| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
ततो हिरण्याक्षसुतः कदाचित्संश्रावितो नर्मयुतैर्मदांधैः॥ तैर्भ्रातृभिस्संप्रयुतो विहारे किमंध राज्येन तवाद्य कार्यम् ॥ १ ॥
ततस् हिरण्याक्ष-सुतः कदाचिद् संश्रावितः नर्म-युतैः मद-अंधैः॥ तैः भ्रातृभिः संप्रयुतः विहारे किम् अंध राज्येन तव अद्य कार्यम् ॥ १ ॥
tatas hiraṇyākṣa-sutaḥ kadācid saṃśrāvitaḥ narma-yutaiḥ mada-aṃdhaiḥ.. taiḥ bhrātṛbhiḥ saṃprayutaḥ vihāre kim aṃdha rājyena tava adya kāryam .. 1 ..
हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव ॥ यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य ॥ २ ॥
हिरण्यनेत्रः तु बभूव मूढः कलि-प्रियम् नेत्र-विहीनम् एव ॥ यः लब्धवान् त्वाम् विकृतम् विरूपम् घोरैः तपोभिः गिरिशम् प्रसाद्य ॥ २ ॥
hiraṇyanetraḥ tu babhūva mūḍhaḥ kali-priyam netra-vihīnam eva .. yaḥ labdhavān tvām vikṛtam virūpam ghoraiḥ tapobhiḥ giriśam prasādya .. 2 ..
स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् ॥ विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम् ॥ ३ ॥
स त्वम् न भागी खलु राज्यकस्य किम् अन्य-जातः अपि लभेत राज्यम् ॥ विचार्यताम् तत् भवता एव नूनम् वयम् तु तद्-भागिनः एव सत्यम् ॥ ३ ॥
sa tvam na bhāgī khalu rājyakasya kim anya-jātaḥ api labheta rājyam .. vicāryatām tat bhavatā eva nūnam vayam tu tad-bhāginaḥ eva satyam .. 3 ..
सनत्कुमार उवाच ।।
तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः ॥ ताञ्छांतयित्वा विविधैर्वचोभिर्गतस्त्वरण्यं निशि निर्जनं तु ॥ ४ ॥
तेषाम् तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयम् एव दीनः ॥ तान् शांतयित्वा विविधैः वचोभिः गतः तु अरण्यम् निशि निर्जनम् तु ॥ ४ ॥
teṣām tu vākyāni niśamya tāni vicārya buddhyā svayam eva dīnaḥ .. tān śāṃtayitvā vividhaiḥ vacobhiḥ gataḥ tu araṇyam niśi nirjanam tu .. 4 ..
वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः ॥ आहारहीनो नियमोर्द्ध्वबाहुः कर्त्तुं न शक्यं हि सुरा सुरैर्यत् ॥ ५ ॥
वर्ष-अयुतम् तत्र तपः चचार जजाप जाप्यम् विधृत-एक-पादः ॥ आहार-हीनः नियम-ऊर्द्ध्व-बाहुः कर्त्तुम् न शक्यम् हि सुरा सुरैः यत् ॥ ५ ॥
varṣa-ayutam tatra tapaḥ cacāra jajāpa jāpyam vidhṛta-eka-pādaḥ .. āhāra-hīnaḥ niyama-ūrddhva-bāhuḥ karttum na śakyam hi surā suraiḥ yat .. 5 ..
प्रजाल्य वह्निं स्म जुहोति गात्रमांसं सरक्तं खलु वर्षमात्रम् ॥ तीक्ष्णेन शस्त्रेण निकृत्य देहात्समंत्रकं प्रत्यहमेव हुत्वा ॥ ६ ॥
प्रजाल्य वह्निम् स्म जुहोति गात्र-मांसम् स रक्तम् खलु वर्ष-मात्रम् ॥ तीक्ष्णेन शस्त्रेण निकृत्य देहात् स मंत्रकम् प्रत्यहम् एव हुत्वा ॥ ६ ॥
prajālya vahnim sma juhoti gātra-māṃsam sa raktam khalu varṣa-mātram .. tīkṣṇena śastreṇa nikṛtya dehāt sa maṃtrakam pratyaham eva hutvā .. 6 ..
स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् ॥ यदास्य मांसानि न संति देहं प्रक्षेप्तुकामस्तु हुताशनाय ॥ ७ ॥
स्नायु-अस्थि-शेषम् कुणपम् तदा असौ क्षयम् गतम् शोणितम् एव सर्वम् ॥ यदा अस्य मांसानि न संति देहम् प्रक्षेप्तु-कामः तु हुताशनाय ॥ ७ ॥
snāyu-asthi-śeṣam kuṇapam tadā asau kṣayam gatam śoṇitam eva sarvam .. yadā asya māṃsāni na saṃti deham prakṣeptu-kāmaḥ tu hutāśanāya .. 7 ..
ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैस्समस्तैः ॥ अथामरैश्शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि ॥ ८ ॥
ततस् स दृष्टः त्रिदशालयैः जनैः सु विस्मितैः भीति-युतैः समस्तैः ॥ अथा अमरैः शीघ्रतरम् प्रसादितः बभूव धाता नुतिभिः नुतः हि ॥ ८ ॥
tatas sa dṛṣṭaḥ tridaśālayaiḥ janaiḥ su vismitaiḥ bhīti-yutaiḥ samastaiḥ .. athā amaraiḥ śīghrataram prasāditaḥ babhūva dhātā nutibhiḥ nutaḥ hi .. 8 ..
निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्यवरं वृणीष्व ॥ यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण ॥ ९॥
निवारयित्वा अथ पितामहः तम् हि उवाच तम् च अद्य वरम् वृणीष्व ॥ यस्य आप्ति-कामः तव सर्व-लोके सु दुर्लभम् दानव तम् गृहाण ॥ ९॥
nivārayitvā atha pitāmahaḥ tam hi uvāca tam ca adya varam vṛṇīṣva .. yasya āpti-kāmaḥ tava sarva-loke su durlabham dānava tam gṛhāṇa .. 9..
स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः ॥ यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम संतु भृत्याः ॥ 2.5.44.१० ॥
स पद्मयोनेः तु वचः निशम्य प्रोवाच दीनः प्रणतः तु दैत्यः ॥ यैः निष्ठुरैः मे प्रहृतम् तु राज्यम् प्रह्राद-मुख्याः मम संतु भृत्याः ॥ २।५।४४।१० ॥
sa padmayoneḥ tu vacaḥ niśamya provāca dīnaḥ praṇataḥ tu daityaḥ .. yaiḥ niṣṭhuraiḥ me prahṛtam tu rājyam prahrāda-mukhyāḥ mama saṃtu bhṛtyāḥ .. 2.5.44.10 ..
