| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि ॥ किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः ॥ १॥
सनत्कुमार सर्वज्ञ हते तस्मिन् सुरद्रुहि ॥ किम् अकार्षीत् ततस् तस्य ज्येष्ठ-भ्राता महा-असुरः ॥ १॥
sanatkumāra sarvajña hate tasmin suradruhi .. kim akārṣīt tatas tasya jyeṣṭha-bhrātā mahā-asuraḥ .. 1..
कुतूहलमिति श्रोतुं ममाऽतीह मुनीश्वर ॥ तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोस्तु ते ॥ २ ॥
कुतूहलम् इति श्रोतुम् मम अतीह मुनि-ईश्वर ॥ तत् श्रावय कृपाम् कृत्वा ब्रह्म-पुत्र नमः अस्तु ते ॥ २ ॥
kutūhalam iti śrotum mama atīha muni-īśvara .. tat śrāvaya kṛpām kṛtvā brahma-putra namaḥ astu te .. 2 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३॥
इति आकर्ण्य वचः तस्य व्यासस्य स मुनि-ईश्वरः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिव-पद-अम्बुजम् ॥ ३॥
iti ākarṇya vacaḥ tasya vyāsasya sa muni-īśvaraḥ .. sanatkumāraḥ provāca smṛtvā śiva-pada-ambujam .. 3..
सनत्कुमार उवाच ।।
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ॥ हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा॥ ४॥
भ्रातरि एवम् विनिहते हरिणा क्रोड-मूर्तिना ॥ हिरण्यकशिपुः व्यास पर्यतप्यत् रुषा शुचा॥ ४॥
bhrātari evam vinihate hariṇā kroḍa-mūrtinā .. hiraṇyakaśipuḥ vyāsa paryatapyat ruṣā śucā.. 4..
ततः प्रजानां कदनं विधातुं कदनप्रियान् ॥ निर्दिदेशाऽसुरान्वीरान्हरि वैरप्रियो हि सः ॥ ५॥
ततस् प्रजानाम् कदनम् विधातुम् कदन-प्रियान् ॥ निर्दिदेश अ सुरान् वीरान् हरि वैर-प्रियः हि सः ॥ ५॥
tatas prajānām kadanam vidhātum kadana-priyān .. nirdideśa a surān vīrān hari vaira-priyaḥ hi saḥ .. 5..
अथ ते भर्तृसंदेशमादाय शिरसाऽसुराः॥ देवप्रजानां कदनं विदधुः कदनप्रियाः ॥ ६॥
अथ ते भर्तृ-संदेशम् आदाय शिरसा असुराः॥ देव-प्रजानाम् कदनम् विदधुः कदन-प्रियाः ॥ ६॥
atha te bhartṛ-saṃdeśam ādāya śirasā asurāḥ.. deva-prajānām kadanam vidadhuḥ kadana-priyāḥ .. 6..
ततो विप्रकृते लोकेऽसुरैस्तेर्दुष्टमानसैः॥ दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ ७॥
ततस् विप्रकृते लोके असुरैः तेः दुष्ट-मानसैः॥ दिवम् देवाः परित्यज्य भुवि चेरुः अलक्षिताः ॥ ७॥
tatas viprakṛte loke asuraiḥ teḥ duṣṭa-mānasaiḥ.. divam devāḥ parityajya bhuvi ceruḥ alakṣitāḥ .. 7..
हिरण्यकशिपुर्भ्रातुस्संपरेतस्य दुःखितः ॥ कृत्वा करोदकादीनि तत्कलत्राद्यसांत्वयत् ॥ ८ ॥
हिरण्यकशिपुः भ्रातुः संपरेतस्य दुःखितः ॥ कृत्वा कर-उदक-आदीनि तद्-कलत्र-आदि असांत्वयत् ॥ ८ ॥
hiraṇyakaśipuḥ bhrātuḥ saṃparetasya duḥkhitaḥ .. kṛtvā kara-udaka-ādīni tad-kalatra-ādi asāṃtvayat .. 8 ..
ततस्स दैत्यराजेन्द्रो ह्यजेयमजरामरम् ॥ आत्मानमप्र तिद्वंद्वमेकराज्यं व्यधित्सत ॥ ९ ॥
ततस् स दैत्य-राज-इन्द्रः हि अजेयम् अजर-अमरम् ॥ आत्मानम् अ प्रतिद्वंद्वम् एक-राज्यम् व्यधित्सत ॥ ९ ॥
tatas sa daitya-rāja-indraḥ hi ajeyam ajara-amaram .. ātmānam a pratidvaṃdvam eka-rājyam vyadhitsata .. 9 ..
