| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
शंखचूडवधं श्रुत्वा चरितं शशिमौलिनः ॥ अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥ १ ॥
शंखचूड-वधम् श्रुत्वा चरितम् शशिमौलिनः ॥ अयम् तृप्तः अस्मि नो त्वत्तः अमृतम् पीत्वा यथा जनः ॥ १ ॥
śaṃkhacūḍa-vadham śrutvā caritam śaśimaulinaḥ .. ayam tṛptaḥ asmi no tvattaḥ amṛtam pītvā yathā janaḥ .. 1 ..
ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ॥ मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥ २ ॥
ब्रह्मन् यत् चरितम् तस्य महेशस्य महात्मनः ॥ मायाम् आश्रित्य सत्-लीलाम् कुर्वतः भक्त-मोद-दाम् ॥ २ ॥
brahman yat caritam tasya maheśasya mahātmanaḥ .. māyām āśritya sat-līlām kurvataḥ bhakta-moda-dām .. 2 ..
ब्रह्मोवाच ।।
जलंधरवधं श्रुत्वा व्यासस्सत्यवतीसुतः ॥ अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥ ३ ॥
जलंधर-वधम् श्रुत्वा व्यासः सत्यवती-सुतः ॥ अप्राक्षीत् इमम् एव अर्थम् ब्रह्म-पुत्रम् मुनि-ईश्वरम् ॥ ३ ॥
jalaṃdhara-vadham śrutvā vyāsaḥ satyavatī-sutaḥ .. aprākṣīt imam eva artham brahma-putram muni-īśvaram .. 3 ..
सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ॥ सुप्रशंस्य महेशस्य चरितं मंगलायनम् ॥ ४ ॥
सनत्कुमारः प्रोवाच व्यासम् सत्यवती-सुतम् ॥ सु प्रशंस्य महेशस्य चरितम् मंगलायनम् ॥ ४ ॥
sanatkumāraḥ provāca vyāsam satyavatī-sutam .. su praśaṃsya maheśasya caritam maṃgalāyanam .. 4 ..
सनत्कुमार उवाच ।।
शृणु व्यास महेशस्य चरितं मंगलायनम् ॥ यथान्धको गाणपत्यं प्राप शंभोः परात्मनः ॥ ५ ॥
शृणु व्यास महेशस्य चरितम् मंगलायनम् ॥ यथा अन्धकः गाणपत्यम् प्राप शंभोः परात्मनः ॥ ५ ॥
śṛṇu vyāsa maheśasya caritam maṃgalāyanam .. yathā andhakaḥ gāṇapatyam prāpa śaṃbhoḥ parātmanaḥ .. 5 ..
कृत्वा परमसंग्रामं तेन पूर्वं मुनीश्वर ॥ प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥ ६ ॥
कृत्वा परम-संग्रामम् तेन पूर्वम् मुनि-ईश्वर ॥ प्रसाद्य तम् महेशानम् सत्त्व-भावात् पुनर् पुनर् ॥ ६ ॥
kṛtvā parama-saṃgrāmam tena pūrvam muni-īśvara .. prasādya tam maheśānam sattva-bhāvāt punar punar .. 6 ..
माहात्म्यमद्भुतं शंभोश्शरणागतरक्षिणः ॥ सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥ ७ ॥
माहात्म्यम् अद्भुतम् शंभोः शरण-आगत-रक्षिणः ॥ सु भक्त-वत्सलस्य एव नाना लीला-विहारिणः ॥ ७ ॥
māhātmyam adbhutam śaṃbhoḥ śaraṇa-āgata-rakṣiṇaḥ .. su bhakta-vatsalasya eva nānā līlā-vihāriṇaḥ .. 7 ..
माहात्म्यमेतद्वृषभध्वजस्य श्रुत्वा मुनिर्गंधवतीसुतो हि ॥ वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनींद्रम् ॥ ८ ॥
माहात्म्यम् एतत् वृषभध्वजस्य श्रुत्वा मुनिः गंधवती-सुतः हि ॥ वचः महार्थम् प्रणिपत्य भक्त्या हि उवाच तम् ब्रह्म-सुतम् मुनि-इंद्रम् ॥ ८ ॥
māhātmyam etat vṛṣabhadhvajasya śrutvā muniḥ gaṃdhavatī-sutaḥ hi .. vacaḥ mahārtham praṇipatya bhaktyā hi uvāca tam brahma-sutam muni-iṃdram .. 8 ..
