| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ॥ दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥ १ ॥
अथ बाण-असुरः क्रुद्धः तत्र गत्वा ददर्श तम् ॥ दिव्य-लीला-आत्त-वपुषम् प्रथमे वयसि स्थितम् ॥ १ ॥
atha bāṇa-asuraḥ kruddhaḥ tatra gatvā dadarśa tam .. divya-līlā-ātta-vapuṣam prathame vayasi sthitam .. 1 ..
तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ॥ बाणः क्रोध परीतात्मा युधि शौंडो हसन्निव ॥ २॥
तम् दृष्ट्वा विस्मितम् वाक्यम् किम् कारणम् अथ अब्रवीत् ॥ बाणः क्रोध-परीत-आत्मा युधि शौंडः हसन् इव ॥ २॥
tam dṛṣṭvā vismitam vākyam kim kāraṇam atha abravīt .. bāṇaḥ krodha-parīta-ātmā yudhi śauṃḍaḥ hasan iva .. 2..
अहो मनुष्यो रूपाढ्यस्साहसी धैर्यवानिति ॥ कोयमागतकालश्च दुष्टभाग्यो विमूढधीः॥ ३॥
अहो मनुष्यः रूप-आढ्यः साहसी धैर्यवान् इति ॥ दुष्ट-भाग्यः विमूढ-धीः॥ ३॥
aho manuṣyaḥ rūpa-āḍhyaḥ sāhasī dhairyavān iti .. duṣṭa-bhāgyaḥ vimūḍha-dhīḥ.. 3..
येन मे कुलचारित्रं दूषितं दुहिता हिता ॥ तं मारयध्वं कुपिताश्शीघ्रं शस्त्रैस्सुदारुणैः ॥ ४ ॥
येन मे कुल-चारित्रम् दूषितम् दुहिता हिता ॥ तम् मारयध्वम् कुपिताः शीघ्रम् शस्त्रैः सु दारुणैः ॥ ४ ॥
yena me kula-cāritram dūṣitam duhitā hitā .. tam mārayadhvam kupitāḥ śīghram śastraiḥ su dāruṇaiḥ .. 4 ..
दुराचारं च तं बद्ध्वा घोरे कारा गृहे ततः ॥ रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥ ५ ॥
दुराचारम् च तम् बद्ध्वा घोरे काराः गृहे ततस् ॥ रक्षध्वम् विकटे वीराः बहु-कालम् विशेषतः ॥ ५ ॥
durācāram ca tam baddhvā ghore kārāḥ gṛhe tatas .. rakṣadhvam vikaṭe vīrāḥ bahu-kālam viśeṣataḥ .. 5 ..
न जाने कोयमभयः को वा घोरपराक्रमः ॥ विचार्येति महाबुद्धिस्सं दिग्धोऽभूच्छरासुरः ॥ ६ ॥
न जाने कः अयम् अभयः कः वा घोर-पराक्रमः ॥ विचार्य इति महा-बुद्धिः सम् दिग्धः अभूत् शर-असुरः ॥ ६ ॥
na jāne kaḥ ayam abhayaḥ kaḥ vā ghora-parākramaḥ .. vicārya iti mahā-buddhiḥ sam digdhaḥ abhūt śara-asuraḥ .. 6 ..
ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ॥ वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥ ७ ॥
ततस् दैत्येन सैन्यम् तु दश-साहस्रकम् शनैस् ॥ वधाय तस्य वीरस्य व्यादिष्टम् पाप-बुद्धिना ॥ ७ ॥
tatas daityena sainyam tu daśa-sāhasrakam śanais .. vadhāya tasya vīrasya vyādiṣṭam pāpa-buddhinā .. 7 ..
तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् ॥ छादयामासुरत्युग्राश्छिंदि भिंदीति वादिनः ॥ ८ ॥
तद्-आदिष्टाः तु ते वीराः सर्वतस् न्तःपुरम् द्रुतम् ॥ छादयामासुः अति उग्राः छिंदि भिंदि इति वादिनः ॥ ८ ॥
tad-ādiṣṭāḥ tu te vīrāḥ sarvatas ntaḥpuram drutam .. chādayāmāsuḥ ati ugrāḥ chiṃdi bhiṃdi iti vādinaḥ .. 8 ..
शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ॥ अंतःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥ ९ ॥
शत्रु-सैन्यम् ततस् दृष्ट्वा गर्जमानः स यादवः ॥ अंतःपुरम् द्वार-गतम् परिघम् गृह्य च अतुलम् ॥ ९ ॥
śatru-sainyam tatas dṛṣṭvā garjamānaḥ sa yādavaḥ .. aṃtaḥpuram dvāra-gatam parigham gṛhya ca atulam .. 9 ..
निष्क्रांतो भवनात्तस्माद्वज्रहस्त इवांतकः ॥ तेन तान्किंकरान् हत्वा पुनश्चांतःपुरं ययौ ॥ 2.5.53.१० ॥
निष्क्रांतः भवनात् तस्मात् वज्र-हस्तः इव अंतकः ॥ तेन तान् किंकरान् हत्वा पुनर् च अंतःपुरम् ययौ ॥ २।५।५३।१० ॥
niṣkrāṃtaḥ bhavanāt tasmāt vajra-hastaḥ iva aṃtakaḥ .. tena tān kiṃkarān hatvā punar ca aṃtaḥpuram yayau .. 2.5.53.10 ..
एवं दशसहस्राणि सैन्यानि मुनिसत्तम ॥ जघान रोषरक्ताक्षो वर्द्धितश्शिवतेजसा ॥ ११ ॥
एवम् दश-सहस्राणि सैन्यानि मुनि-सत्तम ॥ जघान रोष-रक्त-अक्षः वर्द्धितः शिव-तेजसा ॥ ११ ॥
evam daśa-sahasrāṇi sainyāni muni-sattama .. jaghāna roṣa-rakta-akṣaḥ varddhitaḥ śiva-tejasā .. 11 ..
लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ॥ कुभांडं स गृहीत्वा तु युद्धे शौंडं समाह्वयत् ॥ १२ ॥
लक्षे हते अथ योधानाम् ततस् बाण-असुरः रुषा ॥ कुभांडम् स गृहीत्वा तु युद्धे शौंडम् समाह्वयत् ॥ १२ ॥
lakṣe hate atha yodhānām tatas bāṇa-asuraḥ ruṣā .. kubhāṃḍam sa gṛhītvā tu yuddhe śauṃḍam samāhvayat .. 12 ..
अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महा हवे ॥ प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥ १३ ॥
अनिरुद्धम् महा-बुद्धिम् द्वन्द्व-युद्धे महा-हवे ॥ प्राद्युम्निम् रक्षितम् शैव-तेजसा प्रज्वलत्-तनुम् ॥ १३ ॥
aniruddham mahā-buddhim dvandva-yuddhe mahā-have .. prādyumnim rakṣitam śaiva-tejasā prajvalat-tanum .. 13 ..
ततो दशसहस्राणि तुरगाणां रथोत्तमान् ॥ युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥ १४ ॥
ततस् दश-सहस्राणि तुरगाणाम् रथ-उत्तमान् ॥ युद्ध-प्राप्तेन खड्गेन दैत्य-इन्द्रस्य जघान सः ॥ १४ ॥
tatas daśa-sahasrāṇi turagāṇām ratha-uttamān .. yuddha-prāptena khaḍgena daitya-indrasya jaghāna saḥ .. 14 ..
तद्वधाय ततश्शक्तिं कालवैश्वानरोपमाम् ॥ अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥ १५ ॥
तद्-वधाय ततस् शक्तिम् काल-वैश्वानर-उपमाम् ॥ अनिरुद्धः गृहीत्वा ताम् तया तम् निजघान हि ॥ १५ ॥
tad-vadhāya tatas śaktim kāla-vaiśvānara-upamām .. aniruddhaḥ gṛhītvā tām tayā tam nijaghāna hi .. 15 ..
रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् ॥ स साश्वस्तत्क्षणं वीरस्तत्रैवांतरधीयत ॥ १६ ॥
रथोपस्थे ततस् बाणः तेन शक्ति-आहतः दृढम् ॥ स स अश्वः तद्-क्षणम् वीरः तत्र एव अंतरधीयत ॥ १६ ॥
rathopasthe tatas bāṇaḥ tena śakti-āhataḥ dṛḍham .. sa sa aśvaḥ tad-kṣaṇam vīraḥ tatra eva aṃtaradhīyata .. 16 ..
तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ॥ आलोक्य ककुभस्सर्वास्तस्थौ गिरिरिवाचलः ॥ १७ ॥
तस्मिन् तु अदर्शनम् प्राप्ते प्राद्युम्निः अपराजितम् ॥ आलोक्य ककुभः सर्वाः तस्थौ गिरिः इव अचलः ॥ १७ ॥
tasmin tu adarśanam prāpte prādyumniḥ aparājitam .. ālokya kakubhaḥ sarvāḥ tasthau giriḥ iva acalaḥ .. 17 ..
अदृश्यमानस्तु तदा कूटयोधस्स दानवः ॥ नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥ १८॥
अदृश्यमानः तु तदा कूट-योधः स दानवः ॥ नाना शस्त्र-सहस्रैः तम् जघान हि पुनर् पुनर् ॥ १८॥
adṛśyamānaḥ tu tadā kūṭa-yodhaḥ sa dānavaḥ .. nānā śastra-sahasraiḥ tam jaghāna hi punar punar .. 18..
छद्मनां नागपाशैस्तं बबंध स महाबलः ॥ बलिपुत्रो महावीरश्शिवभक्तश्शरासुरः ॥ १९॥
छद्मनाम् नागपाशैः तम् बबंध स महा-बलः ॥ बलि-पुत्रः महा-वीरः शिव-भक्तः शर-असुरः ॥ १९॥
chadmanām nāgapāśaiḥ tam babaṃdha sa mahā-balaḥ .. bali-putraḥ mahā-vīraḥ śiva-bhaktaḥ śara-asuraḥ .. 19..
तं बद्ध्वा पंजरांतःस्थं कृत्वा युद्धादुपारमत्॥ उवाच बाणः संकुद्धस्सूतपुत्रं महाबलम् ॥ 2.5.53.२० ॥
तम् बद्ध्वा पंजर-अंतःस्थम् कृत्वा युद्धात् उपारमत्॥ उवाच बाणः संकुद्धः सूतपुत्रम् महा-बलम् ॥ २।५।५३।२० ॥
tam baddhvā paṃjara-aṃtaḥstham kṛtvā yuddhāt upāramat.. uvāca bāṇaḥ saṃkuddhaḥ sūtaputram mahā-balam .. 2.5.53.20 ..
बाणासुर उवाच।।
सूतपुत्र शिरश्छिंधि पुरुषस्यास्य वै लघु ॥ येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥ २१ ॥
सूतपुत्र शिरः छिंधि पुरुषस्य अस्य वै लघु ॥ येन मे दूषितम् पूतम् बलात् दुष्टेन सत्-कुलम् ॥ २१ ॥
sūtaputra śiraḥ chiṃdhi puruṣasya asya vai laghu .. yena me dūṣitam pūtam balāt duṣṭena sat-kulam .. 21 ..
छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ॥ अथास्य रक्तमांसानि क्रव्यादा अपि भुंजताम् ॥ २२॥
छित्वा तु सर्व-गात्राणि राक्षसेभ्यः प्रयच्छ भोः ॥ अथ अस्य रक्त-मांसानि क्रव्यादाः अपि भुंजताम् ॥ २२॥
chitvā tu sarva-gātrāṇi rākṣasebhyaḥ prayaccha bhoḥ .. atha asya rakta-māṃsāni kravyādāḥ api bhuṃjatām .. 22..
अगाधे तृणसंकीर्णे कूपे पातकिनं जहि ॥ किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥ २३॥
अगाधे तृण-संकीर्णे कूपे पातकिनम् जहि ॥ किम् बहु-उक्त्या सूतपुत्र मारणीयः हि सर्वथा ॥ २३॥
agādhe tṛṇa-saṃkīrṇe kūpe pātakinam jahi .. kim bahu-uktyā sūtaputra māraṇīyaḥ hi sarvathā .. 23..
सनत्कु मार उवाच।।
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ॥ कुंभांडस्त्वब्रवीद्वाक्यं बाणं सन्मंत्रिसत्तमम् ॥ २४॥
तस्य तत् वचनम् श्रुत्वा धर्मबुद्धिः निशाचरः ॥ कुंभांडः तु अब्रवीत् वाक्यम् बाणम् सत्-मंत्रि-सत्तमम् ॥ २४॥
tasya tat vacanam śrutvā dharmabuddhiḥ niśācaraḥ .. kuṃbhāṃḍaḥ tu abravīt vākyam bāṇam sat-maṃtri-sattamam .. 24..
