| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् ॥ एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ १ ॥
असृजत् च महा-तेजाः पुरुषम् स्व-आत्म-संभवम् ॥ एकम् माया-मयम् तेषाम् धर्म-विघ्न-अर्थम् अच्युतः ॥ १ ॥
asṛjat ca mahā-tejāḥ puruṣam sva-ātma-saṃbhavam .. ekam māyā-mayam teṣām dharma-vighna-artham acyutaḥ .. 1 ..
मुंडिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ॥ दधानं पुंजिकां हस्ते चालयंतं पदेपदे ॥ २ ॥
मुंडिनम् म्लान-वस्त्रम् च गुंफि-पात्र-समन्वितम् ॥ दधानम् पुंजिकाम् हस्ते चालयंतम् पदे पदे ॥ २ ॥
muṃḍinam mlāna-vastram ca guṃphi-pātra-samanvitam .. dadhānam puṃjikām haste cālayaṃtam pade pade .. 2 ..
वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ॥ धर्मेति व्याहरंतं हि वाचा विक्लवया मुनिम् ॥ ३ ॥
वस्त्र-युक्तम् तथा हस्तम् क्षीयमाणम् मुखे सदा ॥ धर्म इति व्याहरंतम् हि वाचा विक्लवया मुनिम् ॥ ३ ॥
vastra-yuktam tathā hastam kṣīyamāṇam mukhe sadā .. dharma iti vyāharaṃtam hi vācā viklavayā munim .. 3 ..
स नमस्कृत्य विष्णुं तं तत्पुरस्स स्थितोऽथ वै ॥ उवाच वचनं तत्र हरिं स प्रांजलिस्तदा ॥ ४ ॥
स नमस्कृत्य विष्णुम् तम् तद्-पुरस् स स्थितः अथ वै ॥ उवाच वचनम् तत्र हरिम् स प्रांजलिः तदा ॥ ४ ॥
sa namaskṛtya viṣṇum tam tad-puras sa sthitaḥ atha vai .. uvāca vacanam tatra harim sa prāṃjaliḥ tadā .. 4 ..
अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ॥ कानि नामानि मे देव स्थानं वापि वद प्रभो ॥ ५ ॥
अरि-हन् अच्युतम् पूज्यम् किम् करोमि तत् आदिश ॥ कानि नामानि मे देव स्थानम् वा अपि वद प्रभो ॥ ५ ॥
ari-han acyutam pūjyam kim karomi tat ādiśa .. kāni nāmāni me deva sthānam vā api vada prabho .. 5 ..
इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ॥ प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ॥ ६ ॥
इति एवम् भगवान् विष्णुः श्रुत्वा तस्य शुभम् वचः ॥ प्रसन्न-मानसः भूत्वा वचनम् च इदम् अब्रवीत् ॥ ६ ॥
iti evam bhagavān viṣṇuḥ śrutvā tasya śubham vacaḥ .. prasanna-mānasaḥ bhūtvā vacanam ca idam abravīt .. 6 ..
।। विष्णुरुवाच ।।
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ॥ मदंगज महाप्राज्ञ मद्रूपस्त्वं न संशयः ॥ ७॥
यद्-अर्थम् निर्मितः असि त्वम् निबोध कथयामि ते ॥ मद्-अंगज महा-प्राज्ञ मद्-रूपः त्वम् न संशयः ॥ ७॥
yad-artham nirmitaḥ asi tvam nibodha kathayāmi te .. mad-aṃgaja mahā-prājña mad-rūpaḥ tvam na saṃśayaḥ .. 7..
ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ॥ मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥ ८ ॥
मम अंगात् च समुत्पन्नः मद्-कार्यम् कर्तुम् अर्हसि ॥ मदीयः त्वम् सदा पूज्यः भविष्यति न संशयः ॥ ८ ॥
mama aṃgāt ca samutpannaḥ mad-kāryam kartum arhasi .. madīyaḥ tvam sadā pūjyaḥ bhaviṣyati na saṃśayaḥ .. 8 ..
