| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ॥ तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥ १ ॥
स्व-बलम् निहतम् दृष्ट्वा मुख्यम् बहुतरम् ततस् ॥ तथा वीरान् प्राण-समान् चुकोप अतीव दानवः ॥ १ ॥
sva-balam nihatam dṛṣṭvā mukhyam bahutaram tatas .. tathā vīrān prāṇa-samān cukopa atīva dānavaḥ .. 1 ..
उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव॥ किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु ॥ २ ॥
उवाच वचनम् शंभुम् तिष्ठामि आजौ स्थिरः भव॥ किम् एतैः निहतैः मेद्य संमुखे समरम् कुरु ॥ २ ॥
uvāca vacanam śaṃbhum tiṣṭhāmi ājau sthiraḥ bhava.. kim etaiḥ nihataiḥ medya saṃmukhe samaram kuru .. 2 ..
इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ॥ अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ॥ ३ ॥
इति उक्त्वा दानव-इन्द्रः उसौ सन्नद्धः समरे मुने ॥ अगच्छत् निश्चयम् कृत्वा अभिमुखम् शंकरस्य च ॥ ३ ॥
iti uktvā dānava-indraḥ usau sannaddhaḥ samare mune .. agacchat niścayam kṛtvā abhimukham śaṃkarasya ca .. 3 ..
दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ॥ चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः ॥ ४ ॥
दिव्यानि अस्त्राणि चिक्षेप महारुद्राय दानवः ॥ चकार शर-वृष्टिञ्च च तोय-वृष्टिम् यथा घनः ॥ ४ ॥
divyāni astrāṇi cikṣepa mahārudrāya dānavaḥ .. cakāra śara-vṛṣṭiñca ca toya-vṛṣṭim yathā ghanaḥ .. 4 ..
मायाश्चकार विविधा अदृश्या भयदर्शिताः ॥ अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥ ५॥
मायाः चकार विविधाः अदृश्याः भय-दर्शिताः ॥ अप्रतर्क्याः सुर-गणैः निखिलैः अपिः सत्तमैः ॥ ५॥
māyāḥ cakāra vividhāḥ adṛśyāḥ bhaya-darśitāḥ .. apratarkyāḥ sura-gaṇaiḥ nikhilaiḥ apiḥ sattamaiḥ .. 5..
ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ॥ माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥ ६ ॥
ताः दृष्ट्वा शंकरः तत्र चिक्षे च लीलया ॥ माहेश्वरम् महा-दिव्यम् सर्व-माया-विनाशनम् ॥ ६ ॥
tāḥ dṛṣṭvā śaṃkaraḥ tatra cikṣe ca līlayā .. māheśvaram mahā-divyam sarva-māyā-vināśanam .. 6 ..
तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ॥ दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥ ७ ॥
तेजसा तस्य तद्-मायाः नष्टाः च आसन् द्रुतम् तदा ॥ दिव्यानि अस्त्राणि तानि एव निस्तेजांसि अभवन् अपि ॥ ७ ॥
tejasā tasya tad-māyāḥ naṣṭāḥ ca āsan drutam tadā .. divyāni astrāṇi tāni eva nistejāṃsi abhavan api .. 7 ..
अथ युद्धे महेशानस्तद्वधाय महाबलः ॥ शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥ ८ ॥
अथ युद्धे महेशानः तद्-वधाय महा-बलः ॥ शूलम् जग्राह सहसा दुर्निवार्यम् सु तेजसाम् ॥ ८ ॥
atha yuddhe maheśānaḥ tad-vadhāya mahā-balaḥ .. śūlam jagrāha sahasā durnivāryam su tejasām .. 8 ..
तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ॥ क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ॥ ९ ॥
तदा एव तत् निषेद्धुम् च वाच् बभूव अशरीरिणी ॥ क्षिप शूलम् न च इदानीम् प्रार्थनाम् शृणु शंकर ॥ ९ ॥
tadā eva tat niṣeddhum ca vāc babhūva aśarīriṇī .. kṣipa śūlam na ca idānīm prārthanām śṛṇu śaṃkara .. 9 ..
सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ॥ किमेकदानवस्येश शङ्खचूडस्य सांप्रतम् ॥ 2.5.40.१० ॥
सर्वथा त्वम् समर्थः हि क्षणात् ब्रह्माण्ड-नाशने ॥ किम् एक-दानवस्य ईश शङ्खचूडस्य सांप्रतम् ॥ २।५।४०।१० ॥
sarvathā tvam samarthaḥ hi kṣaṇāt brahmāṇḍa-nāśane .. kim eka-dānavasya īśa śaṅkhacūḍasya sāṃpratam .. 2.5.40.10 ..
तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ॥ तां शृणुष्व महादेव सफलं कुरु सत्यतः ॥ ११ ॥
तथा अपि वेद-मर्यादा न नाश्या स्वामिना त्वया ॥ ताम् शृणुष्व महादेव सफलम् कुरु सत्यतः ॥ ११ ॥
tathā api veda-maryādā na nāśyā svāminā tvayā .. tām śṛṇuṣva mahādeva saphalam kuru satyataḥ .. 11 ..
यावदस्य करेऽत्युग्रं कवचं परमं हरेः ॥ यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ॥ १२ ॥
यावत् अस्य करे अति उग्रम् कवचम् परमम् हरेः ॥ यावत् सती-त्वम् अस्ति एव सत्याः अस्य हि योषितः ॥ १२ ॥
yāvat asya kare ati ugram kavacam paramam hareḥ .. yāvat satī-tvam asti eva satyāḥ asya hi yoṣitaḥ .. 12 ..
तावदस्य जरामृत्युश्शंखचूडस्य शंकर ॥ नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥ १३ ॥
तावत् अस्य जरा-मृत्युः शंखचूडस्य शंकर ॥ न अस्ति इति अवितथम् नाथ विधेहि ब्रह्मणः वचः ॥ १३ ॥
tāvat asya jarā-mṛtyuḥ śaṃkhacūḍasya śaṃkara .. na asti iti avitatham nātha vidhehi brahmaṇaḥ vacaḥ .. 13 ..
इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ॥ हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥ १४ ॥
इति आकर्ण्य नभः-वाणीम् तथा इति उक्ते हरे तदा ॥ हर-इच्छया आगतः विष्णुः तम् दिदेश सताम् गतिः ॥ १४ ॥
iti ākarṇya nabhaḥ-vāṇīm tathā iti ukte hare tadā .. hara-icchayā āgataḥ viṣṇuḥ tam dideśa satām gatiḥ .. 14 ..
वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ॥ शङ्खचूडोपकंठं च गत्वोवाच स तं तदा ॥ १५ ॥
वृद्ध-ब्राह्मण-वेषेण विष्णुः मायाविनाम् वरः ॥ शङ्खचूड-उपकंठम् च गत्वा उवाच स तम् तदा ॥ १५ ॥
vṛddha-brāhmaṇa-veṣeṇa viṣṇuḥ māyāvinām varaḥ .. śaṅkhacūḍa-upakaṃṭham ca gatvā uvāca sa tam tadā .. 15 ..
वृद्धब्राह्मण उवाच॥ देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम् ॥ १६ ॥
वृद्ध-ब्राह्मणः उवाच॥ देहि भिक्षाम् दानव-इन्द्र मह्यम् प्राप्ताय सांप्रतम् ॥ १६ ॥
vṛddha-brāhmaṇaḥ uvāca.. dehi bhikṣām dānava-indra mahyam prāptāya sāṃpratam .. 16 ..
नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ॥ पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि ॥ १७ ॥
न इदानीम् कथयिष्यामि प्रकटम् दीन-वत्सलम् ॥ पश्चात् त्वाम् कथयिष्यामि पुनर् सत्यम् करिष्यसि ॥ १७ ॥
na idānīm kathayiṣyāmi prakaṭam dīna-vatsalam .. paścāt tvām kathayiṣyāmi punar satyam kariṣyasi .. 17 ..
