| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
नारायणश्च भगवान् वीर्याधानं चकार ह ॥ तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १ ॥
नारायणः च भगवान् वीर्य-आधानम् चकार ह ॥ तुलस्याः केन यत्नेन योनौ तत् वक्तुम् अर्हसि ॥ १ ॥
nārāyaṇaḥ ca bhagavān vīrya-ādhānam cakāra ha .. tulasyāḥ kena yatnena yonau tat vaktum arhasi .. 1 ..
सनत्कुमार उवाच ।।
नारायणो हि देवानां कार्यकर्ता सतां गतिः ॥ शंखचूडस्य रूपेण रेमे तद्रमया सह ॥ २॥
नारायणः हि देवानाम् कार्य-कर्ता सताम् गतिः ॥ शंखचूडस्य रूपेण रेमे तद्-रमया सह ॥ २॥
nārāyaṇaḥ hi devānām kārya-kartā satām gatiḥ .. śaṃkhacūḍasya rūpeṇa reme tad-ramayā saha .. 2..
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम्॥ शिवशासनकर्तुश्च मातुश्च जगतां हरेः॥ ३॥
तत् एव शृणु विष्णोः च चरितम् प्रमुदा-आवहम्॥ शिव-शासन-कर्तुः च मातुः च जगताम् हरेः॥ ३॥
tat eva śṛṇu viṣṇoḥ ca caritam pramudā-āvaham.. śiva-śāsana-kartuḥ ca mātuḥ ca jagatām hareḥ.. 3..
रणमध्ये व्योमवचः श्रुत्वा देवेन शंभुना॥ प्रेरितश्शंखचूडस्य गृहीत्वा कवचं परम्॥ ४॥
रण-मध्ये व्योम-वचः श्रुत्वा देवेन शंभुना॥ प्रेरितः शंखचूडस्य गृहीत्वा कवचम् परम्॥ ४॥
raṇa-madhye vyoma-vacaḥ śrutvā devena śaṃbhunā.. preritaḥ śaṃkhacūḍasya gṛhītvā kavacam param.. 4..
विप्ररूपेण त्वरितं मायया निजया हरिः॥ जगाम शंखचूडस्य रूपेण तुलसीगृहम् ॥ ५॥
विप्र-रूपेण त्वरितम् मायया निजया हरिः॥ जगाम शंखचूडस्य रूपेण तुलसी-गृहम् ॥ ५॥
vipra-rūpeṇa tvaritam māyayā nijayā hariḥ.. jagāma śaṃkhacūḍasya rūpeṇa tulasī-gṛham .. 5..
दुन्दुभिं वादयामास तुलसी द्वारसन्निधौ ॥ जयशब्दं च तत्रैव बोधयामास सुन्दरीम्॥ ६॥
दुन्दुभिम् वादयामास तुलसी द्वार-सन्निधौ ॥ जय-शब्दम् च तत्र एव बोधयामास सुन्दरीम्॥ ६॥
dundubhim vādayāmāsa tulasī dvāra-sannidhau .. jaya-śabdam ca tatra eva bodhayāmāsa sundarīm.. 6..
तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता॥ राजमार्गं गवाक्षेण ददर्श परमादरात्॥ ७॥
तत् श्रुत्वा च एव सा साध्वी परम-आनन्द-संयुता॥ राजमार्गम् गवाक्षेण ददर्श परम-आदरात्॥ ७॥
tat śrutvā ca eva sā sādhvī parama-ānanda-saṃyutā.. rājamārgam gavākṣeṇa dadarśa parama-ādarāt.. 7..
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम्॥ द्रुतं चकार शृंगारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८॥
ब्राह्मणेभ्यः धनम् दत्त्वा कारयामास मंगलम्॥ द्रुतम् चकार शृंगारम् ज्ञात्वा आयातम् निजम् पतिम् ॥ ८॥
brāhmaṇebhyaḥ dhanam dattvā kārayāmāsa maṃgalam.. drutam cakāra śṛṃgāram jñātvā āyātam nijam patim .. 8..
