| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च ॥ महानुभावो बहुसैन्ययुक्तः प्रचंडवीरो वरवीरयायी ॥ १॥
गतः ततस् मत्त-गज-इन्द्र-गामी पीत्वा सुराम् घूर्णित-लोचनः च ॥ महा-अनुभावः बहु-सैन्य-युक्तः प्रचंड-वीरः वर-वीर-यायी ॥ १॥
gataḥ tatas matta-gaja-indra-gāmī pītvā surām ghūrṇita-locanaḥ ca .. mahā-anubhāvaḥ bahu-sainya-yuktaḥ pracaṃḍa-vīraḥ vara-vīra-yāyī .. 1..
ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् ॥ स्निग्धं यथा वीक्ष्य पतंगसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य ॥ २॥
ददर्श दैत्यः स्मर-बाण-विद्धः गुहाम् ततस् वीरक-रुद्ध-मार्गाम् ॥ स्निग्धम् यथा वीक्ष्य पतंग-संज्ञः दशा-प्रदीपम् च कृमिः हि उपेत्य ॥ २॥
dadarśa daityaḥ smara-bāṇa-viddhaḥ guhām tatas vīraka-ruddha-mārgām .. snigdham yathā vīkṣya pataṃga-saṃjñaḥ daśā-pradīpam ca kṛmiḥ hi upetya .. 2..
तथा प्रदर्श्याशु पुनः पुनश्च संपीड्यमानोपि स वीरकेण ॥ बभूव कामाग्निसुदग्धदेहोंऽधको महादैत्यपतिः स मूढः ॥ ३॥
तथा प्रदर्श्य आशु पुनर् पुनर् च संपीड्यमानः अपि स वीरकेण ॥ बभूव काम-अग्नि-सु दग्ध-देह-ओंधकः महा-दैत्य-पतिः स मूढः ॥ ३॥
tathā pradarśya āśu punar punar ca saṃpīḍyamānaḥ api sa vīrakeṇa .. babhūva kāma-agni-su dagdha-deha-oṃdhakaḥ mahā-daitya-patiḥ sa mūḍhaḥ .. 3..
पाषाणवृक्षाशनितोयवह्निभुजंगशस्त्रास्त्रविभीषिकाभिः ॥ संपीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोसि ॥ ४ ॥
पाषाण-वृक्ष-अशनि-तोय-वह्नि-भुजंग-शस्त्र-अस्त्र-विभीषिकाभिः ॥ संपीडितः असौ न पुनर् प्रपीड्यः पृष्टः च कः त्वम् समुपागता असि ॥ ४ ॥
pāṣāṇa-vṛkṣa-aśani-toya-vahni-bhujaṃga-śastra-astra-vibhīṣikābhiḥ .. saṃpīḍitaḥ asau na punar prapīḍyaḥ pṛṣṭaḥ ca kaḥ tvam samupāgatā asi .. 4 ..
निशम्य तद्गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण ॥ मुहूर्तमाश्चर्यवदप्रमेयं संख्ये जितो वीरतरेण दैत्यः ॥ ५ ॥
निशम्य तद्-गाम् स्व-मतम् स तस्मै चकार युद्धम् स तु वीरकेण ॥ मुहूर्तम् आश्चर्यवत् अप्रमेयम् संख्ये जितः वीरतरेण दैत्यः ॥ ५ ॥
niśamya tad-gām sva-matam sa tasmai cakāra yuddham sa tu vīrakeṇa .. muhūrtam āścaryavat aprameyam saṃkhye jitaḥ vīratareṇa daityaḥ .. 5 ..
ततस्तु संग्रामशिरो विहाय क्षुत्क्षामकंठस्तृषितो गतोऽभूत् ॥ चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः ॥ ६ ॥
ततस् तु संग्राम-शिरः विहाय क्षुध्-क्षाम-कंठः तृषितः गतः अभूत् ॥ चूर्णीकृते खड्ग-वरे च खिन्ने पलायमानः गत-विस्मयः सः ॥ ६ ॥
tatas tu saṃgrāma-śiraḥ vihāya kṣudh-kṣāma-kaṃṭhaḥ tṛṣitaḥ gataḥ abhūt .. cūrṇīkṛte khaḍga-vare ca khinne palāyamānaḥ gata-vismayaḥ saḥ .. 6 ..
चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः ॥ लज्जांकुशाकृष्टधियो बभूवुस्सुदारुणाः शस्त्रशतैरनेकैः ॥ ७॥
चक्रुः तदा आजिम् सह वीरकेण प्रह्लाद-मुख्याः दितिज-प्रधानाः ॥ लज्जा-अंकुश-आकृष्ट-धियः बभूवुः सु दारुणाः शस्त्र-शतैः अनेकैः ॥ ७॥
cakruḥ tadā ājim saha vīrakeṇa prahlāda-mukhyāḥ ditija-pradhānāḥ .. lajjā-aṃkuśa-ākṛṣṭa-dhiyaḥ babhūvuḥ su dāruṇāḥ śastra-śataiḥ anekaiḥ .. 7..
विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः ॥ भजिः कुजंभस्त्वथ शंबरश्च वृत्रादयश्चाप्यथ वीर्यवंतः ॥ ८ ॥
विरोचनः तत्र चकार युद्धम् बलिः च बाणः च सहस्रबाहुः ॥ भजिः कुजंभः तु अथ शंबरः च वृत्र-आदयः च अपि अथ वीर्यवंतः ॥ ८ ॥
virocanaḥ tatra cakāra yuddham baliḥ ca bāṇaḥ ca sahasrabāhuḥ .. bhajiḥ kujaṃbhaḥ tu atha śaṃbaraḥ ca vṛtra-ādayaḥ ca api atha vīryavaṃtaḥ .. 8 ..
ते युद्ध्यमाना विजिताः समंताद्द्विधाकृता वै गणवीरकेण ॥ शेषे हतानां बहुदानवानामुक्तं जयत्येव हि सिद्धसंघैः ॥ ९ ॥
ते युद्ध्यमानाः विजिताः समंतात् द्विधाकृताः वै गण-वीरकेण ॥ शेषे हतानाम् बहु-दानवानाम् उक्तम् जयति एव हि सिद्ध-संघैः ॥ ९ ॥
te yuddhyamānāḥ vijitāḥ samaṃtāt dvidhākṛtāḥ vai gaṇa-vīrakeṇa .. śeṣe hatānām bahu-dānavānām uktam jayati eva hi siddha-saṃghaiḥ .. 9 ..
भेरुंडजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये ॥ क्रव्यादसंघातसमाकुले तु भयंकरे शोणितकर्दमे तु ॥ 2.5.45.१० ॥
मेदः-वसा-मांस-सुपूय-मध्ये ॥ क्रव्याद-संघात-समाकुले तु भयंकरे शोणित-कर्दमे तु ॥ २।५।४५।१० ॥
medaḥ-vasā-māṃsa-supūya-madhye .. kravyāda-saṃghāta-samākule tu bhayaṃkare śoṇita-kardame tu .. 2.5.45.10 ..
भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् ॥ प्रियेः मया यत्कृतपूर्वमासीद्दाक्षायणीं प्राह सुसांत्वयित्वा ॥ ११ ॥
भग्नैः तु दैत्यैः भगवान् पिनाकी व्रतम् महा-पाशुपतम् सु घोरम् ॥ प्रियेः मया यत् कृत-पूर्वम् आसीत् दाक्षायणीम् प्राह सु सांत्वयित्वा ॥ ११ ॥
bhagnaiḥ tu daityaiḥ bhagavān pinākī vratam mahā-pāśupatam su ghoram .. priyeḥ mayā yat kṛta-pūrvam āsīt dākṣāyaṇīm prāha su sāṃtvayitvā .. 11 ..
शिव उवाच ।।
तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः ॥ पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसंगात् ॥ १२ ॥
तस्मात् बलम् यत् मम तत् प्रणष्टम् मर्त्यैः अमर्त्यस्य यतस् प्रपातः ॥ पुण्य-क्षय-अही ग्रहः एव जातः दिवानिशम् देवि तव प्रसंगात् ॥ १२ ॥
tasmāt balam yat mama tat praṇaṣṭam martyaiḥ amartyasya yatas prapātaḥ .. puṇya-kṣaya-ahī grahaḥ eva jātaḥ divāniśam devi tava prasaṃgāt .. 12 ..
उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा ॥ तस्माद्व्रतं घोरतरं चरामि सुनिर्भयः सुन्दरि वै विशोका ॥ १३ ॥
उत्पाद्य दिव्यम् परम-अद्भुतम् तु पुनर् वरम् घोरतरम् च गत्वा ॥ तस्मात् व्रतम् घोरतरम् चरामि सु निर्भयः सुन्दरि वै विशोका ॥ १३ ॥
utpādya divyam parama-adbhutam tu punar varam ghorataram ca gatvā .. tasmāt vratam ghorataram carāmi su nirbhayaḥ sundari vai viśokā .. 13 ..
सनत्कुमार उवाच ।।
एतावदुक्त्वा वचनं महात्मा उपाद्य घोषं शनकैश्चकार ॥ स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम् ॥ १४ ॥
एतावत् उक्त्वा वचनम् महात्मा उप अद्य घोषम् शनकैस् चकार ॥ स तत्र गत्वा व्रतम् उग्र-दीप्तः गतः वनम् पुण्यतमम् सु घोरम् ॥ १४ ॥
etāvat uktvā vacanam mahātmā upa adya ghoṣam śanakais cakāra .. sa tatra gatvā vratam ugra-dīptaḥ gataḥ vanam puṇyatamam su ghoram .. 14 ..
चर्तुं हि शक्यं तु सुरासुरैर्यत्र तादृशं वर्षसहस्रमात्रम् ॥ सा पार्वती मंदरपर्वतस्था प्रतीक्ष्यमाणागमनं भवस्य ॥ १५ ॥
चर्तुम् हि शक्यम् तु सुर-असुरैः यत्र तादृशम् वर्ष-सहस्र-मात्रम् ॥ सा पार्वती मंदर-पर्वत-स्था प्रतीक्ष्यमाण-आगमनम् भवस्य ॥ १५ ॥
cartum hi śakyam tu sura-asuraiḥ yatra tādṛśam varṣa-sahasra-mātram .. sā pārvatī maṃdara-parvata-sthā pratīkṣyamāṇa-āgamanam bhavasya .. 15 ..
पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता ॥ गुहांतरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण ॥ १६ ॥
पतिव्रता शील-गुण-उपपन्ना एकाकिनी नित्यम् अथो विभीता ॥ गुहा-अंतरे दुःख-परा बभूव संरक्षिता सा सुत-वीरकेण ॥ १६ ॥
pativratā śīla-guṇa-upapannā ekākinī nityam atho vibhītā .. guhā-aṃtare duḥkha-parā babhūva saṃrakṣitā sā suta-vīrakeṇa .. 16 ..
ततस्स दैत्यो वरदानमत्तस्तैर्योधमुख्यैस्सहितो गुहां ताम् ॥ विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च ॥ १७ ॥
ततस् स दैत्यः वर-दान-मत्तः तैः योध-मुख्यैः सहितः गुहाम् ताम् ॥ विभिन्न-धैर्यः पुनर् आजगाम शिलीमुखैः मार-समुद्भवैः च ॥ १७ ॥
tatas sa daityaḥ vara-dāna-mattaḥ taiḥ yodha-mukhyaiḥ sahitaḥ guhām tām .. vibhinna-dhairyaḥ punar ājagāma śilīmukhaiḥ māra-samudbhavaiḥ ca .. 17 ..
अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः ॥ रात्रिं दिवं पंचशतानि पंच क्रुद्धस्स सैन्यैस्सह वीरकेण ॥ १८ ॥
अति अद्भुतम् तत्र चकार युद्धम् हित्वा तदा भोजन-पान-निद्राः ॥ रात्रिम् दिवम् पंच-शतानि पंच क्रुद्धः स सैन्यैः सह वीरकेण ॥ १८ ॥
ati adbhutam tatra cakāra yuddham hitvā tadā bhojana-pāna-nidrāḥ .. rātrim divam paṃca-śatāni paṃca kruddhaḥ sa sainyaiḥ saha vīrakeṇa .. 18 ..
खड्गैस्सकुंतैस्सह भिंदिपालर्गदाभुशुंडीभिरथो प्रकांडैः ॥ शिलीमुखैरर्द्धशशीभिरुग्रैर्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः ॥ १९ ॥
खड्गैः स कुंतैः सह भिन्दिपाल-ऋगदा-भुशुंडीभिः अथो प्रकांडैः ॥ शिलीमुखैः अर्द्धशशीभिः उग्रैः वितस्तिभिः कूर्म-मुखैः ज्वलद्भिः ॥ १९ ॥
khaḍgaiḥ sa kuṃtaiḥ saha bhindipāla-ṛgadā-bhuśuṃḍībhiḥ atho prakāṃḍaiḥ .. śilīmukhaiḥ arddhaśaśībhiḥ ugraiḥ vitastibhiḥ kūrma-mukhaiḥ jvaladbhiḥ .. 19 ..
नाराचमुख्यै निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च ॥ खड्गैर्गुडैः पर्वतपादपैश्च दिव्यैरथास्त्रैररपि दैत्यसंघैः ॥ 2.5.45.२० ॥
नाराच-मुख्यैः निशितैः च शूलैः परश्वधैः तोमर-मुद्गरैः च ॥ खड्गैः गुडैः पर्वत-पादपैः च दिव्यैः अथ अस्त्रैः अरपि दैत्य-संघैः ॥ २।५।४५।२० ॥
nārāca-mukhyaiḥ niśitaiḥ ca śūlaiḥ paraśvadhaiḥ tomara-mudgaraiḥ ca .. khaḍgaiḥ guḍaiḥ parvata-pādapaiḥ ca divyaiḥ atha astraiḥ arapi daitya-saṃghaiḥ .. 2.5.45.20 ..
न दीधितिर्भिन्नतनुः पपात द्वारं गुहाया पिहितं समस्तम् ॥ तैरायुधैर्दैत्यभुजप्रयुक्तैर्गुहामुखे मूर्छित एव पश्चात् ॥ २१ ॥
न दीधितिः भिन्न-तनुः पपात द्वारम् गुहाया पिहितम् समस्तम् ॥ तैः आयुधैः दैत्य-भुज-प्रयुक्तैः गुहा-मुखे मूर्छितः एव पश्चात् ॥ २१ ॥
na dīdhitiḥ bhinna-tanuḥ papāta dvāram guhāyā pihitam samastam .. taiḥ āyudhaiḥ daitya-bhuja-prayuktaiḥ guhā-mukhe mūrchitaḥ eva paścāt .. 21 ..
