| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
दैत्यराजे दीक्षिते च मायिना तेन मोहिते ॥ किमुवाच तदा मायी किं चकार स दैत्यपः ॥ १ ॥
दैत्य-राजे दीक्षिते च मायिना तेन मोहिते ॥ किम् उवाच तदा मायी किम् चकार स दैत्यपः ॥ १ ॥
daitya-rāje dīkṣite ca māyinā tena mohite .. kim uvāca tadā māyī kim cakāra sa daityapaḥ .. 1 ..
सनत्कुमार उवाच ।।
दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः॥ शिष्यैस्सेवितपादाब्जो दैत्यराजानमब्रवीत् ॥ २ ॥
दीक्षाम् दत्त्वा यतिः तस्मै अरि-हत् नारद-आदिभिः॥ शिष्यैः सेवित-पाद-अब्जः दैत्य-राजानम् अब्रवीत् ॥ २ ॥
dīkṣām dattvā yatiḥ tasmai ari-hat nārada-ādibhiḥ.. śiṣyaiḥ sevita-pāda-abjaḥ daitya-rājānam abravīt .. 2 ..
अरिहन्नुवाच ।।
शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् ॥ वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥ ३॥
शृणु दैत्य-पते वाक्यम् मम सञ्ज्ञान-गर्भितम् ॥ वेदान्त-सार-सर्वस्वम् रहस्यम् परम-उत्तमम् ॥ ३॥
śṛṇu daitya-pate vākyam mama sañjñāna-garbhitam .. vedānta-sāra-sarvasvam rahasyam parama-uttamam .. 3..
अनादिसिद्धस्संसारः कर्तृकर्मविवर्जितः ॥ स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥ ४ ॥
अनादि-सिद्धः संसारः कर्तृ-कर्म-विवर्जितः ॥ स्वयम् प्रादुर्भवति एव स्वयम् एव विलीयते ॥ ४ ॥
anādi-siddhaḥ saṃsāraḥ kartṛ-karma-vivarjitaḥ .. svayam prādurbhavati eva svayam eva vilīyate .. 4 ..
ब्रह्मादिस्तंबपर्यन्तं यावद्देहनिबंधनम् ॥ आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता॥ ५ ॥
ब्रह्म-आदि-स्तंब-पर्यन्तम् यावत् देह-निबंधनम् ॥ आत्मा एव एक-ईश्वरः तत्र न द्वितीयः तद्-ईशिता॥ ५ ॥
brahma-ādi-staṃba-paryantam yāvat deha-nibaṃdhanam .. ātmā eva eka-īśvaraḥ tatra na dvitīyaḥ tad-īśitā.. 5 ..
यद्ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ॥ आख्यायथास्मदादीनामरिहन्नादिरुच्यते ॥ ६ ॥
यत् ब्रह्म-विष्णु-रुद्र-आख्याः तद्-आख्याः देहिनाम् इमाः ॥ आख्यायथा अस्मत्-आदीनाम् अरि-हन् आदिः उच्यते ॥ ६ ॥
yat brahma-viṣṇu-rudra-ākhyāḥ tad-ākhyāḥ dehinām imāḥ .. ākhyāyathā asmat-ādīnām ari-han ādiḥ ucyate .. 6 ..
देहो यथास्मदादीनां स्वकालेन विलीयते ॥ ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ॥ ७ ॥
देहः यथा अस्मत् आदीनाम् स्व-कालेन विलीयते ॥ ब्रह्म-आदि मशक-अन्तानाम् स्व-कालात् लीयते तथा ॥ ७ ॥
dehaḥ yathā asmat ādīnām sva-kālena vilīyate .. brahma-ādi maśaka-antānām sva-kālāt līyate tathā .. 7 ..
विचार्यमाणे देहेऽस्मिन्न किंचिदधिकं क्वचित् ॥ आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८ ॥
विचार्यमाणे देहे अस्मिन् न किंचिद् अधिकम् क्वचिद् ॥ आहारः मैथुनम् निद्रा भयम् सर्वत्र यत् समम् ॥ ८ ॥
vicāryamāṇe dehe asmin na kiṃcid adhikam kvacid .. āhāraḥ maithunam nidrā bhayam sarvatra yat samam .. 8 ..
निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ॥ सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्॥ ९॥
निराहार-परीमाणम् प्राप्य सर्वः हि देहभृत् ॥ सदृशीम् एव संतृप्तिम् प्राप्नुयात् न अधिक-इतराम्॥ ९॥
nirāhāra-parīmāṇam prāpya sarvaḥ hi dehabhṛt .. sadṛśīm eva saṃtṛptim prāpnuyāt na adhika-itarām.. 9..
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ॥ तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ॥ 2.5.5.१ ०॥
यथा वितृषिताः स्याम पीत्वा पेयम् मुदा वयम् ॥ तृषिताः तु तथा अन्ये अपि न विशेषः अल्प-कः अधिकः ॥ २।५।५।१ ०॥
yathā vitṛṣitāḥ syāma pītvā peyam mudā vayam .. tṛṣitāḥ tu tathā anye api na viśeṣaḥ alpa-kaḥ adhikaḥ .. 2.5.5.1 0..
संतु नार्यः सहस्राणि रूपलावण्यभूमयः ॥ परं निधुवने काले ह्यैकेवेहोपयुज्यते ॥ ११ ॥
संतु नार्यः सहस्राणि रूप-लावण्य-भूमयः ॥ परम् निधुवने काले हि ऐका इव इह उपयुज्यते ॥ ११ ॥
saṃtu nāryaḥ sahasrāṇi rūpa-lāvaṇya-bhūmayaḥ .. param nidhuvane kāle hi aikā iva iha upayujyate .. 11 ..
अश्वाः परश्शतास्संतु संत्वेनेकैप्यनेकधा॥ अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ १२॥
अश्वाः परश्शताः संतु संतु एना इकैपि अन् एकधा॥ अधिरोहे तथा अपि एकः न द्वितीयः तथा आत्मनः ॥ १२॥
aśvāḥ paraśśatāḥ saṃtu saṃtu enā ikaipi an ekadhā.. adhirohe tathā api ekaḥ na dvitīyaḥ tathā ātmanaḥ .. 12..
पर्यंकशायिनां स्वापे सुखं यदुपजायते॥ तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ॥ १३॥
पर्यंक-शायिनाम् स्वापे सुखम् यत् उपजायते॥ तत् एव सौख्यम् निद्राभिः भूत-भू-शायिनाम् अपि ॥ १३॥
paryaṃka-śāyinām svāpe sukham yat upajāyate.. tat eva saukhyam nidrābhiḥ bhūta-bhū-śāyinām api .. 13..
यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ॥ ब्रह्मादिकीटकांतानां तथा मरणतो भयम्॥ १४॥
यथा एव मरणात् भीतिः अस्मद्-आदि-वपुष्मताम् ॥ ब्रह्म-आदि-कीट-कान्तानाम् तथा मरणतः भयम्॥ १४॥
yathā eva maraṇāt bhītiḥ asmad-ādi-vapuṣmatām .. brahma-ādi-kīṭa-kāntānām tathā maraṇataḥ bhayam.. 14..
सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ॥ इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ॥ १५॥
सर्वे तनुभृतः तुल्याः यदि बुद्ध्या विचार्य्यते ॥ इदम् निश्चित्य केन अपि नो हिंस्यः कः अपि कुत्रचिद् ॥ १५॥
sarve tanubhṛtaḥ tulyāḥ yadi buddhyā vicāryyate .. idam niścitya kena api no hiṃsyaḥ kaḥ api kutracid .. 15..
धर्मो जीवदयातुल्यो न क्वापि जगतीतले ॥ तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १६॥
धर्मः जीव-दया-तुल्यः न क्वापि जगती-तले ॥ तस्मात् सर्व-प्रयत्नेन कार्या जीव-दया नृभिः ॥ १६॥
dharmaḥ jīva-dayā-tulyaḥ na kvāpi jagatī-tale .. tasmāt sarva-prayatnena kāryā jīva-dayā nṛbhiḥ .. 16..
