| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
ॐ नमस्ते देवेशाय सुरासुरनम स्कृताय भूतभव्यमहादेवाय हरितपिगललोचनाय बलाय बुद्धिरूपिणे वैयाघ्रवसनच्छदायारणेयाय त्रैलोक्यप्रभवे ईश्वराय हराय हरितनेत्राय युगान्तकरणायानलायगणेशायलोकपालाय महाभुजायमहाहस्ताय शूलिने महादंष्ट्रिणे कालाय महेश्वरायअव्ययाय कालरूपिणे नीलग्रीवाय महोदराय गणाध्यक्षाय सर्वात्मने सर्वभावनाय सर्वगाय मृत्युहंत्रे पारियात्रसुव्रताय ब्रह्मचारिणे वेदान्त गाय तपोंतगाय पशुपतये व्यंगाय शूलपाणये वृषकेतवे हरये जटिने शिखंडिने लकुटिने महायशसे भूतेश्वराय गुहावासिने वीणा पणवतालंबते अमराय दर्शनीयाय बालसूर्यनिभाय श्मशानवासिने भगवते उमापतये अरिन्दमाय भगस्याक्षिपातिने पूष्णोर्दशननाशनाय कूरकर्तकाय पाशहस्ताय प्रलयकालाय उल्कामुखायाग्निकेतवे मुनये दीप्ताय विशांपतये उन्नयते जनकाय चतुर्थकाय लोक सत्तमाय वामदेवाय वाग्दाक्षिण्याय वामतो भिक्षवे भिक्षुरूपिणे जटिने स्वयंजटिलाय शक्रहस्तप्रतिस्तंभकाय वसूनां स्तंभाय क्रतवे क्रतुकराय कालाय मेधाविने मधुकराय चलाय वानस्पत्याय वाजसनेति समाश्रमपूजिताय जगद्धात्रे जगत्कर्त्रे पुरुषाय शाश्वताय ध्रुवाय धर्माध्यक्षाय त्रिवर्त्मने भूतभावनाय त्रिनेत्राय बहुरूपाय सूर्यायुतसमप्रभाय देवाय सर्वतूर्यनिनादिने सर्वबाधाविमोचनाय बंधनाय सर्वधारिणे धर्म्मोत्तमाय पुष्पदंतायापि भागाय मुखाय सर्वहराय हिरण्यश्रवसे द्वारिणे भीमाय भीमपराक्रमाय ॐनमो नमः ॥
ओम् नमः ते देवेशाय सुर-असुर-नमस्कृताय भूत-भव्य-महादेवाय हरित-पिगल-लोचनाय बलाय बुद्धि-रूपिणे वैयाघ्र-वसनच्छदाय आरणेयाय त्रैलोक्य-प्रभवे ईश्वराय हराय हरितनेत्राय युगान्त-करणाय अनलाय गणेशाय लोकपालाय महाभुजाय महाहस्ताय शूलिने महा-दंष्ट्रिणे कालाय महेश्वराय अव्ययाय काल-रूपिणे नीलग्रीवाय महोदराय गणाध्यक्षाय सर्वात्मने सर्वभावनाय सर्वगाय मृत्यु-हंत्रे पारियात्र-सुव्रताय ब्रह्मचारिणे वेद-अन्त-गाय तपोंतगाय पशुपतये व्यंगाय शूलपाणये वृषकेतवे हरये जटिने शिखंडिने लकुटिने महा-यशसे भूतेश्वराय गुहा-वासिने वीणा अमराय दर्शनीयाय बाल-सूर्य-निभाय श्मशान-वासिने भगवते उमापतये अरिन्दमाय भगस्य अक्षि-पातिने पूष्णोः दशन-नाशनाय कूर-कर्तकाय पाश-हस्ताय प्रलय-कालाय उल्कामुखाय अग्निकेतवे मुनये दीप्ताय विशांपतये उन्नयते जनकाय चतुर्थकाय लोक-सत्तमाय वामदेवाय वाग्दाक्षिण्याय वामतोः भिक्षवे भिक्षु-रूपिणे जटिने स्वयंजटिलाय शक्र-हस्त-प्रतिस्तंभकाय वसूनाम् स्तंभाय क्रतवे क्रतु-कराय कालाय मेधाविने मधु-कराय