| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ॥ अद्भुतेयं कथा तात श्राविता मे त्वया मुने ॥ १ ॥
सनत्कुमार सर्वज्ञ ब्रह्म-पुत्र नमः अस्तु ते ॥ अद्भुता इयम् कथा तात श्राविता मे त्वया मुने ॥ १ ॥
sanatkumāra sarvajña brahma-putra namaḥ astu te .. adbhutā iyam kathā tāta śrāvitā me tvayā mune .. 1 ..
जृंभिते जृंभणास्त्रेण हरिणा समरे हरे ॥ हते बाणबले बाणः किमकार्षीच्च तद्वद ॥ २ ॥
जृंभिते जृंभण-अस्त्रेण हरिणा समरे हरे ॥ हते बाण-बले बाणः किम् अकार्षीत् च तत् वद ॥ २ ॥
jṛṃbhite jṛṃbhaṇa-astreṇa hariṇā samare hare .. hate bāṇa-bale bāṇaḥ kim akārṣīt ca tat vada .. 2 ..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः ॥ प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ॥ ।६॥
इति आकर्ण्य वचः तस्य व्यासस्य अमित-तेजसः ॥ प्रत्युवाच प्रसन्न-आत्मा ब्रह्म-पुत्रः मुनि-ईश्वरः ॥ ।६॥
iti ākarṇya vacaḥ tasya vyāsasya amita-tejasaḥ .. pratyuvāca prasanna-ātmā brahma-putraḥ muni-īśvaraḥ .. .6..
सनत्कुमार उवाच।।
शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् ॥ कृष्णशंकरयोस्तात लोकलीलानुसारिणोः॥ ४॥
शृणु व्यास महा-प्राज्ञ कथाम् च परम-अद्भुताम् ॥ कृष्ण-शंकरयोः तात लोक-लीला-अनुसारिणोः॥ ४॥
śṛṇu vyāsa mahā-prājña kathām ca parama-adbhutām .. kṛṣṇa-śaṃkarayoḥ tāta loka-līlā-anusāriṇoḥ.. 4..
शयिते लीलया रुद्रे सपुत्रे सगणे सति ॥ बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ॥ ५ ॥
शयिते लीलया रुद्रे स पुत्रे स गणे सति ॥ बाणः विनिर्गतः युद्धम् कर्तुम् कृष्णेन दैत्य-राज् ॥ ५ ॥
śayite līlayā rudre sa putre sa gaṇe sati .. bāṇaḥ vinirgataḥ yuddham kartum kṛṣṇena daitya-rāj .. 5 ..
कुंभांडसंगृहीताश्वो नानाशस्त्रास्त्रधृक् ततः ॥ चकार युद्धमतुलं बलिपुत्रो महाबलः ॥ ६ ॥
कुंभ-अंड-संगृहीत-अश्वः ततस् ॥ चकार युद्धम् अतुलम् बलि-पुत्रः महा-बलः ॥ ६ ॥
kuṃbha-aṃḍa-saṃgṛhīta-aśvaḥ tatas .. cakāra yuddham atulam bali-putraḥ mahā-balaḥ .. 6 ..
दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः ॥ चकार युद्धमतुलं बलि पुत्रो महाबलः ॥ ७॥
दृष्ट्वा निज-बलम् नष्टम् स दैत्य-इन्द्रः अति अमर्षितः ॥ चकार युद्धम् अतुलम् बलि पुत्रः महा-बलः ॥ ७॥
dṛṣṭvā nija-balam naṣṭam sa daitya-indraḥ ati amarṣitaḥ .. cakāra yuddham atulam bali putraḥ mahā-balaḥ .. 7..
श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः ॥ उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ॥ ८ ॥
श्री-कृष्णः अपि महा-वीरः गिरिश-आप्त-महा-बलः ॥ उच्चैस् जगर्ज तत्र आजौ बाणम् मत्वा तृण-उपमम् ॥ ८ ॥
śrī-kṛṣṇaḥ api mahā-vīraḥ giriśa-āpta-mahā-balaḥ .. uccais jagarja tatra ājau bāṇam matvā tṛṇa-upamam .. 8 ..
