| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
शृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा ॥ विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात् ॥ १ ॥
शृणु व्यास यथा प्राप्ता मृत्यु-प्रशमनी परा ॥ विद्या काव्येन मुनिना शिवात् मृत्युञ्जय-अभिधात् ॥ १ ॥
śṛṇu vyāsa yathā prāptā mṛtyu-praśamanī parā .. vidyā kāvyena muninā śivāt mṛtyuñjaya-abhidhāt .. 1 ..
पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम्॥ बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम्॥ २॥
पुरा असौ भृगु-दायादः गत्वा वाराणसीम् पुरीम्॥ बहुकालम् तपः तेपे ध्यायन् विश्वेश्वरम् प्रभुम्॥ २॥
purā asau bhṛgu-dāyādaḥ gatvā vārāṇasīm purīm.. bahukālam tapaḥ tepe dhyāyan viśveśvaram prabhum.. 2..
स्थापयामास तत्रैव लिंगं शंभोः परात्मनः ॥ कूपं चकार सद्रम्यं वेदव्यास तदग्रतः ॥ ३॥
स्थापयामास तत्र एव लिंगम् शंभोः परात्मनः ॥ कूपम् चकार सत्-रम्यम् वेदव्यास तद्-अग्रतस् ॥ ३॥
sthāpayāmāsa tatra eva liṃgam śaṃbhoḥ parātmanaḥ .. kūpam cakāra sat-ramyam vedavyāsa tad-agratas .. 3..
पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ॥ स्नापयामास देवेशं सुगंधस्नपनैर्बहु॥ ४॥
पंचामृतैः द्रोण-मितैः लक्ष-कृत्वस् प्रयत्नतः ॥ स्नापयामास देवेशम् सु गंध-स्नपनैः बहु॥ ४॥
paṃcāmṛtaiḥ droṇa-mitaiḥ lakṣa-kṛtvas prayatnataḥ .. snāpayāmāsa deveśam su gaṃdha-snapanaiḥ bahu.. 4..
सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः॥ समालिलिंप सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु॥ ५॥
सहस्र-कृत्वस् देवेशम् चन्दनैः यक्षकर्दमैः॥ समालिलिंप सु प्रीत्या सुगन्ध-उद्वर्त्तनानि अनु॥ ५॥
sahasra-kṛtvas deveśam candanaiḥ yakṣakardamaiḥ.. samāliliṃpa su prītyā sugandha-udvarttanāni anu.. 5..
राजचंपकधत्तूरैः करवीरकुशेशयैः ॥ मालतीकर्णिकारैश्च कदंबैर्बकुलोत्पलैः ॥ ६॥
॥ मालती-कर्णिकारैः च कदंबैः बकुल-उत्पलैः ॥ ६॥
.. mālatī-karṇikāraiḥ ca kadaṃbaiḥ bakula-utpalaiḥ .. 6..
मल्लिकाशतपत्रीभिस्सिंधुवारैस्सकिंशुकः ॥ बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः ॥ ७॥
मल्लिका-शतपत्रीभिः सिंधुवारैः स किंशुकः ॥ बन्धूक-पुष्पैः पुन्नागैः नागकेशर-केशरैः ॥ ७॥
mallikā-śatapatrībhiḥ siṃdhuvāraiḥ sa kiṃśukaḥ .. bandhūka-puṣpaiḥ punnāgaiḥ nāgakeśara-keśaraiḥ .. 7..
नवमल्लीचिबिलिकैः कुंदैस्समुचुकुन्दकैः ॥ मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्वृकैः ॥ ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः ॥ ८॥
॥ मन्दारैः बिल्व-पत्रैः च द्रोणैः मरु-बकैः वृकैः ॥ ग्रन्थिपर्णैः दमनकैः सु रम्यैः चूत-पल्लवैः ॥ ८॥
.. mandāraiḥ bilva-patraiḥ ca droṇaiḥ maru-bakaiḥ vṛkaiḥ .. granthiparṇaiḥ damanakaiḥ su ramyaiḥ cūta-pallavaiḥ .. 8..
तुलसीदेवगंधारीबृहत्पत्रीकुशांकुरैः ॥ नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ॥ ९ ॥
तुलसी-देवगंधारी-बृहत्पत्री-कुश-अंकुरैः ॥ नद्यावर्तैः अगस्त्यैः च स शालैः देवदारुभिः ॥ ९ ॥
tulasī-devagaṃdhārī-bṛhatpatrī-kuśa-aṃkuraiḥ .. nadyāvartaiḥ agastyaiḥ ca sa śālaiḥ devadārubhiḥ .. 9 ..