चलाय वानस्पत्याय वाजसन इति सम-आश्रम-पूजिताय जगद्धात्रे जगत्कर्त्रे पुरुषाय शाश्वताय ध्रुवाय धर्म-अध्यक्षाय त्रिवर्त्मने भूतभावनाय त्रिनेत्राय बहुरूपाय सूर्य-अयुत-सम-प्रभाय देवाय सर्व-तूर्य-निनादिने सर्व-बाधा-विमोचनाय बंधनाय सर्व-धारिणे धर्म्म-उत्तमाय पुष्पदंताय अपि भागाय मुखाय सर्व-हराय हिरण्यश्रवसे द्वारिणे भीमाय भीम-पराक्रमाय ओम् नमः नमः ॥
om namaḥ te deveśāya sura-asura-namaskṛtāya bhūta-bhavya-mahādevāya harita-pigala-locanāya balāya buddhi-rūpiṇe vaiyāghra-vasanacchadāya āraṇeyāya trailokya-prabhave īśvarāya harāya haritanetrāya yugānta-karaṇāya analāya gaṇeśāya lokapālāya mahābhujāya mahāhastāya śūline mahā-daṃṣṭriṇe kālāya maheśvarāya avyayāya kāla-rūpiṇe nīlagrīvāya mahodarāya gaṇādhyakṣāya sarvātmane sarvabhāvanāya sarvagāya mṛtyu-haṃtre pāriyātra-suvratāya brahmacāriṇe veda-anta-gāya tapoṃtagāya paśupataye vyaṃgāya śūlapāṇaye vṛṣaketave haraye jaṭine śikhaṃḍine lakuṭine mahā-yaśase bhūteśvarāya guhā-vāsine vīṇā amarāya darśanīyāya bāla-sūrya-nibhāya śmaśāna-vāsine bhagavate umāpataye arindamāya bhagasya akṣi-pātine pūṣṇoḥ daśana-nāśanāya kūra-kartakāya pāśa-hastāya pralaya-kālāya ulkāmukhāya agniketave munaye dīptāya viśāṃpataye unnayate janakāya caturthakāya loka-sattamāya vāmadevāya vāgdākṣiṇyāya vāmatoḥ bhikṣave bhikṣu-rūpiṇe jaṭine svayaṃjaṭilāya śakra-hasta-pratistaṃbhakāya vasūnām staṃbhāya kratave kratu-karāya kālāya medhāvine madhu-karāya calāya vānaspatyāya vājasana iti sama-āśrama-pūjitāya jagaddhātre jagatkartre puruṣāya śāśvatāya dhruvāya dharma-adhyakṣāya trivartmane bhūtabhāvanāya trinetrāya bahurūpāya sūrya-ayuta-sama-prabhāya devāya sarva-tūrya-ninādine sarva-bādhā-vimocanāya baṃdhanāya sarva-dhāriṇe dharmma-uttamāya puṣpadaṃtāya api bhāgāya mukhāya sarva-harāya hiraṇyaśravase dvāriṇe bhīmāya bhīma-parākramāya om namaḥ namaḥ ..
सनत्कुमार उवाच ।।
इमं मन्त्रवरं जप्त्वा शुक्रो जठरपंजरात् ॥ निष्क्रान्तो लिंगमार्गेण शंभोश्शुक्रमिवोत्कटम् ॥ १॥
इमम् मन्त्र-वरम् जप्त्वा शुक्रः जठर-पंजरात् ॥ निष्क्रान्तः लिंग-मार्गेण शंभोः शुक्रम् इव उत्कटम् ॥ १॥
imam mantra-varam japtvā śukraḥ jaṭhara-paṃjarāt .. niṣkrāntaḥ liṃga-mārgeṇa śaṃbhoḥ śukram iva utkaṭam .. 1..
