| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः ॥ अंधकेशा महावीरा वद तत्त्वं महामुने ॥ १ ॥
शुक्रे निगीर्णे रुद्रेण किम् अकार्षुः च दानवाः ॥ अंधक-ईशाः महा-वीराः वद तत्त्वम् महा-मुने ॥ १ ॥
śukre nigīrṇe rudreṇa kim akārṣuḥ ca dānavāḥ .. aṃdhaka-īśāḥ mahā-vīrāḥ vada tattvam mahā-mune .. 1 ..
सनत्कुमार उवाच ।।
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः ॥ हस्तैर्विमुक्ता इव वारणेन्द्राः शृंगैर्विहीना इव गोवृषाश्च ॥ २॥
काव्ये निगीर्णे गिरिज-ईश्वरेण दैत्याः जय-आशा-रहिताः बभूवुः ॥ हस्तैः विमुक्ताः इव वारण-इन्द्राः शृंगैः विहीनाः इव गो-वृषाः च ॥ २॥
kāvye nigīrṇe girija-īśvareṇa daityāḥ jaya-āśā-rahitāḥ babhūvuḥ .. hastaiḥ vimuktāḥ iva vāraṇa-indrāḥ śṛṃgaiḥ vihīnāḥ iva go-vṛṣāḥ ca .. 2..
शिरो विहीना इव देवसंघा द्विजा यथा चाध्ययनेन हीनाः ॥ निरुद्यमास्सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥ ३ ॥
शिरः विहीनाः इव देव-संघाः द्विजाः यथा च अध्ययनेन हीनाः ॥ निरुद्यमाः सत्त्व-गणाः यथा वै यथा उद्यमाः भाग्य-विवर्जिताः च ॥ ३ ॥
śiraḥ vihīnāḥ iva deva-saṃghāḥ dvijāḥ yathā ca adhyayanena hīnāḥ .. nirudyamāḥ sattva-gaṇāḥ yathā vai yathā udyamāḥ bhāgya-vivarjitāḥ ca .. 3 ..
पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः ॥ आयूंषि हीनानि यथैव पुण्यैर्व्रतैर्विहीनानि यथा श्रुतानि ॥ ४॥
पत्या विहीनाः च यथा एव योषाः यथा विपक्षाः खलु मार्गण-ओघाः ॥ आयूंषि हीनानि यथा एव पुण्यैः व्रतैः विहीनानि यथा श्रुतानि ॥ ४॥
patyā vihīnāḥ ca yathā eva yoṣāḥ yathā vipakṣāḥ khalu mārgaṇa-oghāḥ .. āyūṃṣi hīnāni yathā eva puṇyaiḥ vrataiḥ vihīnāni yathā śrutāni .. 4..
विना यथा वैभवशक्तिमेकां भवंति हीनास्स्वफलैः क्रियौघाः ॥ यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ॥ ९ ॥
विना यथा वैभव-शक्तिम् एकाम् भवन्ति हीनाः स्व-फलैः क्रिया-ओघाः ॥ यथा विशूराः खलु क्षत्रियाः च सत्यम् विना धर्म-गणः यथा एव ॥ ९ ॥
vinā yathā vaibhava-śaktim ekām bhavanti hīnāḥ sva-phalaiḥ kriyā-oghāḥ .. yathā viśūrāḥ khalu kṣatriyāḥ ca satyam vinā dharma-gaṇaḥ yathā eva .. 9 ..
नन्दिना चा हृते शुक्रे गिलिते च विषादिना ॥ विषादमगमन्दैत्या यतमानरणोत्सवाः ॥ ६ ॥
नन्दिना चा हृते शुक्रे गिलिते च विषादिना ॥ विषादम् अगमन् दैत्याः यतमान-रण-उत्सवाः ॥ ६ ॥
nandinā cā hṛte śukre gilite ca viṣādinā .. viṣādam agaman daityāḥ yatamāna-raṇa-utsavāḥ .. 6 ..
