| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तस्येंगितज्ञश्च स दैत्यराजो गदां गृहीत्वा त्वरितस्ससैन्यः ॥ कृत्वाथ साऽग्रे गिलनामधेयं सुदारुणं देववरैरभेद्यम्॥ १॥
तस्य इंगित-ज्ञः च स दैत्य-राजः गदाम् गृहीत्वा त्वरितः स सैन्यः ॥ कृत्वा अथ सा अग्रे गिल-नामधेयम् सु दारुणम् देव-वरैः अभेद्यम्॥ १॥
tasya iṃgita-jñaḥ ca sa daitya-rājaḥ gadām gṛhītvā tvaritaḥ sa sainyaḥ .. kṛtvā atha sā agre gila-nāmadheyam su dāruṇam deva-varaiḥ abhedyam.. 1..
गुहामुखं प्राप्य महेश्वरस्य बिभेद शस्त्रैरशनिप्रकाशैः॥ अन्ये ततो वीरकमेव शस्त्रैरवाकिरञ्छैल सुतां तथान्ये ॥ २ ॥
गुहा-मुखम् प्राप्य महेश्वरस्य बिभेद शस्त्रैः अशनि-प्रकाशैः॥ अन्ये ततस् वीरकम् एव शस्त्रैः अवाकिरन् शैल सुताम् तथा अन्ये ॥ २ ॥
guhā-mukham prāpya maheśvarasya bibheda śastraiḥ aśani-prakāśaiḥ.. anye tatas vīrakam eva śastraiḥ avākiran śaila sutām tathā anye .. 2 ..
द्वारं हि केचिद्रुचिरं बभंजुः पुष्पाणि पत्राणि विनाशयेयुः ॥ फलानि मूलानि जलं च हृद्यमुद्यानमार्गानपि खंडयेयुः ॥ ३ ॥
द्वारम् हि केचिद् रुचिरम् बभंजुः पुष्पाणि पत्राणि विनाशयेयुः ॥ फलानि मूलानि जलम् च हृद्यम् उद्यान-मार्गान् अपि खंडयेयुः ॥ ३ ॥
dvāram hi kecid ruciram babhaṃjuḥ puṣpāṇi patrāṇi vināśayeyuḥ .. phalāni mūlāni jalam ca hṛdyam udyāna-mārgān api khaṃḍayeyuḥ .. 3 ..
विलोडयेयुर्मुदिताश्च केचिच्छृंगाणि शैलस्य च भानुमंति ॥ ततो हरस्सस्मृतवान्स्वसैन्यं समाह्वयन्कुपितः शूलपाणिः॥ ४॥
विलोडयेयुः मुदिताः च केचिद् शृंगाणि शैलस्य च भानुमन्ति ॥ ततस् हरः सस्मृतवान् स्व-सैन्यम् समाह्वयन् कुपितः शूलपाणिः॥ ४॥
viloḍayeyuḥ muditāḥ ca kecid śṛṃgāṇi śailasya ca bhānumanti .. tatas haraḥ sasmṛtavān sva-sainyam samāhvayan kupitaḥ śūlapāṇiḥ.. 4..
भूतानि चान्यानि सुदारुणानि देवान्ससैन्यान्सह विष्णुमुख्यान्॥ आहूतमात्रानुगणास्ससैन्या रथैर्गजैर्वाजिवृषैश्च गोभिः ॥ ५ ॥
भूतानि च अन्यानि सु दारुणानि देवान् स सैन्यान् सह विष्णु-मुख्यान्॥ आहूत-मात्र-अनुगणाः स सैन्याः रथैः गजैः वाजि-वृषैः च गोभिः ॥ ५ ॥
bhūtāni ca anyāni su dāruṇāni devān sa sainyān saha viṣṇu-mukhyān.. āhūta-mātra-anugaṇāḥ sa sainyāḥ rathaiḥ gajaiḥ vāji-vṛṣaiḥ ca gobhiḥ .. 5 ..
उष्ट्रैः खरैः पक्षिवरैश्च सिंहैस्ते सर्वदेवाः सहभूतसंघैः ॥ व्याघ्रैमृगैस्सूकरसारसैश्च समीनमत्स्यैश्शिशुमारमुख्यैः ॥ ६ ॥
उष्ट्रैः खरैः पक्षि-वरैः च सिंहैः ते सर्व-देवाः सह भूत-संघैः ॥ व्याघ्रैः मृगैः सूकर-सारसैः च स मीन-मत्स्यैः शिशुमार-मुख्यैः ॥ ६ ॥
uṣṭraiḥ kharaiḥ pakṣi-varaiḥ ca siṃhaiḥ te sarva-devāḥ saha bhūta-saṃghaiḥ .. vyāghraiḥ mṛgaiḥ sūkara-sārasaiḥ ca sa mīna-matsyaiḥ śiśumāra-mukhyaiḥ .. 6 ..