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ॥ घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ १७॥
एकस्मिन् रक्षिते जीवे त्रैलोक्यम् रक्षितम् भवेत् ॥ घातिते घातितम् तद्वत् तस्मात् रक्षेत् न घातयेत् ॥ १७॥
ekasmin rakṣite jīve trailokyam rakṣitam bhavet .. ghātite ghātitam tadvat tasmāt rakṣet na ghātayet .. 17..
अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ॥ अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम् ॥ १८॥
अहिंसा परमः धर्मः पापम् आत्म-प्रपीडनम् ॥ अपर-अधीन-ता मुक्तिः स्वर्गः अभिलषित-अशनम् ॥ १८॥
ahiṃsā paramaḥ dharmaḥ pāpam ātma-prapīḍanam .. apara-adhīna-tā muktiḥ svargaḥ abhilaṣita-aśanam .. 18..
पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ॥ तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः ॥ १९ ॥
पूर्व-सूरिभिः इति उक्तम् सत्-प्रमाण-तया ध्रुवम् ॥ तस्मात् न हिंसा कर्त्तव्यः नरैः नरक-भीरुभिः ॥ १९ ॥
pūrva-sūribhiḥ iti uktam sat-pramāṇa-tayā dhruvam .. tasmāt na hiṃsā karttavyaḥ naraiḥ naraka-bhīrubhiḥ .. 19 ..
न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ॥ हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ 2.5.5.२० ॥
न हिंसा-सदृशम् पापम् त्रैलोक्ये स चराचरे ॥ हिंसकः नरकम् गच्छेत् स्वर्गम् गच्छेत् अहिंसकः ॥ २।५।५।२० ॥
na hiṃsā-sadṛśam pāpam trailokye sa carācare .. hiṃsakaḥ narakam gacchet svargam gacchet ahiṃsakaḥ .. 2.5.5.20 ..
संति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ॥ अभीतिसदृशं दानं परमेकमपीह न ॥ २१ ॥
संति दानानि अनेकानि किम् तैः तुच्छ-फल-प्रदैः ॥ अभीति-सदृशम् दानम् परम् एकम् अपि इह न ॥ २१ ॥
saṃti dānāni anekāni kim taiḥ tuccha-phala-pradaiḥ .. abhīti-sadṛśam dānam param ekam api iha na .. 21 ..
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ॥ विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ २२ ॥
इह चत्वारि दानानि प्रोक्तानि परम-ऋषिभिः ॥ विचार्य नाना शास्त्राणि शर्मणे अत्र परत्र च ॥ २२ ॥
iha catvāri dānāni proktāni parama-ṛṣibhiḥ .. vicārya nānā śāstrāṇi śarmaṇe atra paratra ca .. 22 ..
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् ॥ देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ २३॥
भीतेभ्यः च अभयम् देयम् व्याधितेभ्यः तथा औषधम् ॥ देया विद्या-अर्थिनाम् विद्या देयम् अन्नम् क्षुधा-आतुरे ॥ २३॥
bhītebhyaḥ ca abhayam deyam vyādhitebhyaḥ tathā auṣadham .. deyā vidyā-arthinām vidyā deyam annam kṣudhā-āture .. 23..
यानि यानीह दानानि बहुमुन्युदितानि च ॥ जीवाभयप्रदानस्य कलां नार्हंति षोडशीम् ॥ २४ ॥
यानि यानि इह दानानि बहु-मुनि-उदितानि च ॥ जीव-अभय-प्रदानस्य कलाम् न अर्हन्ति षोडशीम् ॥ २४ ॥
yāni yāni iha dānāni bahu-muni-uditāni ca .. jīva-abhaya-pradānasya kalām na arhanti ṣoḍaśīm .. 24 ..