आच्छादितं वीरकमस्त्रजालैर्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ॥ अपावृतं कर्तुमशक्यमासीन्निरीक्ष्य देवी दितिजान् सुघोरान् ॥ २२ ॥
आच्छादितम् वीरकम् अस्त्र-जालैः दैत्यैः च सर्वैः तु मुहूर्त-मात्रम् ॥ अपावृतम् कर्तुम् अशक्यम् आसीत् निरीक्ष्य देवी दितिजान् सु घोरान् ॥ २२ ॥
ācchāditam vīrakam astra-jālaiḥ daityaiḥ ca sarvaiḥ tu muhūrta-mātram .. apāvṛtam kartum aśakyam āsīt nirīkṣya devī ditijān su ghorān .. 22 ..
भयेन सस्मार पितामहं तु देवी सखीभिस्सहिता च विष्णुम् ॥ सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहांतरस्था ॥ २३॥
भयेन सस्मार पितामहम् तु देवी सखीभिः सहिता च विष्णुम् ॥ सैन्यम् च मद्-वीर-वरस्य सर्वम् सस्मारयामास गुहा-अंतर-स्था ॥ २३॥
bhayena sasmāra pitāmaham tu devī sakhībhiḥ sahitā ca viṣṇum .. sainyam ca mad-vīra-varasya sarvam sasmārayāmāsa guhā-aṃtara-sthā .. 23..
ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः ॥ इन्द्रश्च सर्वेः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते ॥ २४ ॥
ब्रह्मा तया संस्मृत-मात्रः एव स्त्री-रूप-धारी भगवान् च विष्णुः ॥ इन्द्रः च सर्वेः सह सैन्यकैः च स्त्री-रूपम् आस्थाय समागताः ते ॥ २४ ॥
brahmā tayā saṃsmṛta-mātraḥ eva strī-rūpa-dhārī bhagavān ca viṣṇuḥ .. indraḥ ca sarveḥ saha sainyakaiḥ ca strī-rūpam āsthāya samāgatāḥ te .. 24 ..
भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसंघाश्च महानुभावाः ॥ सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहांतरं पर्वतराजपुत्र्याः ॥ २५ ॥
भूत्वा स्त्रियः ते विविशुः तदानीम् मुनि-इन्द्र-संघाः च महा-अनुभावाः ॥ सिद्धाः च नागाः तु अथ गुह्यकाः च गुहांतरम् पर्वतराज-पुत्र्याः ॥ २५ ॥
bhūtvā striyaḥ te viviśuḥ tadānīm muni-indra-saṃghāḥ ca mahā-anubhāvāḥ .. siddhāḥ ca nāgāḥ tu atha guhyakāḥ ca guhāṃtaram parvatarāja-putryāḥ .. 25 ..
यस्मात्सुराज्य सनसंस्थितानामंतः पुरे संगमनं विरुद्धम् ॥ ततस्सहस्राणि नितंबिनीनामनंतसंख्यान्यपि दर्शयंत्यः ॥ २६ ॥
यस्मात् सु राज्य सन-संस्थितानाम् अंतर् पुरे संगमनम् विरुद्धम् ॥ ततस् सहस्राणि नितंबिनीनाम् अनंत-संख्यानि अपि दर्शयंत्यः ॥ २६ ॥
yasmāt su rājya sana-saṃsthitānām aṃtar pure saṃgamanam viruddham .. tatas sahasrāṇi nitaṃbinīnām anaṃta-saṃkhyāni api darśayaṃtyaḥ .. 26 ..
रूपाणि दिव्यानि महाद्भुतानि गौर्ये गुहायां तु सवीरकार्यैः ॥ स्त्रियः प्रहृष्टा गिरिराजकन्या गुहांतरं पर्वतराजपुत्र्या ॥ २७ ॥
रूपाणि दिव्यानि महा-अद्भुतानि गौर्ये गुहायाम् तु स वीर-कार्यैः ॥ स्त्रियः प्रहृष्टाः गिरिराज-कन्याः गुहा-अंतरम् पर्वतराज-पुत्र्या ॥ २७ ॥
rūpāṇi divyāni mahā-adbhutāni gaurye guhāyām tu sa vīra-kāryaiḥ .. striyaḥ prahṛṣṭāḥ girirāja-kanyāḥ guhā-aṃtaram parvatarāja-putryā .. 27 ..
स्त्रीभिस्सहस्रैश्च शतैरनेकैर्नेदुश्च कल्पांतरमेघघोषाः ॥ भेर्य्यश्च संग्रामजयप्रदास्तु ध्मातास्सुशंखाः सुनितम्बिनीभिः ॥ २८ ॥
स्त्रीभिः सहस्रैः च शतैः अनेकैः नेदुः च कल्प-अन्तर-मेघ-घोषाः ॥ भेर्यः च संग्राम-जय-प्रदाः तु ध्माताः सु शंखाः सु नितम्बिनीभिः ॥ २८ ॥
strībhiḥ sahasraiḥ ca śataiḥ anekaiḥ neduḥ ca kalpa-antara-megha-ghoṣāḥ .. bheryaḥ ca saṃgrāma-jaya-pradāḥ tu dhmātāḥ su śaṃkhāḥ su nitambinībhiḥ .. 28 ..