अंधस्य दिव्यं हि तथास्तु चक्षुरिन्द्रादयो मे करदा भवंतु॥ मृत्युस्तु माभून्मम देवदैत्यगंधर्वयक्षोरगमानुषेभ्यः ॥ ११॥
अन्धस्य दिव्यम् हि तथा अस्तु चक्षुः इन्द्र-आदयः मे कर-दाः भवन्तु॥ मृत्युः तु मा अभूत् मम देव-दैत्य-गंधर्व-यक्ष-उरग-मानुषेभ्यः ॥ ११॥
andhasya divyam hi tathā astu cakṣuḥ indra-ādayaḥ me kara-dāḥ bhavantu.. mṛtyuḥ tu mā abhūt mama deva-daitya-gaṃdharva-yakṣa-uraga-mānuṣebhyaḥ .. 11..
नारायणाद्वा दितिजेन्द्रशत्रोस्सर्वाज्जनात्सर्वमयाच्च शर्वात्॥ श्रुत्वा वचस्तस्य सुदारुणं तत्सुशंकितः पद्मभवस्तमाह ॥ १२॥
नारायणात् वा दितिज-इन्द्र-शत्रोः सर्वात् जनात् सर्व-मयात् च शर्वात्॥ श्रुत्वा वचः तस्य सु दारुणम् तत् सु शंकितः पद्मभवः तम् आह ॥ १२॥
nārāyaṇāt vā ditija-indra-śatroḥ sarvāt janāt sarva-mayāt ca śarvāt.. śrutvā vacaḥ tasya su dāruṇam tat su śaṃkitaḥ padmabhavaḥ tam āha .. 12..
ब्रह्मोवाच ।।
दैत्येन्द्र सर्वं भविता तदेतद्विनाशहेतुं च गृहाण किंचित् ॥ यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमंतकस्य ॥ १३॥
दैत्य-इन्द्र सर्वम् भविता तत् एतद्-विनाश-हेतुम् च गृहाण किंचिद् ॥ यस्मात् न जातः न जनिष्यते वा यः न प्रविष्टः मुखम् अंतकस्य ॥ १३॥
daitya-indra sarvam bhavitā tat etad-vināśa-hetum ca gṛhāṇa kiṃcid .. yasmāt na jātaḥ na janiṣyate vā yaḥ na praviṣṭaḥ mukham aṃtakasya .. 13..
अत्यन्तदीर्घं खलु जीवितं तु भवादृशास्सत्पुरुषास्त्यजंतु॥ एतद्वचस्सानुनयं निशम्य पितामहात्प्राह पुनस्तस्य दैत्यः ॥ १४॥
अत्यन्त-दीर्घम् खलु जीवितम् तु भवादृशाः सत्-पुरुषाः त्यजंतु॥ एतत् वचः स अनुनयम् निशम्य पितामहात् प्राह पुनर् तस्य दैत्यः ॥ १४॥
atyanta-dīrgham khalu jīvitam tu bhavādṛśāḥ sat-puruṣāḥ tyajaṃtu.. etat vacaḥ sa anunayam niśamya pitāmahāt prāha punar tasya daityaḥ .. 14..
अंधक उवाच।।
कालत्रये याश्च भवंति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ॥ तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ॥ १५ ॥
काल-त्रये याः च भवन्ति नार्यः श्रेष्ठाः च मध्याः च तथा कनिष्ठाः ॥ तासाम् च मध्ये खलु रत्न-भूता मम अपि नित्यम् जननी इव काचिद् ॥ १५ ॥
kāla-traye yāḥ ca bhavanti nāryaḥ śreṣṭhāḥ ca madhyāḥ ca tathā kaniṣṭhāḥ .. tāsām ca madhye khalu ratna-bhūtā mama api nityam jananī iva kācid .. 15 ..
कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभाय ॥ तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयंभूः ॥ १६॥
कायेन वाचा मनसा अपि अगम्या नारी नृ-लोकस्य च दुर्लभाय ॥ ताम् कामयानस्य मम अस्तु नाशः दैत्य-इन्द्र-भावात् भगवान् स्वयंभूः ॥ १६॥
kāyena vācā manasā api agamyā nārī nṛ-lokasya ca durlabhāya .. tām kāmayānasya mama astu nāśaḥ daitya-indra-bhāvāt bhagavān svayaṃbhūḥ .. 16..
वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितश्शंकरपादपद्ममम् ॥ सस्मार संप्राप्य निर्देशमाशु शंभोस्तु तं प्राह ततोंधकं वै ॥ १७॥
वाक्यम् तत् आकर्ण्य स पद्मयोनिः सु विस्मितः शंकर-पाद-पद्ममम् ॥ सस्मार संप्राप्य निर्देशम् आशु शंभोः तु तम् प्राह वै ॥ १७॥
vākyam tat ākarṇya sa padmayoniḥ su vismitaḥ śaṃkara-pāda-padmamam .. sasmāra saṃprāpya nirdeśam āśu śaṃbhoḥ tu tam prāha vai .. 17..
ब्रह्मोवाच।।
यत्कांक्षसे दैत्यवरास्तु ते वै सर्वं भवत्येव वचस्सकामम्॥ उत्तिष्ठ दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम्॥ १८॥
यत् कांक्षसे दैत्य-वर अस्तु ते वै सर्वम् भवति एव वचः स कामम्॥ उत्तिष्ठ दैत्य-इन्द्र लभस्व कामम् सदा एव वीरैः तु कुरुष्व युद्धम्॥ १८॥
yat kāṃkṣase daitya-vara astu te vai sarvam bhavati eva vacaḥ sa kāmam.. uttiṣṭha daitya-indra labhasva kāmam sadā eva vīraiḥ tu kuruṣva yuddham.. 18..
श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या ॥ लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम्॥ १९॥
श्रुत्वा तत् एतत् वचनम् मुनि-ईश विधातुः आशु प्रणिपत्य भक्त्या ॥ लोकेश्वरम् हाटक-नेत्र-पुत्रः स्नायु-अस्थि-शेषः तु तम् आह देवम्॥ १९॥
śrutvā tat etat vacanam muni-īśa vidhātuḥ āśu praṇipatya bhaktyā .. lokeśvaram hāṭaka-netra-putraḥ snāyu-asthi-śeṣaḥ tu tam āha devam.. 19..
अंधक उवाच ।।
कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् ॥ स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्ये न च मां स्पृशाद्य ॥ 2.5.44.२० ॥
कथम् विभो वैरि-बलम् प्रविश्य हि अनेन देहेन करोमि युद्धम् ॥ स्नायु-अस्थि-शेषम् कुरु मांस-पुष्टम् करेण पुण्ये न च माम् स्पृश अद्य ॥ २।५।४४।२० ॥
katham vibho vairi-balam praviśya hi anena dehena karomi yuddham .. snāyu-asthi-śeṣam kuru māṃsa-puṣṭam kareṇa puṇye na ca mām spṛśa adya .. 2.5.44.20 ..
