| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः ॥ भक्तवात्सल्यसंगर्भि परमानन्ददायकम् ॥ १ ॥
शृणुष्व अन्यत् चरित्रम् च शिवस्य परमात्मनः ॥ ॥ १ ॥
śṛṇuṣva anyat caritram ca śivasya paramātmanaḥ .. .. 1 ..
पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः ॥ कृत्वा तांडवनृत्यं च तोषयामास शंकरम्॥ २॥
पुरा बाणासुरः नाम दैव-दोषात् च गर्वितः ॥ कृत्वा तांडव-नृत्यम् च तोषयामास शंकरम्॥ २॥
purā bāṇāsuraḥ nāma daiva-doṣāt ca garvitaḥ .. kṛtvā tāṃḍava-nṛtyam ca toṣayāmāsa śaṃkaram.. 2..
ज्ञात्वा संतुष्टमनसं पार्वतीवल्लभं शिवम् ॥ उवाच चासुरो बाणो नतस्कन्धः कृतांजलिः॥ ३॥
ज्ञात्वा संतुष्ट-मनसम् पार्वती-वल्लभम् शिवम् ॥ उवाच च असुरः बाणः नत-स्कन्धः कृतांजलिः॥ ३॥
jñātvā saṃtuṣṭa-manasam pārvatī-vallabham śivam .. uvāca ca asuraḥ bāṇaḥ nata-skandhaḥ kṛtāṃjaliḥ.. 3..
बाण उवाच।।
देवदेव महादेव सर्वदेवशिरोमणे ॥ त्वत्प्रसादाद्बली चाहं शृणु मे परमं वचः ॥ ४ ॥
देवदेव महादेव सर्व-देव-शिरोमणे ॥ त्वद्-प्रसादात् बली च अहम् शृणु मे परमम् वचः ॥ ४ ॥
devadeva mahādeva sarva-deva-śiromaṇe .. tvad-prasādāt balī ca aham śṛṇu me paramam vacaḥ .. 4 ..
दोस्सहस्रं त्वया दत्तं परं भाराय मेऽभवेत् ॥ त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ५॥
दोस्-सहस्रम् त्वया दत्तम् परम् भाराय मे अभवेत् ॥ त्रिलोक्याम् प्रतियोद्धारम् न लभे त्वत् ऋते समम् ॥ ५॥
dos-sahasram tvayā dattam param bhārāya me abhavet .. trilokyām pratiyoddhāram na labhe tvat ṛte samam .. 5..
हे देव किमनेनापि सहस्रेण करोम्यहम् ॥ बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज ॥ ६॥
हे देव किम् अनेन अपि सहस्रेण करोमि अहम् ॥ बाहूनाम् गिरि-तुल्यानाम् विना युद्धम् वृषध्वज ॥ ६॥
he deva kim anena api sahasreṇa karomi aham .. bāhūnām giri-tulyānām vinā yuddham vṛṣadhvaja .. 6..
कडूंत्या निभृतैदोंर्भिर्युयुत्सुर्दिग्गजानहम् ॥ पुराण्याचूर्णयन्नद्रीन्भीतास्तेपि प्रदुद्रुवुः॥ ७॥
निभृतैः दोंर्भिः युयुत्सुः दिग्गजान् अहम् ॥ पुराणि आचूर्णयन् अद्रीन् भीताः ते अपि प्रदुद्रुवुः॥ ७॥
nibhṛtaiḥ doṃrbhiḥ yuyutsuḥ diggajān aham .. purāṇi ācūrṇayan adrīn bhītāḥ te api pradudruvuḥ.. 7..
मया यमः कृतो योद्धा वह्निश्च कृतको महान्॥ वरुणश्चापि गोपालो गवां पालयिता तथा॥ ८॥
मया यमः कृतः योद्धा वह्निः च कृतकः महान्॥ वरुणः च अपि गोपालः गवाम् पालयिता तथा॥ ८॥
mayā yamaḥ kṛtaḥ yoddhā vahniḥ ca kṛtakaḥ mahān.. varuṇaḥ ca api gopālaḥ gavām pālayitā tathā.. 8..
गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निर्ऋतिः॥ जितश्चाखंडलो लोके करदायी सदा कृतः ॥ ९॥
गजाध्यक्षः कुबेरः तु सैरन्ध्री च अपि निरृतिः॥ जितः च अखंडलः लोके कर-दायी सदा कृतः ॥ ९॥
gajādhyakṣaḥ kuberaḥ tu sairandhrī ca api nirṛtiḥ.. jitaḥ ca akhaṃḍalaḥ loke kara-dāyī sadā kṛtaḥ .. 9..
युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम ॥ शत्रुहस्तप्रयुक्तश्च शस्त्रास्त्रैर्जर्जरीकृताः॥ 2.5.52.१०॥
युद्धस्य आगमनम् ब्रूहि यत्र एते बाहवः मम ॥ शत्रु-हस्त-प्रयुक्तः च शस्त्र-अस्त्रैः जर्जरीकृताः॥ २।५।५२।१०॥
yuddhasya āgamanam brūhi yatra ete bāhavaḥ mama .. śatru-hasta-prayuktaḥ ca śastra-astraiḥ jarjarīkṛtāḥ.. 2.5.52.10..
पतंतु शत्रुहस्ताद्वा पातयन्तु सहस्रधा ॥ एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर ॥ ११॥
पतन्तु शत्रु-हस्तात् वा पातयन्तु सहस्रधा ॥ एतद्-मनोरथम् मे हि पूर्णम् कुरु महेश्वर ॥ ११॥
patantu śatru-hastāt vā pātayantu sahasradhā .. etad-manoratham me hi pūrṇam kuru maheśvara .. 11..
सनत्कुमार उवाच ।।
तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम्॥ कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः ॥ १२॥
तत् श्रुत्वा कुपितः रुद्रः तु अट्टहासम् महा-अद्भुतम्॥ कृत्वा अब्रवीत् महा-मन्युः भक्त-बाधा-अपहारकः ॥ १२॥
tat śrutvā kupitaḥ rudraḥ tu aṭṭahāsam mahā-adbhutam.. kṛtvā abravīt mahā-manyuḥ bhakta-bādhā-apahārakaḥ .. 12..
रुद्र उवाच ।।
धिग्धिक्त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम ॥ बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम् ॥ १३॥
धिक् धिक् त्वाम् सर्वतस् गर्विन् सर्व-दैत्य-कुल-अधम ॥ बलि-पुत्रस्य भक्तस्य ना उचितम् वचः ईदृशम् ॥ १३॥
dhik dhik tvām sarvatas garvin sarva-daitya-kula-adhama .. bali-putrasya bhaktasya nā ucitam vacaḥ īdṛśam .. 13..
दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् ॥ महायुद्धमकस्माद्वै बलिना मत्समेन हि ॥ १४॥
दर्पस्य अस्य प्रशमनम् लप्स्यसे च आशु दारुणम् ॥ महा-युद्धम् अकस्मात् वै बलिना मद्-समेन हि ॥ १४॥
darpasya asya praśamanam lapsyase ca āśu dāruṇam .. mahā-yuddham akasmāt vai balinā mad-samena hi .. 14..
तत्र ते गिरिसंकाशा बाहवोऽनलकाष्ठवत् ॥ छिन्ना भूमौ पतिष्यंति शस्त्रास्त्रैः कदलीकृताः॥ १५॥
तत्र ते गिरि-संकाशाः बाहवः अनल-काष्ठ-वत् ॥ छिन्नाः भूमौ पतिष्यन्ति शस्त्र-अस्त्रैः कदलीकृताः॥ १५॥
tatra te giri-saṃkāśāḥ bāhavaḥ anala-kāṣṭha-vat .. chinnāḥ bhūmau patiṣyanti śastra-astraiḥ kadalīkṛtāḥ.. 15..
यदेष मानुषशिरो मयूरसहितो ध्वजः॥ विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा ॥ १६ ॥
यत् एष मानुष-शिरः मयूर-सहितः ध्वजः॥ विद्यते तव दुष्ट-आत्मन् तस्य स्यात् पतनम् यदा ॥ १६ ॥
yat eṣa mānuṣa-śiraḥ mayūra-sahitaḥ dhvajaḥ.. vidyate tava duṣṭa-ātman tasya syāt patanam yadā .. 16 ..