मूर्छां विहायाद्भुत चंडवीर्यस्स वीरको वै पुरतः स्थितस्तु ॥ प्रगृह्य शस्त्राणि महारथानां तैरेव शस्त्रैर्दितिजं जघान ॥ २९ ॥
मूर्छाम् विहाय अद्भुत चंड-वीर्यः स वीरकः वै पुरतस् स्थितः तु ॥ प्रगृह्य शस्त्राणि महा-रथानाम् तैः एव शस्त्रैः दितिजम् जघान ॥ २९ ॥
mūrchām vihāya adbhuta caṃḍa-vīryaḥ sa vīrakaḥ vai puratas sthitaḥ tu .. pragṛhya śastrāṇi mahā-rathānām taiḥ eva śastraiḥ ditijam jaghāna .. 29 ..
ब्राह्मी ततो दंड करा विरुद्धा गौरी तदा क्रोधपरीतचेताः ॥ नारायणी शंखगदासुचक्रधनुर्द्धरा पूरितबाहुदंडा॥ 2.5.45.३० ॥
ब्राह्मी ततस् विरुद्धा गौरी तदा क्रोध-परीत-चेताः ॥ ॥ २।५।४५।३० ॥
brāhmī tatas viruddhā gaurī tadā krodha-parīta-cetāḥ .. .. 2.5.45.30 ..
विनिर्ययौ लांगलदण्डहस्ता व्योमालका कांचनतुल्यवर्णा ॥ धारासहस्राकुलमुग्रवेगं बैडौजसी वज्रकरा तदानीम् ॥ ३१ ॥
विनिर्ययौ लांगल-दण्ड-हस्ता व्योम-अलका कांचन-तुल्य-वर्णा ॥ धारा-सहस्र-आकुलम् उग्र-वेगम् बैडौजसी वज्र-करा तदानीम् ॥ ३१ ॥
viniryayau lāṃgala-daṇḍa-hastā vyoma-alakā kāṃcana-tulya-varṇā .. dhārā-sahasra-ākulam ugra-vegam baiḍaujasī vajra-karā tadānīm .. 31 ..
सहस्रनेत्रा युधि सुस्थिरा च सदुर्जया दैत्यशतैरधृष्या ॥ वैश्वानरी शक्तिरसौम्यवक्त्रा याम्या च दंडोद्यतपाणिरुग्रा ॥ ३२॥
सहस्रनेत्रा युधि सुस्थिरा च स दुर्जया दैत्य-शतैः अधृष्या ॥ वैश्वानरी शक्तिः असौम्य-वक्त्रा याम्या च दंड-उद्यत-पाणिः उग्रा ॥ ३२॥
sahasranetrā yudhi susthirā ca sa durjayā daitya-śataiḥ adhṛṣyā .. vaiśvānarī śaktiḥ asaumya-vaktrā yāmyā ca daṃḍa-udyata-pāṇiḥ ugrā .. 32..
सुतीक्ष्णखङ्गोद्यतपाणिरूपा समाययौ नैर्ऋति घोरचापा ॥ तोयालिका वारणपाशहस्ता विनिर्गता युद्धमभीप्समाना ॥ ३३ ॥
सु तीक्ष्ण-खङ्ग-उद्यत-पाणि-रूपा समाययौ घोर-चापा ॥ तोयालिका वारण-पाश-हस्ता विनिर्गता युद्धम् अभीप्समाना ॥ ३३ ॥
su tīkṣṇa-khaṅga-udyata-pāṇi-rūpā samāyayau ghora-cāpā .. toyālikā vāraṇa-pāśa-hastā vinirgatā yuddham abhīpsamānā .. 33 ..
प्रचंडवातप्रभवा च देवी क्षुधावपुस्त्वंकुशपाणि रेव ॥ कल्पान्तवह्निप्रतिमां गदां च पाणौ गृहीत्वा धनदोद्भवा च ॥ ३४॥
प्रचंडवातप्रभवा च देवी क्षुधा-वपुः तु अंकुश-पाणि ॥ कल्पान्त-वह्नि-प्रतिमाम् गदाम् च पाणौ गृहीत्वा धनद-उद्भवा च ॥ ३४॥
pracaṃḍavātaprabhavā ca devī kṣudhā-vapuḥ tu aṃkuśa-pāṇi .. kalpānta-vahni-pratimām gadām ca pāṇau gṛhītvā dhanada-udbhavā ca .. 34..
याक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयंकरी च ॥ एतास्तथान्याश्शतशो हि देव्यः सुनिर्गताः संकुलयुद्धभूमिम् ॥ ३५॥
याक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयंकरी च ॥ एताः तथा अन्याः शतशस् हि देव्यः सु निर्गताः संकुल-युद्ध-भूमिम् ॥ ३५॥
yākṣeśvarī tīkṣṇamukhā virūpā nakhāyudhā nāgabhayaṃkarī ca .. etāḥ tathā anyāḥ śataśas hi devyaḥ su nirgatāḥ saṃkula-yuddha-bhūmim .. 35..
