो हरम् ॥ आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे ॥ ३२ ॥
॥ आरुरोह स हृष्ट-आत्मा न भ्रान्तः अपि महा-रणे ॥ ३२ ॥
.. āruroha sa hṛṣṭa-ātmā na bhrāntaḥ api mahā-raṇe .. 32 ..
दानवानां हि क्षतजं सा पपौ कालिका क्षुधा ॥ एतस्मिन्नंतरे तत्र वाग्वभूवाशरीरिणी ॥ ३३ ॥
दानवानाम् हि क्षतजम् सा पपौ कालिका क्षुधा ॥ एतस्मिन् अंतरे तत्र वाच् वभूव अशरीरिणी ॥ ३३ ॥
dānavānām hi kṣatajam sā papau kālikā kṣudhā .. etasmin aṃtare tatra vāc vabhūva aśarīriṇī .. 33 ..
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ॥ उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुंक्ष्व चेश्वरि ॥ ३४ ॥
लक्षम् च दानव-इन्द्राणाम् अवशिष्टम् रणे अधुना ॥ उद्धतम् गुञ्जताम् सार्द्धम् ततस् त्वम् भुंक्ष्व च ईश्वरि ॥ ३४ ॥
lakṣam ca dānava-indrāṇām avaśiṣṭam raṇe adhunā .. uddhatam guñjatām sārddham tatas tvam bhuṃkṣva ca īśvari .. 34 ..
संग्रामे दानवेन्द्रं च हंतुं न कुरु मानसम् ॥ अवध्योयं शंखचूडस्तव देवीति निश्चयम् ॥ ३५॥
संग्रामे दानव-इन्द्रम् च हंतुम् न कुरु मानसम् ॥ अवध्यः यम् शंखचूडः तव देवी इति निश्चयम् ॥ ३५॥
saṃgrāme dānava-indram ca haṃtum na kuru mānasam .. avadhyaḥ yam śaṃkhacūḍaḥ tava devī iti niścayam .. 35..
तच्छुत्वा वचनं देवी निःसृतं व्योममंडलात्॥ दानवानां बहूनां च मांसं च रुधिरं तथा ॥ ३६॥
तत् शुत्वा वचनम् देवी निःसृतम् व्योम-मंडलात्॥ दानवानाम् बहूनाम् च मांसम् च रुधिरम् तथा ॥ ३६॥
tat śutvā vacanam devī niḥsṛtam vyoma-maṃḍalāt.. dānavānām bahūnām ca māṃsam ca rudhiram tathā .. 36..
भुक्त्वा पीत्वा भद्रकाली शंकरांतिकमाययौ ॥ उवाच रणवृत्तांतं पौर्वापर्येण सक्रमम् ॥ ३७॥
भुक्त्वा पीत्वा भद्रकाली शंकर-अंतिकम् आययौ ॥ उवाच रण-वृत्तांतम् पौर्वापर्येण स क्रमम् ॥ ३७॥
bhuktvā pītvā bhadrakālī śaṃkara-aṃtikam āyayau .. uvāca raṇa-vṛttāṃtam paurvāparyeṇa sa kramam .. 37..
इति श्रीशिवमहापुराणे द्वि० रुद्रसं०पं०युद्धखंडे शंखचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८॥
इति श्री-शिव-महापुराणे द्वि-रुद्र-पं०-युद्ध-खंडे शंखचूड-वधे कालीयुद्धवर्णनम् नाम अष्टत्रिंशः अध्यायः ॥ ३८॥
iti śrī-śiva-mahāpurāṇe dvi-rudra-paṃ0-yuddha-khaṃḍe śaṃkhacūḍa-vadhe kālīyuddhavarṇanam nāma aṣṭatriṃśaḥ adhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In