अन्यैश्च नाना विधजीवसंघैर्विशीर्णदंशाः स्फुटितैस्स्मशानैः ॥ भुजंगमैः प्रेतशतैः पिशाचैर्दिव्यैर्विमानैः कमलाकरैश्च ॥ ७ ॥
अन्यैः च नाना विध-जीव-संघैः विशीर्ण-दंशाः स्फुटितैः स्मशानैः ॥ भुजंगमैः प्रेत-शतैः पिशाचैः दिव्यैः विमानैः कमल-आकरैः च ॥ ७ ॥
anyaiḥ ca nānā vidha-jīva-saṃghaiḥ viśīrṇa-daṃśāḥ sphuṭitaiḥ smaśānaiḥ .. bhujaṃgamaiḥ preta-śataiḥ piśācaiḥ divyaiḥ vimānaiḥ kamala-ākaraiḥ ca .. 7 ..
नदीनदैः पर्वतवाहनैश्च समागताः प्रांजलयः प्रणम्य ॥ कपर्दिनं तस्थुरदीनसत्त्वास्सेनापतिं वीरकमेव कृत्वा ॥ ८ ॥
नदीनदैः पर्वत-वाहनैः च समागताः प्रांजलयः प्रणम्य ॥ कपर्दिनम् तस्थुः अदीन-सत्त्वाः सेनापतिम् वीरकम् एव कृत्वा ॥ ८ ॥
nadīnadaiḥ parvata-vāhanaiḥ ca samāgatāḥ prāṃjalayaḥ praṇamya .. kapardinam tasthuḥ adīna-sattvāḥ senāpatim vīrakam eva kṛtvā .. 8 ..
विसर्जयामास रणाय देवान्विश्रांतवाहानथ तत्पिनाकी ॥ युद्धे स्थिरं लब्धजयं प्रधानं संप्रेषितास्ते तु महेश्वरेण ॥ ९ ॥
विसर्जयामास रणाय देवान् विश्रांत-वाहान् अथ तत् पिनाकी ॥ युद्धे स्थिरम् लब्ध-जयम् प्रधानम् संप्रेषिताः ते तु महेश्वरेण ॥ ९ ॥
visarjayāmāsa raṇāya devān viśrāṃta-vāhān atha tat pinākī .. yuddhe sthiram labdha-jayam pradhānam saṃpreṣitāḥ te tu maheśvareṇa .. 9 ..
चक्रुर्युगांतप्रतिमं च युद्धं मर्य्यादहीनं सगिलेन सर्वे ॥ दैत्येन्द्रसैन्येन सदैव घोरं क्रोधान्निगीर्णास्त्रिदशास्तु संख्ये ॥ 2.5.46.१० ॥
चक्रुः युगांत-प्रतिमम् च युद्धम् मर्य्याद-हीनम् स गिलेन सर्वे ॥ दैत्य-इन्द्र-सैन्येन सदा एव घोरम् क्रोधात् निगीर्णाः त्रिदशाः तु संख्ये ॥ २।५।४६।१० ॥
cakruḥ yugāṃta-pratimam ca yuddham maryyāda-hīnam sa gilena sarve .. daitya-indra-sainyena sadā eva ghoram krodhāt nigīrṇāḥ tridaśāḥ tu saṃkhye .. 2.5.46.10 ..
तस्मिन्क्षणे युध्यमानाश्च सर्वे ब्रह्मेन्द्रविष्ण्वर्कशशांकमुख्याः॥ आसन्निगीर्णा विधसेन तेन सैन्ये निगीर्णेऽस्ति तु वीरको हि ॥ ११॥
तस्मिन् क्षणे युध्यमानाः च सर्वे ब्रह्म-इन्द्र-विष्णु-अर्क-शशांक-मुख्याः॥ आसन् निगीर्णाः विधसेन तेन सैन्ये निगीर्णे अस्ति तु वीरकः हि ॥ ११॥
tasmin kṣaṇe yudhyamānāḥ ca sarve brahma-indra-viṣṇu-arka-śaśāṃka-mukhyāḥ.. āsan nigīrṇāḥ vidhasena tena sainye nigīrṇe asti tu vīrakaḥ hi .. 11..
विहाय संग्रामशिरोगुहां तां प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना ॥ प्रोवाच दुःखाभिहतः स्मरारिं सुवीरको वाग्ग्मिवरोऽथ वृत्तम् ॥ १२॥
विहाय संग्राम-शिरः-गुहाम् ताम् प्रविश्य शर्वम् प्रणिपत्य मूर्ध्ना ॥ प्रोवाच दुःख-अभिहतः स्मरारिम् सु वीरकः वाग्ग्मि-वरः अथ वृत्तम् ॥ १२॥
vihāya saṃgrāma-śiraḥ-guhām tām praviśya śarvam praṇipatya mūrdhnā .. provāca duḥkha-abhihataḥ smarārim su vīrakaḥ vāggmi-varaḥ atha vṛttam .. 12..