सनत्कुमार उवाच ।।
श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् ॥ गतस्सुरेन्द्रैस्सहितः स्वधाम संपूज्यमानो मुनिसिद्धसंघैः ॥ २१॥
श्रुत्वा वचः तस्य स पद्मयोनिः करेण संस्पृश्य च तत् शरीरम् ॥ गतः सुर-इन्द्रैः सहितः स्व-धाम संपूज्यमानः मुनि-सिद्ध-संघैः ॥ २१॥
śrutvā vacaḥ tasya sa padmayoniḥ kareṇa saṃspṛśya ca tat śarīram .. gataḥ sura-indraiḥ sahitaḥ sva-dhāma saṃpūjyamānaḥ muni-siddha-saṃghaiḥ .. 21..
संस्पृष्टमात्रस्स च दैत्यराजस्संपूर्णदेहो बलवान्बभूव ॥ संजातनेत्रस्सुभगो बभूव हृष्टस्स्वमेव नगरं विवेश ॥ २२ ॥
संस्पृष्ट-मात्रः स च दैत्य-राजः संपूर्ण-देहः बलवान् बभूव ॥ संजात-नेत्रः सुभगः बभूव हृष्टः स्वम् एव नगरम् विवेश ॥ २२ ॥
saṃspṛṣṭa-mātraḥ sa ca daitya-rājaḥ saṃpūrṇa-dehaḥ balavān babhūva .. saṃjāta-netraḥ subhagaḥ babhūva hṛṣṭaḥ svam eva nagaram viveśa .. 22 ..
उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः ॥ तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वश गास्तु तस्य ॥ २३॥
उत्सृज्य राज्यम् सकलम् च तस्मै प्रह्लाद-मुख्याः तु अथ दानव-इन्द्राः ॥ तम् आगतम् लब्ध-वरम् च मत्वा भृत्याः बभूवुः वश गाः तु तस्य ॥ २३॥
utsṛjya rājyam sakalam ca tasmai prahlāda-mukhyāḥ tu atha dānava-indrāḥ .. tam āgatam labdha-varam ca matvā bhṛtyāḥ babhūvuḥ vaśa gāḥ tu tasya .. 23..
ततोन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तस्सहभृत्यवर्गः ॥ विजित्य लेखान्प्रधने समस्तान्करप्रदं वज्रधरं चकार ॥ २४ ॥
ततस् इन्धकः स्वर्गम् अगात् विजेतुम् सेना-अभियुक्तः सह भृत्य-वर्गः ॥ विजित्य लेखान् प्रधने समस्तान् कर-प्रदम् वज्रधरम् चकार ॥ २४ ॥
tatas indhakaḥ svargam agāt vijetum senā-abhiyuktaḥ saha bhṛtya-vargaḥ .. vijitya lekhān pradhane samastān kara-pradam vajradharam cakāra .. 24 ..
नागान्सुपर्णान्वरराक्षसांश्च गंधर्वयक्षानपि मानुषांस्तु ॥ गिरीन्द्रवृक्षान्समरेषु सर्वांश्चतुष्पदः सिंहमुखान्विजिग्ये ॥ २५॥
नागान् सुपर्णान् वर-राक्षसान् च गंधर्व-यक्षान् अपि मानुषान् तु ॥ गिरि-इन्द्र-वृक्षान् समरेषु सर्वान् चतुष्पदः सिंह-मुखान् विजिग्ये ॥ २५॥
nāgān suparṇān vara-rākṣasān ca gaṃdharva-yakṣān api mānuṣān tu .. giri-indra-vṛkṣān samareṣu sarvān catuṣpadaḥ siṃha-mukhān vijigye .. 25..
त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि संनियोज्य ॥ स ??कूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा ॥ २६॥
त्रैलोक्यम् एतत् हि चराचरम् वै वशम् चकार आत्मनि संनियोज्य ॥ स ??कूलानि सु दर्शनानि नारी-सहस्राणि बहूनि गत्वा ॥ २६॥
trailokyam etat hi carācaram vai vaśam cakāra ātmani saṃniyojya .. sa ??kūlāni su darśanāni nārī-sahasrāṇi bahūni gatvā .. 26..
रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः ॥ ताभिर्युतोऽन्येषु सपर्वतेषु रराम रम्येषु नदीतटेषु ॥ २७ ॥
रसातले च एव तथा धरायाम् त्रिविष्टपे याः प्रमदाः सुरूपाः ॥ ताभिः युतः अन्येषु स पर्वतेषु रराम रम्येषु नदी-तटेषु ॥ २७ ॥
rasātale ca eva tathā dharāyām triviṣṭape yāḥ pramadāḥ surūpāḥ .. tābhiḥ yutaḥ anyeṣu sa parvateṣu rarāma ramyeṣu nadī-taṭeṣu .. 27 ..
क्रीडायमानस्स तु मध्यवर्ती तासां प्रहर्षादथ दानवेन्द्रः ॥ तत्पीतशिष्टानि पिबन्प्रवृत्त्यै दिव्यानि पेयानि सुमानुषाणि ॥ २८ ॥
क्रीडायमानः स तु मध्यवर्ती तासाम् प्रहर्षात् अथ दानव-इन्द्रः ॥ तद्-पीत-शिष्टानि पिबन् प्रवृत्त्यै दिव्यानि पेयानि सु मानुषाणि ॥ २८ ॥
krīḍāyamānaḥ sa tu madhyavartī tāsām praharṣāt atha dānava-indraḥ .. tad-pīta-śiṣṭāni piban pravṛttyai divyāni peyāni su mānuṣāṇi .. 28 ..
अन्यानि दिव्यानि तु यद्रसानि फलानि मूलानि सुगंधवंति ॥ संप्राप्य यानानि सुवाहनानि मयेन सृष्टानि गृहोत्तमानि ॥ २९ ॥
अन्यानि दिव्यानि तु यद्-रसानि फलानि मूलानि सु गंधवंति ॥ संप्राप्य यानानि सु वाहनानि मयेन सृष्टानि गृह-उत्तमानि ॥ २९ ॥
anyāni divyāni tu yad-rasāni phalāni mūlāni su gaṃdhavaṃti .. saṃprāpya yānāni su vāhanāni mayena sṛṣṭāni gṛha-uttamāni .. 29 ..