दृष्ट्वा च तत्सैन्यमनंतपारं विवर्णवर्णाश्च सुविस्मिताश्च ॥ समाकुलास्संचकिताभयाद्वै देव्यो बभूबुर्हृददीनसत्त्वाः॥ ३६॥
दृष्ट्वा च तत् सैन्यम् अनंत-पारम् विवर्ण-वर्णाः च सु विस्मिताः च ॥ समाकुलाः संचकित-अभयात् वै देव्यः बभूबुः हृद्-अदीन-सत्त्वाः॥ ३६॥
dṛṣṭvā ca tat sainyam anaṃta-pāram vivarṇa-varṇāḥ ca su vismitāḥ ca .. samākulāḥ saṃcakita-abhayāt vai devyaḥ babhūbuḥ hṛd-adīna-sattvāḥ.. 36..
चक्रुस्समाधाय मनस्समस्तास्ता देववध्वो विधिशक्तिमुख्याः॥ सुसंमत त्वेन गिरीशपुत्र्याः सेनापतिर्वीरसुघोरवीर्यः॥ ३७॥
चक्रुः समाधाय मनः समस्ताः ताः देव-वध्वः विधि-शक्ति-मुख्याः॥ सु संमत त्वेन गिरीश-पुत्र्याः सेनापतिः वीर-सु घोर-वीर्यः॥ ३७॥
cakruḥ samādhāya manaḥ samastāḥ tāḥ deva-vadhvaḥ vidhi-śakti-mukhyāḥ.. su saṃmata tvena girīśa-putryāḥ senāpatiḥ vīra-su ghora-vīryaḥ.. 37..
चक्रुर्महायुद्धमभूतपूर्वं निधाय बुद्धौ दितिजाः प्रधानाः॥ निवर्तनं मृत्युमथात्मनश्च नारीभिरन्ये वरदानसत्त्वाः ॥ ३८॥
चक्रुः महा-युद्धम् अभूत-पूर्वम् निधाय बुद्धौ दितिजाः प्रधानाः॥ निवर्तनम् मृत्युम् अथ आत्मनः च नारीभिः अन्ये वर-दान-सत्त्वाः ॥ ३८॥
cakruḥ mahā-yuddham abhūta-pūrvam nidhāya buddhau ditijāḥ pradhānāḥ.. nivartanam mṛtyum atha ātmanaḥ ca nārībhiḥ anye vara-dāna-sattvāḥ .. 38..
अत्यद्भुतं तत्र चकार युद्धं गौरी तदानीं सहिता सखीभिः ॥ कृत्वा रणे चाद्भुतबुद्धिशौण्डं सेनापतिं वीरकघोरवीर्यम्॥ ३९॥
अति अद्भुतम् तत्र चकार युद्धम् गौरी तदानीम् सहिता सखीभिः ॥ कृत्वा रणे च अद्भुत-बुद्धि-शौण्डम् सेनापतिम् वीरक-घोर-वीर्यम्॥ ३९॥
ati adbhutam tatra cakāra yuddham gaurī tadānīm sahitā sakhībhiḥ .. kṛtvā raṇe ca adbhuta-buddhi-śauṇḍam senāpatim vīraka-ghora-vīryam.. 39..
हिरण्यनेत्रात्मज एव भूपश्चक्रे महाव्यूहमरं सुकर्मा॥ संभाव्य विष्णुं च निरीक्ष्य याम्यां सुदारुणं तद्गिलनामधेयम् ॥ 2.5.45.४०॥
हिरण्यनेत्र-आत्मजः एव भूपः चक्रे महा-व्यूहम् अरम् सुकर्मा॥ संभाव्य विष्णुम् च निरीक्ष्य याम्याम् सु दारुणम् तद्गिल-नामधेयम् ॥ २।५।४५।४०॥
hiraṇyanetra-ātmajaḥ eva bhūpaḥ cakre mahā-vyūham aram sukarmā.. saṃbhāvya viṣṇum ca nirīkṣya yāmyām su dāruṇam tadgila-nāmadheyam .. 2.5.45.40..
मुखं करालं विधिसेवयास्य तस्मिन् कृते भगवानाजगाम ॥ कल्पान्तघोरार्कसहस्रकांतिकीर्णञ्च वै कुपितः कृत्ति वासाः ॥ ४१॥
मुखम् करालम् विधि-सेवया अस्य तस्मिन् कृते भगवान् आजगाम ॥ कल्प-अन्त-घोर-अर्क-सहस्र-कान्ति-कीर्णञ्च च वै कुपितः ॥ ४१॥
mukham karālam vidhi-sevayā asya tasmin kṛte bhagavān ājagāma .. kalpa-anta-ghora-arka-sahasra-kānti-kīrṇañca ca vai kupitaḥ .. 41..
गते ततो वर्षसहस्रमात्रे तमागतं प्रेक्ष्य महेश्वरं च ॥ चक्रुर्महायुद्धमतीवमात्रं नार्यः प्रहृष्टास्सह वीरकेण ॥ ४२ ॥
गते ततस् वर्ष-सहस्र-मात्रे तम् आगतम् प्रेक्ष्य महेश्वरम् च ॥ चक्रुः महा-युद्धम् अतीव मात्रम् नार्यः प्रहृष्टाः सह वीरकेण ॥ ४२ ॥
gate tatas varṣa-sahasra-mātre tam āgatam prekṣya maheśvaram ca .. cakruḥ mahā-yuddham atīva mātram nāryaḥ prahṛṣṭāḥ saha vīrakeṇa .. 42 ..