व्यास उवाच ।।
को ह्यंधको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ॥ जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोंऽधकश्च ॥ ९ ॥
कः हि अंधकः वै भगवत् मुनि-ईश कस्य अन्वये वीर्यवतः पृथिव्याम् ॥ जातः महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतः ॐ धकः च ॥ ९ ॥
kaḥ hi aṃdhakaḥ vai bhagavat muni-īśa kasya anvaye vīryavataḥ pṛthivyām .. jātaḥ mahātmā balavān pradhānaḥ kimātmakaḥ kasya sutaḥ oṃ dhakaḥ ca .. 9 ..
एतत्समस्तं सरहस्यमद्य ब्रवीहि मे ब्रह्मसुतप्रसादात् ॥ स्कंदान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ॥ 2.5.42.१० ॥
एतत् समस्तम् स रहस्यम् अद्य ब्रवीहि मे ब्रह्म-सुत-प्रसादात् ॥ स्कंदात् मया वै विदितम् हि सम्यक् महेश-पुत्रात् अमित-अवबोधात् ॥ २।५।४२।१० ॥
etat samastam sa rahasyam adya bravīhi me brahma-suta-prasādāt .. skaṃdāt mayā vai viditam hi samyak maheśa-putrāt amita-avabodhāt .. 2.5.42.10 ..
गाणपत्यं कथं प्राप शंभोः परमतेजसः ॥ सोंधको धन्य एवाति यो बभूव गणेश्वरः ॥ ११ ॥
गाणपत्यम् कथम् प्राप शंभोः परम-तेजसः ॥ सोंधकः धन्यः एव अति यः बभूव गणेश्वरः ॥ ११ ॥
gāṇapatyam katham prāpa śaṃbhoḥ parama-tejasaḥ .. soṃdhakaḥ dhanyaḥ eva ati yaḥ babhūva gaṇeśvaraḥ .. 11 ..
।। ब्रह्मोवाच ।।
व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ॥ महेश्वरोतीः परमाप्तलक्ष्मीस्संश्रोतुकामं जनकं शुकस्य ॥ १२॥
व्यासस्य च एतत् वचनम् निशम्य प्रोवाच स ब्रह्म-सुतः तदानीम् ॥ महेश्वर-ऊतीः परम-आप्त-लक्ष्मीः संश्रोतु-कामम् जनकम् शुकस्य ॥ १२॥
vyāsasya ca etat vacanam niśamya provāca sa brahma-sutaḥ tadānīm .. maheśvara-ūtīḥ parama-āpta-lakṣmīḥ saṃśrotu-kāmam janakam śukasya .. 12..
सनत्कुमार उवाच ।।
पुराऽऽगतो भक्तकृपाकरोऽसौ कैलासतश्शैलसुता गणाढ्यः ॥ विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती ॥ १३ ॥
पुरा आगतः भक्त-कृपा-करः असौ कैलासतः शैलसुता गणाढ्यः ॥ विहर्तु-कामः किल काशिकाम् वै स्व-शैलतः निर्जर-चक्रवर्ती ॥ १३ ॥
purā āgataḥ bhakta-kṛpā-karaḥ asau kailāsataḥ śailasutā gaṇāḍhyaḥ .. vihartu-kāmaḥ kila kāśikām vai sva-śailataḥ nirjara-cakravartī .. 13 ..
स राजधानीं च विधाय तस्यां चक्रं परोतीः सुखदा जनानाम् ॥ तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजयाहि बह्वीः॥ १४॥
स राजधानीम् च विधाय तस्याम् चक्रम् परोतीः सुख-दाः जनानाम् ॥ तद्-रक्षकम् भैरव-नाम-वीरम् कृत्वा समम् बह्वीः॥ १४॥
sa rājadhānīm ca vidhāya tasyām cakram parotīḥ sukha-dāḥ janānām .. tad-rakṣakam bhairava-nāma-vīram kṛtvā samam bahvīḥ.. 14..
