| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ॥ कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद ॥ १ ॥
अनिरुद्धे पौत्रे कृष्णस्य मुनि-सत्तम ॥ कुंभांड-सुतया कृष्णः किम् अकार्षीत् हि तत् वद ॥ १ ॥
aniruddhe pautre kṛṣṇasya muni-sattama .. kuṃbhāṃḍa-sutayā kṛṣṇaḥ kim akārṣīt hi tat vada .. 1 ..
सनत्कुमार उवाच ।।
ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ॥ श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥ २ ॥
ततस् गते अनिरुद्धे तु तद्-स्त्रीणाम् रोदन-स्वनम् ॥ श्रुत्वा च व्यथितः कृष्णः बभूव मुनि-सत्तम ॥ २ ॥
tatas gate aniruddhe tu tad-strīṇām rodana-svanam .. śrutvā ca vyathitaḥ kṛṣṇaḥ babhūva muni-sattama .. 2 ..
अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ॥ चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ ३ ॥
अपश्यताम् च अनिरुद्धम् तद्-बंधूनाम् हरेः तथा ॥ चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ ३ ॥
apaśyatām ca aniruddham tad-baṃdhūnām hareḥ tathā .. catvāraḥ vārṣikāḥ māsāḥ vyatīyuḥ anuśocatām .. 3 ..
नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ॥ आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः ॥ ४॥ !
नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च ॥ आसन् सु व्यथिताः सर्वे वृष्णयः कृष्ण-देवताः ॥ ४॥ !
nāradāt tat upākarṇya vārtām baddhasya karma ca .. āsan su vyathitāḥ sarve vṛṣṇayaḥ kṛṣṇa-devatāḥ .. 4.. !
कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ॥ जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥ ५ ॥
कृष्णः तद्-वृत्तम् अखिलम् श्रुत्वा युद्धाय च आदरात् ॥ जगाम शोणितपुरम् तार्क्ष्यम् आहूय तद्-क्षणात् ॥ ५ ॥
kṛṣṇaḥ tad-vṛttam akhilam śrutvā yuddhāya ca ādarāt .. jagāma śoṇitapuram tārkṣyam āhūya tad-kṣaṇāt .. 5 ..
प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ॥ नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः ॥ ६ ॥
प्रद्युम्नः युयुधानः च सारणः ॥ नंद-उपनंद-भद्र-आद्याः रामकृष्ण-अनुवर्तिनः ॥ ६ ॥
pradyumnaḥ yuyudhānaḥ ca sāraṇaḥ .. naṃda-upanaṃda-bhadra-ādyāḥ rāmakṛṣṇa-anuvartinaḥ .. 6 ..
अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ॥ रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः ॥ ७ ॥
अक्षौहिणीभिः द्वादशभिः समेताः सर्वतस् दिशम् ॥ रुरुधुः बाण-नगरम् समंतात् सात्वत-ऋषभाः ॥ ७ ॥
akṣauhiṇībhiḥ dvādaśabhiḥ sametāḥ sarvatas diśam .. rurudhuḥ bāṇa-nagaram samaṃtāt sātvata-ṛṣabhāḥ .. 7 ..
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ॥ वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ ॥ ८॥
भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम् ॥ वीक्ष्यमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ८॥
bhajyamāna-pura-udyāna-prākāra-aṭṭāla-gopuram .. vīkṣyamāṇaḥ ruṣā āviṣṭaḥ tulya-sainyaḥ abhiniryayau .. 8..
बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ॥ आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥ ९ ॥
बाण-अर्थे भगवान् रुद्रः स सुतः प्रमथैः वृतः ॥ आरुह्य नन्दिवृषभम् युद्धम् कर्त्तुम् समाययौ ॥ ९ ॥
bāṇa-arthe bhagavān rudraḥ sa sutaḥ pramathaiḥ vṛtaḥ .. āruhya nandivṛṣabham yuddham karttum samāyayau .. 9 ..
आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ॥ कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥ 2.5.54.१०॥
आसीत् सु तुमुलम् युद्धम् अद्भुतम् लोम-हर्षणम् ॥ कृष्ण-आदिकानाम् तैः तत्र रुद्र-आद्यैः बाण-रक्षकैः ॥ २।५।५४।१०॥
āsīt su tumulam yuddham adbhutam loma-harṣaṇam .. kṛṣṇa-ādikānām taiḥ tatra rudra-ādyaiḥ bāṇa-rakṣakaiḥ .. 2.5.54.10..
कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि॥ कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः ॥ ११॥
कृष्ण-शंकरयोः आसीत् प्रद्युम्न-गुहयोः अपि॥ कूष्मांड-कूप-कर्णाभ्याम् बलेन सह संयुगः ॥ ११॥
kṛṣṇa-śaṃkarayoḥ āsīt pradyumna-guhayoḥ api.. kūṣmāṃḍa-kūpa-karṇābhyām balena saha saṃyugaḥ .. 11..
सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ नन्दिना गरुडस्यापि परेषां च परैरपि ॥ १२॥
सांबस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ नन्दिना गरुडस्य अपि परेषाम् च परैः अपि ॥ १२॥
sāṃbasya bāṇa-putreṇa bāṇena saha sātyakeḥ .. nandinā garuḍasya api pareṣām ca paraiḥ api .. 12..
ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ॥ गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥ १३॥
ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः ॥ गंधर्व-अप्सरसः यानैः विमानैः द्रष्टुम् आगमन् ॥ १३॥
brahma-ādayaḥ sura-adhīśāḥ munayaḥ siddha-cāraṇāḥ .. gaṃdharva-apsarasaḥ yānaiḥ vimānaiḥ draṣṭum āgaman .. 13..
प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ॥ युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥ १४॥
प्रमथैः विविध-आकारैः रेवती-अन्तैः सु दारुणम् ॥ युद्धम् बभूव विप्र-इन्द्र तेषाम् च यदु-वंशिनाम् ॥ १४॥
pramathaiḥ vividha-ākāraiḥ revatī-antaiḥ su dāruṇam .. yuddham babhūva vipra-indra teṣām ca yadu-vaṃśinām .. 14..
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता॥ कृष्णश्चकार समरमतुलं प्रमथैस्सह॥ १५॥
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता॥ कृष्णः चकार समरम् अतुलम् प्रमथैः सह॥ १५॥
bhrātrā rāmeṇa sahitaḥ pradyumnena ca dhīmatā.. kṛṣṇaḥ cakāra samaram atulam pramathaiḥ saha.. 15..
तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ॥ विमुखेन त्रिपादेन ज्वरेण च गुहेन च॥ १६॥
तत्र अग्निना अभवत् युद्धम् यमेन वरुणेन च ॥ विमुखेन त्रिपादेन ज्वरेण च गुहेन च॥ १६॥
tatra agninā abhavat yuddham yamena varuṇena ca .. vimukhena tripādena jvareṇa ca guhena ca.. 16..
प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ॥ युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥ १७॥
प्रमथैः विविध-आकारैः तेषाम् अन्यम् तदा अरुणम् ॥ युद्धम् बभूव विकटम् वृष्णीनाम् रोम-हर्षणम् ॥ १७॥
pramathaiḥ vividha-ākāraiḥ teṣām anyam tadā aruṇam .. yuddham babhūva vikaṭam vṛṣṇīnām roma-harṣaṇam .. 17..
विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ॥ निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥ १८ ॥
विभीषिकाभिः बह्वीभिः कोटरीभिः पदे पदे ॥ निर्ल्लज्जाभिः च नारीभिः प्रबलाभिः अदूरतः ॥ १८ ॥
vibhīṣikābhiḥ bahvībhiḥ koṭarībhiḥ pade pade .. nirllajjābhiḥ ca nārībhiḥ prabalābhiḥ adūrataḥ .. 18 ..
शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ॥ द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ १९ ॥
शंकर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान् ॥ द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ १९ ॥
śaṃkara-anucarān śauriḥ bhūta-pramatha-guhyakān .. drāvayāmāsa tīkṣṇa-agraiḥ śaraiḥ śārṅga-dhanuḥ-cyutaiḥ .. 19 ..
एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ॥ चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥ 2.5.54.२० ॥
एवम् प्रद्युम्न-प्रमुखाः वीराः युद्ध-महा-उत्सवाः ॥ चक्रुः युद्धम् महा-घोरम् शत्रु-सैन्यम् विनाशयन् ॥ २।५।५४।२० ॥
evam pradyumna-pramukhāḥ vīrāḥ yuddha-mahā-utsavāḥ .. cakruḥ yuddham mahā-ghoram śatru-sainyam vināśayan .. 2.5.54.20 ..
विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः॥ क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥ २१ ॥
विशीर्यमाणम् स्व-बलम् दृष्ट्वा॥ क्रोधम् चकार सु महत् अनाद च महा-उल्बणम् ॥ २१ ॥
viśīryamāṇam sva-balam dṛṣṭvā.. krodham cakāra su mahat anāda ca mahā-ulbaṇam .. 21 ..
तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ॥ मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा ॥ २२॥
तत् श्रुत्वा शंकर-गणाः विनेदुः युयुधुः च ते ॥ मर्दयन् प्रतियोद्धारम् वर्द्धिताः शंभु-तेजसा ॥ २२॥
tat śrutvā śaṃkara-gaṇāḥ vineduḥ yuyudhuḥ ca te .. mardayan pratiyoddhāram varddhitāḥ śaṃbhu-tejasā .. 22..
पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ॥ प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः ॥ २३॥
पृथग्विधानि च अयुक्तम् शार्ङ्ग-अस्त्राणि पिनाकिने ॥ प्रत्यक्षैः शमयामास शूलपाणिः अविस्मितः ॥ २३॥
pṛthagvidhāni ca ayuktam śārṅga-astrāṇi pinākine .. pratyakṣaiḥ śamayāmāsa śūlapāṇiḥ avismitaḥ .. 23..
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ॥ आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥ २४॥
ब्रह्मास्त्रस्य च ब्रह्मास्त्रम् वायव्यस्य च पार्वतम् ॥ आग्नेयस्य च पार्जन्यम् नैजम् नारायणस्य च ॥ २४॥
brahmāstrasya ca brahmāstram vāyavyasya ca pārvatam .. āgneyasya ca pārjanyam naijam nārāyaṇasya ca .. 24..
कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ॥ न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥ २५॥
कृष्ण-सैन्यम् विदुद्राव प्रतिवीरेण निर्जितम् ॥ न तस्थौ समरे व्यास पूर्ण-रुद्र-सु तेजसा ॥ २५॥
kṛṣṇa-sainyam vidudrāva prativīreṇa nirjitam .. na tasthau samare vyāsa pūrṇa-rudra-su tejasā .. 25..
विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ॥ स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने ॥ २६॥
विद्राविते स्व-सैन्ये तु श्री-कृष्णः च परंतपः ॥ स्वम् ज्वरम् शीतल-आख्यम् हि व्यसृजत् दारुणम् मुने ॥ २६॥
vidrāvite sva-sainye tu śrī-kṛṣṇaḥ ca paraṃtapaḥ .. svam jvaram śītala-ākhyam hi vyasṛjat dāruṇam mune .. 26..
विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ॥ अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥ २७॥
विद्राविते कृष्ण-सैन्ये कृष्णस्य शीतल-ज्वरः ॥ अभ्यपद्यत तम् रुद्रम् मुने दश-दिशः दहन् ॥ २७॥
vidrāvite kṛṣṇa-sainye kṛṣṇasya śītala-jvaraḥ .. abhyapadyata tam rudram mune daśa-diśaḥ dahan .. 27..
महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम्॥ माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २८॥
तम् दृष्ट्वा आयान्तम् स्वम् विसृजत् ज्वरम्॥ माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २८॥
tam dṛṣṭvā āyāntam svam visṛjat jvaram.. māheśvaraḥ vaiṣṇavaḥ ca yuyudhāte jvarau ubhau .. 28..
वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ॥ अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम् ॥ २९ ॥
वैष्णवः अथ समाक्रदत् माहेश्वर-बल-अर्दितः ॥ अ लब्ध्वा भयम् अन्यत्र तुष्टाव वृषभध्वजम् ॥ २९ ॥
vaiṣṇavaḥ atha samākradat māheśvara-bala-arditaḥ .. a labdhvā bhayam anyatra tuṣṭāva vṛṣabhadhvajam .. 29 ..
अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ॥ विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥ 2.5.54.३० ॥
अथ प्रसन्नः भगवान् विष्णु-ज्वर-नुतः हरः ॥ विष्णुशीतज्वरम् प्राह शरण-आगत-वत्सलः ॥ २।५।५४।३० ॥
atha prasannaḥ bhagavān viṣṇu-jvara-nutaḥ haraḥ .. viṣṇuśītajvaram prāha śaraṇa-āgata-vatsalaḥ .. 2.5.54.30 ..
महेश्वर उवाच ।।
शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ॥ यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥ ३१ ॥
शीतज्वर प्रसन्नः अहम् व्येतु ते मद्-ज्वरात् भयम् ॥ यः नौ स्मरति संवादम् तस्य न स्यात् ज्वरात् भयम् ॥ ३१ ॥
śītajvara prasannaḥ aham vyetu te mad-jvarāt bhayam .. yaḥ nau smarati saṃvādam tasya na syāt jvarāt bhayam .. 31 ..
सनत्कुमार उवाच ।।
इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ॥ तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥ ३२॥
इति उक्तः रुद्रम् आनम्य गतः नारायण-ज्वरः ॥ तम् दृष्ट्वा चरितम् कृष्णः विसिस्माय भय-अन्वितः ॥ ३२॥
iti uktaḥ rudram ānamya gataḥ nārāyaṇa-jvaraḥ .. tam dṛṣṭvā caritam kṛṣṇaḥ visismāya bhaya-anvitaḥ .. 32..
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ॥ जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः ॥ ३३॥
स्कन्द प्रद्युम्न-बाण-ओघैः अर्द्यमानः अथ कोपितः ॥ जघान शक्त्या प्रद्युम्नम् दैत्य-संघ-अति अमर्षणः ॥ ३३॥
skanda pradyumna-bāṇa-oghaiḥ ardyamānaḥ atha kopitaḥ .. jaghāna śaktyā pradyumnam daitya-saṃgha-ati amarṣaṇaḥ .. 33..
स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि॥ असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥ ३४ ॥
स्कंद-प्राप्ति-हतः तत्र प्रद्युम्नः प्रबलः उपि हि॥ असृज् विमुंचन् गात्रेभ्यः बलेन अपाक्रमत् रणात् ॥ ३४ ॥
skaṃda-prāpti-hataḥ tatra pradyumnaḥ prabalaḥ upi hi.. asṛj vimuṃcan gātrebhyaḥ balena apākramat raṇāt .. 34 ..
कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ॥ दुद्राव बलभद्रोपि न तस्थेपि रणे बली ॥ ३५ ॥
कुंभांड-कूप-कर्णाभ्याम् नाना अस्त्रैः च समाहतः ॥ दुद्राव बलभद्रः उपि न तस्थे इपि रणे बली ॥ ३५ ॥
kuṃbhāṃḍa-kūpa-karṇābhyām nānā astraiḥ ca samāhataḥ .. dudrāva balabhadraḥ upi na tasthe ipi raṇe balī .. 35 ..
कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ॥ गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः ॥ ३६॥
कृत्वा सहस्रम् कायानाम् पीत्वा तोयम् महा-अर्णवात् ॥ गरुडः नाशयति अर्थ-आवर्तैः मेघ-अर्णव-अंबुभिः ॥ ३६॥
kṛtvā sahasram kāyānām pītvā toyam mahā-arṇavāt .. garuḍaḥ nāśayati artha-āvartaiḥ megha-arṇava-aṃbubhiḥ .. 36..
अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ॥ वेगेन महतारं वै शृंगाभ्यां निजघान तम् ॥ ३७ ॥
अथ क्रुद्धः महेशस्य वाहनः वृषभः बली ॥ वेगेन महता अरम् वै शृंगाभ्याम् निजघान तम् ॥ ३७ ॥
atha kruddhaḥ maheśasya vāhanaḥ vṛṣabhaḥ balī .. vegena mahatā aram vai śṛṃgābhyām nijaghāna tam .. 37 ..
शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ॥ विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥ ३८ ॥
शृंग-घात-विशीर्ण-अंगः गरुडः अतीव विस्मितः ॥ विदुद्राव रणात् तूर्णम् विहाय च जनार्दनम् ॥ ३८ ॥
śṛṃga-ghāta-viśīrṇa-aṃgaḥ garuḍaḥ atīva vismitaḥ .. vidudrāva raṇāt tūrṇam vihāya ca janārdanam .. 38 ..
एवं जाते चरित्रं तु भगवान्देवकीसुतः ॥ उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ॥ ३९ ॥
एवम् जाते चरित्रम् तु भगवान् देवकी-सुतः ॥ उवाच सारथिम् शीघ्रम् रुद्र-तेज-ऊति-विस्मितः ॥ ३९ ॥
evam jāte caritram tu bhagavān devakī-sutaḥ .. uvāca sārathim śīghram rudra-teja-ūti-vismitaḥ .. 39 ..
श्रीकृष्ण उवाच ।।
हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ॥ महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥ 2.5.54.४०॥
हे सूत शृणु मद्-वाक्यम् रथम् मे वाहय द्रुतम् ॥ महादेव-समीप-स्थः यथा स्याम् गदितुम् वचः ॥ २।५।५४।४०॥
he sūta śṛṇu mad-vākyam ratham me vāhaya drutam .. mahādeva-samīpa-sthaḥ yathā syām gaditum vacaḥ .. 2.5.54.40..
सनत्कुमार उवाच ।।
इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ॥ द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥ ४१ ॥
इति उक्तः हरिणा सूतः दारुकः स्व-गुण-अग्रणीः ॥ द्रुतम् तम् वाहयामास रथम् रुद्र-समीपतः ॥ ४१ ॥
iti uktaḥ hariṇā sūtaḥ dārukaḥ sva-guṇa-agraṇīḥ .. drutam tam vāhayāmāsa ratham rudra-samīpataḥ .. 41 ..
अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ॥ श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ॥ ४२ ॥
अथ विज्ञापयामास नतः भूत्वा कृतांजलिः ॥ श्री-कृष्णः शंकरम् भक्त्या प्रपन्नः भक्त-वत्सलम् ॥ ४२ ॥
atha vijñāpayāmāsa nataḥ bhūtvā kṛtāṃjaliḥ .. śrī-kṛṣṇaḥ śaṃkaram bhaktyā prapannaḥ bhakta-vatsalam .. 42 ..
श्रीकृष्ण उवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३ ॥
देवदेव महादेव शरण-आगत-वत्सल ॥ नमामि त्वा अनन्तशक्तिम् सर्वात्मानम् पर-ईश्वरम् ॥ ४३ ॥
devadeva mahādeva śaraṇa-āgata-vatsala .. namāmi tvā anantaśaktim sarvātmānam para-īśvaram .. 43 ..
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ॥ ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम् ॥ ४४ ॥
विश्व-उत्पत्ति-स्थान-नाश-हेतुम् सत्-ज्ञप्ति मात्रकम् ॥ ब्रह्मलिंगम् परम् शांतम् केवलम् परमेश्वरम् ॥ ४४ ॥
viśva-utpatti-sthāna-nāśa-hetum sat-jñapti mātrakam .. brahmaliṃgam param śāṃtam kevalam parameśvaram .. 44 ..
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ॥ क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५ ॥
कालः दैवम् कर्म जीवः स्वभावः द्रव्यम् एव च ॥ क्षेत्रम् च प्राणः आत्मा च विकारः तद्-समूहकः ॥ ४५ ॥
kālaḥ daivam karma jīvaḥ svabhāvaḥ dravyam eva ca .. kṣetram ca prāṇaḥ ātmā ca vikāraḥ tad-samūhakaḥ .. 45 ..
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ॥ तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६ ॥
बीज-रोह-प्रवाहः तु त्वद्-माया एषा जगत्प्रभो ॥ तद्-निबंधम् प्रपद्य इह त्वाम् अहम् परमेश्वरम् ॥ ४६ ॥
bīja-roha-pravāhaḥ tu tvad-māyā eṣā jagatprabho .. tad-nibaṃdham prapadya iha tvām aham parameśvaram .. 46 ..