निगीर्णैते सैन्यं विधसदितिजेनाद्य भगवन्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः ॥ निगीर्णौ चन्द्रार्कौद्रुहिणमघवानौ च वरदौ निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ॥ १३ ॥
निगीर्णा एते सैन्यम् विधसत्-इतिजेन अद्य भगवत् निगीर्णः असौ विष्णुः त्रिभुवन-गुरुः दैत्य-दलनः ॥ निगीर्णौ चन्द्र-अर्क-औद्रुहिण-मघवानौ च वर-दौ निगीर्णाः ते सर्वे यम-वरुण-वाताः च धनदः ॥ १३ ॥
nigīrṇā ete sainyam vidhasat-itijena adya bhagavat nigīrṇaḥ asau viṣṇuḥ tribhuvana-guruḥ daitya-dalanaḥ .. nigīrṇau candra-arka-audruhiṇa-maghavānau ca vara-dau nigīrṇāḥ te sarve yama-varuṇa-vātāḥ ca dhanadaḥ .. 13 ..
स्थितोस्म्येकः प्रह्वः किमिह करणीयं भवतु मे अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ॥ १४ ॥
स्थितः अस्मि एकः प्रह्वः किम् इह करणीयम् भवतु मे अजेयः दैत्य-इन्द्रः प्रमुदित-मनाः दैत्य-सहितः ॥ १४ ॥
sthitaḥ asmi ekaḥ prahvaḥ kim iha karaṇīyam bhavatu me ajeyaḥ daitya-indraḥ pramudita-manāḥ daitya-sahitaḥ .. 14 ..
अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिस्स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् ॥ नखैस्तीक्ष्णैर्भक्त्या तदपिभगवञ्छिष्टवशगः प्रवृत्तस्त्रैलोक्य विधमतु मलं व्यात्तवदनः ॥ १५ ॥
अजेयम् त्वाम् प्राप्तः प्रतिभय-मनाः मारुतगतिः स्वयम् विष्णुः देवः कनककशिपुम् कश्यप-सुतम् ॥ नखैः तीक्ष्णैः भक्त्या तत् अपि भगवन् शिष्ट-वशगः प्रवृत्तः त्रैलोक्य विधमतु मलम् व्यात्त-वदनः ॥ १५ ॥
ajeyam tvām prāptaḥ pratibhaya-manāḥ mārutagatiḥ svayam viṣṇuḥ devaḥ kanakakaśipum kaśyapa-sutam .. nakhaiḥ tīkṣṇaiḥ bhaktyā tat api bhagavan śiṣṭa-vaśagaḥ pravṛttaḥ trailokya vidhamatu malam vyātta-vadanaḥ .. 15 ..
वसिष्ठाद्यैश्शप्तो भुवनपतिभिस्सप्तमुनिभिस्तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ॥ १६ ॥
वसिष्ठ-आद्यैः शप्तः भुवन-पतिभिः सप्त-मुनिभिः तथा भूते भूयस् त्वम् इति सु चिरम् दैत्य-सहितः ॥ १६ ॥
vasiṣṭha-ādyaiḥ śaptaḥ bhuvana-patibhiḥ sapta-munibhiḥ tathā bhūte bhūyas tvam iti su ciram daitya-sahitaḥ .. 16 ..
ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः कदास्माद्वै घोराद्भवति मम मोक्षो मुनिवराः॥ यतः क्रुद्धैरुक्तो विधसहरणाद्युद्धसमये ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ॥ १७॥
ततस् तेन उक्ताः ते प्रणय-वचनैः आत्मनि हितैः कदा अस्मात् वै घोरात् भवति मम मोक्षः मुनि-वराः॥ यतस् क्रुद्धैः उक्तः विधस-हरणात् युद्ध-समये ततस् घोरैः बाणैः विदलित-मुखे मुष्टिभिः अलम् ॥ १७॥
tatas tena uktāḥ te praṇaya-vacanaiḥ ātmani hitaiḥ kadā asmāt vai ghorāt bhavati mama mokṣaḥ muni-varāḥ.. yatas kruddhaiḥ uktaḥ vidhasa-haraṇāt yuddha-samaye tatas ghoraiḥ bāṇaiḥ vidalita-mukhe muṣṭibhiḥ alam .. 17..
बदर्याख्यारण्ये ननु हरिगृहापुण्यवसतौ निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् ॥ ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः क्षुधार्तस्संग्रामाद्भ्रमति पुनरामोदमुदितः ॥ १८॥
बदरी-आख्य-अरण्ये ननु हरि-गृह-अपुण्य-वसतौ निसंस्तभ्य आत्मानम् विगत-कलुषः यास्यसि परम् ॥ ततस् तेषाम् वाक्यात् प्रतिदिनम् असौ दैत्य-गिलनः क्षुधा-आर्तः संग्रामात् भ्रमति पुनर् आमोद-मुदितः ॥ १८॥
badarī-ākhya-araṇye nanu hari-gṛha-apuṇya-vasatau nisaṃstabhya ātmānam vigata-kaluṣaḥ yāsyasi param .. tatas teṣām vākyāt pratidinam asau daitya-gilanaḥ kṣudhā-ārtaḥ saṃgrāmāt bhramati punar āmoda-muditaḥ .. 18..
