| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ॥ तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम॥ १॥
श्रुत्वा काली-उक्तम् ईशानो किम् चकार किम् उक्तवान् ॥ तत् त्वम् वद महा-प्राज्ञ परम् कौतूहलम् मम॥ १॥
śrutvā kālī-uktam īśāno kim cakāra kim uktavān .. tat tvam vada mahā-prājña param kautūhalam mama.. 1..
सनत्कुमार उवाच।।
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ॥ महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम्॥ २॥
काली-उक्तम् वचनम् श्रुत्वा शंकरः परमेश्वरः ॥ महा-लीला-करः शंभुः जहास आश्वासयन् च ताम्॥ २॥
kālī-uktam vacanam śrutvā śaṃkaraḥ parameśvaraḥ .. mahā-līlā-karaḥ śaṃbhuḥ jahāsa āśvāsayan ca tām.. 2..
व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः॥ ययौ स्वयं च समरे स्वगणैस्सह शंकरः ॥ ३॥
व्योम-वाणीम् समाकर्ण्य तत्त्व-ज्ञान-विशारदः॥ ययौ स्वयम् च समरे स्व-गणैः सह शंकरः ॥ ३॥
vyoma-vāṇīm samākarṇya tattva-jñāna-viśāradaḥ.. yayau svayam ca samare sva-gaṇaiḥ saha śaṃkaraḥ .. 3..
महावृषभमारूढो वीरभद्रादिसंयुतः ॥ भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः ॥ ४॥
महावृषभम् आरूढः वीरभद्र-आदि-संयुतः ॥ भैरवैः क्षेत्रपालैः च स्व-समानैः समन्वितः ॥ ४॥
mahāvṛṣabham ārūḍhaḥ vīrabhadra-ādi-saṃyutaḥ .. bhairavaiḥ kṣetrapālaiḥ ca sva-samānaiḥ samanvitaḥ .. 4..
रणं प्राप्तो महेशश्च वीररूपं विधाय च ॥ विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः॥ ५॥
रणम् प्राप्तः महेशः च वीर-रूपम् विधाय च ॥ विरराज अधिकम् तत्र रुद्रः मूर्तः इव अन्तकः॥ ५॥
raṇam prāptaḥ maheśaḥ ca vīra-rūpam vidhāya ca .. virarāja adhikam tatra rudraḥ mūrtaḥ iva antakaḥ.. 5..
शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ॥ ननाम परया भक्त्या शिरसा दंडवद्भुवि ॥ ६॥
शंखचूडः शिवम् दृष्ट्वा विमानात् अवरुह्य सः ॥ ननाम परया भक्त्या शिरसा दंड-वत् भुवि ॥ ६॥
śaṃkhacūḍaḥ śivam dṛṣṭvā vimānāt avaruhya saḥ .. nanāma parayā bhaktyā śirasā daṃḍa-vat bhuvi .. 6..
तं प्रणम्य तु योगेन विमानमारुरोह सः ॥ तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ॥ ७॥
तम् प्रणम्य तु योगेन विमानम् आरुरोह सः ॥ तूर्णम् चकार सन्नाहम् धनुः जग्राह स इषुकम् ॥ ७॥
tam praṇamya tu yogena vimānam āruroha saḥ .. tūrṇam cakāra sannāham dhanuḥ jagrāha sa iṣukam .. 7..
शिवदानवयोर्युद्धं शतमब्दं बभूव ह ॥ बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा॥ ८॥
शिव-दानवयोः युद्धम् शतम् अब्दम् बभूव ह ॥ बाण-वर्षम् इव उग्रम् तत् वर्षतोः मोघयोः तदा॥ ८॥
śiva-dānavayoḥ yuddham śatam abdam babhūva ha .. bāṇa-varṣam iva ugram tat varṣatoḥ moghayoḥ tadā.. 8..
शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान्॥ चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः ॥ ९॥
शंखचूडः महा-वीरः शरान् चिक्षेप दारुणान्॥ चिच्छेद शंकरः तान् वै लीलया स्व-शर-उत्करैः ॥ ९॥
śaṃkhacūḍaḥ mahā-vīraḥ śarān cikṣepa dāruṇān.. ciccheda śaṃkaraḥ tān vai līlayā sva-śara-utkaraiḥ .. 9..
तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः॥ महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति॥ 2.5.39.१०॥
तद्-अंगेषु च शस्त्र-ओघैः ताडयामास कोपतः॥ महारुद्रः विरूपाक्षः दुष्ट-दण्डः सताम् गति॥ २।५।३९।१०॥
tad-aṃgeṣu ca śastra-oghaiḥ tāḍayāmāsa kopataḥ.. mahārudraḥ virūpākṣaḥ duṣṭa-daṇḍaḥ satām gati.. 2.5.39.10..
दानवो निशितं खड्गं चर्म चादाय वेगवान्॥ वृषं जघान शिरसि शिवस्य वरवाहनम्॥ ११॥
दानवः निशितम् खड्गम् चर्म च आदाय वेगवान्॥ वृषम् जघान शिरसि शिवस्य वर-वाहनम्॥ ११॥
dānavaḥ niśitam khaḍgam carma ca ādāya vegavān.. vṛṣam jaghāna śirasi śivasya vara-vāhanam.. 11..
ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ॥ खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम्॥ १२॥
ताडिते वाहने रुद्रः तम् क्षुरप्रेण लीलया ॥ खड्गम् चिच्छेद तस्य आशु चर्म च अपि महा-उज्ज्वलम्॥ १२॥
tāḍite vāhane rudraḥ tam kṣurapreṇa līlayā .. khaḍgam ciccheda tasya āśu carma ca api mahā-ujjvalam.. 12..
छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः॥ द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम् ॥ १३ ॥
छिन्ने असौ चर्मणि तदा शक्तिम् चिक्षेप सः असुरः॥ द्विधा चक्रे स्व-बाणेन हरः ताम् संमुख-आगताम् ॥ १३ ॥
chinne asau carmaṇi tadā śaktim cikṣepa saḥ asuraḥ.. dvidhā cakre sva-bāṇena haraḥ tām saṃmukha-āgatām .. 13 ..
कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ॥ मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ॥ १४॥
कोप-आध्मातः शंखचूडः चक्रम् चिक्षेप दानवः ॥ मुष्टि-पातेन तत् च अपि अचूर्णयत् सहसा हरः ॥ १४॥
kopa-ādhmātaḥ śaṃkhacūḍaḥ cakram cikṣepa dānavaḥ .. muṣṭi-pātena tat ca api acūrṇayat sahasā haraḥ .. 14..
गदामाविध्य तरसा संचिक्षेप हरं प्रति ॥ शंभुना सापि सहसा भिन्ना भस्मत्वमागता ॥ १५॥
गदाम् आविध्य तरसा संचिक्षेप हरम् प्रति ॥ शंभुना सा अपि सहसा भिन्ना भस्म-त्वम् आगता ॥ १५॥
gadām āvidhya tarasā saṃcikṣepa haram prati .. śaṃbhunā sā api sahasā bhinnā bhasma-tvam āgatā .. 15..
ततः परशुमादाय हस्तेन दानवेश्वरः ॥ धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः ॥ १६ ॥
ततस् परशुम् आदाय हस्तेन दानव-ईश्वरः ॥ धावति स्म हरम् वेगात् शंखचूडः क्रुधा आकुलः ॥ १६ ॥
tatas paraśum ādāya hastena dānava-īśvaraḥ .. dhāvati sma haram vegāt śaṃkhacūḍaḥ krudhā ākulaḥ .. 16 ..
समाहृत्य स्वबाणौघैरपातयत शंकरः ॥ द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ॥ १७॥
समाहृत्य स्व-बाण-ओघैः अपातयत शंकरः ॥ द्रुतम् परशु-हस्तम् तम् भू-तले लीलया असुरम् ॥ १७॥
samāhṛtya sva-bāṇa-oghaiḥ apātayata śaṃkaraḥ .. drutam paraśu-hastam tam bhū-tale līlayā asuram .. 17..
ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ॥ धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ॥ १८ ॥
ततस् क्षणेन संप्राप्य संज्ञाम् आरुह्य सत्-रथम् ॥ धृत-दिव्य-आयुध-शरः बभौ व्याप्य अखिलम् नभः ॥ १८ ॥
tatas kṣaṇena saṃprāpya saṃjñām āruhya sat-ratham .. dhṛta-divya-āyudha-śaraḥ babhau vyāpya akhilam nabhaḥ .. 18 ..
आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ॥ चकार ज्यारवं चापि धनुषो दुस्सहं हर ॥ १९॥
आयान्तम् तम् निरीक्ष्य एव डमरु-ध्वनि मा आदरात् ॥ चकार ज्या-रवम् च अपि धनुषः दुस्सहम् हर ॥ १९॥
āyāntam tam nirīkṣya eva ḍamaru-dhvani mā ādarāt .. cakāra jyā-ravam ca api dhanuṣaḥ dussaham hara .. 19..
पूरयामास ककुभः शृंगनादेन च प्रभुः ॥ स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ॥ 2.5.39.२० ॥
पूरयामास ककुभः शृंग-नादेन च प्रभुः ॥ स्वयम् जगर्ज गिरिशः त्रासयन् असुरान् तदा ॥ २।५।३९।२० ॥
pūrayāmāsa kakubhaḥ śṛṃga-nādena ca prabhuḥ .. svayam jagarja giriśaḥ trāsayan asurān tadā .. 2.5.39.20 ..
त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ॥ पूरयामास सहसा खं गां वसुदिशस्तथा॥ २१॥
त्याजित-इभ महा-गर्वैः महा-नादैः वृष-ईश्वरः ॥ पूरयामास सहसा खम् गाम् वसु-दिशः तथा॥ २१॥
tyājita-ibha mahā-garvaiḥ mahā-nādaiḥ vṛṣa-īśvaraḥ .. pūrayāmāsa sahasā kham gām vasu-diśaḥ tathā.. 21..
महाकालस्समुत्पत्या ताडयद्गां तथा नभः ॥ कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः॥ २२॥
महाकालः समुत्पत्य ताडयत् गाम् तथा नभः ॥ कराभ्याम् तद्-निनादेन क्षिप्ताः आसन् पुरारवाः॥ २२॥
mahākālaḥ samutpatya tāḍayat gām tathā nabhaḥ .. karābhyām tad-ninādena kṣiptāḥ āsan purāravāḥ.. 22..
अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ॥ भैरवोऽपि महानादं स चकार महाहवे ॥ २३॥
अट्ट-अट्टहासम् अशिवम् क्षेत्रपालः चकार ह ॥ भैरवः अपि महा-नादम् स चकार महा-आहवे ॥ २३॥
aṭṭa-aṭṭahāsam aśivam kṣetrapālaḥ cakāra ha .. bhairavaḥ api mahā-nādam sa cakāra mahā-āhave .. 23..
महाकोलाहलो जातो रणमध्ये भयंकरः॥ वीरशब्दो बभूवाथ गणमध्ये समंततः॥ २४॥
महा-कोलाहलः जातः रण-मध्ये भयंकरः॥ वीर-शब्दः बभूव अथ गण-मध्ये समंततः॥ २४॥
mahā-kolāhalaḥ jātaḥ raṇa-madhye bhayaṃkaraḥ.. vīra-śabdaḥ babhūva atha gaṇa-madhye samaṃtataḥ.. 24..
संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः॥ चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ॥ २५॥
संत्रेसुः दानवाः सर्वे तैः शब्दैः भय-दैः खरैः॥ चुकोप अतीव तत् श्रुत्वा दानव-इन्द्रः महा-बलः ॥ २५॥
saṃtresuḥ dānavāḥ sarve taiḥ śabdaiḥ bhaya-daiḥ kharaiḥ.. cukopa atīva tat śrutvā dānava-indraḥ mahā-balaḥ .. 25..
तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ॥ देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च॥ २६ ॥
तिष्ठ तिष्ठ इति दुष्ट-आत्मन् व्याजहार यदा हरः ॥ देवैः गणैः च तैः शीघ्रम् उक्तम् जय जय इति च॥ २६ ॥
tiṣṭha tiṣṭha iti duṣṭa-ātman vyājahāra yadā haraḥ .. devaiḥ gaṇaiḥ ca taiḥ śīghram uktam jaya jaya iti ca.. 26 ..
अथागत्य स दंभस्य तनयस्सुप्रतापवान् ॥ शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ॥ २७॥
अथा आगत्य स दंभस्य तनयः सु प्रतापवान् ॥ शक्तिम् चिक्षेप रुद्राय ज्वाला-माला-अति भीषणाम् ॥ २७॥
athā āgatya sa daṃbhasya tanayaḥ su pratāpavān .. śaktim cikṣepa rudrāya jvālā-mālā-ati bhīṣaṇām .. 27..
वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ॥ निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया॥ २८॥
वह्नि-कूट-प्रभा यांती क्षेत्रपालेन सत्वरम् ॥ निरस्ता आगत्य सा आजौ वै मुख-उत्पन्न-महा-उल्कया॥ २८॥
vahni-kūṭa-prabhā yāṃtī kṣetrapālena satvaram .. nirastā āgatya sā ājau vai mukha-utpanna-mahā-ulkayā.. 28..
पुनः प्रववृते युद्धं शिवदानवयोर्महत् ॥ चकंपे धरणी द्यौश्च सनगाब्धिजलाशया॥ २९॥
पुनर् प्रववृते युद्धम् शिव-दानवयोः महत् ॥ चकंपे धरणी द्यौः च स नग-अब्धि-जलाशया॥ २९॥
punar pravavṛte yuddham śiva-dānavayoḥ mahat .. cakaṃpe dharaṇī dyauḥ ca sa naga-abdhi-jalāśayā.. 29..
दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च॥ सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा ॥ 2.5.39.३०॥
दांभि-मुक्तात् शरान् शंभुः शरान् तद्-प्रहितान् स च॥ सहस्रशस् शरैः उग्रैः चिच्छेद शतशस् तदा ॥ २।५।३९।३०॥
dāṃbhi-muktāt śarān śaṃbhuḥ śarān tad-prahitān sa ca.. sahasraśas śaraiḥ ugraiḥ ciccheda śataśas tadā .. 2.5.39.30..
ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ॥ तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ॥ ३१॥
ततस् शंभुः त्रिशूलेन संकुद्धः तम् जघान ह ॥ तद्-प्रहारम् अ सह्य आशु कौ पपात स मूर्च्छितः ॥ ३१॥
tatas śaṃbhuḥ triśūlena saṃkuddhaḥ tam jaghāna ha .. tad-prahāram a sahya āśu kau papāta sa mūrcchitaḥ .. 31..
ततः क्षणेन संप्राप संज्ञां स च तदासुरः ॥ आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ॥ ३२॥
ततस् क्षणेन संप्राप संज्ञाम् स च तदा असुरः ॥ आजघान शरैः रुद्रम् तान् सर्वान् आत्त-कार्मुकः ॥ ३२॥
tatas kṣaṇena saṃprāpa saṃjñām sa ca tadā asuraḥ .. ājaghāna śaraiḥ rudram tān sarvān ātta-kārmukaḥ .. 32..
बाहूनागयुतं कृत्वा छादयामास शंकरम् ॥ चक्रायुतेन सहसा शंखचूडः प्रतापवान्॥ ३३॥
बाहूनाग-युतम् कृत्वा छादयामास शंकरम् ॥ चक्र-अयुतेन सहसा शंखचूडः प्रतापवान्॥ ३३॥
bāhūnāga-yutam kṛtvā chādayāmāsa śaṃkaram .. cakra-ayutena sahasā śaṃkhacūḍaḥ pratāpavān.. 33..
ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ॥ तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम्॥ ३४॥
ततस् दुर्गापतिः क्रुद्धः रुद्रः दुर्ग-आर्ति-नाशनः ॥ तानि चक्राणि चिच्छेद स्व-शरैः उत्तमैः द्रुतम्॥ ३४॥
tatas durgāpatiḥ kruddhaḥ rudraḥ durga-ārti-nāśanaḥ .. tāni cakrāṇi ciccheda sva-śaraiḥ uttamaiḥ drutam.. 34..
ततो वेगेन सहसा गदामादाय दानवः ॥ अभ्यधावत वै हंतुं बहुसेनावृतो हरम् ॥ ३५॥
ततस् वेगेन सहसा गदाम् आदाय दानवः ॥ अभ्यधावत वै हंतुम् बहु-सेना-वृतः हरम् ॥ ३५॥
tatas vegena sahasā gadām ādāya dānavaḥ .. abhyadhāvata vai haṃtum bahu-senā-vṛtaḥ haram .. 35..
गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ॥ शितधारेण संक्रुद्धो दुष्टगर्वापहारकः ॥ ३६॥
गदाम् चिच्छेद तस्य अश्व-आपततः सः असिना हरः ॥ शित-धारेण संक्रुद्धः दुष्ट-गर्व-अपहारकः ॥ ३६॥
gadām ciccheda tasya aśva-āpatataḥ saḥ asinā haraḥ .. śita-dhāreṇa saṃkruddhaḥ duṣṭa-garva-apahārakaḥ .. 36..