अविचिंत्य प्रभावं हि मणिमंत्रौषधं बलम् ॥ तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥ २९ ॥
अ विचिंत्य प्रभावम् हि मणि-मंत्र-औषधम् बलम् ॥ तत् अभ्यस्यम् प्रयत्नेन नाम-अर्थ-उपार्जनाय वै ॥ २९ ॥
a viciṃtya prabhāvam hi maṇi-maṃtra-auṣadham balam .. tat abhyasyam prayatnena nāma-artha-upārjanāya vai .. 29 ..
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ॥ परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ २६ ॥
अर्थान् उपार्ज्य बहुशस् द्वादश आयतनानि वै ॥ परितस् परिपूज्यानि किम् अन्यैः इह पूजितैः ॥ २६ ॥
arthān upārjya bahuśas dvādaśa āyatanāni vai .. paritas paripūjyāni kim anyaiḥ iha pūjitaiḥ .. 26 ..
पंचकर्मेन्द्रियग्रामाः पंच बुद्धींद्रियाणि च ॥ मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ २७ ॥
पंच-कर्मेन्द्रिय-ग्रामाः पंच बुद्धींद्रियाणि च ॥ मनः बुद्धिः इह प्रोक्तम् द्वादशायतनम् शुभम् ॥ २७ ॥
paṃca-karmendriya-grāmāḥ paṃca buddhīṃdriyāṇi ca .. manaḥ buddhiḥ iha proktam dvādaśāyatanam śubham .. 27 ..
इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ॥ सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि ॥ २८ ॥
इह एव स्वर्ग-नरकौ प्राणिनाम् न अन्यतस् क्वचिद् ॥ सुखम् स्वर्गः समाख्याताः दुःखम् नरकम् एव हि ॥ २८ ॥
iha eva svarga-narakau prāṇinām na anyatas kvacid .. sukham svargaḥ samākhyātāḥ duḥkham narakam eva hi .. 28 ..
सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् ॥ अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ॥ २९॥
सुखेषु भुज्यमानेषु यत् स्यात् देह-विसर्जनम् ॥ अयम् एव परः मोक्षः विज्ञेयः तत्त्व-चिंतकैः ॥ २९॥
sukheṣu bhujyamāneṣu yat syāt deha-visarjanam .. ayam eva paraḥ mokṣaḥ vijñeyaḥ tattva-ciṃtakaiḥ .. 29..
वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् ॥ अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ॥ 2.5.5.३० ॥
वासना-सहिते क्लेश-समुच्छेदे सति ध्रुवम् ॥ परमः मोक्षः विज्ञेयः तत्त्व-चिंतकैः ॥ २।५।५।३० ॥
vāsanā-sahite kleśa-samucchede sati dhruvam .. paramaḥ mokṣaḥ vijñeyaḥ tattva-ciṃtakaiḥ .. 2.5.5.30 ..
प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ॥ न हिंस्यात्सर्वभूतानि नान्या हिंसा प्रवर्तिका ॥ ३१ ॥
प्रामाणिकी श्रुतिः इयम् प्रोच्यते वेद-वादिभिः ॥ न हिंस्यात् सर्व-भूतानि न अन्या हिंसा प्रवर्तिका ॥ ३१ ॥
prāmāṇikī śrutiḥ iyam procyate veda-vādibhiḥ .. na hiṃsyāt sarva-bhūtāni na anyā hiṃsā pravartikā .. 31 ..
अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह ॥ न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ॥ ३२ ।
अग्निष्टोमीयम् इति या भ्रामिका सा असताम् इह ॥ न सा प्रमाणम् ज्ञातॄणाम् पशु-आलंभन-कारिका ॥ ३२ ।
agniṣṭomīyam iti yā bhrāmikā sā asatām iha .. na sā pramāṇam jñātṝṇām paśu-ālaṃbhana-kārikā .. 32 .
वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ॥ दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ॥ ३३ ॥
वृक्षान् छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् ॥ दग्ध्वा वह्नौ तिल-आज्य-आदि चित्रम् स्वर्गः अभिलष्यते ॥ ३३ ॥
vṛkṣān chitvā paśūn hatvā kṛtvā rudhirakardamam .. dagdhvā vahnau tila-ājya-ādi citram svargaḥ abhilaṣyate .. 33 ..
इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् ॥ श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ॥ ३४॥
इति एवम् स्व-मतम् प्रोच्य यतिः त्रिपुर-नायकम् ॥ श्रावयित्वा अखिलान् पौरान् उवाच पुनर् आदरात् ॥ ३४॥
iti evam sva-matam procya yatiḥ tripura-nāyakam .. śrāvayitvā akhilān paurān uvāca punar ādarāt .. 34..
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् ॥ बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः ॥ ३५॥
दृष्ट-अर्थ-प्रत्यय-करान् देह-सौख्य-एक-साधकान् ॥ बौद्ध-आगम-विनिर्दिष्टान् धर्मान् वेद-परान् ततस् ॥ ३५॥
dṛṣṭa-artha-pratyaya-karān deha-saukhya-eka-sādhakān .. bauddha-āgama-vinirdiṣṭān dharmān veda-parān tatas .. 35..
आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ॥ तत्तथैव ह मंतव्यं मिथ्या नानात्वकल्पना ॥ ३६॥
आनंदम् ब्रह्मणः रूपम् श्रुत्या एवम् यत् निगद्यते ॥ तत् तथा एव ह मंतव्यम् मिथ्या नानात्व-कल्पना ॥ ३६॥
ānaṃdam brahmaṇaḥ rūpam śrutyā evam yat nigadyate .. tat tathā eva ha maṃtavyam mithyā nānātva-kalpanā .. 36..
यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ॥ यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ॥ ३७॥
यावत् स्वस्थम् इदम् वर्ष्म यावत् न इन्द्रिय-विक्लवः ॥ यावत् जरा च दूरे अस्ति तावत् सौख्यम् प्रसाधयेत् ॥ ३७॥
yāvat svastham idam varṣma yāvat na indriya-viklavaḥ .. yāvat jarā ca dūre asti tāvat saukhyam prasādhayet .. 37..
अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतस्सुखम् ॥ शरीरमपि दातव्यमर्थिभ्योऽतस्सुखेप्सुभिः ॥ ३८ ॥
अस्वास्थ्य-इन्द्रिय-वैकल्ये वार्द्धके तु कुतस् सुखम् ॥ शरीरम् अपि दातव्यम् अर्थिभ्यः अतस् सुख-ईप्सुभिः ॥ ३८ ॥
asvāsthya-indriya-vaikalye vārddhake tu kutas sukham .. śarīram api dātavyam arthibhyaḥ atas sukha-īpsubhiḥ .. 38 ..
याचमानमनोवृत्तिप्रीणने यस्य नो जनिः ॥ तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ॥ ३९ ॥
याचमान-मनः-वृत्ति-प्रीणने यस्य नः जनिः ॥ तेन भूः भारवती एषा समुद्र-आग-द्रुमैः न हि ॥ ३९ ॥
yācamāna-manaḥ-vṛtti-prīṇane yasya naḥ janiḥ .. tena bhūḥ bhāravatī eṣā samudra-āga-drumaiḥ na hi .. 39 ..
सत्वरं गत्वरो देहः संचयास्सपरिक्षयाः ॥ इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ॥ 2.5.5.४० ॥
सत्वरम् गत्वरः देहः संचयाः स परिक्षयाः ॥ इति विज्ञाय विज्ञाता देह-सौख्यम् प्रसाधयेत् ॥ २।५।५।४० ॥
satvaram gatvaraḥ dehaḥ saṃcayāḥ sa parikṣayāḥ .. iti vijñāya vijñātā deha-saukhyam prasādhayet .. 2.5.5.40 ..