तमस्वेदं घोरं जगदुदितयोस्सूर्यशशिनोर्यथाशुक्रस्तुभ्यं परमरिपुरत्यंतविकरः ।हतान्देवैर्देत्यान्पुनरमृतविद्यास्तुतिपदैस्सवीर्यान्संदृष्टान्व्रणशतवियुक्तान्प्रकुरुते॥ १९॥
तम् अस्व इदम् घोरम् जगत्-उदितयोः सूर्य-शशिनोः यथा शुक्रः तुभ्यम् परम-रिपुः अत्यन्त-विकरः ।हतान् देवैः देत्यान् पुनर् अमृत-विद्या-स्तुति-पदैः स वीर्यान् संदृष्टान् व्रण-शत-वियुक्तान् प्रकुरुते॥ १९॥
tam asva idam ghoram jagat-uditayoḥ sūrya-śaśinoḥ yathā śukraḥ tubhyam parama-ripuḥ atyanta-vikaraḥ .hatān devaiḥ detyān punar amṛta-vidyā-stuti-padaiḥ sa vīryān saṃdṛṣṭān vraṇa-śata-viyuktān prakurute.. 19..
वरं प्राणास्त्याज्यास्तव मम तु संग्रामसमये भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ॥ 2.5.46.२०॥
वरम् प्राणाः त्याज्याः तव मम तु संग्राम-समये भवान् साक्षीभूतः क्षणम् अपि वृतः कार्य-करणे ॥ २।५।४६।२०॥
varam prāṇāḥ tyājyāḥ tava mama tu saṃgrāma-samaye bhavān sākṣībhūtaḥ kṣaṇam api vṛtaḥ kārya-karaṇe .. 2.5.46.20..
सनत्कुमार उवाच ।।
इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपितश्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् ॥ प्रगायत्सामाख्यं दिनकरकराकारवपुषा प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः॥ २१॥
इति इदम् सत्-पुत्रात् प्रमथ-पतिः आकर्ण्य कुपितः चिरम् ध्यात्वा चक्रे त्रिभुवन-पतिः प्राक् अनुपमम् ॥ प्रगायत्-साम-आख्यम् दिनकर-कर-आकार-वपुषा प्रहासात् तद्-नाम्ना तदनु निहतम् तेन च तमः॥ २१॥
iti idam sat-putrāt pramatha-patiḥ ākarṇya kupitaḥ ciram dhyātvā cakre tribhuvana-patiḥ prāk anupamam .. pragāyat-sāma-ākhyam dinakara-kara-ākāra-vapuṣā prahāsāt tad-nāmnā tadanu nihatam tena ca tamaḥ.. 21..
प्रकाशेस्मिंल्लोके पुनरपि महायुद्धमकरोद्रणे दैत्यैस्सार्द्धं विकृतवदनैर्वीरकमुनिः॥ शिलाचूर्णं भुक्त्वा प्रवरमुनिना यस्तु जनितस्स कृत्वा संग्रामं पुरमपि पुरा यश्च जितवान्॥ २२॥
प्रकाशे स्मिन् लोके पुनर् अपि महा-युद्धम् अकरोत् रणे दैत्यैः सार्द्धम् विकृत-वदनैः वीरक-मुनिः॥ शिला-चूर्णम् भुक्त्वा प्रवर-मुनिना यः तु जनितः स कृत्वा संग्रामम् पुरम् अपि पुरा यः च जितवान्॥ २२॥
prakāśe smin loke punar api mahā-yuddham akarot raṇe daityaiḥ sārddham vikṛta-vadanaiḥ vīraka-muniḥ.. śilā-cūrṇam bhuktvā pravara-muninā yaḥ tu janitaḥ sa kṛtvā saṃgrāmam puram api purā yaḥ ca jitavān.. 22..
महारुद्रस्सद्यः स खलु दितिजेनातिगिलितस्ततश्चासौ नन्दी निशितशरशूलासिसहितः ॥ प्रधानो योधानां मुनिवरशतानामपि महान्निवासो विद्यानां शमदममहाधैर्यसहितः॥ २३॥
महारुद्रः सद्यस् स खलु दितिजेन अति गिलितः ततस् च असौ नन्दी निशित-शर-शूल-असि-सहितः ॥ प्रधानः योधानाम् मुनि-वर-शतानाम् अपि महान् निवासः विद्यानाम् शम-दम-महा-धैर्य-सहितः॥ २३॥
mahārudraḥ sadyas sa khalu ditijena ati gilitaḥ tatas ca asau nandī niśita-śara-śūla-asi-sahitaḥ .. pradhānaḥ yodhānām muni-vara-śatānām api mahān nivāsaḥ vidyānām śama-dama-mahā-dhairya-sahitaḥ.. 23..