कुंभांड उवाच ।।
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम्॥ अस्मिन्हते हतो ह्यात्मा भवेदिति मतिर्मम॥ २५॥
न एतत् कर्तुम् समुचितम् कर्म देव विचार्यताम्॥ अस्मिन् हते हतः हि आत्मा भवेत् इति मतिः मम॥ २५॥
na etat kartum samucitam karma deva vicāryatām.. asmin hate hataḥ hi ātmā bhavet iti matiḥ mama.. 25..
अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः॥ वर्धितश्चन्द्र चूडस्य त्वद्दुष्टस्य सुतेचसा ॥ २६॥
अयम् तु दृश्यते देव तुल्यः विष्णोः पराक्रमैः॥ वर्धितः चन्द्र चूडस्य त्वद्-दुष्टस्य सुत-ईचसा ॥ २६॥
ayam tu dṛśyate deva tulyaḥ viṣṇoḥ parākramaiḥ.. vardhitaḥ candra cūḍasya tvad-duṣṭasya suta-īcasā .. 26..
अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ॥ इमामवस्थां प्राप्तोसि पौरुषे संव्यवस्थितः ॥ २७॥
अथ चन्द्रललाटस्य साहसेन समत् स्वयम् ॥ इमाम् अवस्थाम् प्राप्तः असि पौरुषे संव्यवस्थितः ॥ २७॥
atha candralalāṭasya sāhasena samat svayam .. imām avasthām prāptaḥ asi pauruṣe saṃvyavasthitaḥ .. 27..
अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः ॥ अस्मांस्तृणोपमान् वेत्ति दष्टोपि भुजगैर्बलात् ॥ २८ ॥
अयम् शिव-प्रसादात् वै कृष्ण-पौत्रः महा-बलः ॥ अस्मान् तृण-उपमान् वेत्ति दष्टः अपि भुजगैः बलात् ॥ २८ ॥
ayam śiva-prasādāt vai kṛṣṇa-pautraḥ mahā-balaḥ .. asmān tṛṇa-upamān vetti daṣṭaḥ api bhujagaiḥ balāt .. 28 ..
सनत्कुमार उवाच ।।
एतद्वाक्यं तु बाणाय कथयित्वा स दानवः ॥ अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ॥ २९ ॥
एतत् वाक्यम् तु बाणाय कथयित्वा स दानवः ॥ अनिरुद्धम् उवाच इदम् राज-नीति-विद्-उत्तमः ॥ २९ ॥
etat vākyam tu bāṇāya kathayitvā sa dānavaḥ .. aniruddham uvāca idam rāja-nīti-vid-uttamaḥ .. 29 ..
कुंभांड उवाच ।।
कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः ॥ केन वा त्वमिहानीतो दुराचार नराधम ॥ 2.5.53.३०॥
कः असि कस्य असि रे वीर सत्यम् वद मम अग्रतस् ॥ केन वा त्वम् इह आनीतः दुराचार नर-अधम ॥ २।५।५३।३०॥
kaḥ asi kasya asi re vīra satyam vada mama agratas .. kena vā tvam iha ānītaḥ durācāra nara-adhama .. 2.5.53.30..
दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः ॥ जितोस्मीति वचो दीनं कथयित्वा पुनःपुनः ॥ ३१ ॥
दैत्य-इन्द्रम् स्तुहि वीरम् त्वम् नमस्कुरु कृत-आजलिः ॥ जितः अस्मि इति वचः दीनम् कथयित्वा पुनर् पुनर् ॥ ३१ ॥
daitya-indram stuhi vīram tvam namaskuru kṛta-ājaliḥ .. jitaḥ asmi iti vacaḥ dīnam kathayitvā punar punar .. 31 ..