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ॥ कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥ १८ ॥
ओम् इति उवाच राज-इन्द्रः प्रसन्न-वदन-ईक्षणः ॥ कवच-अर्थी जनः च अहम् इति उवाच इति स छलात् ॥ १८ ॥
om iti uvāca rāja-indraḥ prasanna-vadana-īkṣaṇaḥ .. kavaca-arthī janaḥ ca aham iti uvāca iti sa chalāt .. 18 ..
तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ॥ तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ॥ १९॥
तत् श्रुत्वा दानव-इन्द्रः असौ ब्रह्मण्यः सत्य-वाच्-विभुः ॥ तत् ददौ कवचम् दिव्यम् विप्राय प्राण-संमतम् ॥ १९॥
tat śrutvā dānava-indraḥ asau brahmaṇyaḥ satya-vāc-vibhuḥ .. tat dadau kavacam divyam viprāya prāṇa-saṃmatam .. 19..
मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ॥ शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ 2.5.40.२० ॥
मायाय इत्थम् तु कवचम् तस्मात् जग्राह वै हरिः ॥ शङ्खचूडस्य रूपेण जगाम तुलसीम् प्रति ॥ २।५।४०।२० ॥
māyāya ittham tu kavacam tasmāt jagrāha vai hariḥ .. śaṅkhacūḍasya rūpeṇa jagāma tulasīm prati .. 2.5.40.20 ..
गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ॥ वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥ २१ ॥
गत्वा तत्र हरिः तस्याः योनौ माया-विशारदः ॥ वीर्य-आधानम् चकार आशु देव-कार्य-अर्थम् ईश्वरः ॥ २१ ॥
gatvā tatra hariḥ tasyāḥ yonau māyā-viśāradaḥ .. vīrya-ādhānam cakāra āśu deva-kārya-artham īśvaraḥ .. 21 ..
एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ॥ शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥ २२॥
एतस्मिन् अन्तरे शंभुम् ईरयन् स्व-वचः प्रभुः ॥ शंखचूड-वध-अर्थाय शूलम् जग्राह प्रज्वलत् ॥ २२॥
etasmin antare śaṃbhum īrayan sva-vacaḥ prabhuḥ .. śaṃkhacūḍa-vadha-arthāya śūlam jagrāha prajvalat .. 22..
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ॥ सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन् ॥ २३॥
तत् शूलम् विजयम् नाम शङ्करस्य परमात्मनः ॥ सञ्चकाशे दिशः सर्वाः रोदसी संप्रकाशयन् ॥ २३॥
tat śūlam vijayam nāma śaṅkarasya paramātmanaḥ .. sañcakāśe diśaḥ sarvāḥ rodasī saṃprakāśayan .. 23..
कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम्॥ दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥ २४॥
कोटि-मध्याह्न-मार्तंड-प्रलय-अग्नि-शिखा-उपमम्॥ दुर्निवार्यम् च दुर्द्धर्षम् अव्यर्थम् वैरि-घातकम् ॥ २४॥
koṭi-madhyāhna-mārtaṃḍa-pralaya-agni-śikhā-upamam.. durnivāryam ca durddharṣam avyartham vairi-ghātakam .. 24..
तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम्॥ सुरासुराणां सर्वेषां दुस्सहं च भयंकरम् ॥ २५॥
तेजसाम् चक्रम् अति उग्रम् सर्व-शस्त्र-अस्त्र-सायकम्॥ सुर-असुराणाम् सर्वेषाम् दुस्सहम् च भयंकरम् ॥ २५॥
tejasām cakram ati ugram sarva-śastra-astra-sāyakam.. sura-asurāṇām sarveṣām dussaham ca bhayaṃkaram .. 25..
संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ॥ संस्थितं परमं तत्र एकत्रीभूय विज्वलत्॥ ॥ २६ ॥
संहर्तुम् सर्व-ब्रह्माडम् अवलंब्य च लीलया ॥ संस्थितम् परमम् तत्र एकत्रीभूय विज्वलत्॥ ॥ २६ ॥
saṃhartum sarva-brahmāḍam avalaṃbya ca līlayā .. saṃsthitam paramam tatra ekatrībhūya vijvalat.. .. 26 ..
धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम्॥ जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम् ॥ २७॥
धनुः-सहस्रम् दीर्घेण प्रस्थेन शत-हस्तकम्॥ च नित्य-रूपम् अनिर्मितम् ॥ २७॥
dhanuḥ-sahasram dīrgheṇa prasthena śata-hastakam.. ca nitya-rūpam anirmitam .. 27..
विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ॥ चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥ २८ ॥
विभ्रमत् व्योम्नि तत् शूलम् शंख चूडा-उपरि क्षणात् ॥ चकार भस्म तत् शीघ्रम् निपत्य शिव-शासनात् ॥ २८ ॥
vibhramat vyomni tat śūlam śaṃkha cūḍā-upari kṣaṇāt .. cakāra bhasma tat śīghram nipatya śiva-śāsanāt .. 28 ..
अथ शूलं महेशस्य द्रुतमावृत्य शंकरम॥ ययौ विहायसा विप्रमनोयायि स्वकार्यकृत् ॥ २९॥
अथ शूलम् महेशस्य द्रुतम् आवृत्य शंकरम॥ ययौ विहायसा विप्र-मनः-यायि स्व-कार्य-कृत् ॥ २९॥
atha śūlam maheśasya drutam āvṛtya śaṃkarama.. yayau vihāyasā vipra-manaḥ-yāyi sva-kārya-kṛt .. 29..
नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ॥ तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥ 2.5.40.३०॥
नेदुः दुंदुभयः स्वर्गे जगुः गंधर्व-किन्नराः ॥ तुष्टुवुः मुनयः देवाः ननृतुः च अप्सरः-गणाः ॥ २।५।४०।३०॥
neduḥ duṃdubhayaḥ svarge jaguḥ gaṃdharva-kinnarāḥ .. tuṣṭuvuḥ munayaḥ devāḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ .. 2.5.40.30..
बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ॥ प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥ ३१ ॥
बभूव पुष्प-वृष्टिः च शिवस्य उपरि संततम् ॥ प्रशशंस हरिः ब्रह्मा शक्र-आद्याः मुनयः तथा ॥ ३१ ॥
babhūva puṣpa-vṛṣṭiḥ ca śivasya upari saṃtatam .. praśaśaṃsa hariḥ brahmā śakra-ādyāḥ munayaḥ tathā .. 31 ..
शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ॥ शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ॥ ३२ ॥
शंखचूडः दानव-इन्द्रः शिवस्य कृपया तदा ॥ शाप मुक्तः बभूव अथ पूर्व-रूपम् अवाप ह ॥ ३२ ॥
śaṃkhacūḍaḥ dānava-indraḥ śivasya kṛpayā tadā .. śāpa muktaḥ babhūva atha pūrva-rūpam avāpa ha .. 32 ..
अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ॥ प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना ॥ ३३ ॥
अस्थिभिः शंखचूडस्य शंख-जातिः बभूव ह ॥ प्रशस्तम् शंख-तोयम् च सर्वेषाम् शंकरम् विना ॥ ३३ ॥
asthibhiḥ śaṃkhacūḍasya śaṃkha-jātiḥ babhūva ha .. praśastam śaṃkha-toyam ca sarveṣām śaṃkaram vinā .. 33 ..
विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ॥ संबंधिनां च तस्यापि न हरस्य महामुने ॥ ३४ ॥
विशेषेण हरेः लक्ष्म्याः शंख-तोयम् महा-प्रियम् ॥ संबंधिनाम् च तस्य अपि न हरस्य महा-मुने ॥ ३४ ॥
viśeṣeṇa hareḥ lakṣmyāḥ śaṃkha-toyam mahā-priyam .. saṃbaṃdhinām ca tasya api na harasya mahā-mune .. 34 ..
तमित्थं शंकरो हत्वा शिवलोकं जगाम सः॥ सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः॥ ३५॥
तम् इत्थम् शंकरः हत्वा शिव-लोकम् जगाम सः॥ सु प्रहृष्टः वृष-आरूढः सोम-स्कन्द-गणैः वृतः॥ ३५॥
tam ittham śaṃkaraḥ hatvā śiva-lokam jagāma saḥ.. su prahṛṣṭaḥ vṛṣa-ārūḍhaḥ soma-skanda-gaṇaiḥ vṛtaḥ.. 35..
हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह॥ सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः॥ ३६॥
हरिः जगाम वैकुंठम् कृष्णः स्व-वस्थः बभूव ह॥ सुराः स्व-विषयम् प्रापुः परम-आनन्द-संयुताः॥ ३६॥
hariḥ jagāma vaikuṃṭham kṛṣṇaḥ sva-vasthaḥ babhūva ha.. surāḥ sva-viṣayam prāpuḥ parama-ānanda-saṃyutāḥ.. 36..
जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम्॥ निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला ॥ ३७॥
जगत्-स्वास्थ्यम् अतीवाप सर्व-निर्विघ्न-मापकम्॥ निर्मलम् च अभवत् व्योम क्षितिः सर्वा सु मंगला ॥ ३७॥
jagat-svāsthyam atīvāpa sarva-nirvighna-māpakam.. nirmalam ca abhavat vyoma kṣitiḥ sarvā su maṃgalā .. 37..
इति प्रोक्तं महेशस्य चरितं प्रमुदावहम्॥ सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम्॥ ३८॥
इति प्रोक्तम् महेशस्य चरितम् प्रमुदा-आवहम्॥ सर्व सर्व॥ ३८॥
iti proktam maheśasya caritam pramudā-āvaham.. sarva sarva.. 38..
धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम्॥ भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम्॥ ३९॥
धन्यम् यशस्यम् आयुष्यम् सर्व-विघ्न-निवारणम्॥ भुक्ति-दम् मुक्ति-दम् च एव सर्व-काम-फल-प्रदम्॥ ३९॥
dhanyam yaśasyam āyuṣyam sarva-vighna-nivāraṇam.. bhukti-dam mukti-dam ca eva sarva-kāma-phala-pradam.. 39..
य इदं शृणुयान्नित्यं चरितं शशिमौलिनः॥ श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः॥ 2.5.40.४०॥
यः इदम् शृणुयात् नित्यम् चरितम् शशिमौलिनः॥ श्रावयेत् वा पठेत् वा अपि पाठयेत् वा सुधीः नरः॥ २।५।४०।४०॥
yaḥ idam śṛṇuyāt nityam caritam śaśimaulinaḥ.. śrāvayet vā paṭhet vā api pāṭhayet vā sudhīḥ naraḥ.. 2.5.40.40..
धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः॥ सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः॥ ४१॥
धनम् धान्यम् सुतम् सौख्यम् लभेत अत्र न संशयः॥ सर्वान् कामान् अवाप्नोति शिव-भक्तिम् विशेषतः॥ ४१॥
dhanam dhānyam sutam saukhyam labheta atra na saṃśayaḥ.. sarvān kāmān avāpnoti śiva-bhaktim viśeṣataḥ.. 41..
इदमाख्यानमतुलं सर्वोपद्रवनाशनम्॥ परमज्ञानजननं शिवभक्तिविवर्द्धनम्॥ ४२॥
इदम् आख्यानम् अतुलम् सर्व-उपद्रव-नाशनम्॥ ॥ ४२॥
idam ākhyānam atulam sarva-upadrava-nāśanam.. .. 42..
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत्॥ धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात्॥ ४३॥
ब्राह्मणः ब्रह्म-वर्चस्वी क्षत्रियः विजयी भवेत्॥ धन-आढ्यः वैश्य-जः शूद्रः शृण्वन् सत्तम-ताम् इयात्॥ ४३॥
brāhmaṇaḥ brahma-varcasvī kṣatriyaḥ vijayī bhavet.. dhana-āḍhyaḥ vaiśya-jaḥ śūdraḥ śṛṇvan sattama-tām iyāt.. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खडे शंखचूडवधोपाख्यानम् नाम चत्वारिंशः अध्यायः ॥ ४०॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaḍe śaṃkhacūḍavadhopākhyānam nāma catvāriṃśaḥ adhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In