गौर्या गृहीतः पुत्रार्थं विश्वेशेन ततः कृतः ॥ अजरश्चामरः श्रीमान्द्वितीय इव शंकरः ॥ २ ॥
गौर्या गृहीतः पुत्र-अर्थम् विश्वेशेन ततस् कृतः ॥ अजरः च अमरः श्रीमान् द्वितीयः इव शंकरः ॥ २ ॥
gauryā gṛhītaḥ putra-artham viśveśena tatas kṛtaḥ .. ajaraḥ ca amaraḥ śrīmān dvitīyaḥ iva śaṃkaraḥ .. 2 ..
त्रिभिर्वर्षसहस्रैस्तु?? समतीतैर्महीतले ॥ महेश्वरात्पुनर्जातः शुक्रो वेदनिधिर्मुनिः ॥ ३ ॥
त्रिभिः वर्ष-सहस्रैः तु?? समतीतैः मही-तले ॥ महेश्वरात् पुनर् जातः शुक्रः वेदनिधिः मुनिः ॥ ३ ॥
tribhiḥ varṣa-sahasraiḥ tu?? samatītaiḥ mahī-tale .. maheśvarāt punar jātaḥ śukraḥ vedanidhiḥ muniḥ .. 3 ..
ददर्श शूले संशुष्कं ध्यायंतं परमेश्वरम् ॥ अंधकं धैर्यसद्वन्य??दानवेशं तपस्विनम् ॥ ४ ॥
ददर्श शूले संशुष्कम् ध्यायंतम् परमेश्वरम् ॥ अन्धकम्??दानव-ईशम् तपस्विनम् ॥ ४ ॥
dadarśa śūle saṃśuṣkam dhyāyaṃtam parameśvaram .. andhakam??dānava-īśam tapasvinam .. 4 ..
महादेवं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ॥ अमृतं शाश्वतं स्थाणुं नीलकंठं पिनाकिनम् ॥ ५ ॥
महादेवम् विरूपाक्षम् चन्द्र-अर्द्ध-कृत-शेखरम् ॥ अमृतम् शाश्वतम् स्थाणुम् नीलकंठम् पिनाकिनम् ॥ ५ ॥
mahādevam virūpākṣam candra-arddha-kṛta-śekharam .. amṛtam śāśvatam sthāṇum nīlakaṃṭham pinākinam .. 5 ..
वृषभाक्षं महाज्ञेयं पुरुषं सर्वकामदम् ॥ कामारिं कामदहनं कामरूपं कपर्दिनम् ॥ ६ ॥
वृषभ-अक्षम् महा-ज्ञेयम् पुरुषम् सर्व-काम-दम् ॥ कामारिम् काम-दहनम् कामरूपम् कपर्दिनम् ॥ ६ ॥
vṛṣabha-akṣam mahā-jñeyam puruṣam sarva-kāma-dam .. kāmārim kāma-dahanam kāmarūpam kapardinam .. 6 ..
विरूपं गिरिशं भीमं स्रग्विणं रक्तवाससम् ॥ योगिनं कालदहनं त्रिपुरघ्नं कपालिनम् ॥ ७ ॥
विरूपम् गिरिशम् भीमम् स्रग्विणम् रक्त-वाससम् ॥ योगिनम् काल-दहनम् त्रिपुर-घ्नम् कपालिनम् ॥ ७ ॥
virūpam giriśam bhīmam sragviṇam rakta-vāsasam .. yoginam kāla-dahanam tripura-ghnam kapālinam .. 7 ..
गूढव्रतं गुप्तमंत्रं गंभीरं भावगोचरम् ॥ अणिमादिगुणाधारत्रिलोक्यैश्वर्य्यदायकम्॥ ८॥
गूढ-व्रतम् गुप्त-मंत्रम् गंभीरम् भाव-गोचरम् ॥ ॥ ८॥
gūḍha-vratam gupta-maṃtram gaṃbhīram bhāva-gocaram .. .. 8..
वीरं वीरहणं घोरं विरूपं मांसलं पटुम् ॥ महामांसादमुन्मत्तं भैरवं वै महेश्वरम् ॥ ९ ॥
वीरम् वीर-हणम् घोरम् विरूपम् मांसलम् पटुम् ॥ महा-मांस-आदम् उन्मत्तम् भैरवम् वै महेश्वरम् ॥ ९ ॥
vīram vīra-haṇam ghoram virūpam māṃsalam paṭum .. mahā-māṃsa-ādam unmattam bhairavam vai maheśvaram .. 9 ..
