| |
|

This overlay will guide you through the buttons:

व्यास उवाच।।
सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता॥ भवतानुग्रहात्प्रीत्या शभ्वनुग्रहनिर्भरा ॥ १ ॥
सनत्कुमार सर्वज्ञ श्राविता सु कथा-अद्भुता॥ भवता अनुग्रहात् प्रीत्या शभु-अनुग्रह-निर्भरा ॥ १ ॥
sanatkumāra sarvajña śrāvitā su kathā-adbhutā.. bhavatā anugrahāt prītyā śabhu-anugraha-nirbharā .. 1 ..
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ॥ गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै ॥ २ ॥
इदानीम् श्रोतुम् इच्छामि चरितम् शशिमौलिनः ॥ गाणपत्यम् ददौ प्रीत्या यथा बाण-असुराय वै ॥ २ ॥
idānīm śrotum icchāmi caritam śaśimaulinaḥ .. gāṇapatyam dadau prītyā yathā bāṇa-asurāya vai .. 2 ..
सनत्कुमार उवाच ।।
शृणु व्यासादरात्तां वै कथां शंभोः परात्मनः ॥ गाणपत्यं यथा प्रीत्या ददौ बाणा सुराय हि ॥ ३ ॥
शृणु व्यास-आदरात् ताम् वै कथाम् शंभोः परात्मनः ॥ गाणपत्यम् यथा प्रीत्या ददौ बाणा सुराय हि ॥ ३ ॥
śṛṇu vyāsa-ādarāt tām vai kathām śaṃbhoḥ parātmanaḥ .. gāṇapatyam yathā prītyā dadau bāṇā surāya hi .. 3 ..
अत्रैव सुचरित्रं च शंकरस्य महाप्रभोः ॥ कृष्णेन समरोप्यत्र शंभोर्बाणानुगृह्णतः ॥ ४ ॥
अत्रा एव सु चरित्रम् च शंकरस्य महा-प्रभोः ॥ कृष्णेन समरः उपि अत्र शंभोः बाण-अनुगृह्णतः ॥ ४ ॥
atrā eva su caritram ca śaṃkarasya mahā-prabhoḥ .. kṛṣṇena samaraḥ upi atra śaṃbhoḥ bāṇa-anugṛhṇataḥ .. 4 ..
अत्रानुरूपं शृणु मे शिवलीलान्वितं परम् ॥ इतिहासं महापुण्यं मनःश्रोत्रसुखावहम् ॥ ५ ॥
अत्र अनुरूपम् शृणु मे शिव-लीला-अन्वितम् परम् ॥ इतिहासम् महा-पुण्यम् मनः-श्रोत्र-सुख-आवहम् ॥ ५ ॥
atra anurūpam śṛṇu me śiva-līlā-anvitam param .. itihāsam mahā-puṇyam manaḥ-śrotra-sukha-āvaham .. 5 ..
ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः ॥ मानसस्सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ॥ ६ ॥
ब्रह्म-पुत्रः मरीचिः यः मुनिः आसीत् महामतिः ॥ मानसः सर्व-पुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ॥ ६ ॥
brahma-putraḥ marīciḥ yaḥ muniḥ āsīt mahāmatiḥ .. mānasaḥ sarva-putreṣu jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ .. 6 ..
तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः॥ सृष्टिप्रवृद्धकोऽत्यंतं पितुर्भक्तो विधेरपि ॥ ७॥
तस्य पुत्रः महात्मा आसीत् कश्यपः मुनि-सत्तमः॥ सृष्टिप्रवृद्धकः अत्यन्तम् पितुः भक्तः विधेः अपि ॥ ७॥
tasya putraḥ mahātmā āsīt kaśyapaḥ muni-sattamaḥ.. sṛṣṭipravṛddhakaḥ atyantam pituḥ bhaktaḥ vidheḥ api .. 7..
स्वस्य त्रयोदशमितादक्षकन्या स्सुशीलिकाः ॥ कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः ॥ ८॥
स्वस्य त्रयोदश-मिता-दक्ष-कन्याः स्सु शीलिकाः ॥ कश्यपस्य मुनेः व्यास पत्न्यः च आसन् पतिव्रताः ॥ ८॥
svasya trayodaśa-mitā-dakṣa-kanyāḥ ssu śīlikāḥ .. kaśyapasya muneḥ vyāsa patnyaḥ ca āsan pativratāḥ .. 8..
तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयास्स्मृताः ॥ अन्यासां च सुता जाता देवाद्यास्सचराचराः ॥ ९ ॥
तत्र ज्येष्ठा दितिः च आसीत् दैत्याः तद्-तनयाः स्मृताः ॥ अन्यासाम् च सुताः जाताः देव-आद्याः स चराचराः ॥ ९ ॥
tatra jyeṣṭhā ditiḥ ca āsīt daityāḥ tad-tanayāḥ smṛtāḥ .. anyāsām ca sutāḥ jātāḥ deva-ādyāḥ sa carācarāḥ .. 9 ..
ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ ॥ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ 2.5.51.१०॥
ज्येष्ठायाः प्रथमौ पुत्रौ दितेः च आस्ताम् महा-बलौ ॥ हिरण्यकशिपुः ज्येष्ठः हिरण्याक्षः अनुजः ततस् ॥ २।५।५१।१०॥
jyeṣṭhāyāḥ prathamau putrau diteḥ ca āstām mahā-balau .. hiraṇyakaśipuḥ jyeṣṭhaḥ hiraṇyākṣaḥ anujaḥ tatas .. 2.5.51.10..
हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः॥ ह्रादानुह्रादसंह्रादा प्रह्रादश्चेत्यनुक्रमात्॥ ११॥
हिरण्यकशिपोः पुत्राः चत्वारः दैत्य-सत्तमाः॥ ह्रादा-अनुह्राद-संह्रादा प्रह्रादः च इति अनुक्रमात्॥ ११॥
hiraṇyakaśipoḥ putrāḥ catvāraḥ daitya-sattamāḥ.. hrādā-anuhrāda-saṃhrādā prahrādaḥ ca iti anukramāt.. 11..
प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः ॥ यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केपि ह ॥ १२ ॥
प्रह्रादः तत्र हि महान् विष्णु-भक्तः जित-इन्द्रियः ॥ यम् न अशितुम् न शक्ताः ते अभवन् दैत्याः च के अपि ह ॥ १२ ॥
prahrādaḥ tatra hi mahān viṣṇu-bhaktaḥ jita-indriyaḥ .. yam na aśitum na śaktāḥ te abhavan daityāḥ ca ke api ha .. 12 ..
विरोचनः सुतस्तस्य महा दातृवरोऽभवत् ॥ शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः ॥ १३ ॥
विरोचनः सुतः तस्य महा दातृ-वरः अभवत् ॥ शक्राय स्व-शिरः यः अदात् याचमानाय विप्रतः ॥ १३ ॥
virocanaḥ sutaḥ tasya mahā dātṛ-varaḥ abhavat .. śakrāya sva-śiraḥ yaḥ adāt yācamānāya viprataḥ .. 13 ..
तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः ॥ येन वामनरूपाय हरयेऽदायि मेदिनी ॥ १४ ॥
तस्य पुत्रः बलिः च आसीत् महादानी शिवप्रियः ॥ येन वामन-रूपाय हरये अदायि मेदिनी ॥ १४ ॥
tasya putraḥ baliḥ ca āsīt mahādānī śivapriyaḥ .. yena vāmana-rūpāya haraye adāyi medinī .. 14 ..
तस्यौरसः सुतो बाणश्शिवभक्तो बभूव ह ॥ मान्यो वदान्यो धीमांश्च सत्यसंधस्स हस्रदः ॥ १५ ॥
तस्य औरसः सुतः बाणः शिव-भक्तः बभूव ह ॥ मान्यः वदान्यः धीमान् च सत्य-संधः स हस्र-दः ॥ १५ ॥
tasya aurasaḥ sutaḥ bāṇaḥ śiva-bhaktaḥ babhūva ha .. mānyaḥ vadānyaḥ dhīmān ca satya-saṃdhaḥ sa hasra-daḥ .. 15 ..
शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा ॥ त्रैलोक्यं च बलाञ्ज्जित्वा तन्नाथानसुरेश्वरः ॥ १६ ॥ ॥
शोणित-आख्ये पुरे स्थित्वा स राज्यम् अकरोत् पुरा ॥ त्रैलोक्यम् च बलान् जित्वा तद्-नाथान् असुर-ईश्वरः ॥ १६ ॥ ॥
śoṇita-ākhye pure sthitvā sa rājyam akarot purā .. trailokyam ca balān jitvā tad-nāthān asura-īśvaraḥ .. 16 .. ..