कांचनारैः कुरबकैर्दूर्वांकुरकुरुंटकैः॥ प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ॥ 2.5.50.१ ०॥
कांचनारैः कुरबकैः दूर्वा-अंकुर-कुरुंटकैः॥ प्रत्येकम् एभिः कुसुमैः पल्लवैः अपरैः अपि ॥ २।५।५०।१ ०॥
kāṃcanāraiḥ kurabakaiḥ dūrvā-aṃkura-kuruṃṭakaiḥ.. pratyekam ebhiḥ kusumaiḥ pallavaiḥ aparaiḥ api .. 2.5.50.1 0..
पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैश्शुभैः ॥ सावधानेन सुप्रीत्या स समानर्च शंकरम् ॥ ११ ॥
पत्रैः सहस्र-पत्रैः च रम्यैः नानाविधैः शुभैः ॥ स अवधानेन सु प्रीत्या स समानर्च शंकरम् ॥ ११ ॥
patraiḥ sahasra-patraiḥ ca ramyaiḥ nānāvidhaiḥ śubhaiḥ .. sa avadhānena su prītyā sa samānarca śaṃkaram .. 11 ..
गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु ॥ नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ॥ १२॥
गीत-नृत्य-उपहारैः च संस्तुतः स्तुतिभिः बहु ॥ नाम्नाम् सहस्रैः अन्यैः च स्तोत्रैः तुष्टाव शंकरम् ॥ १२॥
gīta-nṛtya-upahāraiḥ ca saṃstutaḥ stutibhiḥ bahu .. nāmnām sahasraiḥ anyaiḥ ca stotraiḥ tuṣṭāva śaṃkaram .. 12..
सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम्॥ नानाप्रकारविधिना महेशं स समर्चयत् ॥ १ ३॥
सहस्रम् पञ्च-शरदाम् इत्थम् शुक्रः महेश्वरम्॥ नाना प्रकार-विधिना महेशम् स समर्चयत् ॥ १ ३॥
sahasram pañca-śaradām ittham śukraḥ maheśvaram.. nānā prakāra-vidhinā maheśam sa samarcayat .. 1 3..
यदा देवं नानुलोके मनागपि वरोन्मुखम् ॥ तदान्यं नियमं घोरं जग्राहातीव दुस्सहम् ॥ १४॥
यदा देवम् न अनुलोके मनाक् अपि वर-उन्मुखम् ॥ तदा अन्यम् नियमम् घोरम् जग्राह अतीव दुस्सहम् ॥ १४॥
yadā devam na anuloke manāk api vara-unmukham .. tadā anyam niyamam ghoram jagrāha atīva dussaham .. 14..
प्रक्षाल्य चेतसोऽत्यंतं चांचल्याख्यं महामलम् ॥ भावनावार्भिरसकृदिंद्रियैस्सहितस्य च ॥ १५॥
प्रक्षाल्य चेतसः अत्यन्तम् चांचल्य-आख्यम् महा-मलम् ॥ भावना-वार्भिः असकृत् इंद्रियैः सहितस्य च ॥ १५॥
prakṣālya cetasaḥ atyantam cāṃcalya-ākhyam mahā-malam .. bhāvanā-vārbhiḥ asakṛt iṃdriyaiḥ sahitasya ca .. 15..
निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ॥ प्रययौ कणधूमौघं सहस्रं शरदां कविः ॥ १६॥
निर्मलीकृत्य तत् चेतः रत्नम् दत्त्वा पिनाकिने ॥ प्रययौ कण-धूम-ओघम् सहस्रम् शरदाम् कविः ॥ १६॥
nirmalīkṛtya tat cetaḥ ratnam dattvā pinākine .. prayayau kaṇa-dhūma-ogham sahasram śaradām kaviḥ .. 16..
काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् ॥ प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः ॥ १७॥
काव्यम् इत्थम् तपः घोरम् कुर्वन्तम् दृढ-मानसम् ॥ प्रससाद स तम् वीक्ष्य भार्गवाय महेश्वरः ॥ १७॥
kāvyam ittham tapaḥ ghoram kurvantam dṛḍha-mānasam .. prasasāda sa tam vīkṣya bhārgavāya maheśvaraḥ .. 17..
तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ॥ उवाच तं विरूपाक्षस्साक्षाद्दाक्षायणीपतिः ॥ १८॥
तस्मात् लिंगात् विनिर्गत्य सहस्र-अर्क-अधिक-द्युतिः ॥ उवाच तम् विरूपाक्षः साक्षात् दाक्षायणीपतिः ॥ १८॥
tasmāt liṃgāt vinirgatya sahasra-arka-adhika-dyutiḥ .. uvāca tam virūpākṣaḥ sākṣāt dākṣāyaṇīpatiḥ .. 18..
महेश्वर उवाच ।।
तपोनिधे महाभाग भृगुपुत्र महामुने ॥ तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः ॥ १९ ॥
तपः-निधे महाभाग भृगुपुत्र महा-मुने ॥ तपसा अनेन ते नित्यम् प्रसन्नः अहम् विशेषतः ॥ १९ ॥
tapaḥ-nidhe mahābhāga bhṛguputra mahā-mune .. tapasā anena te nityam prasannaḥ aham viśeṣataḥ .. 19 ..
मनोभिलषितं सर्वं वरं वरय भार्गव ॥ प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव ॥ 2.5.50.२० ॥
मनः-अभिलषितम् सर्वम् वरम् वरय भार्गव ॥ प्रीत्या दास्ये अखिलान् कामान् न आदेयम् विद्यते तव ॥ २।५।५०।२० ॥
manaḥ-abhilaṣitam sarvam varam varaya bhārgava .. prītyā dāsye akhilān kāmān na ādeyam vidyate tava .. 2.5.50.20 ..
निशम्येति वचश्शंभोर्महासुखकरं वरम् ॥ स बभूव कविस्तुष्टो निमग्नस्सुखवारिधौ ॥ २१ ॥
निशम्य इति वचः शंभोः महा-सुख-करम् वरम् ॥ स बभूव कविः तुष्टः निमग्नः सुख-वारिधौ ॥ २१ ॥
niśamya iti vacaḥ śaṃbhoḥ mahā-sukha-karam varam .. sa babhūva kaviḥ tuṣṭaḥ nimagnaḥ sukha-vāridhau .. 21 ..
सनत्कुमार उवाच ।।
उद्यदानंदसंदोह रोमांचाचितविग्रहः ॥ प्रणनाम मुदा शंभुमंभो जनयनो द्विजः ॥ २२॥
उद्यत्-आनंद-संदोह रोमांच-आचित-विग्रहः ॥ प्रणनाम मुदा शंभुम् अंभः जनयनः द्विजः ॥ २२॥
udyat-ānaṃda-saṃdoha romāṃca-ācita-vigrahaḥ .. praṇanāma mudā śaṃbhum aṃbhaḥ janayanaḥ dvijaḥ .. 22..
तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनाचलः॥ मौलावंजलिमाधाय वदञ्जयजयेति च ॥ २३॥
तुष्टाव अष्ट-तनुम् तुष्टः प्रफुल्ल-नयन-अचलः॥ मौला-वंजलिम् आधाय वदन् जय-जय इति च ॥ २३॥
tuṣṭāva aṣṭa-tanum tuṣṭaḥ praphulla-nayana-acalaḥ.. maulā-vaṃjalim ādhāya vadan jaya-jaya iti ca .. 23..
भार्गव उवाच ।।
त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं नयस्यभिमतानि निशाचराणाम्॥ देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २४ ॥
त्वम् भाभिः आभिः अभिभूय तमः समस्तम् अस्तम् नयसि अभिमतानि निशाचराणाम्॥ देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगत्-ईश्वर तत् नमः ते ॥ २४ ॥
tvam bhābhiḥ ābhiḥ abhibhūya tamaḥ samastam astam nayasi abhimatāni niśācarāṇām.. dedīpyase divamaṇe gagane hitāya lokatrayasya jagat-īśvara tat namaḥ te .. 24 ..
लोकेऽतिवेलमतिवेलमहामहोभिर्निर्भासि कौ च गगनेऽखिललोकनेत्रः ॥ विद्राविताखिलतमास्सुतमो हिमांशो पीयूष पूरपरिपूरितः तन्नमस्ते ॥ २५ ॥
लोके अतिवेलम् अतिवेल-महा-महोभिः निर्भासि कौ च गगने अखिल-लोक-नेत्रः ॥ हिमांशो तत् नमः ते ॥ २५ ॥
loke ativelam ativela-mahā-mahobhiḥ nirbhāsi kau ca gagane akhila-loka-netraḥ .. himāṃśo tat namaḥ te .. 25 ..