स्थापितस्यायुधागारे विना वातकृतं भयम् ॥ तदा युद्धं महाघोरं संप्राप्तमिति चेतसि ॥ १७॥
स्थापितस्य आयुधागारे विना वात-कृतम् भयम् ॥ तदा युद्धम् महा-घोरम् संप्राप्तम् इति चेतसि ॥ १७॥
sthāpitasya āyudhāgāre vinā vāta-kṛtam bhayam .. tadā yuddham mahā-ghoram saṃprāptam iti cetasi .. 17..
निधाय घोरं संग्रामं गच्छेथाः सर्वसैन्यवान् ॥ सांप्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः॥ १८॥
निधाय घोरम् संग्रामम् गच्छेथाः सर्व-सैन्यवान् ॥ सांप्रतम् गच्छ तत् वेश्म यतस् तत् विद्यते शिवः॥ १८॥
nidhāya ghoram saṃgrāmam gacchethāḥ sarva-sainyavān .. sāṃpratam gaccha tat veśma yatas tat vidyate śivaḥ.. 18..
तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते ॥ इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः ॥ १९॥
तथा तान् स्व-महा-उत्पातान् तत्र द्रष्टासि दुर्मते ॥ इति उक्त्वा विरराम अथ गर्व-हृत् भक्त-वत्सलः ॥ १९॥
tathā tān sva-mahā-utpātān tatra draṣṭāsi durmate .. iti uktvā virarāma atha garva-hṛt bhakta-vatsalaḥ .. 19..
सनत्कुमार उवाच ।।
तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरजंलिकुड्मलैः॥ प्रणम्य च महादेवं बाणश्च स्वगृहं गतः ॥ 2.5.52.२० ॥
तत् श्रुत्वा रुद्रम् अभ्यर्च्य दिव्यैः अजंलि-कुड्मलैः॥ प्रणम्य च महादेवम् बाणः च स्व-गृहम् गतः ॥ २।५।५२।२० ॥
tat śrutvā rudram abhyarcya divyaiḥ ajaṃli-kuḍmalaiḥ.. praṇamya ca mahādevam bāṇaḥ ca sva-gṛham gataḥ .. 2.5.52.20 ..
कुंभाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः ॥ पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकस्सदा ॥ २१ ॥
कुंभाण्डाय यथावृत्तम् पृष्टः प्रोवाच हर्षितः ॥ पर्यैक्षिष्ट असुरः बाणः तम् योगम् हि उत्सुकः सदा ॥ २१ ॥
kuṃbhāṇḍāya yathāvṛttam pṛṣṭaḥ provāca harṣitaḥ .. paryaikṣiṣṭa asuraḥ bāṇaḥ tam yogam hi utsukaḥ sadā .. 21 ..
अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् ॥ दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ ॥ २२ ॥
अथ दैवात् कदाचिद् स स्वयम् भग्नम् ध्वजम् च तम् ॥ दृष्ट्वा तत्र असुरः बाणः हृष्टः युद्धाय निर्ययौ ॥ २२ ॥
atha daivāt kadācid sa svayam bhagnam dhvajam ca tam .. dṛṣṭvā tatra asuraḥ bāṇaḥ hṛṣṭaḥ yuddhāya niryayau .. 22 ..
स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः ॥ इष्टिं सांग्रामिकां कृत्वा दृष्ट्वा सांग्रामिकं मधु ॥ २३ ॥
स स्व-सैन्यम् समाहूय संयुक्तः स अष्टभिः गणैः ॥ इष्टिम् सांग्रामिकाम् कृत्वा दृष्ट्वा सांग्रामिकम् मधु ॥ २३ ॥
sa sva-sainyam samāhūya saṃyuktaḥ sa aṣṭabhiḥ gaṇaiḥ .. iṣṭim sāṃgrāmikām kṛtvā dṛṣṭvā sāṃgrāmikam madhu .. 23 ..
ककुभां मंगलं सर्वं संप्रेक्ष्य प्रस्थितोऽभवत् ॥ महोत्साहो महावीरो बलिपुत्रो महारथः ॥ २४ ॥
ककुभाम् मंगलम् सर्वम् संप्रेक्ष्य प्रस्थितः अभवत् ॥ महा-उत्साहः महा-वीरः बलि-पुत्रः महा-रथः ॥ २४ ॥
kakubhām maṃgalam sarvam saṃprekṣya prasthitaḥ abhavat .. mahā-utsāhaḥ mahā-vīraḥ bali-putraḥ mahā-rathaḥ .. 24 ..
