| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ॥ अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १॥
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ॥ अकार्षीत् किम् ततस् बाणः तत्त्वम् वद महा-मुने ॥ १॥
kṛṣṇe gate dvārakāyāma niruddhena bhāryayā .. akārṣīt kim tatas bāṇaḥ tattvam vada mahā-mune .. 1..
सनत्कुमार उवाच।।
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ॥ दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा ॥ २॥
कृष्णे गते द्वारकायाम् अनिरुद्धेन भार्यया ॥ दुःखितः अभूत् ततस् बाणः स्व-अज्ञानम् संस्मरन् हृदा ॥ २॥
kṛṣṇe gate dvārakāyām aniruddhena bhāryayā .. duḥkhitaḥ abhūt tatas bāṇaḥ sva-ajñānam saṃsmaran hṛdā .. 2..
ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ॥ दैत्यं शोणितदिग्धांगमनुता पसमन्वितम् ॥ ३॥
ततस् नन्दीशिव-गणः बाणम् प्रोवाच दुःखितम् ॥ दैत्यम् शोणित-दिग्ध-अंगम् अनुताप-समन्वितम् ॥ ३॥
tatas nandīśiva-gaṇaḥ bāṇam provāca duḥkhitam .. daityam śoṇita-digdha-aṃgam anutāpa-samanvitam .. 3..
।। नन्दीश्वर उवाच ।।
बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ॥ भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक्॥ ४॥
बाण शंकर-सत्-भक्त मा अनुतापम् कुरुष्व भोः ॥ भक्त-अनुकंपी शंभुः वै भक्त-वत्सल-नामधृक्॥ ४॥
bāṇa śaṃkara-sat-bhakta mā anutāpam kuruṣva bhoḥ .. bhakta-anukaṃpī śaṃbhuḥ vai bhakta-vatsala-nāmadhṛk.. 4..
तदिच्छया च यज्जातं तज्जातमिति चेतसा ॥ मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः॥ ५॥
तद्-इच्छया च यत् जातम् तत् जातम् इति चेतसा ॥ मन्यस्व भक्त-शार्दूल शिवम् स्मर पुनर् पुनर्॥ ५॥
tad-icchayā ca yat jātam tat jātam iti cetasā .. manyasva bhakta-śārdūla śivam smara punar punar.. 5..
मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ॥ भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः॥ ६॥
मनः आद्ये समाधाय कुरु नित्यम् महो त्सवम् ॥ भक्त-अनुकंपनः च अस्य शंकरस्य पुनर् पुनर्॥ ६॥
manaḥ ādye samādhāya kuru nityam maho tsavam .. bhakta-anukaṃpanaḥ ca asya śaṃkarasya punar punar.. 6..
नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः॥ शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७॥
नन्दि-वाक्यात् ततस् बाणः द्विषा शीर्षक-मात्रकः॥ शिव-स्थानम् जगाम आशु धृत्वा धैर्यम् महामनाः ॥ ७॥
nandi-vākyāt tatas bāṇaḥ dviṣā śīrṣaka-mātrakaḥ.. śiva-sthānam jagāma āśu dhṛtvā dhairyam mahāmanāḥ .. 7..
गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ॥ गतगर्वव्रजो बाणः प्रेमाकुलितमानसः॥ ८॥
गत्वा तत्र प्रभुम् नत्वा रुरोद अतीव विह्वलः ॥ गत-गर्व-व्रजः बाणः प्रेम-आकुलित-मानसः॥ ८॥
gatvā tatra prabhum natvā ruroda atīva vihvalaḥ .. gata-garva-vrajaḥ bāṇaḥ prema-ākulita-mānasaḥ.. 8..
संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ॥ यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥
संस्तुवन् विविधैः स्तोत्रैः स्संनमन् उतितः तथा ॥ यथोचितम् पाद-घातम् कुर्वन् विक्षेपयन् करान् ॥ ९ ॥
saṃstuvan vividhaiḥ stotraiḥ ssaṃnaman utitaḥ tathā .. yathocitam pāda-ghātam kurvan vikṣepayan karān .. 9 ..
ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ॥ स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ 2.5.56.१० ॥
ननर्त तांडवम् मुख्यम् प्रत्यालीढ-आदि-शोभितम् ॥ स्थानकैः विविध-आकारैः आलीढ-प्रमुखैः अपि ॥ २।५।५६।१० ॥
nanarta tāṃḍavam mukhyam pratyālīḍha-ādi-śobhitam .. sthānakaiḥ vividha-ākāraiḥ ālīḍha-pramukhaiḥ api .. 2.5.56.10 ..
सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ॥ शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११॥ ॥
सुख-वाद-सहस्राणि भ्रू-क्षेप-सहितानि अपि ॥ शिरः-कम्प-सहस्राणि प्राप्त-अनीकः सहस्रशस् ॥ ११॥ ॥
sukha-vāda-sahasrāṇi bhrū-kṣepa-sahitāni api .. śiraḥ-kampa-sahasrāṇi prāpta-anīkaḥ sahasraśas .. 11.. ..
वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ॥ तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम्॥ १२॥
वारीः च विविध-आकाराः दर्शयित्वा शनैस् शनस् ॥ तथा शोणित-धाराभिः सिञ्चयित्वा मही-तलम्॥ १२॥
vārīḥ ca vividha-ākārāḥ darśayitvā śanais śanas .. tathā śoṇita-dhārābhiḥ siñcayitvā mahī-talam.. 12..
रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ॥ बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः॥ १३॥
रुद्रम् प्रसादयामास शूलिनम् चन्द्र-शेखरम् ॥ बाण-असुरः महा-भक्तः विस्मृत-आत्म-गतिः नतः॥ १३॥
rudram prasādayāmāsa śūlinam candra-śekharam .. bāṇa-asuraḥ mahā-bhaktaḥ vismṛta-ātma-gatiḥ nataḥ.. 13..
ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ॥ उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥
ततस् नृत्यम् महत् कृत्वा भगवान् भक्त-वत्सलः ॥ उवाच बाणम् संहृष्टः नृत्य गीत-प्रियः हरः ॥ १४ ॥
tatas nṛtyam mahat kṛtvā bhagavān bhakta-vatsalaḥ .. uvāca bāṇam saṃhṛṣṭaḥ nṛtya gīta-priyaḥ haraḥ .. 14 ..
रुद्र उवाच ।।
बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ॥ वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥
बाण तात बलेः पुत्र संतुष्टः नर्तनेन ते ॥ वरम् गृहाण दैत्य-इन्द्र यत् ते मनसि वर्तते ॥ १५ ॥
bāṇa tāta baleḥ putra saṃtuṣṭaḥ nartanena te .. varam gṛhāṇa daitya-indra yat te manasi vartate .. 15 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ॥ बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६॥
इति आकर्ण्य वचः शंम्भोः दैत्य-इन्द्रेण तदा मुने ॥ बाणेन संवृणीतः अभूत् वरः तु व्रण-रोपणे ॥ १६॥
iti ākarṇya vacaḥ śaṃmbhoḥ daitya-indreṇa tadā mune .. bāṇena saṃvṛṇītaḥ abhūt varaḥ tu vraṇa-ropaṇe .. 16..
बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ॥ उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये॥ १७॥
बाहु-युद्धस्य च उद्ध-त्तिः गाणपत्यम् अथ अक्षयम् ॥ उषा-पुत्रस्य राज्यम् तु तस्मिन् शोणितक-आह्वये॥ १७॥
bāhu-yuddhasya ca uddha-ttiḥ gāṇapatyam atha akṣayam .. uṣā-putrasya rājyam tu tasmin śoṇitaka-āhvaye.. 17..