तान् वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ॥ दैत्यांस्तुहुंडाहुंडदीन्महाधीरपराक्रमः ॥ ७ ॥
तान् वीक्ष्य विगत-उत्साहान् अन्धकः प्रत्यभाषत ॥ दैत्यान् तुहुंडा अहुंडदीत् महा-धीर-पराक्रमः ॥ ७ ॥
tān vīkṣya vigata-utsāhān andhakaḥ pratyabhāṣata .. daityān tuhuṃḍā ahuṃḍadīt mahā-dhīra-parākramaḥ .. 7 ..
अंधक उवाच ।।
कविं विक्रम्य नयता नन्दिना वंचिता वयम् ॥ तनूर्विना कृताः प्राणास्सर्वेषामद्य नो ननु ॥ ८ ॥
कविम् विक्रम्य नयता नन्दिना वंचिताः वयम् ॥ तनूः विना कृताः प्राणाः सर्वेषाम् अद्य नः ननु ॥ ८ ॥
kavim vikramya nayatā nandinā vaṃcitāḥ vayam .. tanūḥ vinā kṛtāḥ prāṇāḥ sarveṣām adya naḥ nanu .. 8 ..
धैर्यं वीर्यं गतिः कीर्तिस्सत्त्वं तेजः पराक्रमः ॥ युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ॥ ९ ॥
धैर्यम् वीर्यम् गतिः कीर्तिः सत्त्वम् तेजः पराक्रमः ॥ युगपद् नः हृतम् सर्वम् एकस्मिन् भार्गवे हृते ॥ ९ ॥
dhairyam vīryam gatiḥ kīrtiḥ sattvam tejaḥ parākramaḥ .. yugapad naḥ hṛtam sarvam ekasmin bhārgave hṛte .. 9 ..
धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः॥ गुरुस्सर्वसमर्थश्च त्राता त्रातो न चापदि॥ 2.5.48.१०॥
धिक् अस्मान् कुल-पूज्यः यैः एकः अपि कुल-सत्तमः॥ गुरुः सर्व-समर्थः च त्राता त्रातः न च आपदि॥ २।५।४८।१०॥
dhik asmān kula-pūjyaḥ yaiḥ ekaḥ api kula-sattamaḥ.. guruḥ sarva-samarthaḥ ca trātā trātaḥ na ca āpadi.. 2.5.48.10..
तद्यूयमविलंब्येह युध्यध्वमरिभिस्सह॥ वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदांबुजम् ॥ १ १॥
तत् यूयम् अ विलंब्य इह युध्यध्वम् अरिभिः सह॥ वीरैः तैः स्मृत्वा गुरु-पद-अंबुजम् ॥ १ १॥
tat yūyam a vilaṃbya iha yudhyadhvam aribhiḥ saha.. vīraiḥ taiḥ smṛtvā guru-pada-aṃbujam .. 1 1..
गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपंकजौ ॥ सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ॥ १२॥
गुरोः काव्यस्य सुख-दौ स्मृत्वा चरण-पंकजौ ॥ सूदयिष्यामि अहम् सर्वान् प्रमथान् सह नन्दिना ॥ १२॥
guroḥ kāvyasya sukha-dau smṛtvā caraṇa-paṃkajau .. sūdayiṣyāmi aham sarvān pramathān saha nandinā .. 12..
अद्यैतान् विवशान् हत्वा सहदेवैस्सवासवैः ॥ भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥ १३ ॥
अद्य एतान् विवशान् हत्वा सहदेवैः स वासवैः ॥ भार्गवम् मोचयिष्यामि जीवम् योगी इव कर्मतः ॥ १३ ॥
adya etān vivaśān hatvā sahadevaiḥ sa vāsavaiḥ .. bhārgavam mocayiṣyāmi jīvam yogī iva karmataḥ .. 13 ..