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ॥ नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७॥
नाना भावैः लीलया एव स्वीकृतैः निर्जर-आदिकान् ॥ नूनम् बिभषिम् लोक-ईशः हंसि उन्मार्गान् स्वभावतः ॥ ४७॥
nānā bhāvaiḥ līlayā eva svīkṛtaiḥ nirjara-ādikān .. nūnam bibhaṣim loka-īśaḥ haṃsi unmārgān svabhāvataḥ .. 47..
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ॥ यं पश्यंत्यमलात्मानमाकाशमिव केवलम् ॥ ४८ ॥
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाच्-मये ॥ यम् पश्यंति अमल-आत्मानम् आकाशम् इव केवलम् ॥ ४८ ॥
tvam hi brahma param jyotiḥ gūḍham brahmaṇi vāc-maye .. yam paśyaṃti amala-ātmānam ākāśam iva kevalam .. 48 ..
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ॥ ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९ ॥
त्वम् एव च आद्यः पुरुषः अद्वितीयः तुर्यः आत्म-दृश् ॥ ईशः हेतुः अहेतुः च स विकारः प्रतीयसे ॥ ४९ ॥
tvam eva ca ādyaḥ puruṣaḥ advitīyaḥ turyaḥ ātma-dṛś .. īśaḥ hetuḥ ahetuḥ ca sa vikāraḥ pratīyase .. 49 ..
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ॥ सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ 2.5.54.५० ॥
स्व-मायया सर्व-गुण-प्रसिद्ध्यै भगवन् प्रभो ॥ सर्व-अन्वितः प्रभिन्नः च सर्वतस् त्वम् महेश्वर ॥ २।५।५४।५० ॥
sva-māyayā sarva-guṇa-prasiddhyai bhagavan prabho .. sarva-anvitaḥ prabhinnaḥ ca sarvatas tvam maheśvara .. 2.5.54.50 ..
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ॥ स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान् ॥ ५१ ॥
यथा एव सूर्यः अपिहितः छाया-रूपाणि च प्रभो ॥ स्व-छायया संचकास्ति हि अयम् परम-दृश् भवान् ॥ ५१ ॥
yathā eva sūryaḥ apihitaḥ chāyā-rūpāṇi ca prabho .. sva-chāyayā saṃcakāsti hi ayam parama-dṛś bhavān .. 51 ..
गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ॥ स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर ॥ ५२ ॥
गुणेन अपिहितः उपि त्वम् गुणे गुणान् विभो ॥ स्व-प्रदीपः चकास्सि त्वम् भूमन् गिरिश शंकर ॥ ५२ ॥
guṇena apihitaḥ upi tvam guṇe guṇān vibho .. sva-pradīpaḥ cakāssi tvam bhūman giriśa śaṃkara .. 52 ..
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ॥ उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे ॥ ५३ ॥
त्वद्-माया-मोहित-धियः पुत्र-दार-गृह-आदिषु ॥ उन्मज्जंति निमज्जंति प्रसक्ताः वृजिन-अर्णवे ॥ ५३ ॥
tvad-māyā-mohita-dhiyaḥ putra-dāra-gṛha-ādiṣu .. unmajjaṃti nimajjaṃti prasaktāḥ vṛjina-arṇave .. 53 ..
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ॥ यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः ॥ ५४ ॥
दैव-दत्तम् इमम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः ॥ यः ना आद्रियेत त्वद्-पादौ स शोच्यः हि आत्म-वंचकः ॥ ५४ ॥
daiva-dattam imam labdhvā nṛ-lokam ajita-indriyaḥ .. yaḥ nā ādriyeta tvad-pādau sa śocyaḥ hi ātma-vaṃcakaḥ .. 54 ..
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ॥ त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ॥
त्वद्-आज्ञया अहम् भगवान् बाणदोः छेत्तुम् आगतः ॥ त्वया एव शप्तः बाणः अयम् गर्वितः गर्व-हारिणा । ५५ ॥
tvad-ājñayā aham bhagavān bāṇadoḥ chettum āgataḥ .. tvayā eva śaptaḥ bāṇaḥ ayam garvitaḥ garva-hāriṇā . 55 ..
निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ॥ आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने ॥ ५६ ॥
निवर्त्तस्व रणात् द्देव त्वद्-शापः न वृथा भवेत् ॥ आज्ञाम् देहि प्रभो मे त्वम् बाणस्य भुज-कृंतने ॥ ५६ ॥
nivarttasva raṇāt ddeva tvad-śāpaḥ na vṛthā bhavet .. ājñām dehi prabho me tvam bāṇasya bhuja-kṛṃtane .. 56 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ॥ प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥ ५७ ॥
इति आकर्ण्य वचः शंभुः श्री-कृष्णस्य मुनि-ईश्वर ॥ प्रत्युवाच प्रसन्न-आत्मा कृष्ण-स्तुत्या महेश्वरः ॥ ५७ ॥
iti ākarṇya vacaḥ śaṃbhuḥ śrī-kṛṣṇasya muni-īśvara .. pratyuvāca prasanna-ātmā kṛṣṇa-stutyā maheśvaraḥ .. 57 ..
महेश्वर उवाच ।।
सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ॥ मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने ॥ ५८ ॥
सत्यम् उक्तम् त्वया तात मया शप्तः हि दैत्य-राज् ॥ मद्-आज्ञया भवान् प्राप्तः बाण-दोदंड-कृंतने ॥ ५८ ॥
satyam uktam tvayā tāta mayā śaptaḥ hi daitya-rāj .. mad-ājñayā bhavān prāptaḥ bāṇa-dodaṃḍa-kṛṃtane .. 58 ..
किं करोमि रमानाथ भक्ताधीनस्सदा हरे ॥ पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम् ॥ ५९ ॥
किम् करोमि रमानाथ भक्त-अधीनः सदा हरे ॥ पश्यतः मे कथम् वीर स्यात् बाण-भुज-कृंतनम् ॥ ५९ ॥
kim karomi ramānātha bhakta-adhīnaḥ sadā hare .. paśyataḥ me katham vīra syāt bāṇa-bhuja-kṛṃtanam .. 59 ..
अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ॥ ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥ 2.5.54.६० ॥
अतस् त्वम् जृंभण-अस्त्रेण माम् जंभय मद्-आज्ञया ॥ ततस् त्वम् कुरु कार्यम् स्वम् यथा इष्टम् च सुखी भव ॥ २।५।५४।६० ॥
atas tvam jṛṃbhaṇa-astreṇa mām jaṃbhaya mad-ājñayā .. tatas tvam kuru kāryam svam yathā iṣṭam ca sukhī bhava .. 2.5.54.60 ..
सनत्कुमार उवाच ।।
इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ॥ स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ॥ ६१ ॥
इति उक्तः शंकरेण अथ शार्ङ्गपाणिः तु विस्मितः ॥ स्वरण-स्थानम् आगत्य मुमोद स मुनि-ईश्वरः ॥ ६१ ॥
iti uktaḥ śaṃkareṇa atha śārṅgapāṇiḥ tu vismitaḥ .. svaraṇa-sthānam āgatya mumoda sa muni-īśvaraḥ .. 61 ..
जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ॥ पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥ ६२ ॥
जृंभण-अस्त्रम् मुमोच अथ संधाय धनुषि द्रुतम् ॥ पिनाकपाणये व्यास नाना अस्त्र-कुशलः हरिः ॥ ६२ ॥
jṛṃbhaṇa-astram mumoca atha saṃdhāya dhanuṣi drutam .. pinākapāṇaye vyāsa nānā astra-kuśalaḥ hariḥ .. 62 ..
मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ॥ बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥ ६३ ॥
मोहयित्वा तु गिरिशम् जृंभण-अस्त्रेण जृंभितम् ॥ बाणस्य पृतनाम् शौरिः जघान असि-गदा-ऋष्टिभिः ॥ ६३ ॥
mohayitvā tu giriśam jṛṃbhaṇa-astreṇa jṛṃbhitam .. bāṇasya pṛtanām śauriḥ jaghāna asi-gadā-ṛṣṭibhiḥ .. 63 ..
इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥ ५४ ॥
इति शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनम् नाम चतुःपंचाशत्तमः अध्यायः ॥ ५४ ॥
iti śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe bāṇā'surarudrakṛṣṇādiyuddhavarṇanam nāma catuḥpaṃcāśattamaḥ adhyāyaḥ .. 54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In