तस्य बाणासुरस्यैव शिवभक्तस्य चामराः ॥ शंकरस्य प्रसादेन किंकरा इव तेऽभवन् ॥ १७॥
तस्य बाण-असुरस्य एव शिव-भक्तस्य च अमराः ॥ शंकरस्य प्रसादेन किंकराः इव ते अभवन् ॥ १७॥
tasya bāṇa-asurasya eva śiva-bhaktasya ca amarāḥ .. śaṃkarasya prasādena kiṃkarāḥ iva te abhavan .. 17..
तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः ॥ सापत्न्यादुःखितास्ते हि परधर्मप्रवर्तिनः॥ १८॥
तस्य राज्ये अमरान् हित्वा न अभवन् दुःखिताः प्रजाः ॥ सापत्न्य-अदुःखिताः ते हि पर-धर्म-प्रवर्तिनः॥ १८॥
tasya rājye amarān hitvā na abhavan duḥkhitāḥ prajāḥ .. sāpatnya-aduḥkhitāḥ te hi para-dharma-pravartinaḥ.. 18..
सहस्रबाहुवाद्येन स कदाचिन्महासुरः॥ तांडवेन हि नृत्येनातोषयत्तं महेश्वरम् ॥ १९ ॥
सहस्रबाहु-वाद्येन स कदाचिद् महा-असुरः॥ तांडवेन हि नृत्येन अतोषयत् तम् महेश्वरम् ॥ १९ ॥
sahasrabāhu-vādyena sa kadācid mahā-asuraḥ.. tāṃḍavena hi nṛtyena atoṣayat tam maheśvaram .. 19 ..
तेन नृत्येन संतुष्टस्सुप्रसन्नो बभूव ह ॥ ददर्श कृपया दृष्ट्या शंकरो भक्तवत्सलः ॥ 2.5.51.२० ॥
तेन नृत्येन संतुष्टः सु प्रसन्नः बभूव ह ॥ ददर्श कृपया दृष्ट्या शंकरः भक्त-वत्सलः ॥ २।५।५१।२० ॥
tena nṛtyena saṃtuṣṭaḥ su prasannaḥ babhūva ha .. dadarśa kṛpayā dṛṣṭyā śaṃkaraḥ bhakta-vatsalaḥ .. 2.5.51.20 ..
भगवान्सर्वलोकेश्शशरण्यो भक्तकामदः ॥ वरेण च्छंदयामास बालेयं तं महासुरम् ॥ २१॥
भगवान् सर्व-लोकेश शरण्यः भक्त-काम-दः ॥ वरेण छंदयामास बालेयम् तम् महा-असुरम् ॥ २१॥
bhagavān sarva-lokeśa śaraṇyaḥ bhakta-kāma-daḥ .. vareṇa chaṃdayāmāsa bāleyam tam mahā-asuram .. 21..
शंकर उवाच।।
बालेयः स महादैत्यो बाणो भक्तवरस्सुधीः॥ प्रणम्य शंकरं भक्त्या नुनाव परमेश्वरम् ॥ २२॥
बालेयः स महा-दैत्यः बाणः भक्त-वरः सुधीः॥ प्रणम्य शंकरम् भक्त्या परमेश्वरम् ॥ २२॥
bāleyaḥ sa mahā-daityaḥ bāṇaḥ bhakta-varaḥ sudhīḥ.. praṇamya śaṃkaram bhaktyā parameśvaram .. 22..
बाणासुर उवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ संतुष्टोऽसि महेशान ममोपरि विभो यदि ॥ २३ ॥
देवदेव महादेव शरण-आगत-वत्सल ॥ संतुष्टः असि महेशान मम उपरि विभो यदि ॥ २३ ॥
devadeva mahādeva śaraṇa-āgata-vatsala .. saṃtuṣṭaḥ asi maheśāna mama upari vibho yadi .. 23 ..
मद्रक्षको भव सदा मदुपस्थः पुराधिपः ॥ सर्वथा प्रीतिकृन्मे हि ससुतस्सगणः प्रभो ॥ २४ ॥
मद्-रक्षकः भव सदा मद्-उपस्थः पुर-अधिपः ॥ सर्वथा प्रीति-कृत् मे हि स सुतः स गणः प्रभो ॥ २४ ॥
mad-rakṣakaḥ bhava sadā mad-upasthaḥ pura-adhipaḥ .. sarvathā prīti-kṛt me hi sa sutaḥ sa gaṇaḥ prabho .. 24 ..