स चापि योगी योगेन यदि नाम स्वयं प्रभुः ॥ शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता ॥ १४॥
स च अपि योगी योगेन यदि नाम स्वयम् प्रभुः ॥ शरीरात् तस्य निर्गच्छेत् अस्माकम् शेष-पालि-ता ॥ १४॥
sa ca api yogī yogena yadi nāma svayam prabhuḥ .. śarīrāt tasya nirgacchet asmākam śeṣa-pāli-tā .. 14..
सनत्कुमार उवाच ।।
इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः ॥ प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ॥ १५॥
इति अन्धक-वचः श्रुत्वा दानवाः मेघ-निस्स्वनाः ॥ प्रमथान् निर्दयाः प्राहुः मर्तव्ये कृत-निश्चयाः ॥ १५॥
iti andhaka-vacaḥ śrutvā dānavāḥ megha-nissvanāḥ .. pramathān nirdayāḥ prāhuḥ martavye kṛta-niścayāḥ .. 15..
सत्यायुषि न नो जातु शक्तास्स्युः प्रमथा बलात् ॥ असत्यायुपि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥ १६॥
सति आयुषि न नः जातु शक्ताः स्युः प्रमथाः बलात् ॥ किम् गत्वा त्यक्त्वा स्वामिनम् आहवे ॥ १६॥
sati āyuṣi na naḥ jātu śaktāḥ syuḥ pramathāḥ balāt .. kim gatvā tyaktvā svāminam āhave .. 16..
ये स्वामिनं विहायातो बहुमानधना जनाः ॥ यांति ते यांति नियतमंधतामिस्रमालयम् ॥ १७ ॥
ये स्वामिनम् विहाय अतस् बहु-मान-धनाः जनाः ॥ यांति ते यांति नियतम् अन्धतामिस्रम् आलयम् ॥ १७ ॥
ye svāminam vihāya atas bahu-māna-dhanāḥ janāḥ .. yāṃti te yāṃti niyatam andhatāmisram ālayam .. 17 ..
अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः ॥ इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ॥ १८ ॥
अयशः-तमसा ख्यातिम् मलिनीकृत्य भूरिशस् ॥ इह अमुत्र अपि सुखिनः न स्युः भग्नाः रण-अजिरे ॥ १८ ॥
ayaśaḥ-tamasā khyātim malinīkṛtya bhūriśas .. iha amutra api sukhinaḥ na syuḥ bhagnāḥ raṇa-ajire .. 18 ..
किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः ॥ धारातीर्थे यदि स्नानं पुनर्भवमलापहे ॥ १९॥
किम् दानैः किम् तपोभिः च किम् तीर्थ-परिमज्जनैः ॥ ॥ १९॥
kim dānaiḥ kim tapobhiḥ ca kim tīrtha-parimajjanaiḥ .. .. 19..
संप्रथार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा ॥ ममंथुः प्रमथानाजौ रणभेरीं निनाद्य च ॥ 2.5.48.२० ॥
संप्रथार्य इति तत् वाक्यम् दैत्याः ते दनुजाः तथा ॥ ममंथुः प्रमथान् आजौ रण-भेरीम् निनाद्य च ॥ २।५।४८।२० ॥
saṃprathārya iti tat vākyam daityāḥ te danujāḥ tathā .. mamaṃthuḥ pramathān ājau raṇa-bherīm ninādya ca .. 2.5.48.20 ..
तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः ॥ भुशुण्डिभिंदिपालैश्च शक्ति भल्लपरश्वधैः ॥ २१॥
तत्र बाण-असि-वज्र-ओघैः कठिनैः च शिला-मयैः ॥ भुशुण्डि-भिंदिपालैः च शक्ति भल्ल-परश्वधैः ॥ २१॥
tatra bāṇa-asi-vajra-oghaiḥ kaṭhinaiḥ ca śilā-mayaiḥ .. bhuśuṇḍi-bhiṃdipālaiḥ ca śakti bhalla-paraśvadhaiḥ .. 21..