स तेपे मंदरद्रोण्यां तपः परमदारुणम् ॥ ऊर्द्ध्वबाहुर्नभोदृष्टिः षादांगुष्ठाश्रितावनिः ॥ 2.5.43.१०॥
स तेपे मंदर-द्रोण्याम् तपः परम-दारुणम् ॥ ऊर्द्ध्वबाहुः नभः-दृष्टिः ॥ २।५।४३।१०॥
sa tepe maṃdara-droṇyām tapaḥ parama-dāruṇam .. ūrddhvabāhuḥ nabhaḥ-dṛṣṭiḥ .. 2.5.43.10..
तस्मिंस्तपस्तप्यमाने देवास्सर्वे बलान्विताः ॥ दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे ॥ ११ ॥
तस्मिन् तपः तप्यमाने देवाः सर्वे बल-अन्विताः ॥ दैत्यान् सर्वान् विनिर्जित्य स्वानि स्थानानि भेजिरे ॥ ११ ॥
tasmin tapaḥ tapyamāne devāḥ sarve bala-anvitāḥ .. daityān sarvān vinirjitya svāni sthānāni bhejire .. 11 ..
तस्य मूर्द्ध्नस्समुद्भूतः सधूमोग्निस्तपोमयः ॥ तिर्यगूर्द्ध्वमधोलोकानतपद्विष्वगीरितः ॥ १२ ॥
तस्य मूर्द्ध्नः समुद्भूतः स धूम-उग्निः तपः-मयः ॥ तिर्यक् ऊर्द्ध्वम् अधस् लोक-आनतपत् विष्वक्-ईरितः ॥ १२ ॥
tasya mūrddhnaḥ samudbhūtaḥ sa dhūma-ugniḥ tapaḥ-mayaḥ .. tiryak ūrddhvam adhas loka-ānatapat viṣvak-īritaḥ .. 12 ..
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुस्सुराः॥ धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः ॥ १३ ॥
तेन तप्ताः दिवम् त्यक्त्वा ब्रह्म-लोकम् ययुः सुराः॥ धात्रे विज्ञापयामासुः तत् तपः-विकृत-आननाः ॥ १३ ॥
tena taptāḥ divam tyaktvā brahma-lokam yayuḥ surāḥ.. dhātre vijñāpayāmāsuḥ tat tapaḥ-vikṛta-ānanāḥ .. 13 ..
अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः॥ परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १॥
अथ विज्ञापितः देवैः व्यास तैः आत्मभूः विधिः॥ परीतः भृगु-दक्ष-आद्यैः ययौ दैत्य-ईश्वर-आश्रमम्॥
atha vijñāpitaḥ devaiḥ vyāsa taiḥ ātmabhūḥ vidhiḥ.. parītaḥ bhṛgu-dakṣa-ādyaiḥ yayau daitya-īśvara-āśramam..
प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श ॥ वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोपि ॥ निशम्य वाचं मधुरां विधातुर्वचोऽब्रवीदेव ममूढबुद्धिः ॥ १५ ॥
प्रताप्य लोकान् अखिलान् ततस् असौ समागतम् पद्मभवम् ददर्श ॥ वरम् हि दातुम् तम् उवाच धाता वरम् वृणीष्व इति पितामहः उपि ॥ निशम्य वाचम् मधुराम् विधातुः वचः अब्रवीत् एव ममूढ-बुद्धिः ॥ १५ ॥
pratāpya lokān akhilān tatas asau samāgatam padmabhavam dadarśa .. varam hi dātum tam uvāca dhātā varam vṛṇīṣva iti pitāmahaḥ upi .. niśamya vācam madhurām vidhātuḥ vacaḥ abravīt eva mamūḍha-buddhiḥ .. 15 ..
हिरण्यकशिपुरुवाच ।।
मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव ॥ शास्त्रास्त्रपाशाशनिशुष्कवृक्षगिरीन्द्रतोयाग्निरिपुप्रहारैः ॥ १६ ॥
मृत्योः भयम् मे भगवन् प्रजा-ईश पितामह अभूत् न कदापि देव ॥ शास्त्र-अस्त्र-पाश-अशनि-शुष्क-वृक्ष-गिरि-इन्द्र-तोय-अग्नि-रिपु-प्रहारैः ॥ १६ ॥
mṛtyoḥ bhayam me bhagavan prajā-īśa pitāmaha abhūt na kadāpi deva .. śāstra-astra-pāśa-aśani-śuṣka-vṛkṣa-giri-indra-toya-agni-ripu-prahāraiḥ .. 16 ..