त्रैलोक्यद्रावणं लुब्धं लुब्धकं यज्ञसूदनम् ॥ कृत्तिकानां सुतैर्युक्तमुन्मत्तकृत्तिवाससम् ॥ 2.5.49.१० ॥
॥ कृत्तिकानाम् सुतैः युक्तम् उन्मत्त-कृत्तिवाससम् ॥ २।५।४९।१० ॥
.. kṛttikānām sutaiḥ yuktam unmatta-kṛttivāsasam .. 2.5.49.10 ..
गजकृत्तिपरीधानं क्षुब्धं भुजगभूषणम् ॥ दद्यालंबं च वेतालं घोरं शाकिनिपूजितम् ॥ ११ ॥
गज-कृत्ति-परीधानम् क्षुब्धम् भुजग-भूषणम् ॥ दद्या अलंबम् च वेतालम् घोरम् शाकिनि-पूजितम् ॥ ११ ॥
gaja-kṛtti-parīdhānam kṣubdham bhujaga-bhūṣaṇam .. dadyā alaṃbam ca vetālam ghoram śākini-pūjitam .. 11 ..
अघोरं घोरदैत्यघ्नं घोरघोषं वनस्पतिम् ॥ भस्मांगं जटिलं शुद्धं भेरुंडशतसेवितम् ॥ १२ ॥
अघोरम् घोर-दैत्य-घ्नम् घोर-घोषम् वनस्पतिम् ॥ भस्म-अंगम् जटिलम् शुद्धम् भेरुंड-शत-सेवितम् ॥ १२ ॥
aghoram ghora-daitya-ghnam ghora-ghoṣam vanaspatim .. bhasma-aṃgam jaṭilam śuddham bheruṃḍa-śata-sevitam .. 12 ..
भूतेश्वरं भूतनाथं पञ्चभूताश्रितं खगम् ॥ क्रोधितं निष्ठुरं चण्डं चण्डीशं चण्डिकाप्रियम् ॥ १३॥
॥ क्रोधितम् निष्ठुरम् चण्डम् चण्डीशम् चण्डिका-प्रियम् ॥ १३॥
.. krodhitam niṣṭhuram caṇḍam caṇḍīśam caṇḍikā-priyam .. 13..
चण्डं तुंगं गरुत्मंतं नित्यमासवभोजनम् ॥ लेलिहानं महारौद्रं मृत्युं मृत्योरगोचरम् ॥ १४॥
चण्डम् तुंगम् गरुत्मंतम् नित्यम् आसव-भोजनम् ॥ लेलिहानम् महा-रौद्रम् मृत्युम् मृत्योः अगोचरम् ॥ १४॥
caṇḍam tuṃgam garutmaṃtam nityam āsava-bhojanam .. lelihānam mahā-raudram mṛtyum mṛtyoḥ agocaram .. 14..
मृत्योर्मृत्युं महासेनं श्मशानारण्यवासिनम् ॥ रागं विरागं रागांधं वीतरागशताचितम् ॥ १५॥
मृत्योः मृत्युम् महासेनम् श्मशान-अरण्य-वासिनम् ॥ रागम् विरागम् राग-अंधम् वीत-राग-शत-आचितम् ॥ १५॥
mṛtyoḥ mṛtyum mahāsenam śmaśāna-araṇya-vāsinam .. rāgam virāgam rāga-aṃdham vīta-rāga-śata-ācitam .. 15..
सत्त्वं रजस्तमोधर्ममधर्मं वासवानुजम् ॥ सत्यं त्वसत्यं सद्रूपमसद्रूपमहेतुकम् ॥ १६॥
सत्त्वम् रजः तमः धर्मम् अधर्मम् वासव-अनुजम् ॥ सत्यम् तु असत्यम् सत्-रूपम् असत्-रूपम् अहेतुकम् ॥ १६॥
sattvam rajaḥ tamaḥ dharmam adharmam vāsava-anujam .. satyam tu asatyam sat-rūpam asat-rūpam ahetukam .. 16..