इति हृत्कमले कृत्वा कः कस्मादागमिष्यति ॥ योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः ॥ २५ ॥
इति हृद्-कमले कृत्वा कः कस्मात् आगमिष्यति ॥ योद्धा रणप्रियः यः तु नाना शस्त्र-अस्त्र-पारगः ॥ २५ ॥
iti hṛd-kamale kṛtvā kaḥ kasmāt āgamiṣyati .. yoddhā raṇapriyaḥ yaḥ tu nānā śastra-astra-pāragaḥ .. 25 ..
यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् ॥ तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह ॥ २६ ॥
यः तु बाहु-सहस्रम् मे छिनत्तु अनल-काष्ठ-वत् ॥ तथा शस्त्रैः महा-तीक्ष्णैः छिनद्मि शतशस् तु इह ॥ २६ ॥
yaḥ tu bāhu-sahasram me chinattu anala-kāṣṭha-vat .. tathā śastraiḥ mahā-tīkṣṇaiḥ chinadmi śataśas tu iha .. 26 ..
एतस्मिन्नंतरे कालः संप्राप्तश्शंकरेण हि ॥ यत्र सा बाणदुहिता सुजाता कृतमंगला ॥ २७॥
एतस्मिन् अन्तरे कालः संप्राप्तः शंकरेण हि ॥ यत्र सा बाण-दुहिता सुजाता कृत-मंगला ॥ २७॥
etasmin antare kālaḥ saṃprāptaḥ śaṃkareṇa hi .. yatra sā bāṇa-duhitā sujātā kṛta-maṃgalā .. 27..
माधवं माधवे मासि पूजयित्वा महानिशि ॥ सुप्ता चांतः पुरे गुप्ते स्त्रीभावमुपलंभिता ॥ २८ ॥
माधवम् माधवे मासि पूजयित्वा महानिशि ॥ सुप्ता च अंतर् पुरे गुप्ते स्त्री-भावम् उपलंभिता ॥ २८ ॥
mādhavam mādhave māsi pūjayitvā mahāniśi .. suptā ca aṃtar pure gupte strī-bhāvam upalaṃbhitā .. 28 ..
गौर्या संप्रेषितेनापि व्याकृष्टा दिव्यमायया ॥ कृष्णात्मजात्मजेनाथ रुदंती सा ह्यनाथवत् ॥ २९ ॥
गौर्या संप्रेषितेन अपि व्याकृष्टाः दिव्य-मायया ॥ कृष्ण-आत्मज-आत्मजेन अथ रुदंती सा हि अनाथ-वत् ॥ २९ ॥
gauryā saṃpreṣitena api vyākṛṣṭāḥ divya-māyayā .. kṛṣṇa-ātmaja-ātmajena atha rudaṃtī sā hi anātha-vat .. 29 ..
स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः ॥ नीतस्तु दिव्ययोगेन द्वारकां निमिषांतरात् ॥ 2.5.52.३० ॥
स च अपि ताम् बलात् भुक्त्वा पार्वत्याः सखिभिः पुनर् ॥ नीतः तु दिव्य-योगेन द्वारकाम् निमिष-अन्तरात् ॥ २।५।५२।३० ॥
sa ca api tām balāt bhuktvā pārvatyāḥ sakhibhiḥ punar .. nītaḥ tu divya-yogena dvārakām nimiṣa-antarāt .. 2.5.52.30 ..
मृदिता सा तदोत्थाय रुदंती विविधा गिरः ॥ सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ॥ ३१॥
मृदिता सा तदा उत्थाय रुदंती विविधाः गिरः ॥ सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ॥ ३१॥
mṛditā sā tadā utthāya rudaṃtī vividhāḥ giraḥ .. sakhībhyaḥ kathayitvā tu dehatyāge kṛtakṣaṇā .. 31..
सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः॥ सर्वं तत्पूर्ववृत्तांतं ततो दृष्ट्वा च सा भवत्॥ ३२॥
सख्या कृतात्मनः दोषम् सा व्यास स्मारिता पुनर्॥ सर्वम् तद्-पूर्व-वृत्तांतम् ततस् दृष्ट्वा च सा भवत्॥ ३२॥
sakhyā kṛtātmanaḥ doṣam sā vyāsa smāritā punar.. sarvam tad-pūrva-vṛttāṃtam tatas dṛṣṭvā ca sā bhavat.. 32..