पुष्पार्घधूपान्नविलेपनैश्च सुशोभितान्यद्भुतदर्शनैश्च ॥ संक्रीडमानस्य गतानि तस्य वर्षायुतानीह तथांधकस्य ॥ 2.5.44.३० ॥
पुष्प-अर्घ-धूप-अन्न-विलेपनैः च सु शोभितानि अद्भुत-दर्शनैः च ॥ संक्रीडमानस्य गतानि तस्य वर्ष-अयुतानि इह तथा अंधकस्य ॥ २।५।४४।३० ॥
puṣpa-argha-dhūpa-anna-vilepanaiḥ ca su śobhitāni adbhuta-darśanaiḥ ca .. saṃkrīḍamānasya gatāni tasya varṣa-ayutāni iha tathā aṃdhakasya .. 2.5.44.30 ..
जानाति किंचिन्न शुभं परत्र यदात्मनस्सौख्यकरं भवेद्धि ॥ सदान्धको दैत्यवरस्स मूढो मदांधबुद्धिः कृतदुष्टसंगः ॥ ३१ ॥
जानाति किंचिद् न शुभम् परत्र यत् आत्मनः सौख्य-करम् भवेत् हि ॥ सदा अन्धकः दैत्य-वरः स मूढः मद-अंध-बुद्धिः कृत-दुष्ट-संगः ॥ ३१ ॥
jānāti kiṃcid na śubham paratra yat ātmanaḥ saukhya-karam bhavet hi .. sadā andhakaḥ daitya-varaḥ sa mūḍhaḥ mada-aṃdha-buddhiḥ kṛta-duṣṭa-saṃgaḥ .. 31 ..
ततः प्रमत्तस्तु सुतान्प्रधानान्कुतर्कवादैरभिभूय सर्वान् ॥ चचार दैत्यैस्सहितो महात्मा विनाशयन्वैदिकसर्वधर्मान्॥ ३२ ॥
ततस् प्रमत्तः तु सुतान् प्रधानान् कुतर्क-वादैः अभिभूय सर्वान् ॥ चचार दैत्यैः सहितः महात्मा विनाशयन् वैदिक-सर्व-धर्मान्॥ ३२ ॥
tatas pramattaḥ tu sutān pradhānān kutarka-vādaiḥ abhibhūya sarvān .. cacāra daityaiḥ sahitaḥ mahātmā vināśayan vaidika-sarva-dharmān.. 32 ..
वेदान्द्विजान्वित्त मदाभिभूतो न मन्यते स्माप्यमरान्गुरूंश्च ॥ रेमे तथा दैवगतो हतायुः स्वस्यैरहोभिर्गमयन्वयश्च ॥ ३३ ॥
वेदान् द्विजान् वित्त मद-अभिभूतः न मन्यते स्म अपि अमरान् गुरून् च ॥ रेमे तथा दैव-गतः हत-आयुः स्वस्यैः अहोभिः गमयन् वयः च ॥ ३३ ॥
vedān dvijān vitta mada-abhibhūtaḥ na manyate sma api amarān gurūn ca .. reme tathā daiva-gataḥ hata-āyuḥ svasyaiḥ ahobhiḥ gamayan vayaḥ ca .. 33 ..
ततः कदाचिद्गतवान्ससैन्यो बहुप्रयाता पृथिवीतलेऽस्मिन् ॥ अनेकसंख्या अपि वर्षकोट्यः प्रहर्षितो मंदरपर्वतं तु ॥ ३४ ॥
ततस् कदाचिद् गतवान् स सैन्यः बहु-प्रयाता पृथिवी-तले अस्मिन् ॥ अनेक-संख्याः अपि वर्ष-कोट्यः प्रहर्षितः मंदर-पर्वतम् तु ॥ ३४ ॥
tatas kadācid gatavān sa sainyaḥ bahu-prayātā pṛthivī-tale asmin .. aneka-saṃkhyāḥ api varṣa-koṭyaḥ praharṣitaḥ maṃdara-parvatam tu .. 34 ..
स्वर्णोपमां तत्र निरीक्ष्य शोभां बभ्राम सैन्यैस्सह मानमत्तः ॥ क्रीडार्थमासाद्य च तं गिरीन्द्रं मतिं स वासाय चकार मोहात् ॥ ३५ ॥
स्वर्ण-उपमाम् तत्र निरीक्ष्य शोभाम् बभ्राम सैन्यैः सह मान-मत्तः ॥ क्रीडा-अर्थम् आसाद्य च तम् गिरि-इन्द्रम् मतिम् स वासाय चकार मोहात् ॥ ३५ ॥
svarṇa-upamām tatra nirīkṣya śobhām babhrāma sainyaiḥ saha māna-mattaḥ .. krīḍā-artham āsādya ca tam giri-indram matim sa vāsāya cakāra mohāt .. 35 ..
शुभं दृढं तत्र पुरं स कृत्वा मुदास्थितो दैत्यपतिः प्रभावात् ॥ निवेशयामास पुनः क्रमेण अत्यद्भुतं मन्दरशैलसानौ ॥ ३६॥
शुभम् दृढम् तत्र पुरम् स कृत्वा मुदा आस्थितः दैत्य-पतिः प्रभावात् ॥ निवेशयामास पुनर् क्रमेण अत्यद्भुतम् मन्दर-शैल-सानौ ॥ ३६॥
śubham dṛḍham tatra puram sa kṛtvā mudā āsthitaḥ daitya-patiḥ prabhāvāt .. niveśayāmāsa punar krameṇa atyadbhutam mandara-śaila-sānau .. 36..
दुर्योधनो वैधसहस्तिसंज्ञौ तन्मंत्रिणौ दानवसत्तमस्य ॥ ते वै कदाचिद्गिरिसुस्थले हि नारीं सुरूपां ददृशुस्त्रयोऽपि ॥ ३७॥
दुर्योधनः वैधस-हस्ति-संज्ञौ तद्-मंत्रिणौ दानव-सत्तमस्य ॥ ते वै कदाचिद् गिरि-सु स्थले हि नारीम् सुरूपाम् ददृशुः त्रयः अपि ॥ ३७॥
duryodhanaḥ vaidhasa-hasti-saṃjñau tad-maṃtriṇau dānava-sattamasya .. te vai kadācid giri-su sthale hi nārīm surūpām dadṛśuḥ trayaḥ api .. 37..
ते शीघ्रगा दैत्यवरास्तु हर्षाद्द्रुतं महादैत्यपतिं समेत्य ॥ ऊचुर्यथादृष्टमतीव प्रीत्या तथान्धकं वीरवरं हि सर्वे ॥ ३८॥
ते शीघ्र-गाः दैत्य-वराः तु हर्षात् द्रुतम् महा-दैत्य-पतिम् समेत्य ॥ ऊचुः यथादृष्टम् अतीव प्रीत्या तथा अन्धकम् वीर-वरम् हि सर्वे ॥ ३८॥
te śīghra-gāḥ daitya-varāḥ tu harṣāt drutam mahā-daitya-patim sametya .. ūcuḥ yathādṛṣṭam atīva prītyā tathā andhakam vīra-varam hi sarve .. 38..