सनत्कुमार उवाच ।।
बलिपुत्रस्स वै बाणो मोहितश्शिवमायया ॥ मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम् ॥ २५ ॥
बलि-पुत्रः स वै बाणः मोहितः शिव-मायया ॥ मुक्ति-प्रदम् महेशानम् दुराराध्यम् अपि ध्रुवम् ॥ २५ ॥
bali-putraḥ sa vai bāṇaḥ mohitaḥ śiva-māyayā .. mukti-pradam maheśānam durārādhyam api dhruvam .. 25 ..
स भक्तवत्सलः शंभुर्दत्त्वा तस्मै वरांश्च तान् ॥ तत्रोवास तथा प्रीत्या सगणस्ससुतः प्रभुः ॥ २६ ॥
स भक्त-वत्सलः शंभुः दत्त्वा तस्मै वरान् च तान् ॥ तत्र उवास तथा प्रीत्या स गणः स सुतः प्रभुः ॥ २६ ॥
sa bhakta-vatsalaḥ śaṃbhuḥ dattvā tasmai varān ca tān .. tatra uvāsa tathā prītyā sa gaṇaḥ sa sutaḥ prabhuḥ .. 26 ..
स कदाचिद्बाणपुरे चक्रे देवासुरैस्सह ॥ नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये ॥ २७ ॥
स कदाचिद् बाणपुरे चक्रे देव-असुरैः सह ॥ नदी-तीरे हरः क्रीडाम् रम्ये शोणितक-आह्वये ॥ २७ ॥
sa kadācid bāṇapure cakre deva-asuraiḥ saha .. nadī-tīre haraḥ krīḍām ramye śoṇitaka-āhvaye .. 27 ..
ननृतुर्जहसुश्चापि गंधर्वासरसस्तथा ॥ जेयुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम् ॥ २८॥
ननृतुः जहसुः च अपि गंधर्व-असरसः तथा ॥ जेयुः प्रणेमुः मुनयः आनर्चुः तुष्टुवुः च तम् ॥ २८॥
nanṛtuḥ jahasuḥ ca api gaṃdharva-asarasaḥ tathā .. jeyuḥ praṇemuḥ munayaḥ ānarcuḥ tuṣṭuvuḥ ca tam .. 28..
ववल्गुः प्रथमास्सर्वे ऋषयो जुहुवुस्तथा ॥ आययुः सिद्धसंघाश्च दृदृशुश्शांकरी रतिम् ॥ २९ ॥
ववल्गुः प्रथमाः सर्वे ऋषयः जुहुवुः तथा ॥ आययुः सिद्ध-संघाः च दृदृशुः शांकरी रतिम् ॥ २९ ॥
vavalguḥ prathamāḥ sarve ṛṣayaḥ juhuvuḥ tathā .. āyayuḥ siddha-saṃghāḥ ca dṛdṛśuḥ śāṃkarī ratim .. 29 ..
कुतर्किका विनेशुश्च म्लेच्छाश्च परिपंथिनः ॥ मातरोभिमुखास्तस्थुर्विनेशुश्च विभीषिका ॥ 2.5.51.३० ॥
कुतर्किकाः विनेशुः च म्लेच्छाः च परिपंथिनः ॥ मातरः उभिमुखाः तस्थुः विनेशुः च विभीषिका ॥ २।५।५१।३० ॥
kutarkikāḥ vineśuḥ ca mlecchāḥ ca paripaṃthinaḥ .. mātaraḥ ubhimukhāḥ tasthuḥ vineśuḥ ca vibhīṣikā .. 2.5.51.30 ..
रुद्रसद्भावभक्तानां भवदोषाश्च विस्तृताः ॥ तस्मिन्दृष्टे प्रजास्सर्वाः सुप्रीतिं परमां ययुः ॥ ३१ ॥
रुद्र-सद्भाव-भक्तानाम् भव-दोषाः च विस्तृताः ॥ तस्मिन् दृष्टे प्रजाः सर्वाः सु प्रीतिम् परमाम् ययुः ॥ ३१ ॥
rudra-sadbhāva-bhaktānām bhava-doṣāḥ ca vistṛtāḥ .. tasmin dṛṣṭe prajāḥ sarvāḥ su prītim paramām yayuḥ .. 31 ..