निरीक्ष्यैवं पश्चाद्वृषभवरमारुह्य भगवान्कपर्द्दी युद्धार्थी विधसदितिजं सम्मुखमुखः॥ जपन्दिव्यं मन्त्रं निगलनविधानोद्गिलनकं स्थितस्सज्जं कृत्वा धनुरशनिकल्पानपि शरान्॥ २४॥
निरीक्ष्य एवम् पश्चात् वृषभ-वरम् आरुह्य भगवान् कपर्द्दी युद्ध-अर्थी विधस-दितिजम् सम्मुख-मुखः॥ जपन् दिव्यम् मन्त्रम् निगलन-विधान-उद्गिलनकम् स्थितः सज्जम् कृत्वा धनुः-अशनि-कल्पान् अपि शरान्॥ २४॥
nirīkṣya evam paścāt vṛṣabha-varam āruhya bhagavān kaparddī yuddha-arthī vidhasa-ditijam sammukha-mukhaḥ.. japan divyam mantram nigalana-vidhāna-udgilanakam sthitaḥ sajjam kṛtvā dhanuḥ-aśani-kalpān api śarān.. 24..
ततौ निष्कांतोऽसौ विधसवदनाद्वीरकमुनिर्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहितः॥ समुद्गीर्णास्सर्वे कमलजबलारीन्दुदिनपाः प्रहृष्टं तसैन्यं पुनरपि महायुद्धमकरोत् ॥ २५॥
ततौ निष्कान्तः असौ विधस-वदनात् वीरक-मुनिः गृहीत्वा तत् सर्वे स्व-बलम् अतुलम् विष्णु-सहितः॥ समुद्गीर्णाः सर्वे कमल-ज-बलारि-इन्दु-दिनपाः प्रहृष्टम् पुनर् अपि महा-युद्धम् अकरोत् ॥ २५॥
tatau niṣkāntaḥ asau vidhasa-vadanāt vīraka-muniḥ gṛhītvā tat sarve sva-balam atulam viṣṇu-sahitaḥ.. samudgīrṇāḥ sarve kamala-ja-balāri-indu-dinapāḥ prahṛṣṭam punar api mahā-yuddham akarot .. 25..
जिते तस्मिञ्छुक्रस्तदनु दितिजान्युद्धविहतान् यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते ॥ तदा बद्ध्वानीतः पशुरिव गणैभूतपतये निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः॥ २६॥
जिते तस्मिन् शुक्रः तदनु दितिजान् युद्ध-विहतान् यदा विद्या-वीर्यात् पुनर् अपि स जीवान् प्रकुरुते ॥ तदा बद्ध्वा आनीतः पशुः इव निगीर्णः तेन असौ त्रिपुर-रिपुणा दानव-गुरुः॥ २६॥
jite tasmin śukraḥ tadanu ditijān yuddha-vihatān yadā vidyā-vīryāt punar api sa jīvān prakurute .. tadā baddhvā ānītaḥ paśuḥ iva nigīrṇaḥ tena asau tripura-ripuṇā dānava-guruḥ.. 26..
विनष्टे शुक्राख्यो सुररिपुनिवासस्तदखिलो जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम्॥ प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैस्सरुंडैर्नृत्यद्भिर्निशितशरशक्त्युद्धृतकरैः ॥ २७॥
विनष्टे सुररिपु-निवासः तत् अखिलः जितः ध्वस्तः भग्नः भृशम् अपि सुरैः च अपि दलितम्॥ प्रभूतैः भूत-ओघैः दितिज-कुणप-ग्रास-रसिकैः स रुंडैः नृत्यद्भिः निशित-शर-शक्ति-उद्धृत-करैः ॥ २७॥
vinaṣṭe suraripu-nivāsaḥ tat akhilaḥ jitaḥ dhvastaḥ bhagnaḥ bhṛśam api suraiḥ ca api dalitam.. prabhūtaiḥ bhūta-oghaiḥ ditija-kuṇapa-grāsa-rasikaiḥ sa ruṃḍaiḥ nṛtyadbhiḥ niśita-śara-śakti-uddhṛta-karaiḥ .. 27..
प्रमत्तैर्वेतालैस्सुदृढकरतुंडैरपि खगैवृकैर्नानाभेदैश्शवकुणपपूर्णास्यकवलैः॥ विकीर्णे संग्रामे कनककशिपोर्वंशजनकश्चिरं युद्धं कृत्वा हरिहरमहेन्द्रैश्च विजितः ॥ २८॥
प्रमत्तैः वेतालैः सु दृढ-कर-तुंडैः अपि खगैः वृकैः नाना भेदैः शव-कुणप-पूर्ण-आस्य-कवलैः॥ विकीर्णे संग्रामे कनककशिपोः वंश-जनकः चिरम् युद्धम् कृत्वा हरि-हर-महा-इन्द्रैः च विजितः ॥ २८॥
pramattaiḥ vetālaiḥ su dṛḍha-kara-tuṃḍaiḥ api khagaiḥ vṛkaiḥ nānā bhedaiḥ śava-kuṇapa-pūrṇa-āsya-kavalaiḥ.. vikīrṇe saṃgrāme kanakakaśipoḥ vaṃśa-janakaḥ ciram yuddham kṛtvā hari-hara-mahā-indraiḥ ca vijitaḥ .. 28..