स एकदा मंदरनामधेयं गतो नगे तद्वरसुप्रभावात् ॥ तत्रापि मानागणवीरमुख्यैश्शिवासमेतो विजहार भूरि॥ १५॥
सः एकदा मंदर-नामधेयम् गतः नगे तद्-वर-सु प्रभावात् ॥ तत्र अपि माना-गण-वीर-मुख्यैः शिवा-समेतः विजहार भूरि॥ १५॥
saḥ ekadā maṃdara-nāmadheyam gataḥ nage tad-vara-su prabhāvāt .. tatra api mānā-gaṇa-vīra-mukhyaiḥ śivā-sametaḥ vijahāra bhūri.. 15..
पूर्वे दिशो मन्दर शैलसंस्था कपर्द्दिनश्चंडपराक्रमस्य॥ चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम्॥ १६॥
पूर्वे दिशः मन्दर शैल-संस्था कपर्द्दिनः चंडपराक्रमस्य॥ चक्रे ततस् नेत्र-निमीलनम् तु सा पार्वती नर्म-युतम् स लीलम्॥ १६॥
pūrve diśaḥ mandara śaila-saṃsthā kaparddinaḥ caṃḍaparākramasya.. cakre tatas netra-nimīlanam tu sā pārvatī narma-yutam sa līlam.. 16..
प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे॥ हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहांधकारः॥ १७॥
प्रवाल-हेम-अब्ज-धृत-प्रभाभ्याम् कर-अम्बुजाभ्याम् निमिमील नेत्रे॥ हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सु महा-अंधकारः॥ १७॥
pravāla-hema-abja-dhṛta-prabhābhyām kara-ambujābhyām nimimīla netre.. harasya netreṣu nimīliteṣu kṣaṇena jātaḥ su mahā-aṃdhakāraḥ.. 17..
तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदांभः॥ शंभोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरिजलस्य बिन्दुः॥ १८॥
तद्-स्पर्श-योगात् च महेश्वरस्य करौ च तस्याः स्खलितम् मद-अंभः॥ शंभोः ललाटे क्षण-वह्नि-तप्तः विनिर्गतः भूरि-जलस्य बिन्दुः॥ १८॥
tad-sparśa-yogāt ca maheśvarasya karau ca tasyāḥ skhalitam mada-aṃbhaḥ.. śaṃbhoḥ lalāṭe kṣaṇa-vahni-taptaḥ vinirgataḥ bhūri-jalasya binduḥ.. 18..
गर्भो बभूवाथ करालवक्त्रो भयंकरः क्रोधपरः कृतघ्नः॥ अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकस्सुरोमा॥ १९॥
गर्भः बभूव अथ कराल-वक्त्रः भयंकरः क्रोध-परः कृतघ्नः॥ अन्धः विरूपी जटिलः च कृष्णः नरेतरः वैकृतिकः सु रोमा॥ १९॥
garbhaḥ babhūva atha karāla-vaktraḥ bhayaṃkaraḥ krodha-paraḥ kṛtaghnaḥ.. andhaḥ virūpī jaṭilaḥ ca kṛṣṇaḥ naretaraḥ vaikṛtikaḥ su romā.. 19..
गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घरघोरघोषः॥ जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह॥ 2.5.42.२०॥
गायन् हसन् प्ररुदन् नृत्यमानः विलेलिहानः घर-घोर-घोषः॥ जातेन तेन अद्भुत-दर्शनेन गौरीम् भवः असौ स्मित-पूर्वम् आह॥ २।५।४२।२०॥
gāyan hasan prarudan nṛtyamānaḥ vilelihānaḥ ghara-ghora-ghoṣaḥ.. jātena tena adbhuta-darśanena gaurīm bhavaḥ asau smita-pūrvam āha.. 2.5.42.20..