धनुष्टंकारयामास शार्ङ्गाख्यं निजमद्भुतम् ॥ त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ॥ ९ ॥
धनुः तं कारयामास शार्ङ्ग-आख्यम् निजम् अद्भुतम् ॥ त्रासयन् बाण-सैन्यम् तत् अवशिष्टम् मुनि-ईश्वर ॥ ९ ॥
dhanuḥ taṃ kārayāmāsa śārṅga-ākhyam nijam adbhutam .. trāsayan bāṇa-sainyam tat avaśiṣṭam muni-īśvara .. 9 ..
तेन नादेन महता धनुष्टंकारजेन हि ॥ द्यावाभूम्योरंतरं वै व्याप्तमासीदनंतरम् ॥ 2.5.55.१० ॥
तेन नादेन महता धनुः-टंकार-जेन हि ॥ द्यावाभूम्योः अंतरम् वै व्याप्तम् आसीत् अनंतरम् ॥ २।५।५५।१० ॥
tena nādena mahatā dhanuḥ-ṭaṃkāra-jena hi .. dyāvābhūmyoḥ aṃtaram vai vyāptam āsīt anaṃtaram .. 2.5.55.10 ..
चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः ॥ कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ॥ ११ ॥
चिक्षेप विविधान् बाणान् बाणाय कुपितः हरिः ॥ कर्ण-अन्तम् तत् विकृष्य अथ तीक्ष्णान् आशीविष-उपमान् ॥ ११ ॥
cikṣepa vividhān bāṇān bāṇāya kupitaḥ hariḥ .. karṇa-antam tat vikṛṣya atha tīkṣṇān āśīviṣa-upamān .. 11 ..
आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः ॥ अप्राप्तानेव चिच्छेद स्वशरैस्स्वधनुश्च्युतैः॥ १२ ॥
आयातान् तान् निरीक्ष्य अथ स बाणः बलिनन्दनः ॥ अप्राप्तान् एव चिच्छेद स्व-शरैः स्व-धनुः-च्युतैः॥ १२ ॥
āyātān tān nirīkṣya atha sa bāṇaḥ balinandanaḥ .. aprāptān eva ciccheda sva-śaraiḥ sva-dhanuḥ-cyutaiḥ.. 12 ..
पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः ॥ तत्रसुर्वृष्णयस्सर्वे कृष्णात्मानो विचेतसः ॥ १३ ॥
पुनर् जगर्ज स विभुः बाणः वैरि-गण-अर्दनः ॥ तत्रसुः वृष्णयः सर्वे कृष्ण-आत्मानः विचेतसः ॥ १३ ॥
punar jagarja sa vibhuḥ bāṇaḥ vairi-gaṇa-ardanaḥ .. tatrasuḥ vṛṣṇayaḥ sarve kṛṣṇa-ātmānaḥ vicetasaḥ .. 13 ..
स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान्॥ स कृष्णायातिशूराय महागर्वो बलेस्सुतः ॥ १४॥
स्मृत्वा शिव-पद-अम्भोजम् चिक्षेप निज-सायकान्॥ स कृष्णाय अति शूराय महा-गर्वः बलेः सुतः ॥ १४॥
smṛtvā śiva-pada-ambhojam cikṣepa nija-sāyakān.. sa kṛṣṇāya ati śūrāya mahā-garvaḥ baleḥ sutaḥ .. 14..
कृष्णोपि तानसंप्राप्तानच्छिनत्सशरैर्द्रुतम् ॥ स्मृत्वा शिवपदाम्भोजममरारि महाबलः ॥ १५ ॥
कृष्णः अपि तान् असंप्राप्तान् अच्छिनत् स शरैः द्रुतम् ॥ स्मृत्वा शिव-पद-अम्भोजम् अमरारि महा-बलः ॥ १५ ॥
kṛṣṇaḥ api tān asaṃprāptān acchinat sa śaraiḥ drutam .. smṛtvā śiva-pada-ambhojam amarāri mahā-balaḥ .. 15 ..
रामादयो वृष्णयश्च स्वंस्वं योद्धारमाहवे ॥ निजघ्नुर्बलिनस्सर्वे कृत्वा क्रोधं समाकुलाः ॥ १६ ॥
राम-आदयः वृष्णयः च स्वम् स्वम् योद्धारम् आहवे ॥ निजघ्नुः बलिनः सर्वे कृत्वा क्रोधम् समाकुलाः ॥ १६ ॥
rāma-ādayaḥ vṛṣṇayaḥ ca svam svam yoddhāram āhave .. nijaghnuḥ balinaḥ sarve kṛtvā krodham samākulāḥ .. 16 ..
इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि ॥ बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम् ॥ १७ ॥
इत्थम् चिरतरम् तत्र बलिनोः च द्वयोः अपि ॥ बभूव तुमुलम् युद्धम् शृण्वताम् विस्मय-आवहम् ॥ १७ ॥
ittham cirataram tatra balinoḥ ca dvayoḥ api .. babhūva tumulam yuddham śṛṇvatām vismaya-āvaham .. 17 ..
तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् ॥ बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ॥ १८ ॥
तस्मिन् अवसरे तत्र क्रोधम् कृत्वा अति पक्षि-राज् ॥ बाण-असुर-बलम् सर्वम् पक्ष-आघातैः अमर्दयत् ॥ १८ ॥
tasmin avasare tatra krodham kṛtvā ati pakṣi-rāj .. bāṇa-asura-balam sarvam pakṣa-āghātaiḥ amardayat .. 18 ..
मर्दितं स्वबलं दृष्ट्वा मर्दयंतं च तं बली ॥ चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ॥ १९ ॥
मर्दितम् स्व-बलम् दृष्ट्वा मर्दयंतम् च तम् बली ॥ चुकोप अति बलेः पुत्रः शैव-राज् दितिज-ईश्वरः ॥ १९ ॥
marditam sva-balam dṛṣṭvā mardayaṃtam ca tam balī .. cukopa ati baleḥ putraḥ śaiva-rāj ditija-īśvaraḥ .. 19 ..
स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् ॥ महत्पराक्रमं चक्रे वैरिणां दुस्सहं स वै ॥ 2.5.55.२० ॥
स्मृत्वा शिव-पद-अम्भोजम् सहस्र-भुजवान् द्रुतम् ॥ महत् पराक्रमम् चक्रे वैरिणाम् दुस्सहम् स वै ॥ २।५।५५।२० ॥
smṛtvā śiva-pada-ambhojam sahasra-bhujavān drutam .. mahat parākramam cakre vairiṇām dussaham sa vai .. 2.5.55.20 ..
चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा ॥ कृष्णादिसर्वयदुषु गरुडे च पृथक्पृथक् ॥ २१ ॥
चिक्षेप युगपद् बाणान् अमितान् तत्र वीर-हा ॥ कृष्ण-आदि-सर्व-यदुषु गरुडे च पृथक् पृथक् ॥ २१ ॥
cikṣepa yugapad bāṇān amitān tatra vīra-hā .. kṛṣṇa-ādi-sarva-yaduṣu garuḍe ca pṛthak pṛthak .. 21 ..
जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा ॥ बलमेकेन च मुने परानपि तथा बली ॥ २२ ॥
जघान एकेन गरुडम् कृष्णम् एकेन पत्त्रिणा ॥ बलम् एकेन च मुने परान् अपि तथा बली ॥ २२ ॥
jaghāna ekena garuḍam kṛṣṇam ekena pattriṇā .. balam ekena ca mune parān api tathā balī .. 22 ..
ततः कृष्णो महावीर्यो विष्णुरूपस्सुरारिहा ॥ चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ॥ २३ ॥
ततस् कृष्णः महा-वीर्यः विष्णु-रूपः सुरारि-हा ॥ चुकोप अति रणे तस्मिन् जगर्ज च महेश्वरः ॥ २३ ॥
tatas kṛṣṇaḥ mahā-vīryaḥ viṣṇu-rūpaḥ surāri-hā .. cukopa ati raṇe tasmin jagarja ca maheśvaraḥ .. 23 ..
जघान बाणं तरसा शार्ङ्गनिस्सृतसच्छरैः ॥ अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः ॥ २४ ॥
जघान बाणम् तरसा शार्ङ्ग-निस्सृत-सत्-शरैः ॥ अति तत् बलम् अति उग्रम् युगपद् स्मृत-शंकरः ॥ २४ ॥
jaghāna bāṇam tarasā śārṅga-nissṛta-sat-śaraiḥ .. ati tat balam ati ugram yugapad smṛta-śaṃkaraḥ .. 24 ..