अवरुह्य रथाद्विष्णुस्तद्देव्याभवनं ययौ ॥ शंखचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९ ॥
अवरुह्य रथात् विष्णुः तत् देव्याः भवनम् ययौ ॥ शंखचूड-स्व-रूपः स मायावी देव-कार्य-कृत् ॥ ९ ॥
avaruhya rathāt viṣṇuḥ tat devyāḥ bhavanam yayau .. śaṃkhacūḍa-sva-rūpaḥ sa māyāvī deva-kārya-kṛt .. 9 ..
दृष्ट्वा तं च पुरः प्राप्तं स्वकांतं सा मुदान्विता ॥ तत्पादौ क्षालयामास ननाम च रुरोद च ॥ 2.5.41.१० ॥
दृष्ट्वा तम् च पुरस् प्राप्तम् स्व-कांतम् सा मुदा अन्विता ॥ तद्-पादौ क्षालयामास ननाम च रुरोद च ॥ २।५।४१।१० ॥
dṛṣṭvā tam ca puras prāptam sva-kāṃtam sā mudā anvitā .. tad-pādau kṣālayāmāsa nanāma ca ruroda ca .. 2.5.41.10 ..
रत्नसिंहासने रम्ये वासयामास मंगलम् ॥ ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११ ॥
रत्न-सिंहासने रम्ये वासयामास मंगलम् ॥ ताम्बूलम् च ददौ तस्मै कर्पूर-आदि-सु वासितम् ॥ ११ ॥
ratna-siṃhāsane ramye vāsayāmāsa maṃgalam .. tāmbūlam ca dadau tasmai karpūra-ādi-su vāsitam .. 11 ..
अद्य मे सफलं जन्म जीवनं संबभूव ह ॥ रणे गतं च प्राणेशं पश्यंत्याश्च पुनर्गृहे॥ १२॥
अद्य मे सफलम् जन्म जीवनम् संबभूव ह ॥ रणे गतम् च प्राणेशम् पश्यंत्याः च पुनर् गृहे॥ १२॥
adya me saphalam janma jīvanam saṃbabhūva ha .. raṇe gatam ca prāṇeśam paśyaṃtyāḥ ca punar gṛhe.. 12..
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ॥ पप्रच्छ रणवृत्तांतं कांतं मधुरया गिरा ॥ १३॥
इति उक्त्वा स कटाक्षम् सा निरीक्ष्य स स्मितम् मुदा ॥ पप्रच्छ रण-वृत्तांतम् कांतम् मधुरया गिरा ॥ १३॥
iti uktvā sa kaṭākṣam sā nirīkṣya sa smitam mudā .. papraccha raṇa-vṛttāṃtam kāṃtam madhurayā girā .. 13..
तुलस्युवाच ।।
असंख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ॥ यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयस्सदा ॥ १४ ॥
असंख्य-विश्व-संहर्ता स देव-प्रवरः प्रभुः ॥ यस्य आज्ञा-वर्त्तिनः देवाः विष्णु-ब्रह्म-आदयः सदा ॥ १४ ॥
asaṃkhya-viśva-saṃhartā sa deva-pravaraḥ prabhuḥ .. yasya ājñā-varttinaḥ devāḥ viṣṇu-brahma-ādayaḥ sadā .. 14 ..
त्रिदेवजनकस्सोत्र त्रिगुणात्मा च निर्गुणः ॥ भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ॥ १५॥
त्रि-देव-जनकः सः उत्र त्रिगुण-आत्मा च निर्गुणः ॥ भक्त-इच्छया च स गुणः हरि-ब्रह्म-प्रवर्तकः ॥ १५॥
tri-deva-janakaḥ saḥ utra triguṇa-ātmā ca nirguṇaḥ .. bhakta-icchayā ca sa guṇaḥ hari-brahma-pravartakaḥ .. 15..
कुबेरस्य प्रार्थनया गुणरूपधरो हरः ॥ कैलासवासी गणपः परब्रह्म सतां गतिः ॥ १६ ॥
कुबेरस्य प्रार्थनया गुण-रूप-धरः हरः ॥ कैलास-वासी गणपः पर-ब्रह्म सताम् गतिः ॥ १६ ॥
kuberasya prārthanayā guṇa-rūpa-dharaḥ haraḥ .. kailāsa-vāsī gaṇapaḥ para-brahma satām gatiḥ .. 16 ..