देवैश्च दैत्यैर्मुनिभिश्च सिद्धैस्त्वत्सृष्टजीवैर्बहुवाक्यतः किम् ॥ स्वर्गे धरण्यां दिवसे निशायां नैवोर्द्ध्वतो नाप्यधतः प्रजेश ॥ १७ ॥
देवैः च दैत्यैः मुनिभिः च सिद्धैः त्वद्-सृष्ट-जीवैः बहु-वाक्यतः किम् ॥ स्वर्गे धरण्याम् दिवसे निशायाम् न एव ऊर्द्ध्वतस् न अपि अधतस् प्रजा ईश ॥ १७ ॥
devaiḥ ca daityaiḥ munibhiḥ ca siddhaiḥ tvad-sṛṣṭa-jīvaiḥ bahu-vākyataḥ kim .. svarge dharaṇyām divase niśāyām na eva ūrddhvatas na api adhatas prajā īśa .. 17 ..
सनत्कुमार उवाच ।।
तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् ॥ प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः ॥ १८ ॥
तस्य एतत् ईदृश् वचनम् निशम्य दैत्य-इन्द्र तुष्टः अस्मि लभस्व सर्वम् ॥ प्रणम्य विष्णुम् मनसा तम् आह दया-अन्वितः असौ इति पद्मयोनिः ॥ १८ ॥
tasya etat īdṛś vacanam niśamya daitya-indra tuṣṭaḥ asmi labhasva sarvam .. praṇamya viṣṇum manasā tam āha dayā-anvitaḥ asau iti padmayoniḥ .. 18 ..
अलं तपस्ते परिपूर्ण कामस्समाः सहस्राणि च षण्णवत्य ॥ उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव ॥ १९ ॥
अलम् तपः ते परिपूर्ण कामः समाः सहस्राणि च ॥ उत्तिष्ठ राज्यम् कुरु दानवानाम् श्रुत्वा गिरम् तद्-सु मुखः बभूव ॥ १९ ॥
alam tapaḥ te paripūrṇa kāmaḥ samāḥ sahasrāṇi ca .. uttiṣṭha rājyam kuru dānavānām śrutvā giram tad-su mukhaḥ babhūva .. 19 ..
राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार ॥ उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोपि सुरान्समस्तान् ॥ ॥ 2.5.43.२० ॥
राज्य-अभिषिक्तः प्रपितामहेन त्रैलोक्य-नाशाय मतिम् चकार ॥ उत्साद्य धर्मान् सकलान् प्रमत्तः जित्वा आहवे सः अपि सुरान् समस्तान् ॥ ॥ २।५।४३।२० ॥
rājya-abhiṣiktaḥ prapitāmahena trailokya-nāśāya matim cakāra .. utsādya dharmān sakalān pramattaḥ jitvā āhave saḥ api surān samastān .. .. 2.5.43.20 ..
ततो भयादिंद्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे ॥ उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते ॥ २१ ॥
ततस् भयात् इंद्र-मुखाः च देवाः पितामह-आज्ञाम् समवाप्य सर्वे ॥ उपद्रुताः दैत्य-वरेण जाताः क्षीरोदधिम् यत्र हरिः तु शेते ॥ २१ ॥
tatas bhayāt iṃdra-mukhāḥ ca devāḥ pitāmaha-ājñām samavāpya sarve .. upadrutāḥ daitya-vareṇa jātāḥ kṣīrodadhim yatra hariḥ tu śete .. 21 ..
आराधयामासुरतीव विष्णुं स्तुत्वा वचोभित्सुखदं हि मत्वा ॥ निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि तेते ॥ २२ ॥
आराधयामासुः अतीव विष्णुम् स्तुत्वा वचोभिद् सुख-दम् हि मत्वा ॥ निवेदयामासुः अथो प्रसन्नम् दुःखम् स्वकीयम् सकलम् हि ते ते ॥ २२ ॥
ārādhayāmāsuḥ atīva viṣṇum stutvā vacobhid sukha-dam hi matvā .. nivedayāmāsuḥ atho prasannam duḥkham svakīyam sakalam hi te te .. 22 ..