एवं कृते तु मोक्षस्स्यादन्यथा बंधनादि च ॥ तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ॥ ३२॥
एवम् कृते तु मोक्षः स्यात् अन्यथा बंधन-आदि च ॥ तत् श्रुत्वा वचनम् तस्य प्रतिवाक्यम् उवाच सः ॥ ३२॥
evam kṛte tu mokṣaḥ syāt anyathā baṃdhana-ādi ca .. tat śrutvā vacanam tasya prativākyam uvāca saḥ .. 32..
अनिरुद्ध उवाच ।।
दैत्याऽधमसखे करर्पिडोपजीवक ॥ निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ॥ ३३॥
दैत्य-अधम-सखे करर्पिड-उपजीवक ॥ निशाचर दुराचार शत्रु-धर्मम् न वेत्सि भोः ॥ ३३॥
daitya-adhama-sakhe kararpiḍa-upajīvaka .. niśācara durācāra śatru-dharmam na vetsi bhoḥ .. 33..
दैन्यं पलायनं चाथ शूरस्य मरणाधिकम्॥ विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ॥ ३४॥
दैन्यम् पलायनम् च अथ शूरस्य मरण-अधिकम्॥ विरुद्धम् च उपशल्यम् च भवेत् इति मतिः मम ॥ ३४॥
dainyam palāyanam ca atha śūrasya maraṇa-adhikam.. viruddham ca upaśalyam ca bhavet iti matiḥ mama .. 34..
क्षत्रियस्य रणे श्रेयो मरणं सन्मुखे सदा ॥ न वीरमानिनो भूमौ दीनस्येव कृतांजलिः ॥ ३५ ॥
क्षत्रियस्य रणे श्रेयः मरणम् सत्-मुखे सदा ॥ न वीर-मानिनः भूमौ दीनस्य इव कृतांजलिः ॥ ३५ ॥
kṣatriyasya raṇe śreyaḥ maraṇam sat-mukhe sadā .. na vīra-māninaḥ bhūmau dīnasya iva kṛtāṃjaliḥ .. 35 ..
सनत्कुमार उवाच ।।
इत्यादि वीरवाक्यानि बहूनि स जगाद तम् ॥ तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च ॥ ३६ ॥
इत्यादि वीर-वाक्यानि बहूनि स जगाद तम् ॥ तत् आकर्ण्य स बाणः असौ विस्मितः अभूत् चुकोप च ॥ ३६ ॥
ityādi vīra-vākyāni bahūni sa jagāda tam .. tat ākarṇya sa bāṇaḥ asau vismitaḥ abhūt cukopa ca .. 36 ..
तदोवाच नभोवाणी बाणस्याश्वासनाय हि ॥ शृण्वतां सर्ववीराणामनिरुद्धस्य मंत्रिणः ॥ ३७ ॥
तदा उवाच नभः-वाणी बाणस्य आश्वासनाय हि ॥ शृण्वताम् सर्व-वीराणाम् अनिरुद्धस्य मंत्रिणः ॥ ३७ ॥
tadā uvāca nabhaḥ-vāṇī bāṇasya āśvāsanāya hi .. śṛṇvatām sarva-vīrāṇām aniruddhasya maṃtriṇaḥ .. 37 ..
व्योमवाण्युवाच ।।
भो भो बाण महावीर न क्रोधं कर्तुमर्हसि ॥ बलिपुत्रोसि सुमते शिवभक्त विचार्यताम् ॥ ३८ ॥
भो भो बाण महावीर न क्रोधम् कर्तुम् अर्हसि ॥ बलि-पुत्रः असि सुमते शिव-भक्त विचार्यताम् ॥ ३८ ॥
bho bho bāṇa mahāvīra na krodham kartum arhasi .. bali-putraḥ asi sumate śiva-bhakta vicāryatām .. 38 ..
शिवस्सर्वेश्वरस्साक्षी कर्मणां परमेश्वरः ॥ तदधीनमिदं सर्वं जगद्वै सचराचरम् ॥ ३९॥
शिवः सर्व-ईश्वरः साक्षी कर्मणाम् परम-ईश्वरः ॥ तद्-अधीनम् इदम् सर्वम् जगत् वै सचराचरम् ॥ ३९॥
śivaḥ sarva-īśvaraḥ sākṣī karmaṇām parama-īśvaraḥ .. tad-adhīnam idam sarvam jagat vai sacarācaram .. 39..