खट्वांगैः पट्टिशैश्शूलैर्लकुटैर्मुसलैरलम् ॥ परस्परमभिघ्नंतः प्रचक्रुः कदनं महत्॥ २२॥
खट्वांगैः पट्टिशैः शूलैः लकुटैः मुसलैः अलम् ॥ परस्परम् अभिघ्नंतः प्रचक्रुः कदनम् महत्॥ २२॥
khaṭvāṃgaiḥ paṭṭiśaiḥ śūlaiḥ lakuṭaiḥ musalaiḥ alam .. parasparam abhighnaṃtaḥ pracakruḥ kadanam mahat.. 22..
कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् ॥ भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ॥ २३॥
कार्मुकाणाम् विकृष्टानाम् पतताम् च पतत्त्रिणाम् ॥ भिन्दिपाल-भुशुंडीनाम् क्ष्वेडितानाम् रवः अभवत् ॥ २३॥
kārmukāṇām vikṛṣṭānām patatām ca patattriṇām .. bhindipāla-bhuśuṃḍīnām kṣveḍitānām ravaḥ abhavat .. 23..
रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः ॥ हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ॥ २४॥
रण-तूर्य्य-निनादैः च गजानाम् बहु-बृंहितैः ॥ हेषा-रवैः हयानाम् च महान् कोलाहलः अभवत् ॥ २४॥
raṇa-tūryya-ninādaiḥ ca gajānām bahu-bṛṃhitaiḥ .. heṣā-ravaiḥ hayānām ca mahān kolāhalaḥ abhavat .. 24..
अस्तिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ॥ अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥ २५॥
अस्ति-स्वनैः अवापूरि द्यावाभूम्योः यत् अंतरम् ॥ अभीरूणाम् च भीरूणाम् महा-रोम-उद्गमः अभवत् ॥ २५॥
asti-svanaiḥ avāpūri dyāvābhūmyoḥ yat aṃtaram .. abhīrūṇām ca bhīrūṇām mahā-roma-udgamaḥ abhavat .. 25..
गजवाजिमहारावस्फुटशब्दग्रहाणि च ॥ भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥ २६॥
गज-वाजि-महा-राव-स्फुट-शब्द-ग्रहाणि च ॥ भग्न-ध्वज-पताकानि क्षीण-प्रहरणानि च ॥ २६॥
gaja-vāji-mahā-rāva-sphuṭa-śabda-grahāṇi ca .. bhagna-dhvaja-patākāni kṣīṇa-praharaṇāni ca .. 26..
रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च ॥ पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ॥ २७॥
रुधिर-उद्गार-चित्राणि व्यश्व-हस्ति-रथानि च ॥ पिपासितानि सैन्यानि मुमूर्च्छुः उभयत्र वै ॥ २७॥
rudhira-udgāra-citrāṇi vyaśva-hasti-rathāni ca .. pipāsitāni sainyāni mumūrcchuḥ ubhayatra vai .. 27..
अथ ते प्रमथा वीरा नंदिप्रभृतयस्तदा ॥ बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ॥ २८॥
अथ ते प्रमथाः वीराः नंदि-प्रभृतयः तदा ॥ बलेन जघ्नुः असुरान् सर्वान् प्रापुः जयम् मुने ॥ २८॥
atha te pramathāḥ vīrāḥ naṃdi-prabhṛtayaḥ tadā .. balena jaghnuḥ asurān sarvān prāpuḥ jayam mune .. 28..
दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः ॥ दुद्राव रथमास्थाय स्वयमेवांधको गणान् ॥ २९ ॥
दृष्ट्वा सैन्यम् च प्रमथेः भज्यमानम् इतस्ततस् ॥ दुद्राव रथम् आस्थाय स्वयम् एवा अंधकः गणान् ॥ २९ ॥
dṛṣṭvā sainyam ca pramatheḥ bhajyamānam itastatas .. dudrāva ratham āsthāya svayam evā aṃdhakaḥ gaṇān .. 29 ..
शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव ॥ प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ॥ 2.5.48.३०॥
शरावार-प्रयुक्तैः तैः वज्र-पातैः नगाः इव ॥ प्रमथाः नेशिरे च अस्त्रैः निस्तोयाः इव तोयदाः ॥ २।५।४८।३०॥
śarāvāra-prayuktaiḥ taiḥ vajra-pātaiḥ nagāḥ iva .. pramathāḥ neśire ca astraiḥ nistoyāḥ iva toyadāḥ .. 2.5.48.30..
यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ॥ प्रत्येकं रोमसंख्याभिर्विव्याधेषुभिरन्धकः ॥ ३१॥
यांतम् आयान्तम् आलोक्य दूर-स्थम् निकट-स्थितम् ॥ प्रत्येकम् रोम-संख्याभिः विव्याध इषुभिः अन्धकः ॥ ३१॥
yāṃtam āyāntam ālokya dūra-stham nikaṭa-sthitam .. pratyekam roma-saṃkhyābhiḥ vivyādha iṣubhiḥ andhakaḥ .. 31..
दृष्ट्वा सैन्यं भज्यमानमंधकेन बलीयसा ॥ स्कंदो विनायको नंदी सोमनंद्यादयः परे ॥ ३२॥
दृष्ट्वा सैन्यम् भज्यमानम् अंधकेन बलीयसा ॥ स्कंदः विनायकः नंदी सोमनंदि-आदयः परे ॥ ३२॥
dṛṣṭvā sainyam bhajyamānam aṃdhakena balīyasā .. skaṃdaḥ vināyakaḥ naṃdī somanaṃdi-ādayaḥ pare .. 32..
प्रमथा प्रबला वीराश्शंकरस्य गणा निजाः ॥ चुक्रुधुस्समरं चक्रुर्विचित्रं च महाबलाः ॥ ३३ ॥
प्रमथा प्रबलाः वीराः शंकरस्य गणाः निजाः ॥ चुक्रुधुः समरम् चक्रुः विचित्रम् च महा-बलाः ॥ ३३ ॥
pramathā prabalāḥ vīrāḥ śaṃkarasya gaṇāḥ nijāḥ .. cukrudhuḥ samaram cakruḥ vicitram ca mahā-balāḥ .. 33 ..
विनायकेन स्कंदेन नंदिना सोमनंदिना ॥ वीरेण नैगमेयेन वैशाखेन बलीयसा॥ ३४॥
विनायकेन स्कंदेन नंदिना सोम-नंदिना ॥ वीरेण नैगमेयेन वैशाखेन बलीयसा॥ ३४॥
vināyakena skaṃdena naṃdinā soma-naṃdinā .. vīreṇa naigameyena vaiśākhena balīyasā.. 34..
इत्याद्यैस्तु गणैरुग्रैरंधकोप्यधकीकृतः॥ त्रिशूलशक्तिबाणौघधारासंपातपातिभिः ॥ ३५ ॥
इत्याद्यैः तु गणैः उग्रैः अंधकः उपि अधकीकृतः॥ त्रिशूल-शक्ति-बाण-ओघ-धारा-संपात-पातिभिः ॥ ३५ ॥
ityādyaiḥ tu gaṇaiḥ ugraiḥ aṃdhakaḥ upi adhakīkṛtaḥ.. triśūla-śakti-bāṇa-ogha-dhārā-saṃpāta-pātibhiḥ .. 35 ..
