| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः ॥ यथाऽवधीत्त्रिशूलेन दानवेन्द्रं गजासुरम् ॥ १॥
शृणु व्यास महा-प्रेम्णा चरितम् शशिमौलिनः ॥ यथा अवधीत् त्रिशूलेन दानव-इन्द्रम् गज-असुरम् ॥ १॥
śṛṇu vyāsa mahā-premṇā caritam śaśimaulinaḥ .. yathā avadhīt triśūlena dānava-indram gaja-asuram .. 1..
दानवे निहते देव्या समरे महिषासुरे ॥ देवानां च हितार्थाय पुरा देवाः सुखं ययुः ॥ २ ॥
दानवे निहते देव्या समरे महिष-असुरे ॥ देवानाम् च हित-अर्थाय पुरा देवाः सुखम् ययुः ॥ २ ॥
dānave nihate devyā samare mahiṣa-asure .. devānām ca hita-arthāya purā devāḥ sukham yayuḥ .. 2 ..
तस्य पुत्रो महावीरो मुनीश्वर गजासुरः ॥ पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात् ॥ ३ ॥
तस्य पुत्रः महा-वीरः मुनि-ईश्वर गज-असुरः ॥ पितुः वधम् हि संस्मृत्य कृतम् देव्या सुर-अर्थनात् ॥ ३ ॥
tasya putraḥ mahā-vīraḥ muni-īśvara gaja-asuraḥ .. pituḥ vadham hi saṃsmṛtya kṛtam devyā sura-arthanāt .. 3 ..
स तद्वैरमनुस्मृत्य तपोर्थं गतवान्वने ॥ समुद्दिश्य विधिं प्रीत्या तताप परमं तपः ॥ ४ ॥
स तत् वैरम् अनुस्मृत्य तपः-र्थम् गतवान् वने ॥ समुद्दिश्य विधिम् प्रीत्या तताप परमम् तपः ॥ ४ ॥
sa tat vairam anusmṛtya tapaḥ-rtham gatavān vane .. samuddiśya vidhim prītyā tatāpa paramam tapaḥ .. 4 ..
अवध्योहं भविष्यामि स्त्रीपुंसैः कामनिर्जितः ॥ संविचार्येति मनसाऽभूत्तपोरतमानसः ॥ ५॥
अवध्यः हम् भविष्यामि स्त्रीपुंसैः काम-निर्जितः ॥ संविचार्य इति मनसा अभूत् तपः-रत-मानसः ॥ ५॥
avadhyaḥ ham bhaviṣyāmi strīpuṃsaiḥ kāma-nirjitaḥ .. saṃvicārya iti manasā abhūt tapaḥ-rata-mānasaḥ .. 5..
स तेपे हिमवद्द्रोण्यां तपः परमदारु णम् ॥ ऊर्द्ध्वबाहुर्नभोदृष्टिः पादांगुष्ठाश्रितावनिः ॥ ६ ॥
स तेपे हिमवत्-द्रोण्याम् तपः ॥ ऊर्द्ध्वबाहुः नभः-दृष्टिः पाद-अंगुष्ठ-आश्रित-अवनिः ॥ ६ ॥
sa tepe himavat-droṇyām tapaḥ .. ūrddhvabāhuḥ nabhaḥ-dṛṣṭiḥ pāda-aṃguṣṭha-āśrita-avaniḥ .. 6 ..
जटाभारैस्स वै रेजे प्रलयार्क इवांशुभिः ॥ महिषासुरपुत्रोऽसौ गजासुर उदारधीः ॥ ७ ॥
जटा-भारैः स वै रेजे प्रलय-अर्कः इव अंशुभिः ॥ महिष-असुर-पुत्रः असौ गज-असुरः उदार-धीः ॥ ७ ॥
jaṭā-bhāraiḥ sa vai reje pralaya-arkaḥ iva aṃśubhiḥ .. mahiṣa-asura-putraḥ asau gaja-asuraḥ udāra-dhīḥ .. 7 ..