निर्वैरता च विबुधैर्विष्णुना च विशेषतः॥ न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८
निर्वैर-ता च विबुधैः विष्णुना च विशेषतः॥ न पुनर् दैत्य-ता दुष्टा रजसा तमसा युता ॥ १८
nirvaira-tā ca vibudhaiḥ viṣṇunā ca viśeṣataḥ.. na punar daitya-tā duṣṭā rajasā tamasā yutā .. 18
शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ॥ शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु ॥ १९ ॥ १९।
शंभु-भक्तिः विशेषेण निर्विकारा सदा मुने ॥ शिव-भक्तेषु च स्नेहः दया सर्वेषु जंतुषु ॥ १९ ॥ १९।
śaṃbhu-bhaktiḥ viśeṣeṇa nirvikārā sadā mune .. śiva-bhakteṣu ca snehaḥ dayā sarveṣu jaṃtuṣu .. 19 .. 19.
कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः॥ प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः॥ 2.5.56.२०॥ ॥
कृत्वा वरान् शंभोः बलि-पुत्रः महा-असुरः॥ प्रेम्णा अश्रु-नयनः रुद्रम् तुष्टाव सु कृत-अंजलिः॥ २।५।५६।२०॥ ॥
kṛtvā varān śaṃbhoḥ bali-putraḥ mahā-asuraḥ.. premṇā aśru-nayanaḥ rudram tuṣṭāva su kṛta-aṃjaliḥ.. 2.5.56.20.. ..
बाण उवाच।।
देवदेव महादेव शरणा गतवत्सल ॥ त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१॥
देवदेव महादेव शरणा गत-वत्सल ॥ त्वाम् नमामि महेशान दीन-बन्धो दयानिधे ॥ २१॥
devadeva mahādeva śaraṇā gata-vatsala .. tvām namāmi maheśāna dīna-bandho dayānidhe .. 21..
कृता मयि कृपातीव कृपासागर शंकर ॥ गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो ॥ २२॥
कृता मयि कृपा अतीव कृपा-सागर शंकर ॥ गर्व-उपहारितः सर्वः प्रसन्नेन मम प्रभो ॥ २२॥
kṛtā mayi kṛpā atīva kṛpā-sāgara śaṃkara .. garva-upahāritaḥ sarvaḥ prasannena mama prabho .. 22..
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ॥ ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३॥
त्वम् ब्रह्म परमात्मा हि सर्व-व्यापी अखिल-ईश्वरः ॥ ब्रह्मांड-तनुः उग्र-ईशः विराज् सर्व-अन्वितः परः ॥ २३॥
tvam brahma paramātmā hi sarva-vyāpī akhila-īśvaraḥ .. brahmāṃḍa-tanuḥ ugra-īśaḥ virāj sarva-anvitaḥ paraḥ .. 23..
नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ॥ द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥
नाभिः नभः अग्निः वदनम् अंबु रेतः दिशः श्रुतिः ॥ द्यौः शीर्षम् अंघ्रिः उर्वी ते मनः चन्द्रः तव प्रभो ॥ २४ ॥
nābhiḥ nabhaḥ agniḥ vadanam aṃbu retaḥ diśaḥ śrutiḥ .. dyauḥ śīrṣam aṃghriḥ urvī te manaḥ candraḥ tava prabho .. 24 ..
दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ॥ प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव॥ २५॥
दृश् अर्कः जठरम् वार्द्धिः भुज-इंद्रः धिषणा विधिः ॥ प्रजापतिः विसर्गः च धर्मः हि हृदयम् तव॥ २५॥
dṛś arkaḥ jaṭharam vārddhiḥ bhuja-iṃdraḥ dhiṣaṇā vidhiḥ .. prajāpatiḥ visargaḥ ca dharmaḥ hi hṛdayam tava.. 25..
रोमाण्यौषधयो नाथ केशा जलमुचस्तव॥ गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान्॥ २६॥
रोमाणि औषधयः नाथ केशाः जल-मुचः तव॥ गुणाः त्रयः त्रि-नेत्राणि सर्व-आत्मा पुरुषः भवान्॥ २६॥
romāṇi auṣadhayaḥ nātha keśāḥ jala-mucaḥ tava.. guṇāḥ trayaḥ tri-netrāṇi sarva-ātmā puruṣaḥ bhavān.. 26..