श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु ॥ उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः ॥ २३ ॥
श्रुत्वा तदीयम् सकलम् हि दुःखम् तुष्टः रमेशः प्रददौ वरान् तु ॥ उत्थाय तस्मात् शयनात् उपेन्द्रः निज-अनुरूपैः विविधैः वचोभिः ॥ २३ ॥
śrutvā tadīyam sakalam hi duḥkham tuṣṭaḥ rameśaḥ pradadau varān tu .. utthāya tasmāt śayanāt upendraḥ nija-anurūpaiḥ vividhaiḥ vacobhiḥ .. 23 ..
आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः ॥ दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः॥ २४ ॥
आश्वास्य देवान् अखिलान् मुनीन् वा उवाच वैश्वानर-तुल्य-तेजाः ॥ दैत्यम् हनिष्ये प्रसभम् सुर-ईशाः प्रयात धामानि निजानि तुष्टाः॥ २४ ॥
āśvāsya devān akhilān munīn vā uvāca vaiśvānara-tulya-tejāḥ .. daityam haniṣye prasabham sura-īśāḥ prayāta dhāmāni nijāni tuṣṭāḥ.. 24 ..
श्रुत्वा रमेशस्य वचस्सुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः॥ ययुः स्वधामानि हिरण्यनेत्रानुजं च मत्वा निहतं मुनीश ॥ २५ ॥
श्रुत्वा रमेशस्य वचः सुर-ईशाः शक्र-आदिकाः ते निखिलाः सु तुष्टाः॥ ययुः स्व-धामानि हिरण्यनेत्र-अनुजम् च मत्वा निहतम् मुनि-ईश ॥ २५ ॥
śrutvā rameśasya vacaḥ sura-īśāḥ śakra-ādikāḥ te nikhilāḥ su tuṣṭāḥ.. yayuḥ sva-dhāmāni hiraṇyanetra-anujam ca matvā nihatam muni-īśa .. 25 ..
आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् ॥ सैंहं च नारं सुविदारितास्यं मार्तंडकोटिप्रतिमं सुघोरम् ॥ २६ ॥
आश्रित्य रूपम् जटिलम् करालम् दंष्ट्र-आयुधम् तीक्ष्ण-नखम् सु नासम् ॥ सैंहम् च नारम् सु विदारित-आस्यम् मार्तंड-कोटि-प्रतिमम् सु घोरम् ॥ २६ ॥
āśritya rūpam jaṭilam karālam daṃṣṭra-āyudham tīkṣṇa-nakham su nāsam .. saiṃham ca nāram su vidārita-āsyam mārtaṃḍa-koṭi-pratimam su ghoram .. 26 ..
युगांतकालाग्निसमप्रभावं जगन्मयं किं बहुभिर्वचोभिः ॥ अस्तं रवौसोऽपि हि गच्छतीशो गतोऽसुराणां नगरीं महात्मा ॥ २७ ॥
युग-अंत-काल-अग्नि-सम-प्रभावम् जगत्-मयम् किम् बहुभिः वचोभिः ॥ अस्तम् रवौसः अपि हि गच्छति ईशः गतः असुराणाम् नगरीम् महात्मा ॥ २७ ॥
yuga-aṃta-kāla-agni-sama-prabhāvam jagat-mayam kim bahubhiḥ vacobhiḥ .. astam ravausaḥ api hi gacchati īśaḥ gataḥ asurāṇām nagarīm mahātmā .. 27 ..
कृत्वा च युद्धं प्रबलैस्स दैत्यैर्हत्वाथ तान्दैत्यगणान्गृहीत्वा ॥ बभ्राम तत्राद्रुतविक्रमश्च बभंज तांस्तानसुरान्नृसिंहः ॥ २८ ।
कृत्वा च युद्धम् प्रबलैः स दैत्यैः हत्वा अथ तान् दैत्य-गणान् गृहीत्वा ॥ बभ्राम तत्र आद्रुत-विक्रमः च बभंज तान् तान् असुरान् नृसिंहः ॥ २८ ।
kṛtvā ca yuddham prabalaiḥ sa daityaiḥ hatvā atha tān daitya-gaṇān gṛhītvā .. babhrāma tatra ādruta-vikramaḥ ca babhaṃja tān tān asurān nṛsiṃhaḥ .. 28 .
दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ॥ सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ॥ उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥ २९ ॥
दृष्टः स दैत्यैः अतुल-प्रभावः ते रेभिरे ते हि तथा एव सर्वे ॥ सिंहम् च तम् सर्व-मयम् निरीक्ष्य प्रह्लाद-नामा दितिज-इन्द्र-पुत्रः ॥ उवाच राजानम् अयम् मृगेन्द्रः जगत्-मयः किम् समुपागतः च ॥ २९ ॥
dṛṣṭaḥ sa daityaiḥ atula-prabhāvaḥ te rebhire te hi tathā eva sarve .. siṃham ca tam sarva-mayam nirīkṣya prahlāda-nāmā ditija-indra-putraḥ .. uvāca rājānam ayam mṛgendraḥ jagat-mayaḥ kim samupāgataḥ ca .. 29 ..
प्रह्लाद उवाच।।
एष प्रविष्टो भगवाननंतो नृसिंहमात्रो नगरं त्वदंतः ॥ निवृत्य युद्धाच्छ रणं प्रयाहि पश्यामि सिंहस्य करालमूर्त्तिम् ॥ 2.5.43.३०॥
एष प्रविष्टः भगवान् अनंतः नृसिंह-मात्रः नगरम् त्वद्-अंतर् ॥ निवृत्य युद्धात् श रणम् प्रयाहि पश्यामि सिंहस्य कराल-मूर्त्तिम् ॥ २।५।४३।३०॥
eṣa praviṣṭaḥ bhagavān anaṃtaḥ nṛsiṃha-mātraḥ nagaram tvad-aṃtar .. nivṛtya yuddhāt śa raṇam prayāhi paśyāmi siṃhasya karāla-mūrttim .. 2.5.43.30..
यस्मान्न योद्धा भुवनत्रयेऽपि कुरुष्व राज्यं विनमन्मृगेन्द्रम् ॥ श्रुत्वा स्वपुत्रस्य वचो दुरात्मा तमाह भीतोऽसि किमत्र पुत्र ॥ ३१॥
यस्मात् न योद्धा भुवनत्रये अपि कुरुष्व राज्यम् विनमन् मृगेन्द्रम् ॥ श्रुत्वा स्व-पुत्रस्य वचः दुरात्मा तम् आह भीतः असि किम् अत्र पुत्र ॥ ३१॥
yasmāt na yoddhā bhuvanatraye api kuruṣva rājyam vinaman mṛgendram .. śrutvā sva-putrasya vacaḥ durātmā tam āha bhītaḥ asi kim atra putra .. 31..
उक्त्वेति पुत्रं दितिजाधिनाथो दैत्यर्षभान्वीरवरान्स राजा ॥ गृह्णंतु वै सिंहममुं भवंतो वीरा विरूपभ्रुकुटीक्षणं तु ॥ ३२ ॥
उक्त्वा इति पुत्रम् दितिज-अधिनाथः दैत्य-ऋषभान् वीर-वरान् स राजा ॥ गृह्णंतु वै सिंहम् अमुम् भवन्तः वीराः विरूप-भ्रुकुटि-ईक्षणम् तु ॥ ३२ ॥
uktvā iti putram ditija-adhināthaḥ daitya-ṛṣabhān vīra-varān sa rājā .. gṛhṇaṃtu vai siṃham amum bhavantaḥ vīrāḥ virūpa-bhrukuṭi-īkṣaṇam tu .. 32 ..
तस्याज्ञया दैत्यवरास्ततस्ते ग्रहीतुकामा विविशुर्मृगेन्द्रम् ॥ क्षणेन दग्धाश्शलभा इवाग्निं रूपाभिलाषात्प्रविविक्षवो वै ॥ ३३॥
तस्य आज्ञया दैत्य-वराः ततस् ते ग्रहीतु-कामाः विविशुः मृगेन्द्रम् ॥ क्षणेन दग्धाः शलभाः इव अग्निम् रूप-अभिलाषात् प्रविविक्षवः वै ॥ ३३॥
tasya ājñayā daitya-varāḥ tatas te grahītu-kāmāḥ viviśuḥ mṛgendram .. kṣaṇena dagdhāḥ śalabhāḥ iva agnim rūpa-abhilāṣāt pravivikṣavaḥ vai .. 33..