अर्द्धनारीश्वरं भानुं भानुकोटिशतप्रभम् ॥ यज्ञं यज्ञपतिं रुद्रमीशानं वरदं शिवम् ॥ १७॥
अर्द्धनारीश्वरम् भानुम् भानु-कोटि-शत-प्रभम् ॥ यज्ञम् यज्ञपतिम् रुद्रम् ईशानम् वर-दम् शिवम् ॥ १७॥
arddhanārīśvaram bhānum bhānu-koṭi-śata-prabham .. yajñam yajñapatim rudram īśānam vara-dam śivam .. 17..
अष्टोत्तरशतं ह्येतन्मूर्तीनां परमात्मनः ॥ शिवस्य दानवो ध्यायन्मुक्तस्तस्मान्महाभयात् ॥ १८ ॥
अष्टोत्तरशतम् हि एतत् मूर्तीनाम् परमात्मनः ॥ शिवस्य दानवः ध्यायन् मुक्तः तस्मात् महा-भयात् ॥ १८ ॥
aṣṭottaraśatam hi etat mūrtīnām paramātmanaḥ .. śivasya dānavaḥ dhyāyan muktaḥ tasmāt mahā-bhayāt .. 18 ..
दिव्येनामृतवर्षेण सोऽभिषिक्तः कपर्दिना ॥ तुष्टेन मोचितं तस्माच्छूलाग्रादवरोपितः ॥ १९॥
दिव्येन अमृत-वर्षेण सः अभिषिक्तः कपर्दिना ॥ तुष्टेन मोचितम् तस्मात् शूल-अग्रात् अवरोपितः ॥ १९॥
divyena amṛta-varṣeṇa saḥ abhiṣiktaḥ kapardinā .. tuṣṭena mocitam tasmāt śūla-agrāt avaropitaḥ .. 19..
उक्तश्चाथ महादैत्यो महेशानेन सोंऽधकः ॥ असुरस्सांत्वपूर्वं यत्कृतं सर्वं महात्मना ॥ 2.5.49.२० ॥
उक्तः च अथ महा-दैत्यः महेशानेन सः ॐ अधकः ॥ असुरः सांत्व-पूर्वम् यत् कृतम् सर्वम् महात्मना ॥ २।५।४९।२० ॥
uktaḥ ca atha mahā-daityaḥ maheśānena saḥ oṃ adhakaḥ .. asuraḥ sāṃtva-pūrvam yat kṛtam sarvam mahātmanā .. 2.5.49.20 ..
ईश्वर उवाच ।।
भो भो दैत्येन्द्रतुष्टोऽस्मि दमेन नियमेन च ॥ शौर्येण तव धैर्येण वरं वरय सुव्रत ॥ २१॥
भो भो दैत्य-इन्द्र-तुष्टः अस्मि दमेन नियमेन च ॥ शौर्येण तव धैर्येण वरम् वरय सुव्रत ॥ २१॥
bho bho daitya-indra-tuṣṭaḥ asmi damena niyamena ca .. śauryeṇa tava dhairyeṇa varam varaya suvrata .. 21..
आराधितस्त्वया नित्यं सर्वनिर्धूतकल्मषः ॥ वरदोऽहं वरार्हस्त्वं महादैत्येन्द्रसत्तम ॥ २२॥
आराधितः त्वया नित्यम् सर्व-निर्धूत-कल्मषः ॥ वर-दः अहम् वर-अर्हः त्वम् महा-दैत्य-इन्द्र-सत्तम ॥ २२॥
ārādhitaḥ tvayā nityam sarva-nirdhūta-kalmaṣaḥ .. vara-daḥ aham vara-arhaḥ tvam mahā-daitya-indra-sattama .. 22..