अब्रवीच्चित्रलेखां च ततो मधुरया गिरा ॥ ऊषा बाणस्य तनया कुंभांडतनयां मुने ॥ ३३॥
अब्रवीत् चित्रलेखाम् च ततस् मधुरया गिरा ॥ ऊषा बाणस्य तनया कुंभांड-तनयाम् मुने ॥ ३३॥
abravīt citralekhām ca tatas madhurayā girā .. ūṣā bāṇasya tanayā kuṃbhāṃḍa-tanayām mune .. 33..
ऊषोवाच ।।
सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा ॥ केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया ॥ ३४ ॥
सखि यदी एष मे भर्ता पार्वत्या विहितः पुरा ॥ केन उपायेन ते गुप्तः प्राप्यते विधिवत् मया ॥ ३४ ॥
sakhi yadī eṣa me bhartā pārvatyā vihitaḥ purā .. kena upāyena te guptaḥ prāpyate vidhivat mayā .. 34 ..
कस्मिन्कुले स वा जातो मम येन हृतं मनः ॥ इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा ॥ ३५ ॥
कस्मिन् कुले स वा जातः मम येन हृतम् मनः ॥ इति उषा-वचनम् श्रुत्वा सखी प्रोवाच ताम् तदा ॥ ३५ ॥
kasmin kule sa vā jātaḥ mama yena hṛtam manaḥ .. iti uṣā-vacanam śrutvā sakhī provāca tām tadā .. 35 ..
चित्रलेखोवाच ।।
त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् ॥ अहं संमानयिष्यामि न विज्ञातस्तु यो मम ॥ ३६॥
त्वया स्वप्ने च यः दृष्टः पुरुषः देवि तम् कथम् ॥ अहम् संमानयिष्यामि न विज्ञातः तु यः मम ॥ ३६॥
tvayā svapne ca yaḥ dṛṣṭaḥ puruṣaḥ devi tam katham .. aham saṃmānayiṣyāmi na vijñātaḥ tu yaḥ mama .. 36..
दैत्यकन्या तदुक्ते तु रागांधा मरणोत्सुका ॥ रक्षिता च तया सख्या प्रथमे दिवसे ततः ॥ ३७॥
दैत्य-कन्या तत् उक्ते तु राग-अंधा मरण-उत्सुका ॥ रक्षिता च तया सख्या प्रथमे दिवसे ततस् ॥ ३७॥
daitya-kanyā tat ukte tu rāga-aṃdhā maraṇa-utsukā .. rakṣitā ca tayā sakhyā prathame divase tatas .. 37..
पुनः प्रोवाच सोषा वै चित्रलेखा महामतिः ॥ कुंभांडस्य सुता बाणतनयां मुनिसत्तम ।३८॥
पुनर् प्रोवाच सा उषाः वै चित्रलेखा महामतिः ॥ कुंभांडस्य सुताः बाण-तनयाम् मुनि-सत्तम ।३८॥
punar provāca sā uṣāḥ vai citralekhā mahāmatiḥ .. kuṃbhāṃḍasya sutāḥ bāṇa-tanayām muni-sattama .38..
चित्रलेखोवाच ।।
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाष्यते॥ समानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ ३९॥
व्यसनम् ते अपकर्षामि त्रिलोक्याम् यदि भाष्यते॥ समानेष्ये नरम् यः ते मनोहर्ता तम् आदिश ॥ ३९॥
vyasanam te apakarṣāmi trilokyām yadi bhāṣyate.. samāneṣye naram yaḥ te manohartā tam ādiśa .. 39..
सनत्कुमार उवाच ।।
इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् ॥ गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत् ॥ 2.5.52.४० ॥
इति उक्त्वा वस्त्र-पुटके देवान् दैत्यान् च दानवान् ॥ गन्धर्व-सिद्ध-नागान् च यक्ष-आदीन् च तथा अलिखत् ॥ २।५।५२।४० ॥
iti uktvā vastra-puṭake devān daityān ca dānavān .. gandharva-siddha-nāgān ca yakṣa-ādīn ca tathā alikhat .. 2.5.52.40 ..