यस्यैकपलमात्रेण कोटिब्रह्मांडसंक्षयः ॥ विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥ १७॥
यस्य एक-पल-मात्रेण कोटि-ब्रह्मांड-संक्षयः ॥ विष्णु-ब्रह्म-आदयः अतीताः बहवः क्षण-मात्रतः ॥ १७॥
yasya eka-pala-mātreṇa koṭi-brahmāṃḍa-saṃkṣayaḥ .. viṣṇu-brahma-ādayaḥ atītāḥ bahavaḥ kṣaṇa-mātrataḥ .. 17..
कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ॥ कथं बभूव संग्रामस्तेन देवसहायिना ॥ १८॥
कर्तुम् सार्द्धम् च तेन एव समरम् त्वम् गतः प्रभो ॥ कथम् बभूव संग्रामः तेन देव-सहायिना ॥ १८॥
kartum sārddham ca tena eva samaram tvam gataḥ prabho .. katham babhūva saṃgrāmaḥ tena deva-sahāyinā .. 18..
कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ॥ कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥ १९॥
कुशली त्वम् इह आयातः तम् जित्वा परमेश्वरम् ॥ कथम् बभूव विजयः तव ब्रूहि तत् एव मे ॥ १९॥
kuśalī tvam iha āyātaḥ tam jitvā parameśvaram .. katham babhūva vijayaḥ tava brūhi tat eva me .. 19..
श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ॥ शंखचूडरूपधरस्तामुवाचामृतं वचः ॥ 2.5.41.२०॥
श्रुत्वा इत्थम् तुलसी-वाक्यम् स विहस्य रमापतिः ॥ शंखचूड-रूप-धरः ताम् उवाच अमृतम् वचः ॥ २।५।४१।२०॥
śrutvā ittham tulasī-vākyam sa vihasya ramāpatiḥ .. śaṃkhacūḍa-rūpa-dharaḥ tām uvāca amṛtam vacaḥ .. 2.5.41.20..
भगवानुवाच ।।
यदाहं रणभूमौ च जगाम समरप्रियः ॥ कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥ २१ ॥
यदा अहम् रण-भूमौ च जगाम समर-प्रियः ॥ कोलाहलः महान् जातः प्रवृत्तः अभूत् महा-रणः ॥ २१ ॥
yadā aham raṇa-bhūmau ca jagāma samara-priyaḥ .. kolāhalaḥ mahān jātaḥ pravṛttaḥ abhūt mahā-raṇaḥ .. 21 ..
देवदानवयोर्युद्धं संबभूव जयैषिणोः ॥ दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥ २२ ॥
देव-दानवयोः युद्धम् संबभूव जय-एषिणोः ॥ दैत्याः पराजिताः तत्र निर्जरैः बल-गर्वितैः ॥ २२ ॥
deva-dānavayoḥ yuddham saṃbabhūva jaya-eṣiṇoḥ .. daityāḥ parājitāḥ tatra nirjaraiḥ bala-garvitaiḥ .. 22 ..
तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ॥ पराजिताश्च ते देवाश्शंकरं शरणं ययुः ॥ २३॥
तदा अहम् समरम् तत्र अकार्षम् देवैः बल-उत्कटैः ॥ पराजिताः च ते देवाः शंकरम् शरणम् ययुः ॥ २३॥
tadā aham samaram tatra akārṣam devaiḥ bala-utkaṭaiḥ .. parājitāḥ ca te devāḥ śaṃkaram śaraṇam yayuḥ .. 23..
रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति॥ तेनाहं वै चिरं कालमयौत्संबलदर्पित ॥ २४॥
रुद्रः अपि तद्-सहाय-अर्थम् आजगाम रणम् प्रति॥ तेन अहम् वै चिरम् कालम् अयौत्संबल-दर्पित ॥ २४॥
rudraḥ api tad-sahāya-artham ājagāma raṇam prati.. tena aham vai ciram kālam ayautsaṃbala-darpita .. 24..