श्ववाय सकृमीणां च प्रातर्भोज्यमिदं वपुः ॥ भस्मांतं तच्छरीरं च वेदे सत्यं प्रपठ्यते ॥ ४१ ॥
श्व-वाय-स कृमीणाम् च प्रातर् भोज्यम् इदम् वपुः ॥ भस्म-अंतम् तत् शरीरम् च वेदे सत्यम् प्रपठ्यते ॥ ४१ ॥
śva-vāya-sa kṛmīṇām ca prātar bhojyam idam vapuḥ .. bhasma-aṃtam tat śarīram ca vede satyam prapaṭhyate .. 41 ..
मुधा जातिविकषोयं लोकेषु परिकल्प्यते ॥ मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः ॥ ४२ ॥
मुधा जाति-विकषः यम् लोकेषु परिकल्प्यते ॥ मानुष्ये सति सामान्ये कः अधर्मः कः अथ च उत्तमः ॥ ४२ ॥
mudhā jāti-vikaṣaḥ yam lokeṣu parikalpyate .. mānuṣye sati sāmānye kaḥ adharmaḥ kaḥ atha ca uttamaḥ .. 42 ..
ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ॥ तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ॥ ४३ ॥
ब्रह्म-आदि-सृष्टिः एषा इति प्रोच्यते वृद्ध-पूरुषैः ॥ तस्य जातौ सुतौ दक्ष-मरीची च इति विश्रुतौ ॥ ४३ ॥
brahma-ādi-sṛṣṭiḥ eṣā iti procyate vṛddha-pūruṣaiḥ .. tasya jātau sutau dakṣa-marīcī ca iti viśrutau .. 43 ..
मारीचेन कश्यपेन दक्षकन्यास्सुलोचनाः ॥ धर्मेण किल मार्गेण परिणीतास्त्रयोदश ॥ ४४ ॥
मारीचेन कश्यपेन दक्ष-कन्याः सु लोचनाः ॥ धर्मेण किल मार्गेण परिणीताः त्रयोदश ॥ ४४ ॥
mārīcena kaśyapena dakṣa-kanyāḥ su locanāḥ .. dharmeṇa kila mārgeṇa pariṇītāḥ trayodaśa .. 44 ..
अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ॥ अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ॥ ४५ ॥
अपि इदानींतनैः मर्त्यैः अल्प-बुद्धि-पराक्रमैः ॥ अपि गम्यः तु अगम्यः अयम् विचारः क्रियते मुधा ॥ ४५ ॥
api idānīṃtanaiḥ martyaiḥ alpa-buddhi-parākramaiḥ .. api gamyaḥ tu agamyaḥ ayam vicāraḥ kriyate mudhā .. 45 ..
मुखबाहूरुसञ्जातं चातुर्वर्ण्य सहोदितम् ॥ कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ॥ ४६ ॥
मुख-बाहु-ऊरु-सञ्जातम् चातुर्वर्ण्य सह उदितम् ॥ कल्पना इयम् कृता पूर्वैः न घटेत विचारतः ॥ ४६ ॥
mukha-bāhu-ūru-sañjātam cāturvarṇya saha uditam .. kalpanā iyam kṛtā pūrvaiḥ na ghaṭeta vicārataḥ .. 46 ..
एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ॥ चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ॥ ४७ ॥
एकस्याम् च तनौ जाताः एकस्मात् यदि वा क्वचिद् ॥ चत्वारः तनयाः तत् किम् भिन्न-वर्ण-त्वम् आप्नुयुः ॥ ४७ ॥
ekasyām ca tanau jātāḥ ekasmāt yadi vā kvacid .. catvāraḥ tanayāḥ tat kim bhinna-varṇa-tvam āpnuyuḥ .. 47 ..
वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते ॥ अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ॥ ४८ ॥
वर्ण-अवर्ण-विभागः अयम् तस्मात् न प्रतिभासते ॥ अतस् भेदः न मंतव्यः मानुष्ये केनचिद् क्वचिद् ॥ ४८ ॥
varṇa-avarṇa-vibhāgaḥ ayam tasmāt na pratibhāsate .. atas bhedaḥ na maṃtavyaḥ mānuṣye kenacid kvacid .. 48 ..