प्रविष्टे पाताले गिरिजलधिरंध्राण्यपि तथा ततस्सैन्ये क्षीणे दितिजवृषभश्चांधकवरः ॥ प्रकोपे देवानां कदनदवरो विश्वदलनो गदाघातैर्घोरैर्विदलितमदश्चापि हरिणा ॥ २९ ॥
प्रविष्टे पाताले गिरि-जलधि-रंध्राणि अपि तथा ततस् सैन्ये क्षीणे दितिज-वृषभः च अंधक-वरः ॥ प्रकोपे देवानाम् कदन-द-वरः विश्व-दलनः गदा-घातैः घोरैः विदलित-मदः च अपि हरिणा ॥ २९ ॥
praviṣṭe pātāle giri-jaladhi-raṃdhrāṇi api tathā tatas sainye kṣīṇe ditija-vṛṣabhaḥ ca aṃdhaka-varaḥ .. prakope devānām kadana-da-varaḥ viśva-dalanaḥ gadā-ghātaiḥ ghoraiḥ vidalita-madaḥ ca api hariṇā .. 29 ..
न वै यस्सग्रामं त्यजति वरलब्धः किलः यत स्तदा ताडैर्घोरैस्त्रिदशपतिना पीडिततनुः ॥ ततश्शस्त्रास्त्रौघैस्तरुगिरिजलैश्चाशु विबुधाञ्जिगायोच्चैर्गर्जन्प्रमथपतिमाहूय शनकैः ॥ 2.5.46.३०॥
न वै यः स ग्रामम् त्यजति वर-लब्धः किलः यतस् तदा ताडैः घोरैः त्रिदश-पतिना पीडित-तनुः ॥ ततस् शस्त्र-अस्त्र-ओघैः तरु-गिरि-जलैः च आशु विबुधान् जिगाय उच्चैस् गर्जन् प्रमथ-पतिम् आहूय शनकैस् ॥ २।५।४६।३०॥
na vai yaḥ sa grāmam tyajati vara-labdhaḥ kilaḥ yatas tadā tāḍaiḥ ghoraiḥ tridaśa-patinā pīḍita-tanuḥ .. tatas śastra-astra-oghaiḥ taru-giri-jalaiḥ ca āśu vibudhān jigāya uccais garjan pramatha-patim āhūya śanakais .. 2.5.46.30..
स्थितो युद्धं कुर्वन्रणपतितशस्त्रैर्बहुविधैः परिक्षीणैस्सर्वैस्तदनु गिरिजा रुद्रमतुदत् ॥ तथा वृक्षैस्सर्पैरशनिनिवहैः शस्त्रप टलैर्विरूपैर्मायाभिः कपटरचनाशम्बरशतैः ॥ ३१ ॥
स्थितः युद्धम् कुर्वन् रण-पतित-शस्त्रैः बहुविधैः परिक्षीणैः सर्वैः तदनु गिरिजा रुद्रम् अतुदत् ॥ तथा वृक्षैः सर्पैः अशनि-निवहैः शस्त्र-पटलैः विरूपैः मायाभिः कपट-रचना-शम्बर-शतैः ॥ ३१ ॥
sthitaḥ yuddham kurvan raṇa-patita-śastraiḥ bahuvidhaiḥ parikṣīṇaiḥ sarvaiḥ tadanu girijā rudram atudat .. tathā vṛkṣaiḥ sarpaiḥ aśani-nivahaiḥ śastra-paṭalaiḥ virūpaiḥ māyābhiḥ kapaṭa-racanā-śambara-śataiḥ .. 31 ..
विजेतुं शैलेशं कुहकमपरं तत्र कृतवान्महासत्त्वो वीरस्त्रिपुररिपुतुल्यश्च मतिमान् ॥ न वध्यो देवानां वरशतमनोन्मादविवशः प्रभूतैश्शस्त्रास्त्रैस्सपदि दितिजो जर्जरतनुः ॥ ३२॥
विजेतुम् शैल-ईशम् कुहकम् अपरम् तत्र कृतवान् महासत्त्वः वीरः त्रिपुर-रिपु-तुल्यः च मतिमान् ॥ न वध्यः देवानाम् वर-शत-मनः-उन्माद-विवशः प्रभूतैः शस्त्र-अस्त्रैः सपदि दितिजः जर्जर-तनुः ॥ ३२॥
vijetum śaila-īśam kuhakam aparam tatra kṛtavān mahāsattvaḥ vīraḥ tripura-ripu-tulyaḥ ca matimān .. na vadhyaḥ devānām vara-śata-manaḥ-unmāda-vivaśaḥ prabhūtaiḥ śastra-astraiḥ sapadi ditijaḥ jarjara-tanuḥ .. 32..