प्राणसंधारणादस्ति यच्च पुण्यफलं तव ॥ त्रिभिर्वर्षसहस्रैस्तु तेनास्तु तव निर्वृतिः ॥ २३ ॥
प्राण-संधारणात् अस्ति यत् च पुण्य-फलम् तव ॥ त्रिभिः वर्ष-सहस्रैः तु तेन अस्तु तव निर्वृतिः ॥ २३ ॥
prāṇa-saṃdhāraṇāt asti yat ca puṇya-phalam tava .. tribhiḥ varṣa-sahasraiḥ tu tena astu tava nirvṛtiḥ .. 23 ..
सनत्कुमार उवाच ।।
एतच्छ्रुत्वांधकः प्राह वेपमानः कृतांजलिः ॥ भूमौ जानुद्वयं कृत्वा भगवंतमुमापतिम् ॥ २४॥
एतत् श्रुत्वा अंधकः प्राह वेपमानः कृत-अंजलिः ॥ भूमौ जानु-द्वयम् कृत्वा भगवंतम् उमापतिम् ॥ २४॥
etat śrutvā aṃdhakaḥ prāha vepamānaḥ kṛta-aṃjaliḥ .. bhūmau jānu-dvayam kṛtvā bhagavaṃtam umāpatim .. 24..
अंधक उवाच ।।
भगवन्यन्मयोक्तोऽसि दीनोदीनः परात्परः ॥ हर्षगद्गदया वाचा मया पूर्वं रणाजिरे ॥ २५॥
भगवन् यत् मया उक्तः असि दीन-उदीनः परात्परः ॥ हर्ष-गद्गदया वाचा मया पूर्वम् रण-अजिरे ॥ २५॥
bhagavan yat mayā uktaḥ asi dīna-udīnaḥ parātparaḥ .. harṣa-gadgadayā vācā mayā pūrvam raṇa-ajire .. 25..
यद्यत्कृतं विमूढत्वात्कर्म लोकेषु गर्हितम् ॥ अजानता त्वां तत्सर्वं प्रभो मनसि मा कृथाः ॥ २६ ॥
यत् यत् कृतम् विमूढ-त्वात् कर्म लोकेषु गर्हितम् ॥ अ जानता त्वाम् तत् सर्वम् प्रभो मनसि मा कृथाः ॥ २६ ॥
yat yat kṛtam vimūḍha-tvāt karma lokeṣu garhitam .. a jānatā tvām tat sarvam prabho manasi mā kṛthāḥ .. 26 ..
पार्वत्यामपि दुष्टं यत्कामदोषात्कृतं मया ॥ क्षम्यतां मे महादेव कृपणो दुःखितो भृशम् ॥ २७॥
पार्वत्याम् अपि दुष्टम् यत् काम-दोषात् कृतम् मया ॥ क्षम्यताम् मे महादेव कृपणः दुःखितः भृशम् ॥ २७॥
pārvatyām api duṣṭam yat kāma-doṣāt kṛtam mayā .. kṣamyatām me mahādeva kṛpaṇaḥ duḥkhitaḥ bhṛśam .. 27..
दुःखितस्य दया कार्या कृपणस्य विशेषतः ॥ दीनस्य भक्तियुक्तस्य भवता नित्यमेव हि ॥ २८॥
दुःखितस्य दया कार्या कृपणस्य विशेषतः ॥ दीनस्य भक्ति-युक्तस्य भवता नित्यम् एव हि ॥ २८॥
duḥkhitasya dayā kāryā kṛpaṇasya viśeṣataḥ .. dīnasya bhakti-yuktasya bhavatā nityam eva hi .. 28..
सोहं दीनो भक्तियुक्त आगतश्शरणं तव ॥ रक्षा मयि विधातव्या रचितोऽयं मयांजलिः ॥ २९ ॥
सः हम् दीनः भक्ति-युक्तः आगतः शरणम् तव ॥ रक्षा मयि विधातव्या रचितः अयम् मया अंजलिः ॥ २९ ॥
saḥ ham dīnaḥ bhakti-yuktaḥ āgataḥ śaraṇam tava .. rakṣā mayi vidhātavyā racitaḥ ayam mayā aṃjaliḥ .. 29 ..