त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह ॥ स्तब्धप्रभंजनविवर्द्धि तसर्वजंतोः संतोषिता हि कुलसर्वगः वै नमस्ते ॥ २६॥
त्वम् पावने पथि सदागतिः अपि उपास्यः कः त्वाम् विना भुवन-जीवन जीवति इह ॥ स्तब्ध-प्रभंजन-विवर्द्धि त-सर्व-जंतोः संतोषिता हि कुल-सर्व-गः वै नमः ते ॥ २६॥
tvam pāvane pathi sadāgatiḥ api upāsyaḥ kaḥ tvām vinā bhuvana-jīvana jīvati iha .. stabdha-prabhaṃjana-vivarddhi ta-sarva-jaṃtoḥ saṃtoṣitā hi kula-sarva-gaḥ vai namaḥ te .. 26..
विश्वेकपावक न तावकपावकैकशक्तेर्ऋते मृतवतामृतदिव्यकार्यम् ॥ प्राणिष्यदो जगदहो जगदंतरात्मंस्त्वं पावकः प्रतिपदं शमदो नमस्ते॥ २७॥
विश्वेक-पावक न तावक-पावक-एक-शक्तेः ऋते मृतवता अमृत-दिव्य-कार्यम् ॥ जगत्-अहो जगत्-अन्तरात्मन् त्वम् पावकः प्रतिपदम् शम-दः नमः ते॥ २७॥
viśveka-pāvaka na tāvaka-pāvaka-eka-śakteḥ ṛte mṛtavatā amṛta-divya-kāryam .. jagat-aho jagat-antarātman tvam pāvakaḥ pratipadam śama-daḥ namaḥ te.. 27..
पानीयरूप परमेश जगत्पवित्र चित्रविचित्रसुचरित्रकरोऽसि नूनम्॥ विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि॥ २८॥
पानीय-रूप परमेश जगत्-पवित्र चित्र-विचित्र-सु चरित्र-करः असि नूनम्॥ विश्वम् पवित्रम् अमलम् किल विश्वनाथ पानीय-गाहनतः एतत् अतस् नतः अस्मि॥ २८॥
pānīya-rūpa parameśa jagat-pavitra citra-vicitra-su caritra-karaḥ asi nūnam.. viśvam pavitram amalam kila viśvanātha pānīya-gāhanataḥ etat atas nataḥ asmi.. 28..
आकाशरूपबहिरंतरुतावकाशदानाद्विकस्वरमिहेश्वर विश्वमेतत् ॥ त्वत्तस्सदा सदय संश्वसिति स्वभावात्संकोचमेति भक्तोऽस्मि नतस्ततस्त्वाम्॥ २९॥
आकाश-रूप-बहिस् अन्तर् उत अवकाश-दानात् विकस्वरम् इह ईश्वर विश्वम् एतत् ॥ त्वत्तः सदा सदय संश्वसिति स्वभावात् संकोचम् एति भक्तः अस्मि नतः ततस् त्वाम्॥ २९॥
ākāśa-rūpa-bahis antar uta avakāśa-dānāt vikasvaram iha īśvara viśvam etat .. tvattaḥ sadā sadaya saṃśvasiti svabhāvāt saṃkocam eti bhaktaḥ asmi nataḥ tatas tvām.. 29..
विश्वंभरात्मक बिभर्षि विभोत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोरिः ॥ स त्वं विनाशय तमो तम चाहिभूषस्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ॥ 2.5.50.३०॥
विश्वंभर-आत्मक बिभर्षि विभो अत्र विश्वम् कः विश्वनाथ भवतः अन्यतमः तम-ऊरिः ॥ स त्वम् विनाशय च अहि-भूषः तव्यात् परस् पर-परम् प्रणतः ततस् त्वाम् ॥ २।५।५०।३०॥
viśvaṃbhara-ātmaka bibharṣi vibho atra viśvam kaḥ viśvanātha bhavataḥ anyatamaḥ tama-ūriḥ .. sa tvam vināśaya ca ahi-bhūṣaḥ tavyāt paras para-param praṇataḥ tatas tvām .. 2.5.50.30..
आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत्॥ सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते॥ ३१॥
आत्म-स्वरूप तव रूप-परंपराभिः आभिः ततम् हर चराचर-रूपम् एतत्॥ सर्व-अन्तरात्म-निलय-प्रतिरूप-रूप नित्यम् नतः अस्मि परमात्म-जनः अष्टमूर्ते॥ ३१॥
ātma-svarūpa tava rūpa-paraṃparābhiḥ ābhiḥ tatam hara carācara-rūpam etat.. sarva-antarātma-nilaya-pratirūpa-rūpa nityam nataḥ asmi paramātma-janaḥ aṣṭamūrte.. 31..
इत्यष्टमूर्तिभिरिमाभिरबंधबंधो युक्तौ करोषि खलु विश्वजनीनमूर्त्ते॥ एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ३२॥
इति अष्ट-मूर्तिभिः इमाभिः अबंध-बंधो युक्तौ करोषि खलु विश्वजनीन-मूर्त्ते॥ एतत् ततम् सु विततम् प्रणत-प्रणीत सर्व-अर्थ-सार्थ-परम-अर्थ ततस् नतः अस्मि ॥ ३२॥
iti aṣṭa-mūrtibhiḥ imābhiḥ abaṃdha-baṃdho yuktau karoṣi khalu viśvajanīna-mūrtte.. etat tatam su vitatam praṇata-praṇīta sarva-artha-sārtha-parama-artha tatas nataḥ asmi .. 32..
सनत्कुमार उवाच ।।
अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ॥ भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः ॥ ३३ ॥
अष्टमूर्ति-अष्टकेन इत्थम् परिष्टुत्य इति भार्गवः ॥ भर्गम् भूमि-मिलत्-मौलिः प्रणनाम पुनर् पुनर् ॥ ३३ ॥
aṣṭamūrti-aṣṭakena ittham pariṣṭutya iti bhārgavaḥ .. bhargam bhūmi-milat-mauliḥ praṇanāma punar punar .. 33 ..
इति स्तुतो महादेवो भार्गवेणातितेजसा ॥ उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम्॥ ३४॥
इति स्तुतः महादेवः भार्गवेण अति तेजसा ॥ उत्थाय भूमेः बाहुभ्याम् धृत्वा तम् प्रणतम् द्विजम्॥ ३४॥
iti stutaḥ mahādevaḥ bhārgaveṇa ati tejasā .. utthāya bhūmeḥ bāhubhyām dhṛtvā tam praṇatam dvijam.. 34..
उवाच श्लक्ष्णया वाचा मेघनादगभीरया ॥ सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिंगतरः ॥ ३५॥
उवाच श्लक्ष्णया वाचा मेघ-नाद-गभीरया ॥ ॥ ३५॥
uvāca ślakṣṇayā vācā megha-nāda-gabhīrayā .. .. 35..
महादेव उवाच ।।
विप्रवर्य कवे तात मम भक्तोऽसि पावनः ॥ अनेनात्युग्रतपसा स्वजन्याचरितेन च ॥ ३६ ॥
विप्र-वर्य कवे तात मम भक्तः असि पावनः ॥ अनेन अति उग्र-तपसा स्व-जन्य-आचरितेन च ॥ ३६ ॥
vipra-varya kave tāta mama bhaktaḥ asi pāvanaḥ .. anena ati ugra-tapasā sva-janya-ācaritena ca .. 36 ..
लिंगस्थापनपुण्येन लिंगस्याराधनेन च ॥ दत्तचित्तोपहारेण शुचिना निश्चलेन च ॥ ३७ ॥
लिंग-स्थापन-पुण्येन लिंगस्य आराधनेन च ॥ दत्त-चित्त-उपहारेण शुचिना निश्चलेन च ॥ ३७ ॥
liṃga-sthāpana-puṇyena liṃgasya ārādhanena ca .. datta-citta-upahāreṇa śucinā niścalena ca .. 37 ..
अविमुक्तमहाक्षेत्रपवित्राचरणेन च ॥ त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन ॥ ३८॥
अविमुक्त-महा-क्षेत्र-पवित्र-आचरणेन च ॥ त्वाम् सुताभ्याम् प्रपश्यामि तव अदेयम् न किंचन ॥ ३८॥
avimukta-mahā-kṣetra-pavitra-ācaraṇena ca .. tvām sutābhyām prapaśyāmi tava adeyam na kiṃcana .. 38..