श्रीमहेश उवाच।।
निमील्य नेत्राणि कृतं च कर्म बिभेषि साऽस्माद्दयिते कथं त्वम् ॥ गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे ॥ २१॥
निमील्य नेत्राणि कृतम् च कर्म बिभेषि सा अस्मात् दयिते कथम् त्वम् ॥ गौरी हरात् तत् वचनम् निशम्य विहस्यमाना प्रमुमोच नेत्रे ॥ २१॥
nimīlya netrāṇi kṛtam ca karma bibheṣi sā asmāt dayite katham tvam .. gaurī harāt tat vacanam niśamya vihasyamānā pramumoca netre .. 21..
जाते प्रकाशे सति घोररूपो जातोंधकारादपि नेत्रहीनः ॥ तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम् ॥ २२ ॥
जाते प्रकाशे सति घोर-रूपः नेत्र-हीनः ॥ तादृग्विधम् तम् च निरीक्ष्य भूतम् पप्रच्छ गौरी पुरुषम् महेशम् ॥ २२ ॥
jāte prakāśe sati ghora-rūpaḥ netra-hīnaḥ .. tādṛgvidham tam ca nirīkṣya bhūtam papraccha gaurī puruṣam maheśam .. 22 ..
गौर्य्युवाच ।।
कोयं विरूपो भगवन्हि जातो नावग्रतो घोरभयंकरश्च ॥ वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः ॥ २३ ॥
कः इयम् विरूपः भगवन् हि जातः घोर-भयंकरः च ॥ वदस्व सत्यम् मम किम् निमित्तम् सृष्टः अथ वा केन च कस्य पुत्रः ॥ २३ ॥
kaḥ iyam virūpaḥ bhagavan hi jātaḥ ghora-bhayaṃkaraḥ ca .. vadasva satyam mama kim nimittam sṛṣṭaḥ atha vā kena ca kasya putraḥ .. 23 ..
सनत्कुमार उवाच ।।
श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरस्सृष्टिकृतोंऽधरूपाम् ॥ लीलाकरायास्त्रिजगज्जनन्या विहस्य किंचिद्भगवानुवाच ॥ २४॥
श्रुत्वा हरः तत् वचनम् प्रियायाः लीलाकरः सृष्टि-कृतः अधरूपाम् ॥ लीलाकरायाः त्रिजगत्-जनन्याः विहस्य किंचिद् भगवान् उवाच ॥ २४॥
śrutvā haraḥ tat vacanam priyāyāḥ līlākaraḥ sṛṣṭi-kṛtaḥ adharūpām .. līlākarāyāḥ trijagat-jananyāḥ vihasya kiṃcid bhagavān uvāca .. 24..
महेश उवाच ।।
शृण्वंबिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः ॥ निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेंधकनामधेयः ॥ २५॥
शृणु अंबिके हि अद्भुत-वृत्त-कारे उत्पन्नः एषः अद्भुत-चण्ड-वीर्यः ॥ निमीलिते चक्षुषि मे भवत्या स स्वेद-जः मेंधक-नामधेयः ॥ २५॥
śṛṇu aṃbike hi adbhuta-vṛtta-kāre utpannaḥ eṣaḥ adbhuta-caṇḍa-vīryaḥ .. nimīlite cakṣuṣi me bhavatyā sa sveda-jaḥ meṃdhaka-nāmadheyaḥ .. 25..
त्वं चास्य कर्तास्ययथानुरूपं त्वया ससख्या दयया गणेभ्यः ॥ स रक्षितव्यस्त्वयि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये ॥ २६ ॥
त्वम् च अस्य कर्तासि अयथानुरूपम् त्वया स सख्या दयया गणेभ्यः ॥ स रक्षितव्यः त्वयि तम् हि वा एकम् विचार्य बुद्ध्या करणीयम् आर्ये ॥ २६ ॥
tvam ca asya kartāsi ayathānurūpam tvayā sa sakhyā dayayā gaṇebhyaḥ .. sa rakṣitavyaḥ tvayi tam hi vā ekam vicārya buddhyā karaṇīyam ārye .. 26 ..