ववल्गुर्मुनयस्सिद्धाः स्त्रीणां दृष्ट्वा विचेष्टितम् ॥ पुपुषुश्चापि ऋतवस्स्वप्रभावं तु तत्र च ॥ ३२॥
ववल्गुः मुनयः सिद्धाः स्त्रीणाम् दृष्ट्वा विचेष्टितम् ॥ पुपुषुः च अपि ऋतवः स्व-प्रभावम् तु तत्र च ॥ ३२॥
vavalguḥ munayaḥ siddhāḥ strīṇām dṛṣṭvā viceṣṭitam .. pupuṣuḥ ca api ṛtavaḥ sva-prabhāvam tu tatra ca .. 32..
ववुर्वाताश्च मृदवः पुष्पकेसरधूसराः ॥ चुकूजुः पक्षिसंघाश्च शाखिनां मधुलम्पटाः ॥ ३३॥
ववुः वाताः च मृदवः पुष्प-केसर-धूसराः ॥ चुकूजुः पक्षि-संघाः च शाखिनाम् मधु-लम्पटाः ॥ ३३॥
vavuḥ vātāḥ ca mṛdavaḥ puṣpa-kesara-dhūsarāḥ .. cukūjuḥ pakṣi-saṃghāḥ ca śākhinām madhu-lampaṭāḥ .. 33..
पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः ॥ मधुरं कामजननं वनेषूपवनेषु च ॥ ३४॥
पुष्प-भार-अवनद्धानाम् रारट्येरन् च कोकिलाः ॥ मधुरम् काम-जननम् वनेषु उपवनेषु च ॥ ३४॥
puṣpa-bhāra-avanaddhānām rāraṭyeran ca kokilāḥ .. madhuram kāma-jananam vaneṣu upavaneṣu ca .. 34..
ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः ॥ अनिर्जितेन कामेन दृष्टाः प्रोवाच नन्दिनम् ॥ ३५॥
ततस् क्रीडा-विहारे तु मत्तः बाल-इन्दु-शेखरः ॥ अनिर्जितेन कामेन दृष्टाः प्रोवाच नन्दिनम् ॥ ३५॥
tatas krīḍā-vihāre tu mattaḥ bāla-indu-śekharaḥ .. anirjitena kāmena dṛṣṭāḥ provāca nandinam .. 35..
चन्द्रशेखर उवाच ।।
वामामानय गौरीं त्वं कैलासात्कृतमंडनाम् ॥ शीघ्रमस्माद्वनाद्गत्वा ह्युक्त्वाऽकृष्णामिहानय ॥ ३६ ॥
वामाम् आनय गौरीम् त्वम् कैलासात् कृत-मंडनाम् ॥ शीघ्रम् अस्मात् वनात् गत्वा हि उक्त्वा अकृष्णाम् इह आनय ॥ ३६ ॥
vāmām ānaya gaurīm tvam kailāsāt kṛta-maṃḍanām .. śīghram asmāt vanāt gatvā hi uktvā akṛṣṇām iha ānaya .. 36 ..
सनत्कुमार उवाच ।।
स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् ॥ सुप्रणम्य रहो दूतश्शंकरस्य कृतांजलिः ॥ ३७ ॥
स तथा इति प्रतिज्ञाय गत्वा तत्र आह पार्वतीम् ॥ सु प्रणम्य रहः दूतः शंकरस्य कृत-अंजलिः ॥ ३७ ॥
sa tathā iti pratijñāya gatvā tatra āha pārvatīm .. su praṇamya rahaḥ dūtaḥ śaṃkarasya kṛta-aṃjaliḥ .. 37 ..
।। नन्दीश्वर उवाच ।।
द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः ॥ स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः ॥ ३८ ॥
द्रष्टुम् इच्छति देवि त्वाम् देवदेवः महेश्वरः ॥ स्व-वल्लभाम् रूप-कृताम् मया उक्तम् तत् निदेशतः ॥ ३८ ॥
draṣṭum icchati devi tvām devadevaḥ maheśvaraḥ .. sva-vallabhām rūpa-kṛtām mayā uktam tat nideśataḥ .. 38 ..
सनत्कुमार उवाच।।
ततस्तद्वचनाद्गौरी मंडनं कर्तुमादरात् ॥ उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा ॥ ३९ ॥
ततस् तद्-वचनात् गौरी मंडनम् कर्तुम् आदरात् ॥ उद्यता अभूत् मुनि-श्रेष्ठ पतिव्रत-परायणा ॥ ३९ ॥
tatas tad-vacanāt gaurī maṃḍanam kartum ādarāt .. udyatā abhūt muni-śreṣṭha pativrata-parāyaṇā .. 39 ..
आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया ॥ आजगाम ततो नंदी रुद्रासन्नं मनोगतिः ॥ 2.5.51.४०॥
आगच्छामि प्रभुम् गच्छ वद तम् त्वम् मम आज्ञया ॥ आजगाम ततस् नंदी रुद्र-आसन्नम् मनोगतिः ॥ २।५।५१।४०॥
āgacchāmi prabhum gaccha vada tam tvam mama ājñayā .. ājagāma tatas naṃdī rudra-āsannam manogatiḥ .. 2.5.51.40..
पुनराह ततो रुद्रो नन्दिनं परविभ्रमः॥ पुनर्गच्छ ततस्तात क्षिप्रमा नय पार्वतीम् ॥ ४१॥
पुनर् आह ततस् रुद्रः नन्दिनम् पर-विभ्रमः॥ पुनर् गच्छ ततस् तात क्षिप्रम् आ नय पार्वतीम् ॥ ४१॥
punar āha tatas rudraḥ nandinam para-vibhramaḥ.. punar gaccha tatas tāta kṣipram ā naya pārvatīm .. 41..
बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् ॥ द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम् ॥ ४२॥
बाढम् उक्त्वा स ताम् गत्वा गौरीम् आह सु लोचनाम् ॥ द्रष्टुम् इच्छति ते भर्ता कृत-वेषाम् मनोरमाम् ॥ ४२॥
bāḍham uktvā sa tām gatvā gaurīm āha su locanām .. draṣṭum icchati te bhartā kṛta-veṣām manoramām .. 42..
शंकरो बहुधा देवि विहर्तुं संप्रतीक्षते ॥ एवं पतौ सुकामार्ते गम्यतां गिरिनंदिनि ॥ ४३ ॥
शंकरः बहुधा देवि विहर्तुम् संप्रतीक्षते ॥ एवम् पतौ सु काम-आर्ते गम्यताम् गिरिनंदिनि ॥ ४३ ॥
śaṃkaraḥ bahudhā devi vihartum saṃpratīkṣate .. evam patau su kāma-ārte gamyatām girinaṃdini .. 43 ..
क्सरोभिस्समग्राभिरन्योन्यमभिमंत्रितम् ॥ लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः ॥ ४४ ॥
क्सरोभिः समग्राभिः अन्योन्यम् अभिमंत्रितम् ॥ लब्ध-भावः यथा सद्यस् पार्वत्याः दर्शन-उत्सुकः ॥ ४४ ॥
ksarobhiḥ samagrābhiḥ anyonyam abhimaṃtritam .. labdha-bhāvaḥ yathā sadyas pārvatyāḥ darśana-utsukaḥ .. 44 ..
अयं पिनाकी कामारिः वृणुयाद्यां नितंबिनीम् ॥ सर्वासां दिव्यनारीणां राज्ञी भवति वै धुवम् ॥ ४५ ॥
अयम् पिनाकी कामारिः वृणुयात् याम् नितंबिनीम् ॥ सर्वासाम् दिव्य-नारीणाम् राज्ञी भवति वै धुवम् ॥ ४५ ॥
ayam pinākī kāmāriḥ vṛṇuyāt yām nitaṃbinīm .. sarvāsām divya-nārīṇām rājñī bhavati vai dhuvam .. 45 ..
वीक्षणं गौरिरूपेण क्रीडयेन्मन्मथैर्गणैः ॥ कामोऽयं हंति कामारिमूचुरन्योन्यमादताः ॥ ४६ ॥
वीक्षणम् गौरी-रूपेण क्रीडयेत् मन्मथैः गणैः ॥ कामः अयम् हंति कामारिम् ऊचुः अन्योन्यम् आदताः ॥ ४६ ॥
vīkṣaṇam gaurī-rūpeṇa krīḍayet manmathaiḥ gaṇaiḥ .. kāmaḥ ayam haṃti kāmārim ūcuḥ anyonyam ādatāḥ .. 46 ..
स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणी स्त्रियम् ॥ सा गच्छेत्तत्र निश्शंकं मोहयेत्पार्वतीपतिम् ॥ ४७ ॥
स्प्रष्टुम् शक्नोति या काचिद् ऋते दाक्षायणी स्त्रियम् ॥ सा गच्छेत् तत्र निश्शंकम् मोहयेत् पार्वतीपतिम् ॥ ४७ ॥
spraṣṭum śaknoti yā kācid ṛte dākṣāyaṇī striyam .. sā gacchet tatra niśśaṃkam mohayet pārvatīpatim .. 47 ..