प्रणम्य गौरी गिरिशं च मूर्ध्ना संदर्शयन् भर्तुरतीव शौर्यमम् ॥ गौरी प्रयुद्धं च चकार हृष्टा हरस्ततः पर्वतराजपुत्रीम्॥ ४३॥
प्रणम्य गौरी गिरिशम् च मूर्ध्ना संदर्शयन् भर्तुः अतीव शौर्यमम् ॥ गौरी प्रयुद्धम् च चकार हृष्टा हरः ततस् पर्वतराज-पुत्रीम्॥ ४३॥
praṇamya gaurī giriśam ca mūrdhnā saṃdarśayan bhartuḥ atīva śauryamam .. gaurī prayuddham ca cakāra hṛṣṭā haraḥ tatas parvatarāja-putrīm.. 43..
कंठे गृहीत्वा तु गुहां प्रविष्टो रमासहस्राणि विसर्जितानि ॥ गौरी च सन्मानशतैः प्रपूज्य गुहामुखे वीरकमेव स्थापयन्॥ ४४॥
कंठे गृहीत्वा तु गुहाम् प्रविष्टः रमा-सहस्राणि विसर्जितानि ॥ गौरी च सन्मान-शतैः प्रपूज्य गुहा-मुखे वीरकम् एव स्थापयन्॥ ४४॥
kaṃṭhe gṛhītvā tu guhām praviṣṭaḥ ramā-sahasrāṇi visarjitāni .. gaurī ca sanmāna-śataiḥ prapūjya guhā-mukhe vīrakam eva sthāpayan.. 44..
ततो न गौरीं गिरिशं च दृष्ट्वाऽसुरेश्वरो नीतिविचक्षणो हि ॥ द्रुतं स्वदूतं विधसाख्यमेव स प्रेषयामास शिवोपकंठम् ॥ ४५॥
ततस् न गौरीम् गिरिशम् च दृष्ट्वा असुर-ईश्वरः नीति-विचक्षणः हि ॥ द्रुतम् स्व-दूतम् विधस-आख्यम् एव स प्रेषयामास शिव-उपकंठम् ॥ ४५॥
tatas na gaurīm giriśam ca dṛṣṭvā asura-īśvaraḥ nīti-vicakṣaṇaḥ hi .. drutam sva-dūtam vidhasa-ākhyam eva sa preṣayāmāsa śiva-upakaṃṭham .. 45..
तैस्तैः प्रहारैरपि जर्ज रांगस्तस्मिन् रणे देवगणेरितैर्यः ॥ जगाद वाक्यं तु सगर्वमुग्रं प्रविश्य शंभुं प्रणिपत्य मूर्ध्ना ॥ ४६ ॥
तैः तैः प्रहारैः अपि जर्ज रांगः तस्मिन् रणे देव-गण-ईरितैः यः ॥ जगाद वाक्यम् तु स गर्वम् उग्रम् प्रविश्य शंभुम् प्रणिपत्य मूर्ध्ना ॥ ४६ ॥
taiḥ taiḥ prahāraiḥ api jarja rāṃgaḥ tasmin raṇe deva-gaṇa-īritaiḥ yaḥ .. jagāda vākyam tu sa garvam ugram praviśya śaṃbhum praṇipatya mūrdhnā .. 46 ..
दूत उवाच ।।
संप्रेषितोहं विविशे गुहांतु ह्यषौऽन्धकस्त्वां समुवाच वाक्यम् ॥ नार्या न कार्यं तव किंचिदस्तिविमुच नारीं तरुणीं सुरूपाम् ॥ ४७ ॥
संप्रेषितः अहम् विविशे गुहाम् तु हि अषौ अन्धकः त्वाम् समुवाच वाक्यम् ॥ नार्याः न कार्यम् तव किंचिद् अस्ति-विमुच नारीम् तरुणीम् सुरूपाम् ॥ ४७ ॥
saṃpreṣitaḥ aham viviśe guhām tu hi aṣau andhakaḥ tvām samuvāca vākyam .. nāryāḥ na kāryam tava kiṃcid asti-vimuca nārīm taruṇīm surūpām .. 47 ..
प्रायोभवास्तापसस्तज्जुषस्व क्षांतं मया यत्कमनीयमन्तः ॥ मुनिर्विरोधव्य इति प्रचिंत्य न त्वं मुनिस्तापस किं तु शत्रुः॥ ४८॥
प्रायोभवाः तापसः तत् जुषस्व क्षांतम् मया यत् कमनीयम् अन्तर् ॥ मुनिः विरोधव्यः इति प्रचिंत्य न त्वम् मुनिः तापस किम् तु शत्रुः॥ ४८॥
prāyobhavāḥ tāpasaḥ tat juṣasva kṣāṃtam mayā yat kamanīyam antar .. muniḥ virodhavyaḥ iti praciṃtya na tvam muniḥ tāpasa kim tu śatruḥ.. 48..