ततः कोलाहलो जातः प्रमथासुरसैन्ययोः॥ तेन शब्देन महता शुक्रश्शंभूदरे स्थ्ग्तिः॥ ३६॥
ततस् कोलाहलः जातः प्रमथ-असुर-सैन्ययोः॥ तेन शब्देन महता स्थ्ग्तिः॥ ३६॥
tatas kolāhalaḥ jātaḥ pramatha-asura-sainyayoḥ.. tena śabdena mahatā sthgtiḥ.. 36..
छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः॥ सप्तलोकान्सपातालान्रुद्रदेहे व्यलोकयत् ॥ ३७ ॥
छिद्र-अन्वेषी भ्रमन् सोथ विनिकेतः यथा अनिलः॥ सप्त-लोकान् स पातालान् रुद्र-देहे व्यलोकयत् ॥ ३७ ॥
chidra-anveṣī bhraman sotha viniketaḥ yathā anilaḥ.. sapta-lokān sa pātālān rudra-dehe vyalokayat .. 37 ..
ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा ॥ भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥ ३८॥
ब्रह्म-नारायण-इन्द्राणाम् स आदित्य-अप्सरसाम् तथा ॥ भुवनानि विचित्राणि युद्धम् च प्रमथ-असुरम् ॥ ३८॥
brahma-nārāyaṇa-indrāṇām sa āditya-apsarasām tathā .. bhuvanāni vicitrāṇi yuddham ca pramatha-asuram .. 38..
स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ॥ न तस्य ददृशे रन्ध्रं शुचे रंध्रं खलो यथा ॥ ३९ ॥
स वर्षाणाम् शतम् कुक्षौ भवस्य परितस् भ्रमन् ॥ न तस्य ददृशे रन्ध्रम् शुचे रंध्रम् खलः यथा ॥ ३९ ॥
sa varṣāṇām śatam kukṣau bhavasya paritas bhraman .. na tasya dadṛśe randhram śuce raṃdhram khalaḥ yathā .. 39 ..
शांभवेनाथ योगेन शुक्ररूपेण भार्गवः ॥ इमं मंत्रवरं जप्त्वा शंभोर्जठरपंजरात् ॥ 2.5.48.४० ॥
शांभवेन अथ योगेन शुक्र-रूपेण भार्गवः ॥ इमम् मंत्र-वरम् जप्त्वा शंभोः जठर-पंजरात् ॥ २।५।४८।४० ॥
śāṃbhavena atha yogena śukra-rūpeṇa bhārgavaḥ .. imam maṃtra-varam japtvā śaṃbhoḥ jaṭhara-paṃjarāt .. 2.5.48.40 ..
निष्क्रांतं लिंगमार्गेण प्रणनाम ततश्शिवम् ॥ गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ॥ ४१ ॥
निष्क्रांतम् लिंग-मार्गेण प्रणनाम ततस् शिवम् ॥ गौर्य्या गृहीतः पुत्र-अर्थम् तद्-अविघ्न-ईश्वरीकृतः ॥ ४१ ॥
niṣkrāṃtam liṃga-mārgeṇa praṇanāma tatas śivam .. gauryyā gṛhītaḥ putra-artham tad-avighna-īśvarīkṛtaḥ .. 41 ..
अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् ॥ दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ॥ ४२ ॥
अथ काव्यम् विनिष्क्रातम् शुक्र-मार्गेण भार्गवम् ॥ दृष्ट्वा उवाच महेशानः विहस्य करुणा-निधिः ॥ ४२ ॥
atha kāvyam viniṣkrātam śukra-mārgeṇa bhārgavam .. dṛṣṭvā uvāca maheśānaḥ vihasya karuṇā-nidhiḥ .. 42 ..
महेश्वर उवाच ।।
शुक्रवन्निस्सृतो यस्माल्लिंगान्मे भृगुनन्दन ॥ कर्मणा तेन शुक्लत्वं मम पुत्रोसि गम्यताम् ॥ ४३ ॥
शुक्र-वत् निस्सृतः यस्मात् लिंगात् मे भृगु-नन्दन ॥ कर्मणा तेन शुक्ल-त्वम् मम पुत्रः असि गम्यताम् ॥ ४३ ॥
śukra-vat nissṛtaḥ yasmāt liṃgāt me bhṛgu-nandana .. karmaṇā tena śukla-tvam mama putraḥ asi gamyatām .. 43 ..