कूष्मांडतनया तत्र शंकरं स्प्रष्टुमुत्सहे ॥ अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत् ॥ ४८ ॥
कूष्मांड-तनया तत्र शंकरम् स्प्रष्टुम् उत्सहे ॥ अहम् गौरी-सुरूपेण चित्रलेखा वचः अब्रवीत् ॥ ४८ ॥
kūṣmāṃḍa-tanayā tatra śaṃkaram spraṣṭum utsahe .. aham gaurī-surūpeṇa citralekhā vacaḥ abravīt .. 48 ..
चित्रलेखोवाच ।।
यदधान्मोहिनीरूपं केशवो मोह नेच्छया ॥ पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः ॥ ४९ ॥
यत् अधात् मोहिनी-रूपम् केशवः मोह न इच्छया ॥ पुरा तत् वैष्णवम् योगम् आश्रित्य परमार्थतः ॥ ४९ ॥
yat adhāt mohinī-rūpam keśavaḥ moha na icchayā .. purā tat vaiṣṇavam yogam āśritya paramārthataḥ .. 49 ..
उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् ॥ कालीरूपं घृताची तु विश्वाची चांडिकं वपुः ॥ 2.5.51.५० ॥
उर्वश्याः च ततस् दृष्ट्वा रूपस्य परिवर्तनम् ॥ काली-रूपम् घृताची तु विश्वाची चांडिकम् वपुः ॥ २।५।५१।५० ॥
urvaśyāḥ ca tatas dṛṣṭvā rūpasya parivartanam .. kālī-rūpam ghṛtācī tu viśvācī cāṃḍikam vapuḥ .. 2.5.51.50 ..
सावित्रिरूपं रंभा च गायत्रं मेनका तथा ॥ सहजन्या जयारूपं वैजयं पुंजिकस्थली ॥ ५१ ॥
रंभा च गायत्रम् मेनका तथा ॥ सहज-न्या जया-रूपम् वैजयम् पुंजिक-स्थली ॥ ५१ ॥
raṃbhā ca gāyatram menakā tathā .. sahaja-nyā jayā-rūpam vaijayam puṃjika-sthalī .. 51 ..
मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः ॥ रत्नाद्रूपाणि ताश्चक्रुस्स्वविद्यासंयुता अनु ॥ ५२॥
मातॄणाम् अपि अनुक्तानाम् अनुक्ताः च अप्सरोवराः ॥ रत्नात् रूपाणि ताः चक्रुः स्व-विद्या-संयुताः अनु ॥ ५२॥
mātṝṇām api anuktānām anuktāḥ ca apsarovarāḥ .. ratnāt rūpāṇi tāḥ cakruḥ sva-vidyā-saṃyutāḥ anu .. 52..
ततस्तासां तु रूपाणि दृष्ट्वा कुंभां डनंदिनी ॥ वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडंबयत् ॥ ५३ ॥
ततस् तासाम् तु रूपाणि दृष्ट्वा कुंभाम् डनंदिनी ॥ वैष्णवात् आत्म-योगात् च विज्ञात-अर्था व्यडंबयत् ॥ ५३ ॥
tatas tāsām tu rūpāṇi dṛṣṭvā kuṃbhām ḍanaṃdinī .. vaiṣṇavāt ātma-yogāt ca vijñāta-arthā vyaḍaṃbayat .. 53 ..
ऊषा बाणासुरसुता दिव्ययोगविशारदा ॥ चकार रूपं पार्वत्या दिव्यमत्यद्भुतं शुभम् ॥ ५४ ॥
ऊषा बाणासुर-सुता दिव्य-योग-विशारदा ॥ चकार रूपम् पार्वत्याः दिव्यम् अति अद्भुतम् शुभम् ॥ ५४ ॥
ūṣā bāṇāsura-sutā divya-yoga-viśāradā .. cakāra rūpam pārvatyāḥ divyam ati adbhutam śubham .. 54 ..
महारक्ताब्जसंकाशं चरणं चोक्तमप्रभम् ॥ दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम् ॥ ५५ ॥
महा-रक्त-अब्ज-संकाशम् चरणम् च उक्तम् अप्रभम् ॥ दिव्य-लक्षण-संयुक्तम् मनः-अभीष्ट-अर्थ-दायकम् ॥ ५५ ॥
mahā-rakta-abja-saṃkāśam caraṇam ca uktam aprabham .. divya-lakṣaṇa-saṃyuktam manaḥ-abhīṣṭa-artha-dāyakam .. 55 ..