दैत्येषु दग्धेष्वपि दैत्यराजश्चकार युद्धं स मृगाधिपेन ॥ शस्त्रैस्समग्रैरखिलैस्तथास्त्रैश्श क्त्यर्ष्टिपाशांकुशपावकाद्यैः ॥ ३४ ॥
दैत्येषु दग्धेषु अपि दैत्य-राजः चकार युद्धम् स मृगाधिपेन ॥ शस्त्रैः समग्रैः अखिलैः तथा अस्त्रैः श-क्ति-अर्ष्टि-पाश-अंकुश-पावक-आद्यैः ॥ ३४ ॥
daityeṣu dagdheṣu api daitya-rājaḥ cakāra yuddham sa mṛgādhipena .. śastraiḥ samagraiḥ akhilaiḥ tathā astraiḥ śa-kti-arṣṭi-pāśa-aṃkuśa-pāvaka-ādyaiḥ .. 34 ..
संयुध्यतोरेव तयोर्जगाम ब्राह्मं दिनं व्यास हि शस्त्रपाण्योः ॥ प्रवीरयोर्वीररवेण गर्जतोः परस्परं क्रोधसुयुक्तचेतसोः ॥ ३५॥
संयुध्यतोः एव तयोः जगाम ब्राह्मम् दिनम् व्यास हि शस्त्र-पाण्योः ॥ प्रवीरयोः वीर-रवेण गर्जतोः परस्परम् क्रोध-सु युक्त-चेतसोः ॥ ३५॥
saṃyudhyatoḥ eva tayoḥ jagāma brāhmam dinam vyāsa hi śastra-pāṇyoḥ .. pravīrayoḥ vīra-raveṇa garjatoḥ parasparam krodha-su yukta-cetasoḥ .. 35..
ततः स दैत्यस्सहसा बहूंश्च कृत्वा भुजाञ्छस्त्रयुतान्निरीक्ष्य॥ नृसिंहरूपं प्रययौ मृगेन्द्र संयुध्यमानं सहसा समंतात् ॥ ३६ ॥
ततस् स दैत्यः सहसा बहून् च कृत्वा भुजान् शस्त्र-युतान् निरीक्ष्य॥ नृसिंह-रूपम् प्रययौ मृगेन्द्र संयुध्यमानम् सहसा समंतात् ॥ ३६ ॥
tatas sa daityaḥ sahasā bahūn ca kṛtvā bhujān śastra-yutān nirīkṣya.. nṛsiṃha-rūpam prayayau mṛgendra saṃyudhyamānam sahasā samaṃtāt .. 36 ..
ततस्सुयुद्धं त्वतिदुस्सहं तु शस्त्रैस्समस्तैश्च तथाखिलास्त्रैः ॥ कृत्वा महादैत्यवरो नृसिंहं क्षयं गतैश्शूल धरोऽभ्युपायात् ॥ ३७॥
ततस् सु युद्धम् तु अति दुस्सहम् तु शस्त्रैः समस्तैः च तथा अखिल-अस्त्रैः ॥ कृत्वा महा-दैत्य-वरः नृसिंहम् क्षयम् गतैः शूल धरः अभ्युपायात् ॥ ३७॥
tatas su yuddham tu ati dussaham tu śastraiḥ samastaiḥ ca tathā akhila-astraiḥ .. kṛtvā mahā-daitya-varaḥ nṛsiṃham kṣayam gataiḥ śūla dharaḥ abhyupāyāt .. 37..
ततो गृहीतस्स मृगाधिपेन भुजैरनेकैर्गिरिसारवद्भि ॥ निधाय जानौ स भुजांतरेषु नखांकुरैर्दानवमर्मभिद्भिः ॥ ३. ॥
ततस् गृहीतः स मृगाधिपेन भुजैः अनेकैः गिरि-सारवद्भिः ॥ निधाय जानौ स भुजांतरेषु नख-अंकुरैः दानव-मर्म-भिद्भिः ॥ ३। ॥
tatas gṛhītaḥ sa mṛgādhipena bhujaiḥ anekaiḥ giri-sāravadbhiḥ .. nidhāya jānau sa bhujāṃtareṣu nakha-aṃkuraiḥ dānava-marma-bhidbhiḥ .. 3. ..