तदीयाद्विष्यन्दात्क्षिति तलगतैरन्धकगणैरतिव्याप्तघोरं विकृतवदनं स्वात्मसदृशम्॥ दधत्कल्पांताग्निप्रतिमवपुषा भूतपतिना त्रिशूले नोद्भिन्नस्त्रिपुररिपुणा दारुणतरम् ॥ ३३ ॥
तदीयात् विष्यन्दात् क्षिति तल-गतैः अन्धक-गणैः अति व्याप्त-घोरम् विकृत-वदनम् स्व-आत्म-सदृशम्॥ दधत् कल्प-अन्त-अग्नि-प्रतिम-वपुषा भूतपतिना त्रिशूले ना उद्भिन्नः त्रिपुर-रिपुणा दारुणतरम् ॥ ३३ ॥
tadīyāt viṣyandāt kṣiti tala-gataiḥ andhaka-gaṇaiḥ ati vyāpta-ghoram vikṛta-vadanam sva-ātma-sadṛśam.. dadhat kalpa-anta-agni-pratima-vapuṣā bhūtapatinā triśūle nā udbhinnaḥ tripura-ripuṇā dāruṇataram .. 33 ..
यदा सैन्यासैन्यं पशुपतिहतादन्यदभवद्व्रणोत्थैरत्युष्णैः पिशितनिसृतैर्बिन्दुभिरलम् ॥ तदा विष्णुर्योगा त्प्रमथपतिमाहूय मतिमान् चकारोग्रं रूपं विकृतवदनं स्त्रैणमजितम्॥ ३४॥
यदा सैन्य-असैन्यम् पशुपति-हतात् अन्यत् अभवत् व्रण-उत्थैः अति उष्णैः पिशित-निसृतैः बिन्दुभिः अलम् ॥ तदा विष्णुः योगात् प्रमथ-पतिम् आहूय मतिमान् चकार उग्रम् रूपम् विकृत-वदनम् स्त्रैणम् अजितम्॥ ३४॥
yadā sainya-asainyam paśupati-hatāt anyat abhavat vraṇa-utthaiḥ ati uṣṇaiḥ piśita-nisṛtaiḥ bindubhiḥ alam .. tadā viṣṇuḥ yogāt pramatha-patim āhūya matimān cakāra ugram rūpam vikṛta-vadanam straiṇam ajitam.. 34..
करालं संशुष्कं बहुभुजलताक्रांतकुपितो विनिष्क्रांतः कर्णाद्रणशिरसि शंभोश्च भगवान् ॥ ३५॥
करालम् संशुष्कम् बहु-भुज-लता-आक्रांत-कुपितः विनिष्क्रांतः कर्णात् रण-शिरसि शंभोः च भगवान् ॥ ३५॥
karālam saṃśuṣkam bahu-bhuja-latā-ākrāṃta-kupitaḥ viniṣkrāṃtaḥ karṇāt raṇa-śirasi śaṃbhoḥ ca bhagavān .. 35..
रणस्था सा देवी चरणयुगलालंकृतमही स्तुता देवैस्सर्वैस्मदनु भगवान् प्रेरितमतिः ॥ क्षुधार्ता तत्सैन्यं दितिजनिसृतं तच्च रुधिरं पपौ सात्युष्णं तद्रणशिरसि सृक्कर्दममलम् ॥ ३६ ॥
रण-स्था सा देवी चरण-युगल-अलंकृत-मही स्तुता देवैः सर्वैः मद्-अनु भगवान् प्रेरित-मतिः ॥ क्षुधा-आर्ता तत् सैन्यम् दितिज-निसृतम् तत् च रुधिरम् पपौ सा अति उष्णम् तत् रण-शिरसि सृक्कर्दम-मलम् ॥ ३६ ॥
raṇa-sthā sā devī caraṇa-yugala-alaṃkṛta-mahī stutā devaiḥ sarvaiḥ mad-anu bhagavān prerita-matiḥ .. kṣudhā-ārtā tat sainyam ditija-nisṛtam tat ca rudhiram papau sā ati uṣṇam tat raṇa-śirasi sṛkkardama-malam .. 36 ..
ततस्त्वेको दैत्यस्तदपि युयुधे शुष्करुधिरस्तलाघातैर्घोरैशनिसदृशैर्जानुचरणैः ॥ नखैर्वज्राकारैर्मुखभुजशिरोभिश्च गिरिशं स्मरन् क्षात्रं धर्मं स्वकुल विहितं शाश्वतमजम् ॥ ३७॥
ततस् तु एकः दैत्यः तत् अपि युयुधे शुष्क-रुधिरः तल-आघातैः घोर-ऐशनि-सदृशैः जानु-चरणैः ॥ नखैः वज्र-आकारैः मुख-भुज-शिरोभिः च गिरिशम् स्मरन् क्षात्रम् धर्मम् स्व-कुल विहितम् शाश्वतम् अजम् ॥ ३७॥
tatas tu ekaḥ daityaḥ tat api yuyudhe śuṣka-rudhiraḥ tala-āghātaiḥ ghora-aiśani-sadṛśaiḥ jānu-caraṇaiḥ .. nakhaiḥ vajra-ākāraiḥ mukha-bhuja-śirobhiḥ ca giriśam smaran kṣātram dharmam sva-kula vihitam śāśvatam ajam .. 37..