सनत्कुमार उवाच ।।
इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने ॥ सशिष्यो वेदधर्माश्च नाशयामास चादरात् ॥ ४९ ॥
इत्थम् आभाष्य दैत्य-ईशम् पौरान् च स यतिः मुने ॥ स शिष्यः वेद-धर्माः च नाशयामास च आदरात् ॥ ४९ ॥
ittham ābhāṣya daitya-īśam paurān ca sa yatiḥ mune .. sa śiṣyaḥ veda-dharmāḥ ca nāśayāmāsa ca ādarāt .. 49 ..
स्त्रीधर्मं खंडयामास पातिव्रत्यपरं महत् ॥ जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ॥ 2.5.5.५० ॥
स्त्री-धर्मम् खंडयामास पातिव्रत्य-परम् महत् ॥ जित-इन्द्रिय-त्वम् सर्वेषाम् पुरुषाणाम् तथा एव सः ॥ २।५।५।५० ॥
strī-dharmam khaṃḍayāmāsa pātivratya-param mahat .. jita-indriya-tvam sarveṣām puruṣāṇām tathā eva saḥ .. 2.5.5.50 ..
देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च ॥ मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः ॥ ५१ ॥
देव-धर्मान् विशेषेण श्राद्ध-धर्मान् तथा एव च ॥ मख-धर्मान् व्रत-आदीन् च तीर्थ-श्राद्धम् विशेषतः ॥ ५१ ॥
deva-dharmān viśeṣeṇa śrāddha-dharmān tathā eva ca .. makha-dharmān vrata-ādīn ca tīrtha-śrāddham viśeṣataḥ .. 51 ..
शिवपूजां विशेषेण लिंगाराधनपूर्विकाम् ॥ विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ॥ ५२ ॥
शिव-पूजाम् विशेषेण लिंग-आराधन-पूर्विकाम् ॥ विष्णु-सूर्य-गणेश-आदि-पूजनम् विधि-पूर्वकम् ॥ ५२ ॥
śiva-pūjām viśeṣeṇa liṃga-ārādhana-pūrvikām .. viṣṇu-sūrya-gaṇeśa-ādi-pūjanam vidhi-pūrvakam .. 52 ..
स्नानदानादिकं सर्वं पर्वकालं विशेषतः ॥ खंडयामास स यतिर्मायी मायाविनां वरः ॥ ५३ ॥
स्नान-दान-आदिकम् सर्वम् पर्व-कालम् विशेषतः ॥ खंडयामास स यतिः मायी मायाविनाम् वरः ॥ ५३ ॥
snāna-dāna-ādikam sarvam parva-kālam viśeṣataḥ .. khaṃḍayāmāsa sa yatiḥ māyī māyāvinām varaḥ .. 53 ..
किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना ॥ वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ॥ ५४ ॥
किम् बहु-उक्तेन विप्र-इन्द्र त्रिपुरे तेन मायिना ॥ वेद-धर्माः च ये केचिद् ते सर्वे दूरतस् कृताः ॥ ५४ ॥
kim bahu-uktena vipra-indra tripure tena māyinā .. veda-dharmāḥ ca ye kecid te sarve dūratas kṛtāḥ .. 54 ..
पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुरांगनाः ॥ भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ॥ ५५ ॥
पति-धर्म-आश्रयाः सर्वाः मोहिताः त्रिपुर-अंगनाः ॥ भर्तृ-शुश्रूषणवतीम् विजहुः मतिम् उत्तमाम् ॥ ५५ ॥
pati-dharma-āśrayāḥ sarvāḥ mohitāḥ tripura-aṃganāḥ .. bhartṛ-śuśrūṣaṇavatīm vijahuḥ matim uttamām .. 55 ..
अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि ॥ पुरुषास्सफलीचक्रुः परदारेषु मोहिताः ॥ ५६ ॥
अभ्यस्य आकर्षणीम् विद्याम् वशीकृत्य मयीम् अपि ॥ पुरुषाः सफलीचक्रुः पर-दारेषु मोहिताः ॥ ५६ ॥
abhyasya ākarṣaṇīm vidyām vaśīkṛtya mayīm api .. puruṣāḥ saphalīcakruḥ para-dāreṣu mohitāḥ .. 56 ..