मंत्रिणः ऊचुः ।।
गुहांतरे ध्याननिमीलिताक्षो दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः ॥ रूदान्वितश्चन्द्रकलार्द्धचूडः कटिस्थले बद्धगजेन्द्रकृत्तिः ॥ ३९ ॥
गुहा-अंतरे ध्यान-निमीलित-अक्षः दैत्य-इन्द्र कश्चिद् मुनिः अत्र दृष्टः ॥ कटि-स्थले बद्ध-गज-इन्द्र-कृत्तिः ॥ ३९ ॥
guhā-aṃtare dhyāna-nimīlita-akṣaḥ daitya-indra kaścid muniḥ atra dṛṣṭaḥ .. kaṭi-sthale baddha-gaja-indra-kṛttiḥ .. 39 ..
नागेन्द्रभोगावृतसर्वगात्रः कपालमालाभरणो जटालः ॥ स शूलहस्तश्शरतूणधारी महाधनुष्मान्विवृताक्षसूत्रः ॥ 2.5.44.४० ॥
नाग-इन्द्र-भोग-आवृत-सर्व-गात्रः कपाल-माला-आभरणः जटालः ॥ स शूल-हस्तः शर-तूण-धारी महा-धनुष्मान् विवृत-अक्षसूत्रः ॥ २।५।४४।४० ॥
nāga-indra-bhoga-āvṛta-sarva-gātraḥ kapāla-mālā-ābharaṇaḥ jaṭālaḥ .. sa śūla-hastaḥ śara-tūṇa-dhārī mahā-dhanuṣmān vivṛta-akṣasūtraḥ .. 2.5.44.40 ..
खड्गी त्रिशूली लकुटी कपर्दी चतुर्भुजो गौरतराकृतिर्हि ॥ भस्मानुलिप्तो विलसत्सुतेजास्तपस्विवर्योऽद्भुतसर्ववेशः ॥ ४१ ॥
खड्गी त्रिशूली लकुटी कपर्दी चतुर्-भुजः गौरतर-आकृतिः हि ॥ भस्म-अनुलिप्तः विलसत्-सु तेजाः तपस्वि-वर्यः अद्भुत-सर्व-वेशः ॥ ४१ ॥
khaḍgī triśūlī lakuṭī kapardī catur-bhujaḥ gauratara-ākṛtiḥ hi .. bhasma-anuliptaḥ vilasat-su tejāḥ tapasvi-varyaḥ adbhuta-sarva-veśaḥ .. 41 ..
तस्याविदूरे पुरुषश्च दृष्टस्स वानरो घोरमुखःकरालः ॥ सर्वायुधो रूक्षकरश्च रक्षन्स्थितो जरद्गोवृषभश्च शुक्लः ॥ ४२॥
तस्य अविदूरे पुरुषः च दृष्टः स वानरः घोर-मुखः करालः ॥ सर्व-आयुधः रूक्ष-करः च रक्षन् स्थितः जरत्-गो-वृषभः च शुक्लः ॥ ४२॥
tasya avidūre puruṣaḥ ca dṛṣṭaḥ sa vānaraḥ ghora-mukhaḥ karālaḥ .. sarva-āyudhaḥ rūkṣa-karaḥ ca rakṣan sthitaḥ jarat-go-vṛṣabhaḥ ca śuklaḥ .. 42..
तस्योपविष्टस्य तपस्विनोपि सुचारुरूपा तरुणी मनोज्ञा ॥ नारी शुभा पार्श्वगता हि तस्य दृष्टा च काचिद्भुवि रत्नभूता ॥ ४३॥
तस्य उपविष्टस्य तपस्विनः उपि सु चारु-रूपा तरुणी मनोज्ञा ॥ नारी शुभा पार्श्व-गता हि तस्य दृष्टा च काचिद् भुवि रत्न-भूता ॥ ४३॥
tasya upaviṣṭasya tapasvinaḥ upi su cāru-rūpā taruṇī manojñā .. nārī śubhā pārśva-gatā hi tasya dṛṣṭā ca kācid bhuvi ratna-bhūtā .. 43..
प्रवालमुक्तामणि हेमरत्नवस्त्रावृता माल्यशुभोपगूढा ॥ सा येन दृष्टा स च दृष्टिमान्स्याद् दृष्टेन चान्येन किमत्र कार्यम् ॥ ४४॥
प्रवाल-मुक्तामणि हेम-रत्न-वस्त्र-आवृता माल्य-शुभ-उपगूढा ॥ सा येन दृष्टा स च दृष्टिमान् स्यात् दृष्टेन च अन्येन किम् अत्र कार्यम् ॥ ४४॥
pravāla-muktāmaṇi hema-ratna-vastra-āvṛtā mālya-śubha-upagūḍhā .. sā yena dṛṣṭā sa ca dṛṣṭimān syāt dṛṣṭena ca anyena kim atra kāryam .. 44..
मान्या महेशस्य च दिव्यनारी भार्य्या मुनेः पुण्यवतः प्रिया सा ॥ योग्या हि द्रष्टुं भवतश्च सम्यगानाय्य दैत्येन्द्र सुरत्नभोक्तः ॥ ४५ ॥
मान्या महेशस्य च दिव्य-नारी भार्य्या मुनेः पुण्यवतः प्रिया सा ॥ योग्याः हि द्रष्टुम् भवतः च सम्यक् आनाय्य दैत्य-इन्द्र सु रत्न-भोक्तः ॥ ४५ ॥
mānyā maheśasya ca divya-nārī bhāryyā muneḥ puṇyavataḥ priyā sā .. yogyāḥ hi draṣṭum bhavataḥ ca samyak ānāyya daitya-indra su ratna-bhoktaḥ .. 45 ..
सनत्कुमार उवाच ।।
श्रुत्वेति तेषां वचनानि तानि कामातुरो घूर्णितसर्वगात्रः ॥ विसर्जयामास मुनैस्सकाशं दुर्योधनादीन्सहसा स दैत्यः॥ ४६॥
श्रुत्वा इति तेषाम् वचनानि तानि काम-आतुरः घूर्णित-सर्व-गात्रः ॥ विसर्जयामास मुनैः सकाशम् दुर्योधन-आदीन् सहसा स दैत्यः॥ ४६॥
śrutvā iti teṣām vacanāni tāni kāma-āturaḥ ghūrṇita-sarva-gātraḥ .. visarjayāmāsa munaiḥ sakāśam duryodhana-ādīn sahasā sa daityaḥ.. 46..