स एव कर्ता भर्ता च संहर्ता जगतां सदा॥ रजस्सत्त्वतमोधारी विधिविष्णुहरात्मकः ॥ 2.5.53.४०॥
सः एव कर्ता भर्ता च संहर्ता जगताम् सदा॥ ॥ २।५।५३।४०॥
saḥ eva kartā bhartā ca saṃhartā jagatām sadā.. .. 2.5.53.40..
सर्वस्यांतर्गतः स्वामी प्रेरकस्सर्वतः परः ॥ निर्विकार्यव्ययो नित्यो मायाधीशोपि निर्गुणः ॥ ४१॥
सर्वस्य अंतर्गतः स्वामी प्रेरकः सर्वतस् परः ॥ निर्विकारि-अव्ययः नित्यः माया-अधीशः अपि निर्गुणः ॥ ४१॥
sarvasya aṃtargataḥ svāmī prerakaḥ sarvatas paraḥ .. nirvikāri-avyayaḥ nityaḥ māyā-adhīśaḥ api nirguṇaḥ .. 41..
तस्येच्छयाऽबलो ज्ञेयो बली बलि वरात्मज ॥ इति विज्ञाय मनसि स्वस्थो भव महामते ॥ ४२॥
तस्य इच्छया अबलः ज्ञेयः बली बलि वर-आत्मज ॥ इति विज्ञाय मनसि स्वस्थः भव महामते ॥ ४२॥
tasya icchayā abalaḥ jñeyaḥ balī bali vara-ātmaja .. iti vijñāya manasi svasthaḥ bhava mahāmate .. 42..
गर्वापहारी भगवान्ना नालीलाविशारदः॥ नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ॥ ४३॥
॥ नाशयिष्यति ते गर्वम् इदानीम् भक्त-वत्सलः ॥ ४३॥
.. nāśayiṣyati te garvam idānīm bhakta-vatsalaḥ .. 43..
सनत्कुमार उवाच।।
इत्याभाष्य नभोवाणी विरराम महामुने ॥ बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ॥ ॥ ४४ ॥
इति आभाष्य नभः-वाणी विरराम महा-मुने ॥ बाण-असुरः तद्-वचनात् अनिरुद्धम् न जघ्निवान् ॥ ॥ ४४ ॥
iti ābhāṣya nabhaḥ-vāṇī virarāma mahā-mune .. bāṇa-asuraḥ tad-vacanāt aniruddham na jaghnivān .. .. 44 ..
किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् ॥ मद्वाक्यं च विसस्मार विजहार विरुद्धधीः ॥ ४५ ॥
किम् तु स्व-अन्तःपुरम् गत्वा पपौ पानम् अनुत्तमम् ॥ मद्-वाक्यम् च विसस्मार विजहार विरुद्ध-धीः ॥ ४५ ॥
kim tu sva-antaḥpuram gatvā papau pānam anuttamam .. mad-vākyam ca visasmāra vijahāra viruddha-dhīḥ .. 45 ..
ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः ॥ प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ॥ ४६ ॥
ततोनिरुद्धः बद्धः तु नागभोगैः विष-उल्बणैः ॥ प्रियया अतृप्त-चेताः तु दुर्गाम् सस्मार तद्-क्षणात् ॥ ४६ ॥
tatoniruddhaḥ baddhaḥ tu nāgabhogaiḥ viṣa-ulbaṇaiḥ .. priyayā atṛpta-cetāḥ tu durgām sasmāra tad-kṣaṇāt .. 46 ..
अनिरुद्ध उवाच ।।
शरण्ये देवि बद्धोस्मि दह्यमानस्तु पन्नगैः ॥ आगच्छ मे कुरु त्राणं यशोदे चंडरोषिणि ॥ ४७ ॥
शरण्ये देवि बद्धः अस्मि दह्यमानः तु पन्नगैः ॥ आगच्छ मे कुरु त्राणम् यशोदे चंड-रोषिणि ॥ ४७ ॥
śaraṇye devi baddhaḥ asmi dahyamānaḥ tu pannagaiḥ .. āgaccha me kuru trāṇam yaśode caṃḍa-roṣiṇi .. 47 ..