अनेनैव शरीरेण ममोदरदरीगतः ॥ मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि ॥ ३९ ॥
अनेन एव शरीरेण मम उदर-दरी-गतः ॥ मद्-वर-इन्द्रिय-मार्गेण पुत्र-जन्म-त्वम् एष्यसि ॥ ३९ ॥
anena eva śarīreṇa mama udara-darī-gataḥ .. mad-vara-indriya-mārgeṇa putra-janma-tvam eṣyasi .. 39 ..
यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि ॥ हरेर्हिरण्यगर्भाच्च प्रायशोहं जुगोप यम् ॥ ।2.5.50.४० ॥
यच्छामि अहम् वरम् ते अद्य दुष्प्राप्यम् पार्षदैः अपि ॥ हरेः हिरण्यगर्भात् च प्रायशस् ऊहम् जुगोप यम् ॥ ।२।५।५०।४० ॥
yacchāmi aham varam te adya duṣprāpyam pārṣadaiḥ api .. hareḥ hiraṇyagarbhāt ca prāyaśas ūham jugopa yam .. .2.5.50.40 ..
मृतसंजीवनी नाम विद्या या मम निर्मला ॥ तपोबलेन महता मयैव परिनिर्मिता ॥ ४ १ ॥
मृतसंजीवनी नाम विद्या या मम निर्मला ॥ तपः-बलेन महता मया एव परिनिर्मिता ॥ ४ १ ॥
mṛtasaṃjīvanī nāma vidyā yā mama nirmalā .. tapaḥ-balena mahatā mayā eva parinirmitā .. 4 1 ..
त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे॥ योग्यता तेऽस्ति विद्यायास्तस्याश्शुचि तपोनिधे ॥ ४२ ॥
त्वाम् ताम् तु प्रापयामि अद्य मंत्र-रूपाम् महा-शुचे॥ योग्यता ते अस्ति विद्यायाः तस्याः शुचि तपोनिधे ॥ ४२ ॥
tvām tām tu prāpayāmi adya maṃtra-rūpām mahā-śuce.. yogyatā te asti vidyāyāḥ tasyāḥ śuci taponidhe .. 42 ..
यंयमुद्दिश्य नियतमेतामावर्तयिष्यसि ॥ विद्यां विद्येश्वरश्रेष्ठं सत्यं प्राणि ष्यति धुवम् ॥ ४३ ॥
यं यम् उद्दिश्य नियतम् एताम् आवर्तयिष्यसि ॥ विद्याम् विद्येश्वर-श्रेष्ठम् सत्यम् प्राणि स्यति धुवम् ॥ ४३ ॥
yaṃ yam uddiśya niyatam etām āvartayiṣyasi .. vidyām vidyeśvara-śreṣṭham satyam prāṇi syati dhuvam .. 43 ..
अत्यर्कमत्यग्निं च ते तेजो व्योम्नि च तारकम् ॥ देदीप्यमानं भविता ग्रहाणां प्रवरो भव ॥ ४४ ॥
अति अर्कम् अति अग्निम् च ते तेजः व्योम्नि च तारकम् ॥ देदीप्यमानम् भविता ग्रहाणाम् प्रवरः भव ॥ ४४ ॥
ati arkam ati agnim ca te tejaḥ vyomni ca tārakam .. dedīpyamānam bhavitā grahāṇām pravaraḥ bhava .. 44 ..
अपि च त्वां करिष्यंति यात्रां नार्यो नरोऽपि वा ॥ तेषां त्वद्दृष्टिपातेन सर्वकार्यं प्रणश्यति ॥ ४९ ॥
अपि च त्वाम् करिष्यंति यात्राम् नार्यः नरः अपि वा ॥ तेषाम् त्वद्-दृष्टिपातेन सर्व-कार्यम् प्रणश्यति ॥ ४९ ॥
api ca tvām kariṣyaṃti yātrām nāryaḥ naraḥ api vā .. teṣām tvad-dṛṣṭipātena sarva-kāryam praṇaśyati .. 49 ..
तवोदये भविष्यंति विवाहादीनि सुव्रत ॥ सर्वाणि धर्मकार्याणि फलवंति नृणामिह ॥ ४६ ॥
तव उदये भविष्यन्ति विवाह-आदीनि सुव्रत ॥ सर्वाणि धर्म-कार्याणि फलवंति नृणाम् इह ॥ ४६ ॥
tava udaye bhaviṣyanti vivāha-ādīni suvrata .. sarvāṇi dharma-kāryāṇi phalavaṃti nṛṇām iha .. 46 ..