सनत्कुमार उवाच ।।
गौरी ततो भर्तृवचो निशम्य कारुण्यभावात्सहिता सखीभिः ॥ नानाप्रकारैर्बहुभिर्ह्युपायैश्चकार रक्षां स्वसुतस्य यद्वत् ॥ २७॥
गौरी ततस् भर्तृ-वचः निशम्य कारुण्य-भावात् सहिता सखीभिः ॥ नाना प्रकारैः बहुभिः हि उपायैः चकार रक्षाम् स्व-सुतस्य यद्वत् ॥ २७॥
gaurī tatas bhartṛ-vacaḥ niśamya kāruṇya-bhāvāt sahitā sakhībhiḥ .. nānā prakāraiḥ bahubhiḥ hi upāyaiḥ cakāra rakṣām sva-sutasya yadvat .. 27..
कालेऽथ तस्मिञ्शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः॥ स्वज्येष्ठबंधोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः॥ २८॥
काले अथ तस्मिन् शिशिरे प्रयातः हिरण्यनेत्रः तु अथ पुत्र-कामः॥ स्व-ज्येष्ठ-बंधोः तनय-प्रतानम् संवीक्ष्य च आसीत् प्रियया नियुक्तः॥ २८॥
kāle atha tasmin śiśire prayātaḥ hiraṇyanetraḥ tu atha putra-kāmaḥ.. sva-jyeṣṭha-baṃdhoḥ tanaya-pratānam saṃvīkṣya ca āsīt priyayā niyuktaḥ.. 28..
अरण्यमाश्रित्य तपश्चकारासुरस्तदा कश्यपजस्सुतार्थम् ॥ काष्ठोपमोऽसौ जितरोषदोषस्संदर्शनार्थं तु महेश्वरस्य ॥ २९ ॥
अरण्यम् आश्रित्य तपः चकार असुरः तदा कश्यप-जः सुत-अर्थम् ॥ काष्ठ-उपमः असौ जित-रोष-दोषः संदर्शन-अर्थम् तु महेश्वरस्य ॥ २९ ॥
araṇyam āśritya tapaḥ cakāra asuraḥ tadā kaśyapa-jaḥ suta-artham .. kāṣṭha-upamaḥ asau jita-roṣa-doṣaḥ saṃdarśana-artham tu maheśvarasya .. 29 ..
तुष्टः पिनाकी तपसास्य सम्यग्वरप्रदानाय ययौ द्विजेन्द्र ॥ तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः ॥ 2.5.42.३० ॥
तुष्टः पिनाकी तपसा अस्य सम्यक् वर-प्रदानाय ययौ द्विजेन्द्र ॥ तत् स्थानम् आसाद्य वृषध्वजः असौ जगाद दैत्य-प्रवरम् महेशः ॥ २।५।४२।३० ॥
tuṣṭaḥ pinākī tapasā asya samyak vara-pradānāya yayau dvijendra .. tat sthānam āsādya vṛṣadhvajaḥ asau jagāda daitya-pravaram maheśaḥ .. 2.5.42.30 ..
महेश उवाच ।।
हे दैत्यनाथ कुरु नेन्द्रियसंघपातं किमर्थमेतद्व्रतमाश्रितं ते ॥ प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि ॥ ३१ ॥
हे दैत्य-नाथ कुरु न इन्द्रिय-संघपातम् किमर्थम् एतत् व्रतम् आश्रितम् ते ॥ प्रब्रूहि कामम् वर-दः भवः अहम् यत् इच्छसि त्वम् सकलम् ददामि ॥ ३१ ॥
he daitya-nātha kuru na indriya-saṃghapātam kimartham etat vratam āśritam te .. prabrūhi kāmam vara-daḥ bhavaḥ aham yat icchasi tvam sakalam dadāmi .. 31 ..
सनत्कुमार उवाच ।।
सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः ॥ कृतांजलिर्नम्रशिरा उवाच स्तुत्या च नत्वा विविधं गिरीशम् ॥ ३२ ॥
सरस्यम् आकर्ण्य महेश-वाक्यम् हि अति प्रसन्नः कनकाक्ष-दैत्यः ॥ कृतांजलिः नम्र-शिराः उवाच स्तुत्या च नत्वा विविधम् गिरीशम् ॥ ३२ ॥
sarasyam ākarṇya maheśa-vākyam hi ati prasannaḥ kanakākṣa-daityaḥ .. kṛtāṃjaliḥ namra-śirāḥ uvāca stutyā ca natvā vividham girīśam .. 32 ..