आसाद्य ते तं मुनिमप्रमेयं बृहद्व्रतं मंत्रिवरा हि तस्य ॥ सुराजनीतिप्रवणा मुनीश प्रणम्य तं दैत्यनिदेशमाहुः ॥ ४७॥
आसाद्य ते तम् मुनिम् अप्रमेयम् बृहत्-व्रतम् मंत्रि-वराः हि तस्य ॥ सु राज-नीति-प्रवणाः मुनि-ईश प्रणम्य तम् दैत्य-निदेशम् आहुः ॥ ४७॥
āsādya te tam munim aprameyam bṛhat-vratam maṃtri-varāḥ hi tasya .. su rāja-nīti-pravaṇāḥ muni-īśa praṇamya tam daitya-nideśam āhuḥ .. 47..
मंत्रिण ऊचुः।।
हिरण्यनेत्रस्य सुतो महात्मा दैत्याधिराजोऽन्धकनामधेयः ॥ त्रैलोक्यनाथो भवकृन्निदेशादिहोपविष्टोऽद्य विहारशाली ॥ ४८ ॥
हिरण्यनेत्रस्य सुतः महात्मा दैत्य-अधिराजः अन्धक-नामधेयः ॥ त्रैलोक्य-नाथः भव-कृत् निदेशात् इह उपविष्टः अद्य विहार-शाली ॥ ४८ ॥
hiraṇyanetrasya sutaḥ mahātmā daitya-adhirājaḥ andhaka-nāmadheyaḥ .. trailokya-nāthaḥ bhava-kṛt nideśāt iha upaviṣṭaḥ adya vihāra-śālī .. 48 ..
तन्मंत्रिणो वै वयमंगवीरास्तवोपकंठं च समागताः स्मः ॥ तत्प्रेषितास्त्वां यदुवाच तद्वै शृणुष्व संदत्तमनास्तपस्विन् ॥ ४९॥
तद्-मंत्रिणः वै वयम् अंग-वीराः तव उपकंठम् च समागताः स्मः ॥ तद्-प्रेषिताः त्वाम् यत् उवाच तत् वै शृणुष्व संदत्त-मनाः तपस्विन् ॥ ४९॥
tad-maṃtriṇaḥ vai vayam aṃga-vīrāḥ tava upakaṃṭham ca samāgatāḥ smaḥ .. tad-preṣitāḥ tvām yat uvāca tat vai śṛṇuṣva saṃdatta-manāḥ tapasvin .. 49..
त्वं कस्य पुत्रोऽसि किमर्थमत्र सुखोपविष्टो मुनिवर्य धीमन् ॥ कस्येयमीदृक्तरुणी सुरूपा देया शुभा दैत्यपतेर्मुनीन्द्र ॥ 2.5.44.५० ॥
त्वम् कस्य पुत्रः असि किमर्थम् अत्र सुख-उपविष्टः मुनि-वर्य धीमन् ॥ कस्य इयम् ईदृश् तरुणी सुरूपा देया शुभा दैत्य-पतेः मुनि-इन्द्र ॥ २।५।४४।५० ॥
tvam kasya putraḥ asi kimartham atra sukha-upaviṣṭaḥ muni-varya dhīman .. kasya iyam īdṛś taruṇī surūpā deyā śubhā daitya-pateḥ muni-indra .. 2.5.44.50 ..
क्वेदं शरीरं तव भस्मदिग्धं कपालमालाभरणं विरूपम् ॥ तूणीरसत्कार्मुकबाणखड्गभुशुंडिशूलाशनितोमराणि ॥ ५१ ॥
क्व इदम् शरीरम् तव भस्म-दिग्धम् कपाल-माला-आभरणम् विरूपम् ॥ तूणीर-सत्-कार्मुक-बाण-खड्ग-भुशुंडि-शूल-अशनि-तोमराणि ॥ ५१ ॥
kva idam śarīram tava bhasma-digdham kapāla-mālā-ābharaṇam virūpam .. tūṇīra-sat-kārmuka-bāṇa-khaḍga-bhuśuṃḍi-śūla-aśani-tomarāṇi .. 51 ..
क्व जाह्नवी पुण्यतमा जटाग्रे क्वायं शशी वा कुणपास्थिखण्डम् ॥ विषानलो दीर्घमुखः क्व सर्पः क्व संगमः पीनपयोधरायाः ॥ ५२॥
क्व जाह्नवी पुण्यतमा जटा-अग्रे क्व अयम् शशी वा कुणप-अस्थि-खण्डम् ॥ विष-अनलः दीर्घ-मुखः क्व सर्पः क्व संगमः पीन-पयोधरायाः ॥ ५२॥
kva jāhnavī puṇyatamā jaṭā-agre kva ayam śaśī vā kuṇapa-asthi-khaṇḍam .. viṣa-analaḥ dīrgha-mukhaḥ kva sarpaḥ kva saṃgamaḥ pīna-payodharāyāḥ .. 52..
जरद्गवारोहणमप्रशस्तं क्षमावतस्तस्य न दर्शनं च ॥ संध्याप्रणामः क्वचिदेष धर्मः क्व भोजनं लोकविरुद्धमेतत् ॥ ५३ ॥
जरद्गव-आरोहणम् अप्रशस्तम् क्षमावतः तस्य न दर्शनम् च ॥ संध्या-प्रणामः क्वचिद् एष धर्मः क्व भोजनम् लोक-विरुद्धम् एतत् ॥ ५३ ॥
jaradgava-ārohaṇam apraśastam kṣamāvataḥ tasya na darśanam ca .. saṃdhyā-praṇāmaḥ kvacid eṣa dharmaḥ kva bhojanam loka-viruddham etat .. 53 ..
प्रयच्छ नारीं सम सान्त्वपूर्वं स्त्रिया तपः किं कुरुषे विमूढ ॥ अयुक्तमेतत्त्वयि नानुरूपं यस्मादहं रत्नपतिस्त्रिलोके ॥ ५४ ॥
प्रयच्छ नारीम् सम सान्त्व-पूर्वम् स्त्रिया तपः किम् कुरुषे विमूढ ॥ अयुक्तम् एतत् त्वयि न अनुरूपम् यस्मात् अहम् रत्न-पतिः त्रिलोके ॥ ५४ ॥
prayaccha nārīm sama sāntva-pūrvam striyā tapaḥ kim kuruṣe vimūḍha .. ayuktam etat tvayi na anurūpam yasmāt aham ratna-patiḥ triloke .. 54 ..