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ॥ स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥ ९ ॥
अरि-हन् नाम ते स्यात् तु हि अन्यानि न शुभानि च ॥ स्थानम् वक्ष्यामि ते पश्चात् शृणु प्रस्तुतम् आदरात् ॥ ९ ॥
ari-han nāma te syāt tu hi anyāni na śubhāni ca .. sthānam vakṣyāmi te paścāt śṛṇu prastutam ādarāt .. 9 ..
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ॥ श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम् ॥ 2.5.4.१० ॥
मायिन् माया-मयम् शास्त्रम् तत् षोडश-सहस्रकम् ॥ श्रौत-स्मार्त-विरुद्धम् च वर्ण-आश्रम-विवर्जितम् ॥ २।५।४।१० ॥
māyin māyā-mayam śāstram tat ṣoḍaśa-sahasrakam .. śrauta-smārta-viruddham ca varṇa-āśrama-vivarjitam .. 2.5.4.10 ..
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ॥ रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥ ११ ॥
अपभ्रंश-मयम् शास्त्रम् कर्म-वाद-मयम् तथा ॥ रचय इति प्रयत्नेन तद्-विस्तारः भविष्यति ॥ ११ ॥
apabhraṃśa-mayam śāstram karma-vāda-mayam tathā .. racaya iti prayatnena tad-vistāraḥ bhaviṣyati .. 11 ..
ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ॥ माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥ १२ ॥
ददामि तव निर्माणे सामर्थ्यम् तत् भविष्यति ॥ माया च विविधा शीघ्रम् त्वद्-अधीना भविष्यति ॥ १२ ॥
dadāmi tava nirmāṇe sāmarthyam tat bhaviṣyati .. māyā ca vividhā śīghram tvad-adhīnā bhaviṣyati .. 12 ..
तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ॥ नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ॥ १३ ॥
तत् श्रुत्वा वचनम् तस्य हरेः च परमात्मनः ॥ नमस्कृत्य प्रत्युवाच स मायी तम् जनार्दनम् ॥ १३ ॥
tat śrutvā vacanam tasya hareḥ ca paramātmanaḥ .. namaskṛtya pratyuvāca sa māyī tam janārdanam .. 13 ..
मुण्ड्युवाच ।।
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ॥ त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ॥ १४॥
यत् कर्तव्यम् मया देव द्रुतम् आदिश तत् प्रभो ॥ त्वद्-आज्ञया अखिलम् कर्म सफलः च भविष्यति ॥ १४॥
yat kartavyam mayā deva drutam ādiśa tat prabho .. tvad-ājñayā akhilam karma saphalaḥ ca bhaviṣyati .. 14..
सनत्कुमार उवाच ।।
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ॥ इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ॥ १५॥
इति उक्त्वा पाठयामास शास्त्रम् माया-मयम् तथा ॥ इह एव स्वर्ग-नरक-प्रत्ययः न अन्यथा पुनर् ॥ १५॥
iti uktvā pāṭhayāmāsa śāstram māyā-mayam tathā .. iha eva svarga-naraka-pratyayaḥ na anyathā punar .. 15..
तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदांबुजम्॥ मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥ १६॥
तम् उवाच पुनर् विष्णुः स्मृत्वा शिव-पद-अंबुजम्॥ मोहनीयाः इमे दैत्याः सर्वे त्रिपुर-वासिनः ॥ १६॥
tam uvāca punar viṣṇuḥ smṛtvā śiva-pada-aṃbujam.. mohanīyāḥ ime daityāḥ sarve tripura-vāsinaḥ .. 16..
कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ॥ मदाज्ञया न दोषस्ते भविष्यति महामते ॥ १७ ॥
कार्याः ते दीक्षिताः नूनम् पाठनीयाः प्रयत्नतः ॥ मद्-आज्ञया न दोषः ते भविष्यति महामते ॥ १७ ॥
kāryāḥ te dīkṣitāḥ nūnam pāṭhanīyāḥ prayatnataḥ .. mad-ājñayā na doṣaḥ te bhaviṣyati mahāmate .. 17 ..
धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ॥ अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ॥ १८ ॥
धर्माः तत्र प्रकाशन्ते श्रौत-स्मार्त्ताः न संशयः ॥ अनया विद्यया सर्वे स्फोटनीयाः ध्रुवम् यते ॥ १८ ॥
dharmāḥ tatra prakāśante śrauta-smārttāḥ na saṃśayaḥ .. anayā vidyayā sarve sphoṭanīyāḥ dhruvam yate .. 18 ..
गंतुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ॥ तमोधर्मं संप्रकाश्य नाशयस्व पुरत्रयम् ॥ १९ ॥
गंतुम् अर्हसि नाश-अर्थम् मुण्डिन् त्रिपुर-वासिनाम् ॥ तमः-धर्मम् संप्रकाश्य नाशयस्व पुरत्रयम् ॥ १९ ॥
gaṃtum arhasi nāśa-artham muṇḍin tripura-vāsinām .. tamaḥ-dharmam saṃprakāśya nāśayasva puratrayam .. 19 ..
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ॥ स्थातव्यं च स्वधर्मेण कलिर्यावत्समा व्रजेत् ॥ 2.5.4.२० ॥
ततस् च एव पुनर् गत्वा मरु-स्थल्याम् त्वया विभो ॥ स्थातव्यम् च स्वधर्मेण कलिः यावत् समाः व्रजेत् ॥ २।५।४।२० ॥
tatas ca eva punar gatvā maru-sthalyām tvayā vibho .. sthātavyam ca svadharmeṇa kaliḥ yāvat samāḥ vrajet .. 2.5.4.20 ..
प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ॥ शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥ २१ ॥
प्रवृत्ते तु युगे तस्मिन् स्वीयः धर्मः प्रकाश्यताम् ॥ शिष्यैः च प्रतिशिष्यैः च वर्तनीयः त्वया पुनर् ॥ २१ ॥
pravṛtte tu yuge tasmin svīyaḥ dharmaḥ prakāśyatām .. śiṣyaiḥ ca pratiśiṣyaiḥ ca vartanīyaḥ tvayā punar .. 21 ..
मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ॥ मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ॥ २२ ॥
मद्-आज्ञया भवत्-धर्मः विस्तारम् यास्यति ध्रुवम् ॥ मद्-अनुज्ञा-परः नित्यम् गतिम् प्राप्स्यसि मामकीम् ॥ २२ ॥
mad-ājñayā bhavat-dharmaḥ vistāram yāsyati dhruvam .. mad-anujñā-paraḥ nityam gatim prāpsyasi māmakīm .. 22 ..
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ॥ शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः ॥ २३॥
एवम् आज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ॥ शासनात् देवदेवस्य हृदा तु अंतर्दधे हरिः ॥ २३॥
evam ājñā tadā dattā viṣṇunā prabhaviṣṇunā .. śāsanāt devadevasya hṛdā tu aṃtardadhe hariḥ .. 23..
ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ॥ यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ॥ २४ ॥
ततस् स मुंडी परिपालयन् हरेः आज्ञाम् तथा निर्मितवान् च शिष्यान् ॥ यथास्वरूपम् चतुरः तदानीम् माया-मयम् शास्त्रम् अपाठयत् स्वयम् ॥ २४ ॥
tatas sa muṃḍī paripālayan hareḥ ājñām tathā nirmitavān ca śiṣyān .. yathāsvarūpam caturaḥ tadānīm māyā-mayam śāstram apāṭhayat svayam .. 24 ..
यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ॥ नमस्कृत्य स्थितास्तत्र हरये परमात्मने ॥ २५ ॥
यथा स्वयम् तथा ते च चत्वारः मुंडिनः शुभाः ॥ नमस्कृत्य स्थिताः तत्र हरये परमात्मने ॥ २५ ॥
yathā svayam tathā te ca catvāraḥ muṃḍinaḥ śubhāḥ .. namaskṛtya sthitāḥ tatra haraye paramātmane .. 25 ..
हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ॥ उवाच परमप्रीतश्शिवाज्ञापरिपालकः ॥ २६ ॥
हरिः च अपि मुनेः तत्र चतुरः तान् तदा स्वयम् ॥ उवाच परम-प्रीतः शिव-आज्ञा-परिपालकः ॥ २६ ॥
hariḥ ca api muneḥ tatra caturaḥ tān tadā svayam .. uvāca parama-prītaḥ śiva-ājñā-paripālakaḥ .. 26 ..
यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ॥ धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः॥ २७॥
यथा गुरुः तथा यूयम् भविष्यथ मद्-आज्ञया ॥ धन्याः स्थ सत्-गतिम् इह संप्राप्स्यथ न संशयः॥ २७॥
yathā guruḥ tathā yūyam bhaviṣyatha mad-ājñayā .. dhanyāḥ stha sat-gatim iha saṃprāpsyatha na saṃśayaḥ.. 27..
चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ॥ हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः ॥ २८॥
चत्वारः मुंडिनः ते अथ धर्मम् पाषंडम् आश्रिताः ॥ हस्ते पात्रम् दधानाः च तुंड-वस्त्रस्य धारकाः ॥ २८॥
catvāraḥ muṃḍinaḥ te atha dharmam pāṣaṃḍam āśritāḥ .. haste pātram dadhānāḥ ca tuṃḍa-vastrasya dhārakāḥ .. 28..
मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ॥ धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः ॥ २९॥
मलिनानि एव वासांसि धारयंतः हि अभाषिणः ॥ धर्मः लाभः परम् तत्त्वम् वदंतः तु अति हर्षतः ॥ २९॥
malināni eva vāsāṃsi dhārayaṃtaḥ hi abhāṣiṇaḥ .. dharmaḥ lābhaḥ param tattvam vadaṃtaḥ tu ati harṣataḥ .. 29..
मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ॥ शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ॥ 2.5.4.३० ॥
मार्जनीम् ध्रियमाणाः च वस्त्र-खंड-विनिर्मिताम् ॥ शनैस् शनैस् चलन्तः हि जीव-हिंसा-भयात् ध्रुवम् ॥ २।५।४।३० ॥
mārjanīm dhriyamāṇāḥ ca vastra-khaṃḍa-vinirmitām .. śanais śanais calantaḥ hi jīva-hiṃsā-bhayāt dhruvam .. 2.5.4.30 ..
ते सर्वे च तदा देवं भगवंतं मुदान्विताः ॥ नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ॥ ३१ ॥
ते सर्वे च तदा देवम् भगवन्तम् मुदा अन्विताः ॥ नमस्कृत्य पुनर् तत्र मुने तस्थुः तद्-अग्रतस् ॥ ३१ ॥
te sarve ca tadā devam bhagavantam mudā anvitāḥ .. namaskṛtya punar tatra mune tasthuḥ tad-agratas .. 31 ..
हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ॥ अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ॥ ३२ ॥
हरिणा च तदा हस्ते धृत्वा च गुरवा ईर्पिताः ॥ अभ्यधायि च सु प्रीत्या तद्-नाम अपि विशेषतः ॥ ३२ ॥
hariṇā ca tadā haste dhṛtvā ca guravā īrpitāḥ .. abhyadhāyi ca su prītyā tad-nāma api viśeṣataḥ .. 32 ..
यथा त्वं च तथैवैते मदीया वै न संशयः ॥ आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३ ॥
यथा त्वम् च तथा एव एते मदीयाः वै न संशयः ॥ आदि-रूपम् च तत् नाम पूज्य-त्वात् पूज्यः उच्यते ॥ ३३ ॥
yathā tvam ca tathā eva ete madīyāḥ vai na saṃśayaḥ .. ādi-rūpam ca tat nāma pūjya-tvāt pūjyaḥ ucyate .. 33 ..
ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ॥ इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ॥ ३४ ॥
ऋषिः यतिः तथा कीर्य-औपाध्यायः इति स्वयम् ॥ इमानि अपि तु नामानि प्रसिद्धानि भवन्तु वः ॥ ३४ ॥
ṛṣiḥ yatiḥ tathā kīrya-aupādhyāyaḥ iti svayam .. imāni api tu nāmāni prasiddhāni bhavantu vaḥ .. 34 ..
ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ॥ अरिहन्निति तन्नामध्येयं पापप्रणाशनम् ॥ ३५ ॥
मम अपि च भवद्भिः च नाम ग्राह्यम् शुभम् पुनर् ॥ अरि-हन् इति तत् नाम अध्येयम् पाप-प्रणाशनम् ॥ ३५ ॥
mama api ca bhavadbhiḥ ca nāma grāhyam śubham punar .. ari-han iti tat nāma adhyeyam pāpa-praṇāśanam .. 35 ..
भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ॥ लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ॥ ३६ ॥
भवद्भिः च एव कर्तव्यम् कार्यम् लोक-सुख-आवहम् ॥ लोक-अनुकूलम् चरताम् भविष्यति उत्तमा गतिः ॥ ३६ ॥
bhavadbhiḥ ca eva kartavyam kāryam loka-sukha-āvaham .. loka-anukūlam caratām bhaviṣyati uttamā gatiḥ .. 36 ..
।। सनत्कुमार उवाच ।।
ततः प्रणम्य तं मायी शिष्ययुक्तस्स्वयं तदा ॥ जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ॥ ३७ ॥
ततस् प्रणम्य तम् मायी शिष्य-युक्तः स्वयम् तदा ॥ जगाम त्रिपुरम् सद्यस् शिव-इच्छा-कारिणम् मुमा ॥ ३७ ॥
tatas praṇamya tam māyī śiṣya-yuktaḥ svayam tadā .. jagāma tripuram sadyas śiva-icchā-kāriṇam mumā .. 37 ..
प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ॥ महामायाविना तेन ऋषिर्मायां तदाकरोत् ॥ ३८॥
प्रविश्य तत् पुरम् तूर्णम् विष्णुना नोदितः वशी ॥ महा-मायाविना तेन ऋषिः मायाम् तदा अकरोत् ॥ ३८॥
praviśya tat puram tūrṇam viṣṇunā noditaḥ vaśī .. mahā-māyāvinā tena ṛṣiḥ māyām tadā akarot .. 38..
नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितितदा ॥ मायां प्रवर्तयामास मायिनामपि मोहिनीम् ॥ ३९॥
नगर-उपवने कृत्वा शिष्यैः युक्तः स्थिति-तदा ॥ मायाम् प्रवर्तयामास मायिनाम् अपि मोहिनीम् ॥ ३९॥
nagara-upavane kṛtvā śiṣyaiḥ yuktaḥ sthiti-tadā .. māyām pravartayāmāsa māyinām api mohinīm .. 39..
शिवार्चनप्रभावेण तन्माया सहसा मुने॥ त्रिपुरे न चचालाशु निर्विण्णोभूत्तदा यतिः ॥ 2.5.4.४० ॥
शिव-अर्चन-प्रभावेण तद्-माया सहसा मुने॥ त्रिपुरे न चचाल आशु निर्विण्णः भूत् तदा यतिः ॥ २।५।४।४० ॥
śiva-arcana-prabhāveṇa tad-māyā sahasā mune.. tripure na cacāla āśu nirviṇṇaḥ bhūt tadā yatiḥ .. 2.5.4.40 ..
अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ॥ नष्टोत्साहो विचेतस्को हृदयेन विदूयता ॥ ४१ ॥
अथ विष्णुम् स सस्मार तुष्टाव च हृदा बहु ॥ नष्ट-उत्साहः विचेतस्कः हृदयेन विदूयता ॥ ४१ ॥
atha viṣṇum sa sasmāra tuṣṭāva ca hṛdā bahu .. naṣṭa-utsāhaḥ vicetaskaḥ hṛdayena vidūyatā .. 41 ..