इयं देवी जगन्माता परितुष्टा ममोपरि ॥ क्रोधं विहाय सकलं प्रसन्ना मां निरीक्षताम् ॥ 2.5.49.३०॥
इयम् देवी जगन्माता परितुष्टा मम उपरि ॥ क्रोधम् विहाय सकलम् प्रसन्ना माम् निरीक्षताम् ॥ २।५।४९।३०॥
iyam devī jaganmātā parituṣṭā mama upari .. krodham vihāya sakalam prasannā mām nirīkṣatām .. 2.5.49.30..
क्वास्याः क्रोधः क्व कृपणो दैत्योऽहं चन्द्रशेखर॥ तत्सोढा नाहमर्द्धेन्दुचूड शंभो महेश्वर ॥ ३१ ॥
क्व अस्याः क्रोधः क्व कृपणः दैत्यः अहम् चन्द्रशेखर॥ तत् सोढा न अहम् अर्द्ध-इन्दु-चूड शंभो महेश्वर ॥ ३१ ॥
kva asyāḥ krodhaḥ kva kṛpaṇaḥ daityaḥ aham candraśekhara.. tat soḍhā na aham arddha-indu-cūḍa śaṃbho maheśvara .. 31 ..
क्व भवान्परमोदारः क्व चाहं विवशीकृतः ॥ कामक्रोधादिभिर्दोषैर्जरसा मृत्युना तथा ॥ ३२॥
क्व भवान् परम-उदारः क्व च अहम् विवशीकृतः ॥ काम-क्रोध-आदिभिः दोषैः जरसा मृत्युना तथा ॥ ३२॥
kva bhavān parama-udāraḥ kva ca aham vivaśīkṛtaḥ .. kāma-krodha-ādibhiḥ doṣaiḥ jarasā mṛtyunā tathā .. 32..
अयं ते वीरकः पुत्रो युद्धशौंडो महाबलः ॥ कृपणं मां समालक्ष्य मा मन्युवशमन्वगाः ॥ ३३॥
अयम् ते वीरकः पुत्रः युद्ध-शौंडः महा-बलः ॥ कृपणम् माम् समालक्ष्य मा मन्यु-वशम् अन्वगाः ॥ ३३॥
ayam te vīrakaḥ putraḥ yuddha-śauṃḍaḥ mahā-balaḥ .. kṛpaṇam mām samālakṣya mā manyu-vaśam anvagāḥ .. 33..
तुषारहारशीतांशुशंखकुन्देन्दुवर्ण भाक् ॥ पश्येयं पार्वतीं नित्यं मातरं गुरुगौरवात् ॥ ३४॥
तुषार-हार-शीतांशु-शंख-कुन्द-इन्दु-वर्ण भाज् ॥ पश्येयम् पार्वतीम् नित्यम् मातरम् गुरु-गौरवात् ॥ ३४॥
tuṣāra-hāra-śītāṃśu-śaṃkha-kunda-indu-varṇa bhāj .. paśyeyam pārvatīm nityam mātaram guru-gauravāt .. 34..
नित्यं भवद्भ्यां भक्तस्तु निर्वैरो दैवतैः सह ॥ निवसेयं गणैस्सार्द्धं शांता त्मा योगचिंतकः ॥ ३५॥
नित्यम् भवद्भ्याम् भक्तः तु निर्वैरः दैवतैः सह ॥ निवसेयम् गणैः सार्द्धम् शांता त्मा योग-चिंतकः ॥ ३५॥
nityam bhavadbhyām bhaktaḥ tu nirvairaḥ daivataiḥ saha .. nivaseyam gaṇaiḥ sārddham śāṃtā tmā yoga-ciṃtakaḥ .. 35..
मा स्मरेयं पुनर्जातं विरुद्धं दानवोद्भवम् ॥ त्वत्कृपातो महेशान देह्येतद्वरमुत्तमम् ॥ ३६॥
मा स्मरेयम् पुनर् जातम् विरुद्धम् दानव-उद्भवम् ॥ त्वद्-कृपातः महेशान देहि एतत् वरम् उत्तमम् ॥ ३६॥
mā smareyam punar jātam viruddham dānava-udbhavam .. tvad-kṛpātaḥ maheśāna dehi etat varam uttamam .. 36..