विमुंच शस्त्राणि मयाद्य चोक्तः कुरुष्व पश्चात्तव एव शुद्धम् ॥ उल्लंघ्य मच्छासनमप्रधृष्यं विमोक्ष्यसे सर्वमिदं शरीरम् ॥ ५५ ॥
विमुंच शस्त्राणि मया अद्य च उक्तः कुरुष्व पश्चात् तव एव शुद्धम् ॥ उल्लंघ्य मद्-शासनम् अप्रधृष्यम् विमोक्ष्यसे सर्वम् इदम् शरीरम् ॥ ५५ ॥
vimuṃca śastrāṇi mayā adya ca uktaḥ kuruṣva paścāt tava eva śuddham .. ullaṃghya mad-śāsanam apradhṛṣyam vimokṣyase sarvam idam śarīram .. 55 ..
मत्वांधकं दुष्टमतिं प्रधानो महेश्वरो लौकिकभावशीलः ॥ प्रोवाच दैत्यं स्मितपूर्वमेवमाकर्ण्य सर्वं त्वथ दूतवाक्यम्॥ ५६॥
मत्वा अंधकम् दुष्ट-मतिम् प्रधानः महेश्वरः लौकिक-भाव-शीलः ॥ प्रोवाच दैत्यम् स्मित-पूर्वम् एवम् आकर्ण्य सर्वम् तु अथ दूत-वाक्यम्॥ ५६॥
matvā aṃdhakam duṣṭa-matim pradhānaḥ maheśvaraḥ laukika-bhāva-śīlaḥ .. provāca daityam smita-pūrvam evam ākarṇya sarvam tu atha dūta-vākyam.. 56..
शिव उवाच ।।
यद्यस्मि रुद्रस्तव किं मया स्यात्किमर्थमेवं वदसीति मिथ्या ॥ शृणु प्रभावं मम दैत्यनाथ न्याय्यं न वक्तुं वचनं त्वयैवम् ॥ ५७ ॥
यदि अस्मि रुद्रः तव किम् मया स्यात् किमर्थम् एवम् वदसि इति मिथ्या ॥ शृणु प्रभावम् मम दैत्य-नाथ न्याय्यम् न वक्तुम् वचनम् त्वया एवम् ॥ ५७ ॥
yadi asmi rudraḥ tava kim mayā syāt kimartham evam vadasi iti mithyā .. śṛṇu prabhāvam mama daitya-nātha nyāyyam na vaktum vacanam tvayā evam .. 57 ..
नाहं क्वचित्स्वं पितरं स्मरामि गुहांतरे घोरमनन्यचीर्णम् ॥ एतद्व्रतं पशुपातं चरामि न मातरं त्वज्ञतमो विरूपः ॥ ५८ ॥
न अहम् क्वचिद् स्वम् पितरम् स्मरामि गुहा-अन्तरे घोरम् अनन्य-चीर्णम् ॥ एतत् व्रतम् पशुपातम् चरामि न मातरम् तु अज्ञतमः विरूपः ॥ ५८ ॥
na aham kvacid svam pitaram smarāmi guhā-antare ghoram ananya-cīrṇam .. etat vratam paśupātam carāmi na mātaram tu ajñatamaḥ virūpaḥ .. 58 ..
अमूलमेतन्मयि तु प्रसिद्धं सुदुस्त्यजं सर्वमिदं ममास्ति ॥ भार्या ममेयं तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः ॥ ५९॥
अमूलम् एतत् मयि तु प्रसिद्धम् सु दुस्त्यजम् सर्वम् इदम् मम अस्ति ॥ भार्या मम इयम् तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः ॥ ५९॥
amūlam etat mayi tu prasiddham su dustyajam sarvam idam mama asti .. bhāryā mama iyam taruṇī surūpā sarvaṃsahā sarvagatasya siddhiḥ .. 59..
एतर्हि यद्यद्रुचितं तवास्ति गृहाण तद्वै खलु राक्षस त्वम् ॥ एतावदुक्त्वा विरराम शंभुस्तपस्विवेषः पुरतस्तु तेषाम् ॥ 2.5.44.६०॥
एतर्हि यत् यत् रुचितम् तव अस्ति गृहाण तत् वै खलु राक्षस त्वम् ॥ एतावत् उक्त्वा विरराम शंभुः तपस्वि-वेषः पुरतस् तु तेषाम् ॥ २।५।४४।६०॥
etarhi yat yat rucitam tava asti gṛhāṇa tat vai khalu rākṣasa tvam .. etāvat uktvā virarāma śaṃbhuḥ tapasvi-veṣaḥ puratas tu teṣām .. 2.5.44.60..
सनत्कुमार उवाच ।।
गंभीरमेतद्वचनं निशम्य ते दानवास्तं प्रणिपत्य मूर्ध्ना ॥ जग्मुस्ततो दैत्यवरस्य सूनुं त्रैलोक्यनाशाय कृतप्रतिज्ञम् ॥ ६१ ॥
गंभीरम् एतत् वचनम् निशम्य ते दानवाः तम् प्रणिपत्य मूर्ध्ना ॥ जग्मुः ततस् दैत्य-वरस्य सूनुम् त्रैलोक्य-नाशाय कृत-प्रतिज्ञम् ॥ ६१ ॥
gaṃbhīram etat vacanam niśamya te dānavāḥ tam praṇipatya mūrdhnā .. jagmuḥ tatas daitya-varasya sūnum trailokya-nāśāya kṛta-pratijñam .. 61 ..
बभाषिरे दैत्यपतिं प्रमत्तं प्रणम्य राजानमदीनसत्त्वाः ॥ ते तत्र सर्वे जयशब्दपूर्वं रुद्रेण यत्तत्स्मितपूर्वमुक्तम् ॥ ६२॥
बभाषिरे दैत्य-पतिम् प्रमत्तम् प्रणम्य राजानम् अदीन-सत्त्वाः ॥ ते तत्र सर्वे जय-शब्द-पूर्वम् रुद्रेण यत् तत् स्मित-पूर्वम् उक्तम् ॥ ६२॥
babhāṣire daitya-patim pramattam praṇamya rājānam adīna-sattvāḥ .. te tatra sarve jaya-śabda-pūrvam rudreṇa yat tat smita-pūrvam uktam .. 62..
मंत्रिण उचुः ।।
निशाचरश्चंचलशौर्यधैर्यः क्व दानवः कृपणस्सत्त्वहीनः ॥ क्रूरः कृतघ्नश्च सदैव पापी क्व दानवः सूर्यसुताद्बिभेति ॥ ६३॥
निशाचरः चंचल-शौर्य-धैर्यः क्व दानवः कृपणः सत्त्व-हीनः ॥ क्रूरः कृतघ्नः च सदा एव पापी क्व दानवः सूर्यसुतात् बिभेति ॥ ६३॥
niśācaraḥ caṃcala-śaurya-dhairyaḥ kva dānavaḥ kṛpaṇaḥ sattva-hīnaḥ .. krūraḥ kṛtaghnaḥ ca sadā eva pāpī kva dānavaḥ sūryasutāt bibheti .. 63..