चिच्छेद तद्धनुश्शीघ्रं छत्रादिकमना कुलः ॥ हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ॥ २५ ॥
चिच्छेद तत् धनुः शीघ्रम् छत्र-आदि-कमनाः कुलः ॥ हयान् च पातयामास हत्वा तान् स्व-शरैः हरिः ॥ २५ ॥
ciccheda tat dhanuḥ śīghram chatra-ādi-kamanāḥ kulaḥ .. hayān ca pātayāmāsa hatvā tān sva-śaraiḥ hariḥ .. 25 ..
बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह ॥ कृष्णं जघान गदया सोऽपतद्धरणीतले ॥ २६ ॥
बाणः अपि च महावीरः जगर्ज अति प्रकुप्य ह ॥ कृष्णम् जघान गदया सः अपतत् धरणी-तले ॥ २६ ॥
bāṇaḥ api ca mahāvīraḥ jagarja ati prakupya ha .. kṛṣṇam jaghāna gadayā saḥ apatat dharaṇī-tale .. 26 ..
उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा ॥ शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ॥ २७ ॥
उत्थाय आरम् ततस् कृष्णः युयुधे तेन शत्रुणा ॥ शिव-भक्तेन देवर्षे लोक-लीला-अनुसारतः ॥ २७ ॥
utthāya āram tatas kṛṣṇaḥ yuyudhe tena śatruṇā .. śiva-bhaktena devarṣe loka-līlā-anusārataḥ .. 27 ..
एवं द्वयोश्चिरं काल बभूव सुमहान्रणः ॥ शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ॥ २८ ॥
एवम् द्वयोः चिरम् काल बभूव सु महान् रणः ॥ शिव-रूपः हरिः कृष्णः स च शैव-उत्तमः बली ॥ २८ ॥
evam dvayoḥ ciram kāla babhūva su mahān raṇaḥ .. śiva-rūpaḥ hariḥ kṛṣṇaḥ sa ca śaiva-uttamaḥ balī .. 28 ..
कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान्॥ शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः ॥ २९॥
कृष्णः अथ कृत्वा समरम् चिरम् बाणेन वीर्यवान्॥ शिव-आज्ञया प्राप्त-बलः चुकोप अति मुनि-ईश्वरः ॥ २९॥
kṛṣṇaḥ atha kṛtvā samaram ciram bāṇena vīryavān.. śiva-ājñayā prāpta-balaḥ cukopa ati muni-īśvaraḥ .. 29..
ततस्सुदर्शनेनाशु कृष्णो बाणभुजान्बहून् ॥ चिच्छेद भगवाञ्शंभु शासनात्परवीरहा ॥ 2.5.55.३० ॥
ततस् सुदर्शनेन आशु कृष्णः बाण-भुजान् बहून् ॥ चिच्छेद भगवान् शंभु शासनात् पर-वीर-हा ॥ २।५।५५।३० ॥
tatas sudarśanena āśu kṛṣṇaḥ bāṇa-bhujān bahūn .. ciccheda bhagavān śaṃbhu śāsanāt para-vīra-hā .. 2.5.55.30 ..
अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः ॥ गतव्यथो बभूवाशु शंकरस्य प्रसादतः ॥ ३१ ॥
अवशिष्टाः भुजाः तस्य चत्वारः अतीव सुन्दराः ॥ गत-व्यथः बभूव आशु शंकरस्य प्रसादतः ॥ ३१ ॥
avaśiṣṭāḥ bhujāḥ tasya catvāraḥ atīva sundarāḥ .. gata-vyathaḥ babhūva āśu śaṃkarasya prasādataḥ .. 31 ..
गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः ॥ कृष्णो वीरत्वमापन्नस्तदा रुद्रस्समुत्थितः ॥ ३२ ॥
गत-स्मृतिः यदा बाण शिरः छेत्तुम् समुद्यतः ॥ कृष्णः वीर-त्वम् आपन्नः तदा रुद्रः समुत्थितः ॥ ३२ ॥
gata-smṛtiḥ yadā bāṇa śiraḥ chettum samudyataḥ .. kṛṣṇaḥ vīra-tvam āpannaḥ tadā rudraḥ samutthitaḥ .. 32 ..