नखास्त्रहृत्पद्ममसृग्विमिश्रमुत्पाद्य जीवाद्विगतः क्षणेन ॥ त्यक्तस्तदानीं स तु काष्ठभूतः पुनः पुनश्चूर्णितसर्वगात्रः ॥ ३९॥
नख-अस्त्र-हृद्-पद्मम् असृज्-विमिश्रम् उत्पाद्य जीवात् विगतः क्षणेन ॥ त्यक्तः तदानीम् स तु काष्ठ-भूतः पुनर् पुनर् चूर्णित-सर्व-गात्रः ॥ ३९॥
nakha-astra-hṛd-padmam asṛj-vimiśram utpādya jīvāt vigataḥ kṣaṇena .. tyaktaḥ tadānīm sa tu kāṣṭha-bhūtaḥ punar punar cūrṇita-sarva-gātraḥ .. 39..
तस्मिन्हते देवरिपौ प्रसन्नः प्रह्लादमामंत्र्य कृतप्रणामम् ॥ राज्येऽभिषिच्याद्भुतवीर्यविष्णुस्ततः प्रयातो गतिमप्रतर्क्याम् ॥ 2.5.43.४० ॥
तस्मिन् हते देव-रिपौ प्रसन्नः प्रह्लादम् आमंत्र्य कृत-प्रणामम् ॥ राज्ये अभिषिच्य अद्भुत-वीर्य-विष्णुः ततस् प्रयातः गतिम् अप्रतर्क्याम् ॥ २।५।४३।४० ॥
tasmin hate deva-ripau prasannaḥ prahlādam āmaṃtrya kṛta-praṇāmam .. rājye abhiṣicya adbhuta-vīrya-viṣṇuḥ tatas prayātaḥ gatim apratarkyām .. 2.5.43.40 ..
ततोऽतिहृष्टास्सकलास्सुरेशाः प्रणम्य विष्णुं दिशि विप्र तस्याम् ॥ ययुः स्वधामानि पितामहाद्याः कृतस्वकार्यं भगवंतमीड्यम् ॥ ४१ ॥
ततस् अति हृष्टाः सकलाः सुर-ईशाः प्रणम्य विष्णुम् दिशि विप्र तस्याम् ॥ ययुः स्व-धामानि पितामह-आद्याः कृत-स्व-कार्यम् भगवंतम् ईड्यम् ॥ ४१ ॥
tatas ati hṛṣṭāḥ sakalāḥ sura-īśāḥ praṇamya viṣṇum diśi vipra tasyām .. yayuḥ sva-dhāmāni pitāmaha-ādyāḥ kṛta-sva-kāryam bhagavaṃtam īḍyam .. 41 ..
प्रवर्णितं त्वंधकजन्म रुद्राद्धिरण्यनेत्रस्य मृतिर्वराहात् ॥ नृसिंहतस्तत्सहजस्य नाशः प्रह्लादराज्याप्तिरिति प्रसंगात् ॥ ४२ ॥
प्रवर्णितम् तु अंधक-जन्म रुद्रात् हिरण्यनेत्रस्य मृतिः वराहात् ॥ नृसिंहतः तद्-सहजस्य नाशः प्रह्लाद-राज्य-आप्तिः इति प्रसंगात् ॥ ४२ ॥
pravarṇitam tu aṃdhaka-janma rudrāt hiraṇyanetrasya mṛtiḥ varāhāt .. nṛsiṃhataḥ tad-sahajasya nāśaḥ prahlāda-rājya-āptiḥ iti prasaṃgāt .. 42 ..
शृणु त्विदानीं द्विजवर्य मत्तोंधकप्रभावं भवकृत्यलब्धम् ॥ हरेण युद्धं खलु तस्य पश्चाद्गणाधिपत्यं गिरिशस्य तस्य॥ ४३ ॥
शृणु तु इदानीम् द्विज-वर्य मत्त उन्धक-प्रभावम् भव-कृत्य-लब्धम् ॥ हरेण युद्धम् खलु तस्य पश्चात् गण-आधिपत्यम् गिरिशस्य तस्य॥ ४३ ॥
śṛṇu tu idānīm dvija-varya matta undhaka-prabhāvam bhava-kṛtya-labdham .. hareṇa yuddham khalu tasya paścāt gaṇa-ādhipatyam giriśasya tasya.. 43 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गणाधिपत्यप्राप्त्यंधकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे गणाधिपत्यप्राप्त्यंधकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम् नाम त्रिचत्वारिंशः अध्यायः ॥ ४३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe gaṇādhipatyaprāptyaṃdhakajanma hiraṇyanetrahiraṇyakaśipuvadhavarṇanam nāma tricatvāriṃśaḥ adhyāyaḥ .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In