तत्स्मृतस्त्वरितं विष्णुस्सस्मार शंकरं हृदि ॥ प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ॥ ॥ ४२ ॥
तद्-स्मृतः त्वरितम् विष्णुः सस्मार शंकरम् हृदि ॥ प्राप्य आज्ञाम् मनसा तस्य स्मृतवान् नारदम् द्रुतम् ॥ ॥ ४२ ॥
tad-smṛtaḥ tvaritam viṣṇuḥ sasmāra śaṃkaram hṛdi .. prāpya ājñām manasā tasya smṛtavān nāradam drutam .. .. 42 ..
स्मृतमात्रेण विष्णोश्च नारदस्समुपस्थितः ॥ नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्सांजलिस्तदा ॥ ४३॥
स्मृत-मात्रेण विष्णोः च नारदः समुपस्थितः ॥ नत्वा स्तुत्वा पुरस् तस्य स्थितः भूत् स अंजलिः तदा ॥ ४३॥
smṛta-mātreṇa viṣṇoḥ ca nāradaḥ samupasthitaḥ .. natvā stutvā puras tasya sthitaḥ bhūt sa aṃjaliḥ tadā .. 43..
अथ तं नारदं प्राह विष्णुर्मुनिमतां वरः ॥ लोकोपकारनिरतो देवकार्यकरस्सदा ॥ ४४॥
अथ तम् नारदम् प्राह विष्णुः मुनिमताम् वरः ॥ लोक-उपकार-निरतः देव-कार्य-करः सदा ॥ ४४॥
atha tam nāradam prāha viṣṇuḥ munimatām varaḥ .. loka-upakāra-nirataḥ deva-kārya-karaḥ sadā .. 44..
शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ॥ ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ॥ ४५ ॥
शिव-आज्ञया उच्यते तात गच्छ त्वम् त्रिपुरम् द्रुतम् ॥ ऋषिः तत्र गतः शिष्यैः मोह-अर्थम् तद्-सु वासिनाम् ॥ ४५ ॥
śiva-ājñayā ucyate tāta gaccha tvam tripuram drutam .. ṛṣiḥ tatra gataḥ śiṣyaiḥ moha-artham tad-su vāsinām .. 45 ..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ॥ गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः॥ ४६॥
इति आकर्ण्य वचः तस्य नारदः मुनि-सत्तमः ॥ गतः तत्र द्रुतम् यत्र सः ऋषिः मायिनाम् वरः॥ ४६॥
iti ākarṇya vacaḥ tasya nāradaḥ muni-sattamaḥ .. gataḥ tatra drutam yatra saḥ ṛṣiḥ māyinām varaḥ.. 46..
नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः॥ प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥ ४७ ॥
नारदः अपि तथा मायी नियोगात् मायिनः प्रभोः॥ प्रविश्य तत् पुरम् तेन मायिना सह दीक्षितः ॥ ४७ ॥
nāradaḥ api tathā māyī niyogāt māyinaḥ prabhoḥ.. praviśya tat puram tena māyinā saha dīkṣitaḥ .. 47 ..
ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ॥ क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ॥ ४८ ॥
ततस् च नारदः गत्वा त्रिपुर-अधीश-सन्निधौ ॥ क्षेमप्रश्न-आदिकम् कृत्वा राज्ञे सर्वम् न्यवेदयत् ॥ ४८ ॥
tatas ca nāradaḥ gatvā tripura-adhīśa-sannidhau .. kṣemapraśna-ādikam kṛtvā rājñe sarvam nyavedayat .. 48 ..
नारद उवाच ॥ कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ॥ सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ॥ ४९ ॥
नारदः उवाच ॥ कश्चिद् समागतः च अत्र यतिः धर्म-परायणः ॥ सर्व-विद्या-प्रकृष्टः हि वेद-विद्या-पर-अन्वितः ॥ ४९ ॥
nāradaḥ uvāca .. kaścid samāgataḥ ca atra yatiḥ dharma-parāyaṇaḥ .. sarva-vidyā-prakṛṣṭaḥ hi veda-vidyā-para-anvitaḥ .. 49 ..
दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः॥ वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम् ॥ 2.5.4.५० ॥
दृष्ट्वा च बहवः धर्माः न एतेन सदृशाः पुनर्॥ वयम् सु दीक्षिताः च अत्र दृष्ट्वा धर्मम् सनातनम् ॥ २।५।४।५० ॥
dṛṣṭvā ca bahavaḥ dharmāḥ na etena sadṛśāḥ punar.. vayam su dīkṣitāḥ ca atra dṛṣṭvā dharmam sanātanam .. 2.5.4.50 ..
तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ॥ तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥ ५१ ॥
तव इच्छा यदि वर्तेत तद्-धर्मे दैत्य-सत्तम ॥ तद्-धर्मस्य महा-राज ग्राह्या दीक्षा त्वया पुनर् ॥ ५१ ॥
tava icchā yadi varteta tad-dharme daitya-sattama .. tad-dharmasya mahā-rāja grāhyā dīkṣā tvayā punar .. 51 ..
सनत्कुमार उवाच ।।
तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ॥ विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ॥ ५२ ॥
तदीयम् स वचः श्रुत्वा महत् अर्थ-सु गर्भितम् ॥ विस्मितः हृदि दैत्य-ईशः जगौ तत्र विमोहितः ॥ ५२ ॥
tadīyam sa vacaḥ śrutvā mahat artha-su garbhitam .. vismitaḥ hṛdi daitya-īśaḥ jagau tatra vimohitaḥ .. 52 ..
नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः ॥ इत्येवं च विदित्वा वै जगाम स्वयमेव ह ॥ ५३ ॥
नारदः दीक्षितः यस्मात् वयम् दीक्षाम् अवाप्नुमः ॥ इति एवम् च विदित्वा वै जगाम स्वयम् एव ह ॥ ५३ ॥
nāradaḥ dīkṣitaḥ yasmāt vayam dīkṣām avāpnumaḥ .. iti evam ca viditvā vai jagāma svayam eva ha .. 53 ..
तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा ॥ उवाच वचनं तस्मै नमस्कृत्य महात्मने ॥ ५४ ॥
तद्-रूपम् च तदा दृष्ट्वा मोहितः मायया तथा ॥ उवाच वचनम् तस्मै नमस्कृत्य महात्मने ॥ ५४ ॥
tad-rūpam ca tadā dṛṣṭvā mohitaḥ māyayā tathā .. uvāca vacanam tasmai namaskṛtya mahātmane .. 54 ..
त्रिपुराधिप उवाच ।।
दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ॥ अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ॥ ५५ ॥
दीक्षा देया त्वया मह्यम् निर्मल-आशय भो ऋषे ॥ अहम् शिष्यः भविष्यामि सत्यम् सत्यम् न संशयः ॥ ५५ ॥
dīkṣā deyā tvayā mahyam nirmala-āśaya bho ṛṣe .. aham śiṣyaḥ bhaviṣyāmi satyam satyam na saṃśayaḥ .. 55 ..
इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ॥ प्रत्युवाच सुयत्नेन ऋषिस्स च सनातनः ॥ ५६ ॥
इति एवम् तु वचः श्रुत्वा दैत्य-राजस्य निर्मलम् ॥ प्रत्युवाच सु यत्नेन ऋषिः स च सनातनः ॥ ५६ ॥
iti evam tu vacaḥ śrutvā daitya-rājasya nirmalam .. pratyuvāca su yatnena ṛṣiḥ sa ca sanātanaḥ .. 56 ..
मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ॥ तदा देया मया दीक्षा नान्यथा कोटियत्नतः ॥ ५७ ॥
मदीया करणीया स्यात् यत् याज्ञा दैत्य-सत्तम ॥ तदा देया मया दीक्षा ना अन्यथा कोटि-यत्नतः ॥ ५७ ॥
madīyā karaṇīyā syāt yat yājñā daitya-sattama .. tadā deyā mayā dīkṣā nā anyathā koṭi-yatnataḥ .. 57 ..
इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ॥ उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः ॥ ५८ ॥
इति एवम् तु वचः श्रुत्वा राजा माया-मयः अभवत् ॥ उवाच वचनम् शीघ्रम् यतिम् तम् हि कृतांजलिः ॥ ५८ ॥
iti evam tu vacaḥ śrutvā rājā māyā-mayaḥ abhavat .. uvāca vacanam śīghram yatim tam hi kṛtāṃjaliḥ .. 58 ..
दैत्य उवाच ।।
यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ॥ त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः ॥ ५९॥
यथा आज्ञाम् दास्यसि त्वम् च तत् तथा एव न च अन्यथा ॥ त्वद्-आज्ञाम् ना उल्लंघयिष्ये सत्यम् सत्यम् न संशयः ॥ ५९॥
yathā ājñām dāsyasi tvam ca tat tathā eva na ca anyathā .. tvad-ājñām nā ullaṃghayiṣye satyam satyam na saṃśayaḥ .. 59..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ॥ दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः ॥ 2.5.4.६० ॥
इति आकर्ण्य वचः तस्य त्रिपुर-अधीशितुः तदा ॥ दूरीकृत्य मुखात् वस्त्रम् उवाच ऋषि-सत्तमः ॥ २।५।४।६० ॥
iti ākarṇya vacaḥ tasya tripura-adhīśituḥ tadā .. dūrīkṛtya mukhāt vastram uvāca ṛṣi-sattamaḥ .. 2.5.4.60 ..
दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ॥ ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ॥ ६१ ॥
दीक्षाम् गृह्णीष्व दैत्य-इन्द्र सर्व-धर्म-उत्तमोत्तमाम् ॥ ददौ दीक्षा-विधानेन प्राप्स्यसि त्वम् कृतार्थ-ताम् ॥ ६१ ॥
dīkṣām gṛhṇīṣva daitya-indra sarva-dharma-uttamottamām .. dadau dīkṣā-vidhānena prāpsyasi tvam kṛtārtha-tām .. 61 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ॥ ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥ ६२॥
इति उक्त्वा स तु मायावी दैत्य-राजाय स त्वरम् ॥ ददौ दीक्षाम् स्वधर्म-उक्ताम् तस्मै विधि-विधानतः ॥ ६२॥
iti uktvā sa tu māyāvī daitya-rājāya sa tvaram .. dadau dīkṣām svadharma-uktām tasmai vidhi-vidhānataḥ .. 62..
दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ॥ सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ॥ ६३ ॥
दैत्य-राजे दीक्षिते च तस्मिन् स सहजे मुने ॥ सर्वे च दीक्षिताः जाताः तत्र त्रिपुर-वासिनः ॥ ६३ ॥
daitya-rāje dīkṣite ca tasmin sa sahaje mune .. sarve ca dīkṣitāḥ jātāḥ tatra tripura-vāsinaḥ .. 63 ..
मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्द्रुतं तदा ॥ महामायाविनस्तत्तु त्रिपुरं सकलं मुने ॥ ६४ ॥
मुनेः शिष्यैः प्रशिष्यैः च व्याप्तम् आसीत् द्रुतम् तदा ॥ महा-मायाविनः तत् तु त्रिपुरम् सकलम् मुने ॥ ६४ ॥
muneḥ śiṣyaiḥ praśiṣyaiḥ ca vyāptam āsīt drutam tadā .. mahā-māyāvinaḥ tat tu tripuram sakalam mune .. 64 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् पञ्चमे युद्ध-खण्डे सनत्कुमार-पाराशर्य-संवादे त्रिपुरदीक्षाविधानम् नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām pañcame yuddha-khaṇḍe sanatkumāra-pārāśarya-saṃvāde tripuradīkṣāvidhānam nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In