रुद्र उवाच ।।
भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा ॥ तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा ॥ ३३ ॥
भगवन् देवकीपुत्र यत् आज्ञप्तम् मया पुरा ॥ तत् कृतम् च त्वया विप्र मद्-आज्ञा-कारिणा सदा ॥ ३३ ॥
bhagavan devakīputra yat ājñaptam mayā purā .. tat kṛtam ca tvayā vipra mad-ājñā-kāriṇā sadā .. 33 ..
मा बाणस्य शिरश्छिंधि संहरस्व सुदर्शनम् ॥ मदाज्ञया चक्रमिदं स्यान्मोघं मज्जने सदा ॥ ३४ ॥
मा बाणस्य शिरः छिंधि संहरस्व सुदर्शनम् ॥ मद्-आज्ञया चक्रम् इदम् स्यात् मोघम् मज्जने सदा ॥ ३४ ॥
mā bāṇasya śiraḥ chiṃdhi saṃharasva sudarśanam .. mad-ājñayā cakram idam syāt mogham majjane sadā .. 34 ..
दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव ॥ चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ॥ ३५ ॥
दत्तम् मया पुरा तुभ्यम् अनिवार्यम् रणे तव ॥ चक्रम् जयम् च गोविन्द निवर्तस्व रणात् ततस् ॥ ३५ ॥
dattam mayā purā tubhyam anivāryam raṇe tava .. cakram jayam ca govinda nivartasva raṇāt tatas .. 35 ..
दधीचे रावणे वीरे तारकादिपुरेष्वपि ॥ विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ॥ ३६ ॥
दधीचे रावणे वीरे तारका-आदि-पुरेषु अपि ॥ विना मद्-आज्ञाम् लक्ष्मीश रथाङ्गम् ना अमुचः पुरा ॥ ३६ ॥
dadhīce rāvaṇe vīre tārakā-ādi-pureṣu api .. vinā mad-ājñām lakṣmīśa rathāṅgam nā amucaḥ purā .. 36 ..
त्वं तु योगीश्वरस्स्साक्षात्परमात्मा जनार्दन ॥ विचार्यतां स्वमनसा सर्वभूतहिते रतः ॥ ३७ ॥
त्वम् तु योगि-ईश्वरः साक्षात् परमात्मा जनार्दन ॥ विचार्यताम् स्व-मनसा सर्व-भूत-हिते रतः ॥ ३७ ॥
tvam tu yogi-īśvaraḥ sākṣāt paramātmā janārdana .. vicāryatām sva-manasā sarva-bhūta-hite rataḥ .. 37 ..
वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै ॥ तन्मे वचस्सदा सत्यं परितुष्टोस्म्यहं तव ॥ ३८॥
वरम् अस्य मया दत्तम् न मृत्युः भयम् अस्ति वै ॥ तत् मे वचः सदा सत्यम् परितुष्टः अस्मि अहम् तव ॥ ३८॥
varam asya mayā dattam na mṛtyuḥ bhayam asti vai .. tat me vacaḥ sadā satyam parituṣṭaḥ asmi aham tava .. 38..
पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् ॥ भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ॥ ३९ ॥
पुरा अयम् गर्वितः मत्तः युद्धम् देहि इति मे अब्रवीत् ॥ भुजान् कण्डूयमानः तु विस्मृत-आत्म-गतिः हरे ॥ ३९ ॥
purā ayam garvitaḥ mattaḥ yuddham dehi iti me abravīt .. bhujān kaṇḍūyamānaḥ tu vismṛta-ātma-gatiḥ hare .. 39 ..
तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति ॥ अचिरेणातिकालेन गतगर्वो भविष्यसि ॥ 2.5.55.४० ॥
तदा अहम् अशपम् तम् वै भुज-छेत्ता आगमिष्यति ॥ अचिरेण अति कालेन गत-गर्वः भविष्यसि ॥ २।५।५५।४० ॥
tadā aham aśapam tam vai bhuja-chettā āgamiṣyati .. acireṇa ati kālena gata-garvaḥ bhaviṣyasi .. 2.5.55.40 ..
मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै ॥ निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ॥ ४१ ॥
मद्-आज्ञया हरिः प्राप्तः भुज-छेत्ता तव अथ वै ॥ निवर्तस्व रणात् गच्छ स्व-गृहम् स वधू-वरः ॥ ४१ ॥
mad-ājñayā hariḥ prāptaḥ bhuja-chettā tava atha vai .. nivartasva raṇāt gaccha sva-gṛham sa vadhū-varaḥ .. 41 ..
इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः ॥ तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ॥ ४२ ॥
इति उक्तः स तयोः मैत्रीम् कारयित्वा महेश्वरः ॥ तम् अमुज्ञाप्य स गणः स पुत्रः स्व-आलयम् ययौ ॥ ४२ ॥
iti uktaḥ sa tayoḥ maitrīm kārayitvā maheśvaraḥ .. tam amujñāpya sa gaṇaḥ sa putraḥ sva-ālayam yayau .. 42 ..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभोस्संहृत्य च सुदर्शनम् ॥ अक्षतांगस्तु विजयी तत्कृष्णोंतःपुरं ययौ ॥ ४३ ॥
इति आकर्ण्य वचः शंभोः संहृत्य च सुदर्शनम् ॥ अक्षत-अंगः तु विजयी तत् कृष्णा-उंतःपुरम् ययौ ॥ ४३ ॥
iti ākarṇya vacaḥ śaṃbhoḥ saṃhṛtya ca sudarśanam .. akṣata-aṃgaḥ tu vijayī tat kṛṣṇā-uṃtaḥpuram yayau .. 43 ..
अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः ॥ जग्राह रत्नसंघातं बाणदत्तमनेकशः ॥ ४४ ॥
अनिरुद्धम् समाश्वास्य सहितम् भार्यया पुनर् ॥ जग्राह रत्न-संघातम् बाणदत्तम् अनेकशस् ॥ ४४ ॥
aniruddham samāśvāsya sahitam bhāryayā punar .. jagrāha ratna-saṃghātam bāṇadattam anekaśas .. 44 ..
तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् ॥ प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ॥ ४५ ॥
तद्-सखीम् चित्रलेखाम् च गृहीत्वा पर-योगिनीम् ॥ प्रसन्नः अभूत् ततस् कृष्णः कृत-कार्यः शिव-आज्ञया ॥ ४५ ॥
tad-sakhīm citralekhām ca gṛhītvā para-yoginīm .. prasannaḥ abhūt tatas kṛṣṇaḥ kṛta-kāryaḥ śiva-ājñayā .. 45 ..
हृदा प्रणम्य गिरिशमामंत्र्य च बलेस्तुतम् ॥ परिवारसमेतस्तु जगाम स्वपुरीं हरिः ॥ ४६ ॥
हृदा प्रणम्य गिरिशम् आमंत्र्य च बलेः स्तुतम् ॥ परिवार-समेतः तु जगाम स्व-पुरीम् हरिः ॥ ४६ ॥
hṛdā praṇamya giriśam āmaṃtrya ca baleḥ stutam .. parivāra-sametaḥ tu jagāma sva-purīm hariḥ .. 46 ..
पथि जित्वा च वरुणं विरुद्धं तमनेकधा ॥ द्वारकां च पुरीं प्राप्तस्समुत्सवसमन्वितः ॥ ४७ ॥
पथि जित्वा च वरुणम् विरुद्धम् तम् अनेकधा ॥ द्वारकाम् च पुरीम् प्राप्तः समुत्सव-समन्वितः ॥ ४७ ॥
pathi jitvā ca varuṇam viruddham tam anekadhā .. dvārakām ca purīm prāptaḥ samutsava-samanvitaḥ .. 47 ..
विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च ॥ द्वारकायां ततो दृष्ट्वा कामचारी चचार ह ॥ ४८ ॥ ॥
विसर्जयित्वा गरुडम् सखीन् वीक्ष्य उपहस्य च ॥ द्वारकायाम् ततस् दृष्ट्वा काम-चारी चचार ह ॥ ४८ ॥ ॥
visarjayitvā garuḍam sakhīn vīkṣya upahasya ca .. dvārakāyām tatas dṛṣṭvā kāma-cārī cacāra ha .. 48 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे बाणभुजकृंतनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ॥ ५५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पंचमे युद्ध-खंडे बाणभुजकृंतनगर्वापहारवर्णनम् नाम पञ्चपञ्चाशत्तमः अध्यायः ॥ ५५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām paṃcame yuddha-khaṃḍe bāṇabhujakṛṃtanagarvāpahāravarṇanam nāma pañcapañcāśattamaḥ adhyāyaḥ .. 55 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In