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ॥ ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥
ब्राह्मणम् ते मुखम् प्राहुः बाहुम् क्षत्रियम् एव च ॥ ऊरु-जम् वैश्यम् आहुः ते पाद-जम् शूद्रम् एव च ॥ २७ ॥
brāhmaṇam te mukham prāhuḥ bāhum kṣatriyam eva ca .. ūru-jam vaiśyam āhuḥ te pāda-jam śūdram eva ca .. 27 ..
त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ॥ त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥
त्वम् एव सर्वदा उपास्यः सर्वैः जीवैः महेश्वर ॥ त्वाम् भजन् परमाम् मुक्तिम् लभते पुरुषः ध्रुवम् ॥ २८ ॥
tvam eva sarvadā upāsyaḥ sarvaiḥ jīvaiḥ maheśvara .. tvām bhajan paramām muktim labhate puruṣaḥ dhruvam .. 28 ..
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ॥ विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९॥
यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम् ॥ विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्ति-अमृतम् त्यजन् ॥ २९॥
yaḥ tvām visṛjate martyaḥ ātmānam priyam īśvaram .. viparyaya-indriya-artha-artham viṣam atti-amṛtam tyajan .. 29..
विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ॥ सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ 2.5.56.३०॥
विष्णुः ब्रह्मा अथ विबुधाः मुनयः च अमल-आशयाः ॥ सर्व-आत्मना प्रपन्नाः त्वाम् शंकरम् प्रियम् ईश्वरम् ॥ २।५।५६।३०॥
viṣṇuḥ brahmā atha vibudhāḥ munayaḥ ca amala-āśayāḥ .. sarva-ātmanā prapannāḥ tvām śaṃkaram priyam īśvaram .. 2.5.56.30..
सनत्कुमार उवाच ।।
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ॥ प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥
इति उक्त्वा बलि-पुत्रः तु विरराम शर-असुरः ॥ प्रेम-प्रफुल्लित-अंगः च प्रणम्य स महेश्वरम् ॥ ३१ ॥
iti uktvā bali-putraḥ tu virarāma śara-asuraḥ .. prema-praphullita-aṃgaḥ ca praṇamya sa maheśvaram .. 31 ..
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ॥ सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत ॥ ३२ ॥
इति श्रुत्वा स्व-भक्तस्य बाणस्य भगवान् भवः ॥ सर्वम् लभिष्यसि इति उक्त्वा तत्र एवा अंतरधीयत ॥ ३२ ॥
iti śrutvā sva-bhaktasya bāṇasya bhagavān bhavaḥ .. sarvam labhiṣyasi iti uktvā tatra evā aṃtaradhīyata .. 32 ..
ततश्शंभोः प्रसादेन महाकालत्वमागतः ॥ रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥
ततस् शंभोः प्रसादेन महाकाल-त्वम् आगतः ॥ रुद्रस्य अनुचरः बाणः महा-प्रमुदितः अभवत् ॥ ३३ ॥
tatas śaṃbhoḥ prasādena mahākāla-tvam āgataḥ .. rudrasya anucaraḥ bāṇaḥ mahā-pramuditaḥ abhavat .. 33 ..
इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ॥ कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
इति किल शर-नाम्नः शंकरस्य अपि वृत्तम् सकल-गुरु जनानाम् सत्-गुरोः शूलपाणेः ॥ कथितम् इह वरिष्ठम् श्रोत्र-रम्यैः वचोभिः सकल-भुवन-मध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
iti kila śara-nāmnaḥ śaṃkarasya api vṛttam sakala-guru janānām sat-guroḥ śūlapāṇeḥ .. kathitam iha variṣṭham śrotra-ramyaiḥ vacobhiḥ sakala-bhuvana-madhye krīḍamānasya nityam .. 34 ..
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनम् नाम षट्पंचाशत्तमः अध्यायः ॥ ५६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām yuddhakhaṃḍe bāṇāsuragaṇapatvaprāptivarṇanam nāma ṣaṭpaṃcāśattamaḥ adhyāyaḥ .. 56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In