राजत्वमुक्तोऽखिलदैत्यनाथस्तपस्विना तन्मुनिना विहस्य ॥ मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं महौजसा वीरवरेण नूनम् ॥ ६४ ॥
राज-त्व-मुक्तः अखिल-दैत्य-नाथः तपस्विना तद्-मुनिना विहस्य ॥ मत्वा स्व-बुद्ध्या तृण-वत् त्रिलोकम् महा-ओजसा वीर-वरेण नूनम् ॥ ६४ ॥
rāja-tva-muktaḥ akhila-daitya-nāthaḥ tapasvinā tad-muninā vihasya .. matvā sva-buddhyā tṛṇa-vat trilokam mahā-ojasā vīra-vareṇa nūnam .. 64 ..
क्वाहं च शस्त्राणि च दारुणानि मृत्योश्च संत्रासकरं क्व युद्ध ॥ क्व वीरको वानरवक्त्रतुल्यो निशाचरो जरसा जर्जरांगः ॥ ६५ ॥
क्व अहम् च शस्त्राणि च दारुणानि मृत्योः च संत्रास-करम् क्व युद्ध ॥ क्व वीरकः वानर-वक्त्र-तुल्यः निशाचरः जरसा जर्जर-अंगः ॥ ६५ ॥
kva aham ca śastrāṇi ca dāruṇāni mṛtyoḥ ca saṃtrāsa-karam kva yuddha .. kva vīrakaḥ vānara-vaktra-tulyaḥ niśācaraḥ jarasā jarjara-aṃgaḥ .. 65 ..
क्वायं स्वरूपः क्व च मंदभाग्यो बलं त्वदीयं क्व च वीरुधो वा ॥ शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किंचित् ॥ ६६ ॥
क्व अयम् स्व-रूपः क्व च मंदभाग्यः बलम् त्वदीयम् क्व च वीरुधः वा ॥ शक्तः अपि चेद् त्वम् प्रयतस्व युद्धम् कर्तुम् तदा हि एहि कुरुष्व किंचिद् ॥ ६६ ॥
kva ayam sva-rūpaḥ kva ca maṃdabhāgyaḥ balam tvadīyam kva ca vīrudhaḥ vā .. śaktaḥ api ced tvam prayatasva yuddham kartum tadā hi ehi kuruṣva kiṃcid .. 66 ..
वज्राशनेस्तुल्यमिहास्ति शस्त्रं भवादृशां नाशकरं च घोरम् ॥ क्व ते शरीरं मृदुपद्मतुल्यं विचार्य चैवं कुरु रोचते यत् ॥ ६७॥
वज्र-अशनेः तुल्यम् इह अस्ति शस्त्रम् भवादृशाम् नाश-करम् च घोरम् ॥ क्व ते शरीरम् मृदु-पद्म-तुल्यम् विचार्य च एवम् कुरु रोचते यत् ॥ ६७॥
vajra-aśaneḥ tulyam iha asti śastram bhavādṛśām nāśa-karam ca ghoram .. kva te śarīram mṛdu-padma-tulyam vicārya ca evam kuru rocate yat .. 67..
मंत्रिण ऊचुः ।।
इत्येवमादीनि वचांसि भद्रं तपस्विनोक्तानि च दानवेश॥ युक्तं न ते तेन सहात्र युद्धं त्वामाह राजन्स्मयमान एव॥ ६८॥
इति एवमादीनि वचांसि भद्रम् तपस्विना उक्तानि च दानव-ईश॥ युक्तम् न ते तेन सह अत्र युद्धम् त्वाम् आह राजन् स्मयमानः एव॥ ६८॥
iti evamādīni vacāṃsi bhadram tapasvinā uktāni ca dānava-īśa.. yuktam na te tena saha atra yuddham tvām āha rājan smayamānaḥ eva.. 68..
विवस्तुशून्यैर्बहुभिः प्रलापैरस्माभिरुक्तैर्यदि बुध्यसे त्वम् ॥ तपोभियुक्तेन तपस्विना वै स्मर्तासि पश्चान्मुनिवाक्यमेतत् ॥ ६९ ॥
विवस्तु-शून्यैः बहुभिः प्रलापैः अस्माभिः उक्तैः यदि बुध्यसे त्वम् ॥ तपः-अभियुक्तेन तपस्विना वै स्मर्तासि पश्चात् मुनि-वाक्यम् एतत् ॥ ६९ ॥
vivastu-śūnyaiḥ bahubhiḥ pralāpaiḥ asmābhiḥ uktaiḥ yadi budhyase tvam .. tapaḥ-abhiyuktena tapasvinā vai smartāsi paścāt muni-vākyam etat .. 69 ..
।। सनत्कुमार उवाच ।। ।।
ततस्स तेषां वचनं निशम्य जज्वाल रोषेण स मंदबुद्धिः ॥ आज्यावसिक्तस्त्विव कृष्णवर्त्मा सत्यं हितं तत्कुटिलं सुतीक्ष्णम् ॥ 2.5.44.७० ॥
ततस् स तेषाम् वचनम् निशम्य जज्वाल रोषेण स मंद-बुद्धिः ॥ आज्य-अवसिक्तः तु इव कृष्णवर्त्मा सत्यम् हितम् तत् कुटिलम् सु तीक्ष्णम् ॥ २।५।४४।७० ॥
tatas sa teṣām vacanam niśamya jajvāla roṣeṇa sa maṃda-buddhiḥ .. ājya-avasiktaḥ tu iva kṛṣṇavartmā satyam hitam tat kuṭilam su tīkṣṇam .. 2.5.44.70 ..
गृहीतखड्गो वरदानमत्तः प्रचंडवातानुकृतिं च कुर्वन् ॥ गंतुं च तत्र स्मरबाणविद्धस्समुद्यतोऽभूद्विप रीतदेवः ॥ ७१ ॥
गृहीत-खड्गः वर-दान-मत्तः प्रचंड-वात-अनुकृतिम् च कुर्वन् ॥ गंतुम् च तत्र स्मर-बाण-विद्धः समुद्यतः अभूत् विप रीत-देवः ॥ ७१ ॥
gṛhīta-khaḍgaḥ vara-dāna-mattaḥ pracaṃḍa-vāta-anukṛtim ca kurvan .. gaṃtum ca tatra smara-bāṇa-viddhaḥ samudyataḥ abhūt vipa rīta-devaḥ .. 71 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकगाणपत्यलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे अंधकगाणपत्यलाभोपाख्याने दूतसंवादः नाम चतुश्चत्वारिंशः अध्यायः ॥ ४४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe aṃdhakagāṇapatyalābhopākhyāne dūtasaṃvādaḥ nāma catuścatvāriṃśaḥ adhyāyaḥ .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In