सनत्कुमार उवाच ।।
एतावदुक्त्वा वचनं दैत्येन्द्रो मौनमास्थितः ॥ ध्यायंस्त्रिलोचनं देवं पार्वतीं प्रेक्ष्य मातरम् ॥ ३७॥
एतावत् उक्त्वा वचनम् दैत्य-इन्द्रः मौनम् आस्थितः ॥ ध्यायन् त्रिलोचनम् देवम् पार्वतीम् प्रेक्ष्य मातरम् ॥ ३७॥
etāvat uktvā vacanam daitya-indraḥ maunam āsthitaḥ .. dhyāyan trilocanam devam pārvatīm prekṣya mātaram .. 37..
ततो दृष्टस्तु रुद्रेण प्रसन्नेनैव चक्षुषा ॥ स्मृतवान्पूर्ववृत्तांतमात्मनो जन्म चाद्भुतम् ॥ ३८ ॥
ततस् दृष्टः तु रुद्रेण प्रसन्नेन एव चक्षुषा ॥ स्मृतवान् पूर्व-वृत्तांतम् आत्मनः जन्म च अद्भुतम् ॥ ३८ ॥
tatas dṛṣṭaḥ tu rudreṇa prasannena eva cakṣuṣā .. smṛtavān pūrva-vṛttāṃtam ātmanaḥ janma ca adbhutam .. 38 ..
तस्मिन्स्मृते च वृत्तांते ततः पूर्णमनोरथः ॥ प्रणम्य मातापितरौ कृतकृत्योऽभवत्ततः ॥ ३९॥
तस्मिन् स्मृते च वृत्तांते ततस् पूर्ण-मनोरथः ॥ प्रणम्य माता-पितरौ कृतकृत्यः अभवत् ततस् ॥ ३९॥
tasmin smṛte ca vṛttāṃte tatas pūrṇa-manorathaḥ .. praṇamya mātā-pitarau kṛtakṛtyaḥ abhavat tatas .. 39..
पार्वत्या मूर्ध्न्युपाघ्रातश्शंकरेण च धीमता ॥ तथाऽभिलषितं लेभे तुष्टाद्बालेन्दुशेखरात् ॥ 2.5.49.४ ० ॥
पार्वत्याः मूर्ध्नि उपाघ्रातः शंकरेण च धीमता ॥ तथा अभिलषितम् लेभे तुष्टात् बाल-इन्दुशेखरात् ॥ २।५।४९।४ ० ॥
pārvatyāḥ mūrdhni upāghrātaḥ śaṃkareṇa ca dhīmatā .. tathā abhilaṣitam lebhe tuṣṭāt bāla-induśekharāt .. 2.5.49.4 0 ..
एतद्वस्सर्वमाख्यातमन्धकस्य पुरातनम् ॥ गाणपत्यं महादेवप्रसादात्परसौख्यदम् ॥ ४१॥
एतत् वः सर्वम् आख्यातम् अन्धकस्य पुरातनम् ॥ गाणपत्यम् महादेव-प्रसादात् पर-सौख्य-दम् ॥ ४१॥
etat vaḥ sarvam ākhyātam andhakasya purātanam .. gāṇapatyam mahādeva-prasādāt para-saukhya-dam .. 41..
मृत्युंजयश्च कथितो मंत्रो मृत्युविनाशनः ॥ पठितव्यः प्रयत्नेन सर्वकामफलप्रदः ॥ ४२॥
मृत्युंजयः च कथितः मंत्रः मृत्यु-विनाशनः ॥ पठितव्यः प्रयत्नेन सर्व-काम-फल-प्रदः ॥ ४२॥
mṛtyuṃjayaḥ ca kathitaḥ maṃtraḥ mṛtyu-vināśanaḥ .. paṭhitavyaḥ prayatnena sarva-kāma-phala-pradaḥ .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अंधकगण जीवितप्राप्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे अंधकगण-जीवितप्राप्तिवर्णनम् नाम एकोनपञ्चाशत्तमः अध्यायः ॥ ४९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe aṃdhakagaṇa-jīvitaprāptivarṇanam nāma ekonapañcāśattamaḥ adhyāyaḥ .. 49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In