तथा नरांस्तेषु वृष्णीञ्शूरमानकदुंदुभिम् ॥ व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम् ॥ ४१ ॥
तथा नरान् तेषु वृष्णीन् शूर-मानकदुंदुभिम् ॥ व्यलिखत् राम-कृष्णौ च प्रद्युम्नम् नर-सत्तमम् ॥ ४१ ॥
tathā narān teṣu vṛṣṇīn śūra-mānakaduṃdubhim .. vyalikhat rāma-kṛṣṇau ca pradyumnam nara-sattamam .. 41 ..
अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता ॥ आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता ॥ ४२ ॥
अनिरुद्धम् विलिखितम् प्राद्युम्निम् वीक्ष्य लज्जिता ॥ आसीत् अवाङ्मुखी चोषा हृदये हर्ष-पूरिता ॥ ४२ ॥
aniruddham vilikhitam prādyumnim vīkṣya lajjitā .. āsīt avāṅmukhī coṣā hṛdaye harṣa-pūritā .. 42 ..
ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि ॥ पुरुषः सखि येनाशु चेतोरत्नं हृतं मम॥ ४३॥
ऊषा प्रोवाच चौरः असौ मया प्राप्तः तु यः निशि ॥ पुरुषः सखि येन आशु चेतः-रत्नम् हृतम् मम॥ ४३॥
ūṣā provāca cauraḥ asau mayā prāptaḥ tu yaḥ niśi .. puruṣaḥ sakhi yena āśu cetaḥ-ratnam hṛtam mama.. 43..
यस्य संस्पर्शनादेव मोहिताहं तथाभवम् ॥ तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि ॥ ४४ ॥
यस्य संस्पर्शनात् एव मोहिता अहम् तथा अभवम् ॥ तम् अहम् ज्ञातुम् इच्छामि वद सर्वम् च भामिनि ॥ ४४ ॥
yasya saṃsparśanāt eva mohitā aham tathā abhavam .. tam aham jñātum icchāmi vada sarvam ca bhāmini .. 44 ..
कस्यायमन्वये जातो नाम किं चास्य विद्यते ॥ इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम् ॥ ४५ ॥
कस्य अयम् अन्वये जातः नाम किम् च अस्य विद्यते ॥ इति उक्ता सा ब्रवीत् नाम योगिनी तस्य च अन्वयम् ॥ ४५ ॥
kasya ayam anvaye jātaḥ nāma kim ca asya vidyate .. iti uktā sā bravīt nāma yoginī tasya ca anvayam .. 45 ..
सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम ॥ उत्सुका बाणतनया बभाषे सा तु कामिनी ॥ ४६ ॥
सर्वम् आकर्ण्य सा तस्य कुल-आदि मुनि-सत्तम ॥ उत्सुका बाणतनया बभाषे सा तु कामिनी ॥ ४६ ॥
sarvam ākarṇya sā tasya kula-ādi muni-sattama .. utsukā bāṇatanayā babhāṣe sā tu kāminī .. 46 ..
ऊषोवाच ।।
उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् ॥ येनोपायेन तं कांतं लभेयं प्राणवल्लभम् ॥ ४७ ॥
उपायम् रचय प्रीत्या तद्-प्राप्त्यै सखि तद्-क्षणात् ॥ येन उपायेन तम् कान्तम् लभेयम् प्राण-वल्लभम् ॥ ४७ ॥
upāyam racaya prītyā tad-prāptyai sakhi tad-kṣaṇāt .. yena upāyena tam kāntam labheyam prāṇa-vallabham .. 47 ..
यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे ॥ तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि ॥ ४८ ॥
यम् विना अहम् क्षणम् ना एकम् सखि जीवितुम् उत्सहे ॥ तम् आनय इह सत्-यत्नात् सुखिनीम् कुरु माम् सखि ॥ ४८ ॥
yam vinā aham kṣaṇam nā ekam sakhi jīvitum utsahe .. tam ānaya iha sat-yatnāt sukhinīm kuru mām sakhi .. 48 ..
सनत्कुमार उवाच ।।
इत्युक्ता सा तथा बाणात्मजया मंत्रिकन्यका ॥ विस्मिताभून्मुनिश्रेष्ठ सुविचारपराऽभवत् ॥ ४९ ॥
इति उक्ता सा तथा बाणात्मजया मंत्रि-कन्यका ॥ विस्मिता अभूत् मुनि-श्रेष्ठ सु विचार-परा अभवत् ॥ ४९ ॥
iti uktā sā tathā bāṇātmajayā maṃtri-kanyakā .. vismitā abhūt muni-śreṣṭha su vicāra-parā abhavat .. 49 ..