रणे शांतः पश्चात्प्रमथपतिना भिन्नहृदयस्त्रिशूले सप्रोतो नभसि विधृतस्स्थाणुसदृशः ॥ अधःकायश्शुष्कस्नपनकिरणैर्जीर्णतनुमाञ्जलासारेर्मेघैः पवनसहितैः क्लेदितवपुः॥ ३८॥
रणे शांतः पश्चात् प्रमथ-पतिना भिन्न-हृदयः त्रिशूले स प्रोतः नभसि विधृतः स्थाणु-सदृशः ॥ अधःकायः शुष्क-स्नपन-किरणैः जीर्ण-तनुमान् जलासारेः मेघैः पवन-सहितैः क्लेदित-वपुः॥ ३८॥
raṇe śāṃtaḥ paścāt pramatha-patinā bhinna-hṛdayaḥ triśūle sa protaḥ nabhasi vidhṛtaḥ sthāṇu-sadṛśaḥ .. adhaḥkāyaḥ śuṣka-snapana-kiraṇaiḥ jīrṇa-tanumān jalāsāreḥ meghaiḥ pavana-sahitaiḥ kledita-vapuḥ.. 38..
विशीर्णस्तिग्मांशोस्तुहिनशकलाकारशकलस्तथाभूतः प्राणांस्तदपि न जहौ दैत्य वृषभः ॥ तदा तुष्टश्शंभुः परमकरुणावारिधिरसौ ददौ तस्मै प्रीत्या गणपतिपदं तेन विनुतः ॥ ३९।
विशीर्णः तिग्मांशोः तुहिन-शकल-आकार-शकलः तथाभूतः प्राणान् तत् अपि न जहौ दैत्य वृषभः ॥ तदा तुष्टः शंभुः परम-करुणा-वारिधिः असौ ददौ तस्मै प्रीत्या गणपति-पदम् तेन विनुतः ॥ ३९।
viśīrṇaḥ tigmāṃśoḥ tuhina-śakala-ākāra-śakalaḥ tathābhūtaḥ prāṇān tat api na jahau daitya vṛṣabhaḥ .. tadā tuṣṭaḥ śaṃbhuḥ parama-karuṇā-vāridhiḥ asau dadau tasmai prītyā gaṇapati-padam tena vinutaḥ .. 39.
ततो युद्धस्यांते भुवनपतयस्सार्थ रमणैस्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् ॥ हरिब्रह्माद्यास्ते परमनुतिभिस्स्तुष्टुवुरलं नतस्कंधाः प्रीता जयजय गिरं प्रोच्य सुखिताः॥ 2.5.46.४० ॥
ततस् युद्धस्य अंते भुवन-पतयः सार्थ रमणैः तवैः नाना भेदैः प्रमथ-पतिम् अभ्यर्च्य विधिवत् ॥ हरि-ब्रह्म-आद्याः ते परम-नुतिभिः स्तुष्टुवुः अलम् नत-स्कंधाः प्रीताः जय-जय गिरम् प्रोच्य सुखिताः॥ २।५।४६।४० ॥
tatas yuddhasya aṃte bhuvana-patayaḥ sārtha ramaṇaiḥ tavaiḥ nānā bhedaiḥ pramatha-patim abhyarcya vidhivat .. hari-brahma-ādyāḥ te parama-nutibhiḥ stuṣṭuvuḥ alam nata-skaṃdhāḥ prītāḥ jaya-jaya giram procya sukhitāḥ.. 2.5.46.40 ..
हरस्तैस्तैस्सार्द्धं गिरिवरगुहायां प्रमुदितो विसृज्यैकानंशान् विविधबलिना पूज्यसुनगान् ॥ चकाराज्ञां क्रीडां गिरिवर सुतां प्राप्य मुदितां तथा पुत्रं घोराद्विधसवदनान्मुक्तमनघम् ॥ ४१॥
हरः तैः तैः सार्द्धम् गिरि-वर-गुहायाम् प्रमुदितः विसृज्य एकान् अंशान् विविध-बलिना पूज्य-सु नगान् ॥ चकार आज्ञाम् क्रीडाम् गिरि-वर सुताम् प्राप्य मुदिताम् तथा पुत्रम् घोरात् विध-स वदनात् मुक्तम् अनघम् ॥ ४१॥
haraḥ taiḥ taiḥ sārddham giri-vara-guhāyām pramuditaḥ visṛjya ekān aṃśān vividha-balinā pūjya-su nagān .. cakāra ājñām krīḍām giri-vara sutām prāpya muditām tathā putram ghorāt vidha-sa vadanāt muktam anagham .. 41..
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे अंधकवधोपाख्याने अन्धकयुद्धवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
इति श्री-शिव-महा-पुराणे द्वितीयायाम् रुद्रसंहितायाम् पंचमे युद्ध-खण्डे अंधकवधोपाख्याने अन्धकयुद्धवर्णनम् नाम षट्चत्वारिंशः अध्यायः ॥ ४६ ॥
iti śrī-śiva-mahā-purāṇe dvitīyāyām rudrasaṃhitāyām paṃcame yuddha-khaṇḍe aṃdhakavadhopākhyāne andhakayuddhavarṇanam nāma ṣaṭcatvāriṃśaḥ adhyāyaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In