आवयोस्समरः कान्ते पूर्णमब्दं बभूव ह ॥ नाशो बभूव सर्वेषामसुराणां च कामिनि ॥ २५॥
आवयोः समरः कान्ते पूर्णम् अब्दम् बभूव ह ॥ नाशः बभूव सर्वेषाम् असुराणाम् च कामिनि ॥ २५॥
āvayoḥ samaraḥ kānte pūrṇam abdam babhūva ha .. nāśaḥ babhūva sarveṣām asurāṇām ca kāmini .. 25..
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ॥ देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥ २६॥
प्रीतिम् च कारयामास ब्रह्मा च स्वयम् आवयोः ॥ देवानाम् अधिकाराः च प्रदत्ताः ब्रह्म-शासनात् ॥ २६॥
prītim ca kārayāmāsa brahmā ca svayam āvayoḥ .. devānām adhikārāḥ ca pradattāḥ brahma-śāsanāt .. 26..
मयागतं स्वभवनं शिवलोकं शिवो गतः ॥ सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥ २७॥
मया आगतम् स्व-भवनम् शिव-लोकम् शिवः गतः ॥ सर्व-स्वास्थ्यम् अतीव आप दूरीभूतः हि उपद्रवः ॥ २७॥
mayā āgatam sva-bhavanam śiva-lokam śivaḥ gataḥ .. sarva-svāsthyam atīva āpa dūrībhūtaḥ hi upadravaḥ .. 27..
सनत्कुमार उवाच ।।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ रेमे रमापतिस्तत्र रमया स तया मुदा ॥ २८॥
इति उक्त्वा जगताम् नाथः शयनम् च चकार ह ॥ रेमे रमापतिः तत्र रमया स तया मुदा ॥ २८॥
iti uktvā jagatām nāthaḥ śayanam ca cakāra ha .. reme ramāpatiḥ tatra ramayā sa tayā mudā .. 28..
सा साध्वी सुखसंभावकर्षणस्य व्यतिक्रमात् ॥ सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥ २९ ॥
सा साध्वी व्यतिक्रमात् ॥ सर्वम् वितर्कयामास कः त्वम् एव इति उवाच सा ॥ २९ ॥
sā sādhvī vyatikramāt .. sarvam vitarkayāmāsa kaḥ tvam eva iti uvāca sā .. 29 ..
तुलस्युवाच ।।
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ॥ दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम्॥ 2.5.41.३०॥
कः वा त्वम् वद माम् आशु भुक्ता अहम् मायया त्वया ॥ दूरीकृतम् यत् सती-त्वम् अथ त्वाम् वै शपामि अहम्॥ २।५।४१।३०॥
kaḥ vā tvam vada mām āśu bhuktā aham māyayā tvayā .. dūrīkṛtam yat satī-tvam atha tvām vai śapāmi aham.. 2.5.41.30..
सनत्कुमार उवाच ।।
तुलसीवचनं श्रुत्वा हरिश्शापभयेन च॥ दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम्॥ ३१॥
तुलसी-वचनम् श्रुत्वा हरिः शाप-भयेन च॥ दधार लीलया ब्रह्मन् स्व-मूर्तिम् सु मनोहराम्॥ ३१॥
tulasī-vacanam śrutvā hariḥ śāpa-bhayena ca.. dadhāra līlayā brahman sva-mūrtim su manoharām.. 31..
तद्दृष्ट्वा तुलसीरूपं ज्ञात्वा विष्णुं तु चिह्नतः ॥ पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥ ३२॥
तत् दृष्ट्वा तुलसी-रूपम् ज्ञात्वा विष्णुम् तु चिह्नतः ॥ पातिव्रत्य-परित्यागात् क्रुद्धा सा तम् उवाच ह ॥ ३२॥
tat dṛṣṭvā tulasī-rūpam jñātvā viṣṇum tu cihnataḥ .. pātivratya-parityāgāt kruddhā sā tam uvāca ha .. 32..
तुलस्युवाच ।।
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ॥ पतिधर्मस्य भंगेन मम स्वामी हतः खलु ॥ ३३॥
हे विष्णो ते दया न अस्ति पाषाण-सदृशम् मनः ॥ पति-धर्मस्य भंगेन मम स्वामी हतः खलु ॥ ३३॥
he viṣṇo te dayā na asti pāṣāṇa-sadṛśam manaḥ .. pati-dharmasya bhaṃgena mama svāmī hataḥ khalu .. 33..
पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ॥ तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥ ३४ ॥
पाषाण-सदृशः त्वम् च दया-हीनः यतस् खलः ॥ तस्मात् पाषाण-रूपः त्वम् मद्-शापेन भव अधुना ॥ ३४ ॥
pāṣāṇa-sadṛśaḥ tvam ca dayā-hīnaḥ yatas khalaḥ .. tasmāt pāṣāṇa-rūpaḥ tvam mad-śāpena bhava adhunā .. 34 ..
ये वदंति दयासिन्धुं त्वां भ्रांतास्ते न संशयः ॥ भक्तो विनापराधेन परार्थे च कथं हतः ॥ ३५॥
ये वदंति दया-सिन्धुम् त्वाम् भ्रांताः ते न संशयः ॥ भक्तः विना अपराधेन पर-अर्थे च कथम् हतः ॥ ३५॥
ye vadaṃti dayā-sindhum tvām bhrāṃtāḥ te na saṃśayaḥ .. bhaktaḥ vinā aparādhena para-arthe ca katham hataḥ .. 35..
सनत्कुमार उवाच।।
इत्युक्त्वा तुलसी सा वै शंखचूडप्रिया सती ॥ भृशं रुरोद शोकार्ता विललाप भृशं मुहुः॥ ३६॥
इति उक्त्वा तुलसी सा वै शंखचूड-प्रिया सती ॥ भृशम् रुरोद शोक-आर्ता विललाप भृशम् मुहुर्॥ ३६॥
iti uktvā tulasī sā vai śaṃkhacūḍa-priyā satī .. bhṛśam ruroda śoka-ārtā vilalāpa bhṛśam muhur.. 36..
ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः ॥ सस्मार शंकरं देवं येन संमोहितं जगत् ॥ ३७॥
ततस् ताम् रुदतीम् दृष्ट्वा स विष्णुः परमेश्वरः ॥ सस्मार शंकरम् देवम् येन संमोहितम् जगत् ॥ ३७॥
tatas tām rudatīm dṛṣṭvā sa viṣṇuḥ parameśvaraḥ .. sasmāra śaṃkaram devam yena saṃmohitam jagat .. 37..
ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ॥ हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ॥ ३८ ॥
ततस् प्रादुर्बभूव अथ शंकरः भक्त-वत्सलः ॥ हरिणा प्रणतः च आसीत् संनुतः विनयेन सः ॥ ३८ ॥
tatas prādurbabhūva atha śaṃkaraḥ bhakta-vatsalaḥ .. hariṇā praṇataḥ ca āsīt saṃnutaḥ vinayena saḥ .. 38 ..
शोकाकुलं हरिं दृष्ट्वा विलपंतीं च तत्प्रियाम् ॥ नयेन बोधयामास तं तां कृपणवत्सलाम् ॥ ३९ ॥
शोक-आकुलम् हरिम् दृष्ट्वा विलपन्तीम् च तद्-प्रियाम् ॥ नयेन बोधयामास तम् ताम् कृपण-वत्सलाम् ॥ ३९ ॥
śoka-ākulam harim dṛṣṭvā vilapantīm ca tad-priyām .. nayena bodhayāmāsa tam tām kṛpaṇa-vatsalām .. 39 ..
शंकर उवाच ।।
मा रोदीस्तुलसि त्वं हि भुंक्ते कर्मफलं जनः ॥ सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ॥ 2.5.41.४० ॥
मा रोदीः तुलसि त्वम् हि भुंक्ते कर्म-फलम् जनः ॥ सुख-दुःख-दः न कः अपि अस्ति संसारे कर्म-सागरे ॥ २।५।४१।४० ॥
mā rodīḥ tulasi tvam hi bhuṃkte karma-phalam janaḥ .. sukha-duḥkha-daḥ na kaḥ api asti saṃsāre karma-sāgare .. 2.5.41.40 ..