तस्या रमणसंकल्पं विज्ञाय गिरिजा ततः ॥ उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा ॥ ५६ ॥
तस्याः रमण-संकल्पम् विज्ञाय गिरिजा ततस् ॥ उवाच सर्व-विज्ञाना सर्व-अन्तर्यामिनी शिवा ॥ ५६ ॥
tasyāḥ ramaṇa-saṃkalpam vijñāya girijā tatas .. uvāca sarva-vijñānā sarva-antaryāminī śivā .. 56 ..
गिरिजोवाच ।।
यतो मम स्वरूपं वै धृतभूषे सखि त्वया ॥ सकामत्वेन समये संप्राप्ते सति मानिनि ॥ ५७॥
यतस् मम स्व-रूपम् वै धृत-भूषे सखि त्वया ॥ स काम-त्वेन समये संप्राप्ते सति मानिनि ॥ ५७॥
yatas mama sva-rūpam vai dhṛta-bhūṣe sakhi tvayā .. sa kāma-tvena samaye saṃprāpte sati mānini .. 57..
अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे ॥ द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे ॥ ५८ ॥
अस्मिन् तु कार्तिके मासि ऋतु-धर्माः तु माधवे ॥ द्वादश्याम् शुक्ल-पक्षे तु यः तु घोरे निशागमे ॥ ५८ ॥
asmin tu kārtike māsi ṛtu-dharmāḥ tu mādhave .. dvādaśyām śukla-pakṣe tu yaḥ tu ghore niśāgame .. 58 ..
कृतोपवासां त्वां भोक्ता सुप्तामंतःपुरे नरः ॥ स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि ॥ ५९ ॥
कृत-उपवासाम् त्वाम् भोक्ता सुप्ताम् अंतःपुरे नरः ॥ स ते भर्त्ता कृतः देवैः तेन सार्द्धम् रमिष्यसि ॥ ५९ ॥
kṛta-upavāsām tvām bhoktā suptām aṃtaḥpure naraḥ .. sa te bharttā kṛtaḥ devaiḥ tena sārddham ramiṣyasi .. 59 ..
आबाल्याद्विष्णुभक्तासि यतोऽनिशमतंद्रिता ॥ एवमस्त्विति सा प्राह मनसा लज्जितानना ॥ 2.5.51.६० ॥
आ बाल्यात् विष्णु-भक्ता असि यतस् अनिशम् अतंद्रिता ॥ एवम् अस्तु इति सा प्राह मनसा लज्जित-आनना ॥ २।५।५१।६० ॥
ā bālyāt viṣṇu-bhaktā asi yatas aniśam ataṃdritā .. evam astu iti sā prāha manasā lajjita-ānanā .. 2.5.51.60 ..
अथ सा पार्वती देवी कृतकौतुकमण्डना ॥ रुद्रसंनिधिमागत्य चिक्रीडे तेन शंभुना ॥ ६१ ॥
अथ सा पार्वती देवी कृत-कौतुकमण्डना ॥ रुद्र-संनिधिम् आगत्य चिक्रीडे तेन शंभुना ॥ ६१ ॥
atha sā pārvatī devī kṛta-kautukamaṇḍanā .. rudra-saṃnidhim āgatya cikrīḍe tena śaṃbhunā .. 61 ..
ततो रतांते भगवान्रुद्रश्चादर्शनं ययौ ॥ सदारः सगणश्चापि सहितो दैवतैर्मुने ॥ ६२ ॥
ततस् रत-अन्ते भगवान् रुद्रः च अदर्शनम् ययौ ॥ स दारः स गणः च अपि सहितः दैवतैः मुने ॥ ६२ ॥
tatas rata-ante bhagavān rudraḥ ca adarśanam yayau .. sa dāraḥ sa gaṇaḥ ca api sahitaḥ daivataiḥ mune .. 62 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषा चरित्रवर्णनं शिवशिवाविवाहवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे ऊषा-चरित्र-वर्णनम् शिवशिवाविवाहवर्णनम् नाम एकपंचाशत्तमः अध्यायः ॥ ५१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe ūṣā-caritra-varṇanam śivaśivāvivāhavarṇanam nāma ekapaṃcāśattamaḥ adhyāyaḥ .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In