।। हिरण्याक्ष उवाच ।।
पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ॥ तदर्थमेतद्व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवंतम्॥ ३३॥
पुत्रः तु मे चन्द्रललाट ना अस्ति सु वीर्यवान् दैत्य-कुल-अनुरूपी ॥ तद्-अर्थम् एतत् व्रतम् आस्थितः अहम् तम् देहि देवेश सु वीर्यवंतम्॥ ३३॥
putraḥ tu me candralalāṭa nā asti su vīryavān daitya-kula-anurūpī .. tad-artham etat vratam āsthitaḥ aham tam dehi deveśa su vīryavaṃtam.. 33..
यस्माच्च मद्भ्रातुरनंतवीर्याः प्रह्लादपूर्वा अपि पंचपुत्राः ॥ ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत् ॥ ३४॥ ॥
यस्मात् च मद्-भ्रातुः अनंत-वीर्याः प्रह्लाद-पूर्वे अपि पंच-पुत्राः ॥ मम इह ना अस्ति इति गत-अन्वयः अहम् कः मामकम् राज्यम् इदम् बुभूषेत् ॥ ३४॥ ॥
yasmāt ca mad-bhrātuḥ anaṃta-vīryāḥ prahlāda-pūrve api paṃca-putrāḥ .. mama iha nā asti iti gata-anvayaḥ aham kaḥ māmakam rājyam idam bubhūṣet .. 34.. ..
राज्यं परस्य स्वबलेन हृत्वा भुंक्तेऽथवा स्वं पितुरेव दृष्टम् ॥ च प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापिभवेत्पितासौ ॥ ३५ ॥
राज्यम् परस्य स्व-बलेन हृत्वा भुंक्ते अथवा स्वम् पितुः एव दृष्टम् ॥ च प्रोच्यते पुत्रः इह तु अमुत्र पुत्री स तेन अपि भवेत् पिता असौ ॥ ३५ ॥
rājyam parasya sva-balena hṛtvā bhuṃkte athavā svam pituḥ eva dṛṣṭam .. ca procyate putraḥ iha tu amutra putrī sa tena api bhavet pitā asau .. 35 ..
ऊर्द्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः ॥ सर्वाणि भूतानि तदर्थमेवमतः प्रवर्तेत पशून् स्वतेजसः ॥ ३६ ॥
ऊर्द्ध्वम् गतिः पुत्रवताम् निरुक्ता मनीषिभिः धर्म-भृताम् वरिष्ठैः ॥ सर्वाणि भूतानि तद्-अर्थम् एवम् अतस् प्रवर्तेत पशून् स्व-तेजसः ॥ ३६ ॥
ūrddhvam gatiḥ putravatām niruktā manīṣibhiḥ dharma-bhṛtām variṣṭhaiḥ .. sarvāṇi bhūtāni tad-artham evam atas pravarteta paśūn sva-tejasaḥ .. 36 ..
निरन्वयस्याथ न संति लोकास्तदर्थमिच्छंति जनाः सुरेभ्यः ॥ सदा समाराध्य सुरात्रिपंकजं याचंत इत्थं सुतमेकमेव ॥ ३७ ॥
निरन्वयस्य अथ न संति लोकाः तद्-अर्थम् इच्छंति जनाः सुरेभ्यः ॥ सदा समाराध्य सुरात्रि-पंकजम् याचंते इत्थम् सुतम् एकम् एव ॥ ३७ ॥
niranvayasya atha na saṃti lokāḥ tad-artham icchaṃti janāḥ surebhyaḥ .. sadā samārādhya surātri-paṃkajam yācaṃte ittham sutam ekam eva .. 37 ..