प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ॥ द्वयोस्सुखकरं यत्तद्ब्रवीमि सुखहेतवे ॥ ४१ ॥
प्रस्तुतम् शृणु निर्दुःखम् शृणोति सु मनाः हरिः ॥ द्वयोः सुख-करम् यत् तत् ब्रवीमि सुख-हेतवे ॥ ४१ ॥
prastutam śṛṇu nirduḥkham śṛṇoti su manāḥ hariḥ .. dvayoḥ sukha-karam yat tat bravīmi sukha-hetave .. 41 ..
तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ॥ तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥ ४२ ॥
तपः त्वया कृतम् भद्रे तस्य एव तपसः फलम् ॥ तत् अन्यथा कथम् स्यात् वै जातम् त्वयि तथा च तत् ॥ ४२ ॥
tapaḥ tvayā kṛtam bhadre tasya eva tapasaḥ phalam .. tat anyathā katham syāt vai jātam tvayi tathā ca tat .. 42 ..
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च॥ रमस्व हरिणा नित्यं रमया सदृशी भव ॥ ४३॥
इदम् शरीरम् त्यक्त्वा च दिव्य-देहम् विधाय च॥ रमस्व हरिणा नित्यम् रमया सदृशी भव ॥ ४३॥
idam śarīram tyaktvā ca divya-deham vidhāya ca.. ramasva hariṇā nityam ramayā sadṛśī bhava .. 43..
तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ॥ भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥ ४४॥
तव इयम् तनुः उत्सृष्टा नदी-रूपा भवेत् इह ॥ भारते पुण्य-रूपा सा गण्डकी इति च विश्रुता ॥ ४४॥
tava iyam tanuḥ utsṛṣṭā nadī-rūpā bhavet iha .. bhārate puṇya-rūpā sā gaṇḍakī iti ca viśrutā .. 44..
कियत्कालं महादेवि देवपूजनसाधने ॥ प्रधानरूपा तुलसी भविष्यति वरेण मे ॥ ४५ ॥
कियत्कालम् महादेवि देव-पूजन-साधने ॥ प्रधान-रूपा तुलसी भविष्यति वरेण मे ॥ ४५ ॥
kiyatkālam mahādevi deva-pūjana-sādhane .. pradhāna-rūpā tulasī bhaviṣyati vareṇa me .. 45 ..
स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ॥ भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरी ॥ ४६ ॥
स्वर्गम् मर्त्ये च पाताले तिष्ठ त्वम् हरि-सन्निधौ ॥ भव त्वम् तुलसी-वृक्षः वरा पुष्पेषु सुन्दरी ॥ ४६ ॥
svargam martye ca pātāle tiṣṭha tvam hari-sannidhau .. bhava tvam tulasī-vṛkṣaḥ varā puṣpeṣu sundarī .. 46 ..
वृक्षाधिष्ठातृदेवी त्वं वैकुंठे दिव्यरूपिणी ॥ सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥ ४७॥
वृक्ष-अधिष्ठातृ-देवी त्वम् वैकुंठे दिव्य-रूपिणी ॥ सार्द्धम् रहसि हरिणा नित्यम् क्रीडाम् करिष्यसि ॥ ४७॥
vṛkṣa-adhiṣṭhātṛ-devī tvam vaikuṃṭhe divya-rūpiṇī .. sārddham rahasi hariṇā nityam krīḍām kariṣyasi .. 47..
नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ॥ लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८॥
नदी-अधिष्ठातृदेवी या भारते बहु पुण्य-दा ॥ लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८॥
nadī-adhiṣṭhātṛdevī yā bhārate bahu puṇya-dā .. lavaṇodasya patnī sā haryaṃśasya bhaviṣyasi .. 48..
हरिर्वे शैलरूपी च गंडकी तीरसंनिधौ ॥ संकरिष्यत्यधिष्ठानं भारते तव शापतः ॥ ४९ ॥
हरिः वे शैल-रूपी च गंडकी तीर-संनिधौ ॥ संकरिष्यति अधिष्ठानम् भारते तव शापतः ॥ ४९ ॥
hariḥ ve śaila-rūpī ca gaṃḍakī tīra-saṃnidhau .. saṃkariṣyati adhiṣṭhānam bhārate tava śāpataḥ .. 49 ..
तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयंकराः ॥ तच्छित्त्वा कुहरे चक्रं करिष्यंति तदीयकम् ॥ 2.5.41.५०॥
तत्र कोट्यः च कीटाः च तीक्ष्ण-दंष्ट्राः भयंकराः ॥ तत् छित्त्वा कुहरे चक्रम् करिष्यंति तदीयकम् ॥ २।५।४१।५०॥
tatra koṭyaḥ ca kīṭāḥ ca tīkṣṇa-daṃṣṭrāḥ bhayaṃkarāḥ .. tat chittvā kuhare cakram kariṣyaṃti tadīyakam .. 2.5.41.50..
शालग्रामशिला सा हि तद्भेदादतिपुण्यदा॥ लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ॥ ५१॥
शालग्राम-शिला सा हि तद्-भेदात् अति पुण्य-दा॥ लक्ष्मी-नारायण-आख्या-आदिः चक्र-भेदात् भविष्यति ॥ ५१॥
śālagrāma-śilā sā hi tad-bhedāt ati puṇya-dā.. lakṣmī-nārāyaṇa-ākhyā-ādiḥ cakra-bhedāt bhaviṣyati .. 51..
शालग्रामशिला विष्णो तुलस्यास्तव संगमः ॥ सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥ ५२ ॥
शालग्राम-शिला विष्णो तुलस्याः तव संगमः ॥ सदा सादृश्य-रूपा या बहु-पुण्य-विवर्द्धिनी ॥ ५२ ॥
śālagrāma-śilā viṣṇo tulasyāḥ tava saṃgamaḥ .. sadā sādṛśya-rūpā yā bahu-puṇya-vivarddhinī .. 52 ..
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ॥ तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥ ५३ ॥
तुलसी-पत्र-विच्छेदम् शालग्रामे करोति यः ॥ तस्य जन्मान्तरे भद्रे स्त्री-विच्छेदः भविष्यति ॥ ५३ ॥
tulasī-patra-vicchedam śālagrāme karoti yaḥ .. tasya janmāntare bhadre strī-vicchedaḥ bhaviṣyati .. 53 ..
तुलसीपत्रविच्छेदं शंखं हित्वा करोति यः ॥ भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ॥ ५४ ॥
तुलसी-पत्र-विच्छेदम् शंखम् हित्वा करोति यः ॥ भार्या-हीनः भवेत् सः अपि रोगी स्यात् सप्त-जन्मसु ॥ ५४ ॥
tulasī-patra-vicchedam śaṃkham hitvā karoti yaḥ .. bhāryā-hīnaḥ bhavet saḥ api rogī syāt sapta-janmasu .. 54 ..
शालग्रामश्च तुलसी शंखं चैकत्र एव हि ॥ यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ५५ ॥
शालग्रामः च तुलसी शंखम् च एकत्र एव हि ॥ यः रक्षति महाज्ञानी स भवेत् श्री-हरिप्रियः ॥ ५५ ॥
śālagrāmaḥ ca tulasī śaṃkham ca ekatra eva hi .. yaḥ rakṣati mahājñānī sa bhavet śrī-haripriyaḥ .. 55 ..
त्वं प्रियः शंखचूडस्य चैकमन्वन्तरावधि ॥ शंखेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव ॥ ५६ ॥
त्वम् प्रियः शंखचूडस्य च एक-मन्वन्तर-अवधि ॥ शंखेन सार्द्धम् त्वद्-भेदः केवलम् दुःख-दः तव ॥ ५६ ॥
tvam priyaḥ śaṃkhacūḍasya ca eka-manvantara-avadhi .. śaṃkhena sārddham tvad-bhedaḥ kevalam duḥkha-daḥ tava .. 56 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ॥ शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥ ५७ ॥
इति उक्त्वा शंकरः तत्र माहात्म्यम् ऊचिवान् तदा ॥ शालग्राम-शिलायाः च तुलस्याः बहु-पुण्य-दम् ॥ ५७ ॥
iti uktvā śaṃkaraḥ tatra māhātmyam ūcivān tadā .. śālagrāma-śilāyāḥ ca tulasyāḥ bahu-puṇya-dam .. 57 ..