सनत्कुमार उवाच ।।
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ॥ प्रणनाम शिवं भूयस्तुष्टाव विहितांजलिः ॥ ४४ ॥
इति एवम् उक्तः देवेन शुक्र-ऊर्क-सदृश-द्युतिः ॥ प्रणनाम शिवम् भूयस् तुष्टाव विहित-अंजलिः ॥ ४४ ॥
iti evam uktaḥ devena śukra-ūrka-sadṛśa-dyutiḥ .. praṇanāma śivam bhūyas tuṣṭāva vihita-aṃjaliḥ .. 44 ..
शुक्र उवाच ।।
अनंतपादस्त्वमनंतमूर्तिरनंतमूर्द्धांतकरश्शिवश्च ॥ अनंतबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ॥ ४५ ॥
अनंत-पादः त्वम् अनंत-मूर्तिः अनंत-मूर्द्ध-अंत-करः शिवः च ॥ अनंत-बाहुः कथम् ईदृशम् त्वाम् स्तोष्ये ह नुत्यम् प्रणिपत्य मूर्ध्ना ॥ ४५ ॥
anaṃta-pādaḥ tvam anaṃta-mūrtiḥ anaṃta-mūrddha-aṃta-karaḥ śivaḥ ca .. anaṃta-bāhuḥ katham īdṛśam tvām stoṣye ha nutyam praṇipatya mūrdhnā .. 45 ..
त्वमष्टमूर्तिस्त्वमनंतमूर्तिस्त्वमिष्टदस्सर्वसुरासुराणाम् ॥ अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ॥ ४६ ॥
त्वम् अष्टमूर्तिः त्वम् अनंत-मूर्तिः त्वम् इष्ट-दः सर्व-सुर-असुराणाम् ॥ अनिष्ट-दृष्टः च विमर्दकः च स्तोष्ये ह नुत्यम् कथम् ईदृशम् त्वाम् ॥ ४६ ॥
tvam aṣṭamūrtiḥ tvam anaṃta-mūrtiḥ tvam iṣṭa-daḥ sarva-sura-asurāṇām .. aniṣṭa-dṛṣṭaḥ ca vimardakaḥ ca stoṣye ha nutyam katham īdṛśam tvām .. 46 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया ॥ विवेश दानवानीकं मेघमालां यथा शशी ॥ ४७ ॥
इति स्तुत्वा शिवम् शुक्रः पुनर् नत्वा शिव-आज्ञया ॥ विवेश दानव-अनीकम् मेघ-मालाम् यथा शशी ॥ ४७ ॥
iti stutvā śivam śukraḥ punar natvā śiva-ājñayā .. viveśa dānava-anīkam megha-mālām yathā śaśī .. 47 ..
निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे ॥ शृणु मंत्रं च तं जप्तो यश्शंभोः कविनोदरे ॥ ४८ ॥
निगीर्णनम् इति प्रोक्तम् शंकरेण कवेः रणे ॥ शृणु मंत्रम् च तम् जप्तः यः शंभोः कविना उदरे ॥ ४८ ॥
nigīrṇanam iti proktam śaṃkareṇa kaveḥ raṇe .. śṛṇu maṃtram ca tam japtaḥ yaḥ śaṃbhoḥ kavinā udare .. 48 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखंडे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् पञ्चमे युद्ध-खण्डे शुक्रनिगीर्णनम् नाम अष्टचत्वारिंशः अध्यायः ॥ ४८॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām pañcame yuddha-khaṇḍe śukranigīrṇanam nāma aṣṭacatvāriṃśaḥ adhyāyaḥ .. 48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In