सनत्कुमार उवाच ।।
एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः॥ तमाह दैत्यातप नास्ति पुत्रस्त्वद्वीर्यजः किंतु ददामि पुत्रम् ॥ ३८॥
एतत् भवः तत् वचनम् निशम्य कृपा-आकरः दैत्य-नृपस्य तुष्टः॥ तम् आह दैत्य-आतप ना अस्ति पुत्रः त्वद्-वीर्य-जः किंतु ददामि पुत्रम् ॥ ३८॥
etat bhavaḥ tat vacanam niśamya kṛpā-ākaraḥ daitya-nṛpasya tuṣṭaḥ.. tam āha daitya-ātapa nā asti putraḥ tvad-vīrya-jaḥ kiṃtu dadāmi putram .. 38..
ममात्मजं त्वंधकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च ॥ वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव ॥ ३९॥
मम आत्मजम् तु अंधक-नामधेयम् त्वद्-तुल्य-वीर्यम् तु अपराजितम् च ॥ वृणीष्व पुत्रम् सकलम् विहाय दुःखम् प्रतीच्छस्व सुतम् त्वम् एव ॥ ३९॥
mama ātmajam tu aṃdhaka-nāmadheyam tvad-tulya-vīryam tu aparājitam ca .. vṛṇīṣva putram sakalam vihāya duḥkham pratīcchasva sutam tvam eva .. 39..
सनत्कुमार उवाच ।।
इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः ॥ हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः ॥ 2.5.42.४० ॥
इति एवम् उक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतम् प्रसन्नः ॥ हरः तु गौर्या सहितः महात्मा भूतादिनाथः त्रिपुरारिः उग्रः ॥ २।५।४२।४० ॥
iti evam uktvā pradadau sa tasmai hiraṇyanetrāya sutam prasannaḥ .. haraḥ tu gauryā sahitaḥ mahātmā bhūtādināthaḥ tripurāriḥ ugraḥ .. 2.5.42.40 ..
नतो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ॥ स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टस्स्वराज्यं गतवान्महात्मा ॥ ४१
नतः हरात् प्राप्य सुतम् स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ॥ स्तोत्रैः अनेकैः अभिपूज्य रुद्रम् तुष्टः स्व-राज्यम् गतवान् महात्मा ॥ ४१
nataḥ harāt prāpya sutam sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa .. stotraiḥ anekaiḥ abhipūjya rudram tuṣṭaḥ sva-rājyam gatavān mahātmā .. 41
ततस्तु पुत्रं गिरिशादवाप्य रसातलं चंडपराक्रमस्तु ॥ इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान् ॥ ४२ ॥
ततस् तु पुत्रम् गिरिशात् अवाप्य रसातलम् चंड-पराक्रमः तु ॥ इमाम् धरित्रीम् अनयत् स्व-देशम् दैत्यः विजित्वा त्रिदशान् अशेषान् ॥ ४२ ॥
tatas tu putram giriśāt avāpya rasātalam caṃḍa-parākramaḥ tu .. imām dharitrīm anayat sva-deśam daityaḥ vijitvā tridaśān aśeṣān .. 42 ..
ततस्तु देवेर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् ॥ वाराहमाश्रित्य वपुः प्रधानमाराधितो विष्णुरनंतवीर्यः ॥ ४३ ॥
ततस् तु देवेः मुनिभिः च सिद्धैः सर्व-आत्मकम् यज्ञ-मयम् करालम् ॥ वाराहम् आश्रित्य वपुः प्रधानम् आराधितः विष्णुः अनंत-वीर्यः ॥ ४३ ॥
tatas tu deveḥ munibhiḥ ca siddhaiḥ sarva-ātmakam yajña-mayam karālam .. vārāham āśritya vapuḥ pradhānam ārādhitaḥ viṣṇuḥ anaṃta-vīryaḥ .. 43 ..
घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य ॥ तुंडेन दैत्याञ्शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभि अखंडिताभिः ॥ ४४॥
घोणा-प्रहारैः विविधैः धरित्रीम् विदार्य पाताल-तलम् प्रविश्य ॥ तुंडेन दैत्यान् शतशस् विचूर्ण्य दंष्ट्राभिः अग्र्याभिः अखण्डिताभिः ॥ ४४॥
ghoṇā-prahāraiḥ vividhaiḥ dharitrīm vidārya pātāla-talam praviśya .. tuṃḍena daityān śataśas vicūrṇya daṃṣṭrābhiḥ agryābhiḥ akhaṇḍitābhiḥ .. 44..