अतीव?? दैत्येषु महाविरोधी युध्यस्व वेगेन मया प्रमथ्य ॥ नयामि पातालतलानुरूपं यमक्षयं तापस धूर्त हि त्वाम् ॥ ४९॥
अतीव?? दैत्येषु महा-विरोधी युध्यस्व वेगेन मया प्रमथ्य ॥ नयामि पाताल-तल-अनुरूपम् यम-क्षयम् तापस धूर्त हि त्वाम् ॥ ४९॥
atīva?? daityeṣu mahā-virodhī yudhyasva vegena mayā pramathya .. nayāmi pātāla-tala-anurūpam yama-kṣayam tāpasa dhūrta hi tvām .. 49..
सनत्कुमार उवाच ।।
एतद्वचो दूतमुखान्निशम्य कपालमाली तमुवाच कोपात् ॥ ज्वलन्विषादेन महांस्त्रिनेत्रस्सतां गतिर्दुष्टमदप्रहर्ता ॥ 2.5.45.५०॥
एतत् वचः दूत-मुखात् निशम्य कपालमाली तम् उवाच कोपात् ॥ ज्वलन् विषादेन महान् त्रिनेत्रः सताम् गतिः दुष्ट-मद-प्रहर्ता ॥ २।५।४५।५०॥
etat vacaḥ dūta-mukhāt niśamya kapālamālī tam uvāca kopāt .. jvalan viṣādena mahān trinetraḥ satām gatiḥ duṣṭa-mada-prahartā .. 2.5.45.50..
शिव उवाच ।।
व्यक्तं वचस्ते तदतीव चोग्रं प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि ॥ कुरुष्व युद्धं हि मया प्रसह्य यदि प्रशक्तोसि बलेन हि त्वम् ॥ ५१॥
व्यक्तम् वचः ते तत् अतीव च उग्रम् प्रोक्तम् हि तत्त्वम् त्वरितम् प्रयाहि ॥ कुरुष्व युद्धम् हि मया प्रसह्य यदि प्रशक्तः असि बलेन हि त्वम् ॥ ५१॥
vyaktam vacaḥ te tat atīva ca ugram proktam hi tattvam tvaritam prayāhi .. kuruṣva yuddham hi mayā prasahya yadi praśaktaḥ asi balena hi tvam .. 51..
यः स्यादशक्तो भुवि तस्य कोर्थो दारैर्धनैर्वा सुमनोहरैश्च ॥ आयांतु दैत्याश्च बलेन मत्ता विचार्यमेवं तु कृतं मयै तत् ॥ ५२ ॥
यः स्यात् अशक्तः भुवि तस्य कः ऋथः दारैः धनैः वा सु मनोहरैः च ॥ आयान्तु दैत्याः च बलेन मत्ता विचार्यम् एवम् तु कृतम् तत् ॥ ५२ ॥
yaḥ syāt aśaktaḥ bhuvi tasya kaḥ ṛthaḥ dāraiḥ dhanaiḥ vā su manoharaiḥ ca .. āyāntu daityāḥ ca balena mattā vicāryam evam tu kṛtam tat .. 52 ..
शरीरयात्रापि कुतस्त्वशक्तेः कुर्वन्तु यद्यद्विहितं तु तेषाम् ॥ ममापि यद्यत्करणीयमस्ति तत्तत्त्करिष्यामि न संश योत्र ॥ ५३॥
शरीर-यात्रा अपि कुतस् तु अशक्तेः कुर्वन्तु यत् यत् विहितम् तु तेषाम् ॥ मम अपि यत् यत् करणीयम् अस्ति तत् तत् करिष्यामि न ॥ ५३॥
śarīra-yātrā api kutas tu aśakteḥ kurvantu yat yat vihitam tu teṣām .. mama api yat yat karaṇīyam asti tat tat kariṣyāmi na .. 53..
सनत्कुमार उवाच ।।
एतद्वचस्तद्विधसोपि तस्माच्छ्रुत्वा हरान्निर्गत एव हृष्टः ॥ प्रागात्ततो गर्जितहुंकृतानि कुर्वंस्ततोदैत्यपतेस्सकाशम् ॥ ५४॥
एतत् वचः तद्विधसः उपि तस्मात् श्रुत्वा हरात् निर्गतः एव हृष्टः ॥ प्रागात् ततस् गर्जित-हुंकृतानि कुर्वन् ततस् दैत्य-पतेः सकाशम् ॥ ५४॥
etat vacaḥ tadvidhasaḥ upi tasmāt śrutvā harāt nirgataḥ eva hṛṣṭaḥ .. prāgāt tatas garjita-huṃkṛtāni kurvan tatas daitya-pateḥ sakāśam .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारंभदूतसम्वादवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे युद्धप्रारंभदूतसम्वादवर्णनम् नाम पञ्चचत्वारिंशः अध्यायः ॥ ४५॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe yuddhaprāraṃbhadūtasamvādavarṇanam nāma pañcacatvāriṃśaḥ adhyāyaḥ .. 45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In