छिन्नायां स्वगदायां च चुकोपातीव दानवः ॥ शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत्॥ ३७॥
छिन्नायाम् स्व-गदायाम् च चुकोप अतीव दानवः ॥ शूलम् जग्राह तेजस्वी परेषाम् दुस्सहम् ज्वलत्॥ ३७॥
chinnāyām sva-gadāyām ca cukopa atīva dānavaḥ .. śūlam jagrāha tejasvī pareṣām dussaham jvalat.. 37..
सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ॥ स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ॥ ३८ ॥
सुदर्शनम् शूल-हस्तम् आयांत दानव-ईश्वरम् ॥ स्व-त्रिशूलेन विव्याध हृदि तम् वेगतः हरः ॥ ३८ ॥
sudarśanam śūla-hastam āyāṃta dānava-īśvaram .. sva-triśūlena vivyādha hṛdi tam vegataḥ haraḥ .. 38 ..
त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ॥ तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान् ॥ ३९॥
त्रिशूल-भिन्न-हृदयात् निष्क्रांतः पुरुषः परः ॥ तिष्ठ तिष्ठ इति च उवाच शंखचूडस्य वीर्यवान् ॥ ३९॥
triśūla-bhinna-hṛdayāt niṣkrāṃtaḥ puruṣaḥ paraḥ .. tiṣṭha tiṣṭha iti ca uvāca śaṃkhacūḍasya vīryavān .. 39..
निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ॥ चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि ॥ 2.5.39.४० ॥
निष्क्रामतः हि तस्य आशु प्रहस्य स्वनवत् ततस् ॥ चिच्छेद च शिरः भीम मसि-नासः अपतत् भुवि ॥ २।५।३९।४० ॥
niṣkrāmataḥ hi tasya āśu prahasya svanavat tatas .. ciccheda ca śiraḥ bhīma masi-nāsaḥ apatat bhuvi .. 2.5.39.40 ..
ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ॥ असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा॥ ४१ ॥
ततस् कालीम् चखाद उग्रम् दंष्ट्रा-क्षुण्ण-शिरोधरान् ॥ असुरान् तान् बहून् क्रोधात् प्रसार्य स्व-मुखम् तदा॥ ४१ ॥
tatas kālīm cakhāda ugram daṃṣṭrā-kṣuṇṇa-śirodharān .. asurān tān bahūn krodhāt prasārya sva-mukham tadā.. 41 ..
क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ॥ केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ॥ ४२ ॥
क्षेत्रपालः चखाद अन्यान् बहून् दैत्यान् क्रुधा आकुलः ॥ केचिद् नेशुः भैरव-अस्त्र-छिन्नाः भिन्नाः तथा अपरे ॥ ४२ ॥
kṣetrapālaḥ cakhāda anyān bahūn daityān krudhā ākulaḥ .. kecid neśuḥ bhairava-astra-chinnāḥ bhinnāḥ tathā apare .. 42 ..
वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ॥ नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान् ॥ ४३ ॥
वीरभद्रः अपरान् धीमान् बहून् क्रोधात् अनाशयत् ॥ नन्दीश्वरः जघान अन्यान् बहून् अमर-मर्दकान् ॥ ४३ ॥
vīrabhadraḥ aparān dhīmān bahūn krodhāt anāśayat .. nandīśvaraḥ jaghāna anyān bahūn amara-mardakān .. 43 ..
एवं बहुगणा वीरास्तदा संनह्य कोपतः ॥ व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान् ॥ ४४ ॥
एवम् बहु-गणाः वीराः तदा संनह्य कोपतः ॥ व्यनाशयन् बहून् दैत्यान् असुरान् देव मर्दकान् ॥ ४४ ॥
evam bahu-gaṇāḥ vīrāḥ tadā saṃnahya kopataḥ .. vyanāśayan bahūn daityān asurān deva mardakān .. 44 ..
इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ॥ विद्रुताश्चापरे वीरा बहवो भयकातराः ॥
इत्थम् बहुतरम् तत्र तस्य सैन्यम् ननाश तत् ॥ विद्रुताः च अपरे वीराः बहवः भय-कातराः ॥
ittham bahutaram tatra tasya sainyam nanāśa tat .. vidrutāḥ ca apare vīrāḥ bahavaḥ bhaya-kātarāḥ ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शंखचूडसैन्यवधवर्णनम् नाम नवत्रिंशः अध्यायः ॥ ३९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍasainyavadhavarṇanam nāma navatriṃśaḥ adhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In