अंतःपुरचरा नार्यस्तथा राजकुमारकाः ॥ पौराः पुरांगनाश्चापि सर्वे तैश्च विमोहिताः ॥ ५७ ॥
अंतःपुरचराः नार्यः तथा राज-कुमारकाः ॥ पौराः पुर-अंगनाः च अपि सर्वे तैः च विमोहिताः ॥ ५७ ॥
aṃtaḥpuracarāḥ nāryaḥ tathā rāja-kumārakāḥ .. paurāḥ pura-aṃganāḥ ca api sarve taiḥ ca vimohitāḥ .. 57 ..
एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा॥ पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ५८ ॥
एवम् पौरेषु सर्वेषु निज-धर्मेषु सर्वथा॥ पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ५८ ॥
evam paureṣu sarveṣu nija-dharmeṣu sarvathā.. parāṅmukheṣu jāteṣu prollalāsa vṛṣetaraḥ .. 58 ..
माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो ॥ अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥ ५९ ॥
माया च देवदेवस्य विष्णोः तस्य आज्ञया प्रभो ॥ अलक्ष्मीः च स्वयम् तस्य नियोगात् त्रिपुरम् गता ॥ ५९ ॥
māyā ca devadevasya viṣṇoḥ tasya ājñayā prabho .. alakṣmīḥ ca svayam tasya niyogāt tripuram gatā .. 59 ..
या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादरात् ॥ बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥ 2.5.5.६० ॥
या लक्ष्मीः तपसा तेषाम् लब्धा देवेश्वर-आदरात् ॥ बहिस् गता परित्यज्य नियोगात् ब्रह्मणः प्रभोः ॥ २।५।५।६० ॥
yā lakṣmīḥ tapasā teṣām labdhā deveśvara-ādarāt .. bahis gatā parityajya niyogāt brahmaṇaḥ prabhoḥ .. 2.5.5.60 ..
बुद्धिमोहं तथाभूतं विष्णो र्मायाविनिर्मितम् ॥ तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ॥ ६१ ॥
बुद्धि-मोहम् तथाभूतम् विष्णोः माया-विनिर्मितम् ॥ तेषाम् दत्त्वा क्षणात् एव कृतार्थः अभूत् स नारदः ॥ ६१ ॥
buddhi-moham tathābhūtam viṣṇoḥ māyā-vinirmitam .. teṣām dattvā kṣaṇāt eva kṛtārthaḥ abhūt sa nāradaḥ .. 61 ..
नारदोपि तथारूपो यथा मायी तथैव सः ॥ तथापि विकृतो नाभूत्परमेशादनुग्रहात् ॥ ६२॥
नारदः उपि तथारूपः यथा मायी तथा एव सः ॥ तथा अपि विकृतः ना अभूत् परमेशात् अनुग्रहात् ॥ ६२॥
nāradaḥ upi tathārūpaḥ yathā māyī tathā eva saḥ .. tathā api vikṛtaḥ nā abhūt parameśāt anugrahāt .. 62..
आसीत्कुंठितसामर्थ्यो दैत्यराजोऽपि भो मुने ॥ भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ॥ ६३ ॥
आसीत् कुंठित-सामर्थ्यः दैत्य-राजः अपि भो मुने ॥ भ्रातृभ्याम् सहितः तत्र मयेन च शिव-इच्छया ॥ ६३ ॥
āsīt kuṃṭhita-sāmarthyaḥ daitya-rājaḥ api bho mune .. bhrātṛbhyām sahitaḥ tatra mayena ca śiva-icchayā .. 63 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पंचमे युद्ध-खंडे त्रिपुरमोहनम् नाम पञ्चमः अध्यायः ॥ ५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām paṃcame yuddha-khaṃḍe tripuramohanam nāma pañcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In