ततश्चांतर्हितो भूत्वा मोदयित्वा हरिं च ताम् ॥ जगाम् स्वालयं शंभुः शर्मदो हि सदा सताम् ॥ ५८ ॥
ततस् च अंतर्हितः भूत्वा मोदयित्वा हरिम् च ताम् ॥ जगाम् स्व-आलयम् शंभुः शर्म-दः हि सदा सताम् ॥ ५८ ॥
tatas ca aṃtarhitaḥ bhūtvā modayitvā harim ca tām .. jagām sva-ālayam śaṃbhuḥ śarma-daḥ hi sadā satām .. 58 ..
इति श्रुत्वा वचश्शंभोः प्रसन्ना तु तुलस्यभूत् ॥ तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥ ५९ ॥
इति श्रुत्वा वचः शंभोः प्रसन्ना तु तुलसी अभूत् ॥ तद्-देहम् च परित्यज्य दिव्य-रूपा बभूव ह ॥ ५९ ॥
iti śrutvā vacaḥ śaṃbhoḥ prasannā tu tulasī abhūt .. tad-deham ca parityajya divya-rūpā babhūva ha .. 59 ..
प्रजगाम तया सार्द्धं वैकुंठं कमलापतिः ॥ सद्यस्तद्देहजाता च बभूव गंडकी नदी ॥ 2.5.41.६० ॥
प्रजगाम तया सार्द्धम् वैकुंठम् कमलापतिः ॥ सद्यस् तद्-देह-जाता च बभूव गंडकी नदी ॥ २।५।४१।६० ॥
prajagāma tayā sārddham vaikuṃṭham kamalāpatiḥ .. sadyas tad-deha-jātā ca babhūva gaṃḍakī nadī .. 2.5.41.60 ..
शैलोभूदच्युतस्सोऽपि तत्तीरे पुण्यदो नृणाम् ॥ कुर्वंति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥ ६१ ॥
शैलः भूत् अच्युतः सः अपि तद्-तीरे पुण्य-दः नृणाम् ॥ कुर्वन्ति तत्र कीटाः च छिद्रम् बहुविधम् मुने ॥ ६१ ॥
śailaḥ bhūt acyutaḥ saḥ api tad-tīre puṇya-daḥ nṛṇām .. kurvanti tatra kīṭāḥ ca chidram bahuvidham mune .. 61 ..
जले पतंति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ॥ स्थलस्था पिंगला ज्ञेयाश्चोपतापाय चैव हि ॥ ६२ ॥
जले पतन्ति याः तत्र शिलाः ताः तु अति पुण्य-दाः ॥ स्थल-स्था पिंगला ज्ञेयाः च उपतापाय च एव हि ॥ ६२ ॥
jale patanti yāḥ tatra śilāḥ tāḥ tu ati puṇya-dāḥ .. sthala-sthā piṃgalā jñeyāḥ ca upatāpāya ca eva hi .. 62 ..
इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ॥ चरितं पुण्यदं शंभोः सर्वकामप्रदं नृणाम् ॥ ६३ ॥
इति एवम् कथितम् सर्वम् तव प्रश्न-अनुसारतः ॥ चरितम् पुण्य-दम् शंभोः सर्व-काम-प्रदम् नृणाम् ॥ ६३ ॥
iti evam kathitam sarvam tava praśna-anusārataḥ .. caritam puṇya-dam śaṃbhoḥ sarva-kāma-pradam nṛṇām .. 63 ..
आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ॥ भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥
आख्यानम् इदम् आख्यातम् विष्णु-माहात्म्य-मिश्रितम् ॥ भुक्ति-मुक्ति-प्रदम् पुण्यम् किम् भूयस् श्रोतुम् इच्छसि ॥ ६४ ॥
ākhyānam idam ākhyātam viṣṇu-māhātmya-miśritam .. bhukti-mukti-pradam puṇyam kim bhūyas śrotum icchasi .. 64 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शंखचूड-व-ध-उपाख्याने तुलसीशापवर्णनम् नाम एकचत्वारिंशः अध्यायः ॥ ४१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śaṃkhacūḍa-va-dha-upākhyāne tulasīśāpavarṇanam nāma ekacatvāriṃśaḥ adhyāyaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In