सर्वाश्च तिथयो नन्दास्तव संयोगतश्शुभाः ॥ तव भक्ता भविष्यंति बहुशुक्रा बहु प्रजाः ॥ ४७॥
सर्वाः च तिथयः नन्दाः तव संयोगतः शुभाः ॥ तव भक्ताः भविष्यन्ति बहु-शुक्राः बहु-प्रजाः ॥ ४७॥
sarvāḥ ca tithayaḥ nandāḥ tava saṃyogataḥ śubhāḥ .. tava bhaktāḥ bhaviṣyanti bahu-śukrāḥ bahu-prajāḥ .. 47..
त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ॥ येऽर्चयिष्यंति भनुजास्तेषां सिद्धिर्भविष्यति ॥ ४८॥
त्वया इदम् स्थापितम् लिंगम् शुक्रेशम् इति संज्ञितम् ॥ ये अर्चयिष्यन्ति भनुजाः तेषाम् सिद्धिः भविष्यति ॥ ४८॥
tvayā idam sthāpitam liṃgam śukreśam iti saṃjñitam .. ye arcayiṣyanti bhanujāḥ teṣām siddhiḥ bhaviṣyati .. 48..
आवर्षं प्रतिघस्रां ये नक्तव्रतपरायणाः ॥ त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ॥ ४९॥
आवर्षम् प्रतिघस्राम् ये नक्त-व्रत-परायणाः ॥ त्वद्-दिने शुक्रकूपे ये कृत-सर्व-उदकक्रियाः ॥ ४९॥
āvarṣam pratighasrām ye nakta-vrata-parāyaṇāḥ .. tvad-dine śukrakūpe ye kṛta-sarva-udakakriyāḥ .. 49..
शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ॥ अबंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः ॥ 2.5.50.५० ॥
शुक्रेशम् अर्चयिष्यन्ति शृणु तेषाम् तु यत् फलम् ॥ अबंध्य-शुक्राः ते मर्त्याः पुत्रवंतः अतिरेतसः ॥ २।५।५०।५० ॥
śukreśam arcayiṣyanti śṛṇu teṣām tu yat phalam .. abaṃdhya-śukrāḥ te martyāḥ putravaṃtaḥ atiretasaḥ .. 2.5.50.50 ..
पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ॥ उपेतविद्यास्ते सर्वे जनास्स्युः सुखभागिनः ॥ ५१॥
पुंस्त्व-सौभाग्य-संपन्नाः भविष्यंति न संशयः ॥ उपेत-विद्याः ते सर्वे जनाः स्युः सुख-भागिनः ॥ ५१॥
puṃstva-saubhāgya-saṃpannāḥ bhaviṣyaṃti na saṃśayaḥ .. upeta-vidyāḥ te sarve janāḥ syuḥ sukha-bhāginaḥ .. 51..
इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ॥ भार्गवोऽपि निजं धाम प्राप संतुष्टमानसः ॥ ५२॥
इति दत्त्वा वरान् देवः तत्र लिंगे लयम् ययौ ॥ भार्गवः अपि निजम् धाम प्राप संतुष्ट-मानसः ॥ ५२॥
iti dattvā varān devaḥ tatra liṃge layam yayau .. bhārgavaḥ api nijam dhāma prāpa saṃtuṣṭa-mānasaḥ .. 52..
इति ते कथितं व्यास यथा प्राप्ता तपोबलात् ॥ मृत्युंजयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि ॥ ५३ ॥
इति ते कथितम् व्यास यथा प्राप्ता तपः-बलात् ॥ मृत्युंजय-अभिधा विद्या किम् अन्यत् श्रोतुम् इच्छसि ॥ ५३ ॥
iti te kathitam vyāsa yathā prāptā tapaḥ-balāt .. mṛtyuṃjaya-abhidhā vidyā kim anyat śrotum icchasi .. 53 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे मृतसंजीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे मृतसंजीविनीविद्याप्राप्तिवर्णनम् नाम पञ्चाशत्तमः अध्यायः ॥ ५० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe mṛtasaṃjīvinīvidyāprāptivarṇanam nāma pañcāśattamaḥ adhyāyaḥ .. 50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In