ततस्सखीं समाभाष्य चित्रलेखा मनोजवा ॥ बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गंतुमुद्यता ॥ 2.5.52.५० ॥
ततस् सखीम् समाभाष्य चित्रलेखा मनोजवा ॥ बुद्ध्वा तम् कृष्ण-पौत्रम् सा द्वारकाम् गंतुम् उद्यता ॥ २।५।५२।५० ॥
tatas sakhīm samābhāṣya citralekhā manojavā .. buddhvā tam kṛṣṇa-pautram sā dvārakām gaṃtum udyatā .. 2.5.52.50 ..
ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि ॥ आप्रभातान्मुहूर्ते तु संप्राप्ता द्वारकां पुरीम् ॥ ५१ ॥
ज्येष्ठ-कृष्ण-चतुर्दश्याम् तृतीये तु गते अहनि ॥ आ प्रभातात् मुहूर्ते तु संप्राप्ताः द्वारकाम् पुरीम् ॥ ५१ ॥
jyeṣṭha-kṛṣṇa-caturdaśyām tṛtīye tu gate ahani .. ā prabhātāt muhūrte tu saṃprāptāḥ dvārakām purīm .. 51 ..
एकेन क्षणमात्रेण नभसा दिव्ययोगिनी ॥ ततश्चांतःपुरोद्याने प्राद्युम्निर्ददृशे तया ॥ ५२ ॥
एकेन क्षण-मात्रेण नभसा दिव्य-योगिनी ॥ ततस् च अंतःपुर-उद्याने प्राद्युम्निः ददृशे तया ॥ ५२ ॥
ekena kṣaṇa-mātreṇa nabhasā divya-yoginī .. tatas ca aṃtaḥpura-udyāne prādyumniḥ dadṛśe tayā .. 52 ..
क्रीडन्नारीजनैस्सार्द्धं प्रपिबन्माधवी मधु ॥ सर्वांगसुन्दरः श्यामः सुस्मितो नवयौवनः ॥ ५३ ॥
क्रीडत्-नारी-जनैः सार्द्धम् प्रपिबन् माधवी मधु ॥ सर्व-अंग-सुन्दरः श्यामः सु स्मितः नव-यौवनः ॥ ५३ ॥
krīḍat-nārī-janaiḥ sārddham prapiban mādhavī madhu .. sarva-aṃga-sundaraḥ śyāmaḥ su smitaḥ nava-yauvanaḥ .. 53 ..
ततः खट्वां समारूढमंधकारपटेन सा ॥ आच्छादयित्वा योगेन तामसेन च माधवम् ॥ ५४ ॥
ततस् खट्वाम् समारूढम् अंधकार-पटेन सा ॥ आच्छादयित्वा योगेन तामसेन च माधवम् ॥ ५४ ॥
tatas khaṭvām samārūḍham aṃdhakāra-paṭena sā .. ācchādayitvā yogena tāmasena ca mādhavam .. 54 ..
ततस्सा मूर्ध्नि तां खट्वां गृहीत्वा निमिषांतरात् ॥ संप्राप्ता शोणितपुरं यत्र सा बाणनंदिनी ॥ ५५ ॥
ततस् सा मूर्ध्नि ताम् खट्वाम् गृहीत्वा निमिष-अन्तरात् ॥ संप्राप्ता शोणितपुरम् यत्र सा बाणनंदिनी ॥ ५५ ॥
tatas sā mūrdhni tām khaṭvām gṛhītvā nimiṣa-antarāt .. saṃprāptā śoṇitapuram yatra sā bāṇanaṃdinī .. 55 ..
कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा ॥ आनीतमथ तं दृष्ट्वा तदा भीता च साभवत् ॥ ५६ ॥
काम-आर्ता विविधान् भावान् चकार उन्मत्त-मानसा ॥ आनीतम् अथ तम् दृष्ट्वा तदा भीता च सा भवत् ॥ ५६ ॥
kāma-ārtā vividhān bhāvān cakāra unmatta-mānasā .. ānītam atha tam dṛṣṭvā tadā bhītā ca sā bhavat .. 56 ..