शिवभक्ते महादेवि सृष्टिस्थित्यंतकारिणी ॥ त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ॥ ४८ ॥
शिव-भक्ते महादेवि सृष्टि-स्थिति-अन्त-कारिणी ॥ त्वाम् विना रक्षकः ना अन्यः तस्मात् रक्ष शिवे हि माम् ॥ ४८ ॥
śiva-bhakte mahādevi sṛṣṭi-sthiti-anta-kāriṇī .. tvām vinā rakṣakaḥ nā anyaḥ tasmāt rakṣa śive hi mām .. 48 ..
सनत्कुमार उवाच।।
तेनेत्थं तोषिता तत्र काली भिन्नांजनप्रभा ॥ ज्येष्ठकृष्णचतुर्दश्यां संप्राप्तासीन्महानिशि ॥ ४९॥
तेन इत्थम् तोषिता तत्र काली भिन्न-अंजन-प्रभा ॥ ज्येष्ठ-कृष्ण-चतुर्दश्याम् संप्राप्ता आसीत् महा-निशि ॥ ४९॥
tena ittham toṣitā tatra kālī bhinna-aṃjana-prabhā .. jyeṣṭha-kṛṣṇa-caturdaśyām saṃprāptā āsīt mahā-niśi .. 49..
गुरुभिर्मुष्टिनिर्घातैर्दारयामास पंजरम् ॥ शरांस्तान्भस्मसात्कृत्वा सर्परूपान्भयानकान् ॥ 2.5.53.५० ॥
गुरुभिः मुष्टि-निर्घातैः दारयामास पंजरम् ॥ शरान् तान् भस्मसात्कृत्वा सर्प-रूपान् भयानकान् ॥ २।५।५३।५० ॥
gurubhiḥ muṣṭi-nirghātaiḥ dārayāmāsa paṃjaram .. śarān tān bhasmasātkṛtvā sarpa-rūpān bhayānakān .. 2.5.53.50 ..
मोचयित्वा निरुद्धं तु ततश्चांतःपुरं ततः ॥ प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ॥ ५१॥
मोचयित्वा निरुद्धम् तु ततस् च अंतःपुरम् ततस् ॥ प्रवेशयित्वा दुर्गा तु तत्र एव अदर्शनम् गता ॥ ५१॥
mocayitvā niruddham tu tatas ca aṃtaḥpuram tatas .. praveśayitvā durgā tu tatra eva adarśanam gatā .. 51..
इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर ॥ कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः ॥ ५२॥
इत्थम् देव्याः प्रसादात् तु शिव-शक्तेः मुनि-ईश्वर ॥ कृच्छ्र-मुक्तः निरुद्धः भूत् सुखी च एव गत-व्यथः ॥ ५२॥
ittham devyāḥ prasādāt tu śiva-śakteḥ muni-īśvara .. kṛcchra-muktaḥ niruddhaḥ bhūt sukhī ca eva gata-vyathaḥ .. 52..
अथ लब्धजयो भूत्वानिरुद्धश्शिवशक्तितः॥ प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च॥ ५३॥
अथ लब्ध-जयः भूत्वा अनिरुद्धः शिव-शक्तितः॥ प्राद्युम्निः बाण-तनयाम् प्रियाम् प्राप्य मुमोद च॥ ५३॥
atha labdha-jayaḥ bhūtvā aniruddhaḥ śiva-śaktitaḥ.. prādyumniḥ bāṇa-tanayām priyām prāpya mumoda ca.. 53..
पूर्वंवद्विजहारासौ? तया स्वप्रियया सुखी॥ पीतपानस्सुरक्ताक्षस्स बाणसुतया ततः॥ ५४॥
पूर्वंवत् विजहार असौ? तया स्व-प्रियया सुखी॥ पीत-पानः सु रक्त-अक्षः स बाण-सुतया ततस्॥ ५४॥
pūrvaṃvat vijahāra asau? tayā sva-priyayā sukhī.. pīta-pānaḥ su rakta-akṣaḥ sa bāṇa-sutayā tatas.. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपंचाशत्तमो ऽध्याय ॥ ५३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे ऊषा-चरित्रे अनिरुद्धोषाविहारवर्णनं नाम त्रिपंचाशत्तमः अध्याय ॥ ५३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe ūṣā-caritre aniruddhoṣāvihāravarṇanaṃ nāma tripaṃcāśattamaḥ adhyāya .. 53 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In