पादप्रहारैरशनिप्रकाशैरुन्मथ्य सैन्यानि निशाचराणाम् ॥ मार्तंडकोटिप्रतिमेन पश्चात्सुदर्शनेनाद्भुतचंडतेजाः ॥ ४५ ॥
पाद-प्रहारैः अशनि-प्रकाशैः उन्मथ्य सैन्यानि निशाचराणाम् ॥ मार्तंड-कोटि-प्रतिमेन पश्चात् सुदर्शनेन अद्भुत-चंड-तेजाः ॥ ४५ ॥
pāda-prahāraiḥ aśani-prakāśaiḥ unmathya sainyāni niśācarāṇām .. mārtaṃḍa-koṭi-pratimena paścāt sudarśanena adbhuta-caṃḍa-tejāḥ .. 45 ..
हिरण्यनेत्रस्य शिरो ज्वलंतं चिच्छेद दैत्यांश्च ददाह दुष्टान् ॥ ततः प्रहृष्टो दितिजेन्द्रराजं स्वमंधकं तत्र स चाभ्यषिंचत् ॥ ४६ ॥
हिरण्यनेत्रस्य शिरः ज्वलंतम् चिच्छेद दैत्यान् च ददाह दुष्टान् ॥ ततस् प्रहृष्टः दितिज-इन्द्र-राजम् स्वम् अंधकम् तत्र स च अभ्यषिंचत् ॥ ४६ ॥
hiraṇyanetrasya śiraḥ jvalaṃtam ciccheda daityān ca dadāha duṣṭān .. tatas prahṛṣṭaḥ ditija-indra-rājam svam aṃdhakam tatra sa ca abhyaṣiṃcat .. 46 ..
स्वस्थानमागत्य ततो धरित्रीं दृष्ट्वांकुरेणोद्धरतः प्रहृष्टः ॥ भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु॥ ४७॥
स्व-स्थानम् आगत्य ततस् धरित्रीम् दृष्ट्वा अंकुरेण उद्धरतः प्रहृष्टः ॥ भूमिम् च पाताल-तलात् महात्मा पुपोष भागम् तु अथ पूर्वकम् तु॥ ४७॥
sva-sthānam āgatya tatas dharitrīm dṛṣṭvā aṃkureṇa uddharataḥ prahṛṣṭaḥ .. bhūmim ca pātāla-talāt mahātmā pupoṣa bhāgam tu atha pūrvakam tu.. 47..
देवैस्समस्तैर्मुनिभिःप्रहृष्टै रभिषुतः पद्मभुवा च तेन ॥ ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता ॥ ४८ ॥
देवैः समस्तैः मुनिभिः प्रहृष्टैः रभिषुतः पद्मभुवा च तेन ॥ ययौ स्व-लोकम् हरिः उग्र-कायः वराह-रूपः तु सु कार्य-कर्ता ॥ ४८ ॥
devaiḥ samastaiḥ munibhiḥ prahṛṣṭaiḥ rabhiṣutaḥ padmabhuvā ca tena .. yayau sva-lokam hariḥ ugra-kāyaḥ varāha-rūpaḥ tu su kārya-kartā .. 48 ..
हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण देवाः ॥ देवास्समस्ता मुनयश्च सर्वे परे च जीवास्सुखिनो बभूवुः ॥ ४९ ॥ ॥
हिरण्यनेत्रे अथ हते असुर-ईशे वराह-रूपेण सुरेण देवाः ॥ देवाः समस्ताः मुनयः च सर्वे परे च जीवाः सुखिनः बभूवुः ॥ ४९ ॥ ॥
hiraṇyanetre atha hate asura-īśe varāha-rūpeṇa sureṇa devāḥ .. devāḥ samastāḥ munayaḥ ca sarve pare ca jīvāḥ sukhinaḥ babhūvuḥ .. 49 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे हिरण्याक्षवधः नाम द्विचत्वारिंशः अध्यायः ॥ ४२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe hiraṇyākṣavadhaḥ nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In