अंतःपुरे सुगुप्ते च नवे तस्मिन्समागमे ॥ यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात् ॥ ५७ ॥
अंतःपुरे सु गुप्ते च नवे तस्मिन् समागमे ॥ यावत् क्रीडितुम् आरब्धम् तावत् ज्ञातम् च तद्-क्षणात् ॥ ५७ ॥
aṃtaḥpure su gupte ca nave tasmin samāgame .. yāvat krīḍitum ārabdham tāvat jñātam ca tad-kṣaṇāt .. 57 ..
अंतःपुरद्वारगतैर्वेत्रजर्जरपाणिभिः ॥ इंगितैरनुमानैश्च कन्यादौःशील्यमाचरन् ॥ ५८ ॥
अन्तःपुर-द्वार-गतैः वेत्र-जर्जर-पाणिभिः ॥ इंगितैः अनुमानैः च कन्या-दौःशील्यम् आचरन् ॥ ५८ ॥
antaḥpura-dvāra-gataiḥ vetra-jarjara-pāṇibhiḥ .. iṃgitaiḥ anumānaiḥ ca kanyā-dauḥśīlyam ācaran .. 58 ..
स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः ॥ तरुणो दर्शनीयस्तु साहसी समरप्रियः ॥ ५९ ॥
स च अपि दृष्टः तैः तत्र नरः दिव्य-वपुः-धरः ॥ तरुणः दर्शनीयः तु साहसी समर-प्रियः ॥ ५९ ॥
sa ca api dṛṣṭaḥ taiḥ tatra naraḥ divya-vapuḥ-dharaḥ .. taruṇaḥ darśanīyaḥ tu sāhasī samara-priyaḥ .. 59 ..
तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे ॥ पुरुषास्ते महावीराः कन्यान्तःपुररक्षकाः ॥ 2.5.52.६० ॥
तम् दृष्ट्वा सर्वम् आचख्युः बाणाय बलि-सूनवे ॥ पुरुषाः ते महा-वीराः कन्या-अन्तःपुर-रक्षकाः ॥ २।५।५२।६० ॥
tam dṛṣṭvā sarvam ācakhyuḥ bāṇāya bali-sūnave .. puruṣāḥ te mahā-vīrāḥ kanyā-antaḥpura-rakṣakāḥ .. 2.5.52.60 ..
द्वारपाला ऊचुः ।।
देव कश्चिन्न जानीते गुप्तश्चांतःपुरे बलात् ॥ स कस्तु तव कन्यां वै स्वयंग्राहादधर्षयत् ॥ ६१ ॥
देव कश्चिद् न जानीते गुप्तः च अंतःपुरे बलात् ॥ स कः तु तव कन्याम् वै स्वयंग्राहात् अधर्षयत् ॥ ६१ ॥
deva kaścid na jānīte guptaḥ ca aṃtaḥpure balāt .. sa kaḥ tu tava kanyām vai svayaṃgrāhāt adharṣayat .. 61 ..
दानवेन्द्र महाबाहो पश्यपश्यैनमत्र च ॥ यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत ॥ ६२ ॥
दानव-इन्द्र महा-बाहो पश्य पश्य एनम् अत्र च ॥ यत् युक्तम् स्यात् तत् कुरुष्व न दुष्टाः वयम् इति उत ॥ ६२ ॥
dānava-indra mahā-bāho paśya paśya enam atra ca .. yat yuktam syāt tat kuruṣva na duṣṭāḥ vayam iti uta .. 62 ..
सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः ॥ विस्मितोभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः ॥ ६३ ॥
तेषाम् तत् वचनम् श्रुत्वा दानव-इन्द्रः महा-बलः ॥ विस्मितः अभूत् मुनि-श्रेष्ठ कन्यायाः श्रुत-दूषणः ॥ ६३ ॥
teṣām tat vacanam śrutvā dānava-indraḥ mahā-balaḥ .. vismitaḥ abhūt muni-śreṣṭha kanyāyāḥ śruta-dūṣaṇaḥ .. 63 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां पंचमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहि-तायाम् पंचमे युद्ध-खण्डे ऊषाचरित्रवर्णनम् नाम द्विपञ्चाशत्तमः अध्यायः ॥ ५२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhi-tāyām paṃcame yuddha-khaṇḍe ūṣācaritravarṇanam nāma dvipañcāśattamaḥ adhyāyaḥ .. 52 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In