तस्य मूर्ध्नः समुद्भूतस्सधूमोग्निस्तपोमयः ॥ तिर्यगूर्ध्वमधोलोकास्तापयन्विष्वगीरितः ॥ ८ ॥
तस्य मूर्ध्नः समुद्भूतः स धूम-उग्निः तपः-मयः ॥ तिर्यक् ऊर्ध्वम् अधस् लोकाः तापयन् विष्वक्-ईरितः ॥ ८ ॥
tasya mūrdhnaḥ samudbhūtaḥ sa dhūma-ugniḥ tapaḥ-mayaḥ .. tiryak ūrdhvam adhas lokāḥ tāpayan viṣvak-īritaḥ .. 8 ..
चुक्षुभुर्नद्युदन्वंतश्चाग्नेर्मूर्द्धसमुद्भवात् ॥ निपेतुस्सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ९ ॥
चुक्षुभुः नदी-उदन्वंतः च अग्नेः मूर्द्ध-समुद्भवात् ॥ निपेतुः स ग्रहाः ताराः जज्वलुः च दिशः दश ॥ ९ ॥
cukṣubhuḥ nadī-udanvaṃtaḥ ca agneḥ mūrddha-samudbhavāt .. nipetuḥ sa grahāḥ tārāḥ jajvaluḥ ca diśaḥ daśa .. 9 ..
तेन तप्तास्तुरास्सर्वे दिवं त्यक्त्वा सवासवाः ॥ ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः ॥ 2.5.57.१०॥
तेन तप्ताः तुराः सर्वे दिवम् त्यक्त्वा स वासवाः ॥ ब्रह्म-लोकम् ययुः विज्ञापयामासुः चचाल भूः ॥ २।५।५७।१०॥
tena taptāḥ turāḥ sarve divam tyaktvā sa vāsavāḥ .. brahma-lokam yayuḥ vijñāpayāmāsuḥ cacāla bhūḥ .. 2.5.57.10..
देवा ऊचुः ।।
विधे गजासुरतपस्तप्ता वयमथाकुलाः ॥ न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः ॥ ११ ॥
विधे गज-असुर-तपः-तप्ताः वयम् अथ आकुलाः ॥ न शक्नुमः दिवि स्थातुम् अतस् ते शरणम् गताः ॥ ११ ॥
vidhe gaja-asura-tapaḥ-taptāḥ vayam atha ākulāḥ .. na śaknumaḥ divi sthātum atas te śaraṇam gatāḥ .. 11 ..
विधेह्युपशमं तस्य चान्याञ्जीवयितुं कृपा ॥ लोका नंक्ष्यत्यन्यथा हि सत्यंसत्यं ब्रुवामहे ॥ १२॥
विधेहि उपशमम् तस्य च अन्यान् जीवयितुम् कृपा ॥ लोकाः नंक्ष्यति अन्यथा हि सत्यम् सत्यम् ब्रुवामहे ॥ १२॥
vidhehi upaśamam tasya ca anyān jīvayitum kṛpā .. lokāḥ naṃkṣyati anyathā hi satyam satyam bruvāmahe .. 12..
इति विज्ञापितो देवैर्वासवाद्यैस्स आत्मभूः ॥ भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम् ॥ १३ ॥
इति विज्ञापितः देवैः वासव-आद्यैः सः आत्मभूः ॥ भृगु-दक्ष-आदिभिः ब्रह्मा ययौ दैत्य-वर-आश्रमम् ॥ १३ ॥
iti vijñāpitaḥ devaiḥ vāsava-ādyaiḥ saḥ ātmabhūḥ .. bhṛgu-dakṣa-ādibhiḥ brahmā yayau daitya-vara-āśramam .. 13 ..
तपंतं तपसा लोका न्यथाऽभ्रापिहितं दिवि ॥ विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः ॥ १४ ॥
तपंतम् तपसा लोकाः न्यथा अभ्र-अपिहितम् दिवि ॥ विलक्ष्य विस्मितः प्राह विहसन् सृष्टि-कारकः ॥ १४ ॥
tapaṃtam tapasā lokāḥ nyathā abhra-apihitam divi .. vilakṣya vismitaḥ prāha vihasan sṛṣṭi-kārakaḥ .. 14 ..
ब्रह्मोवाच ।।
उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपस्सिद्धोसि माहिषे ॥ प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम्॥ १५॥
उत्तिष्ठ उत्तिष्ठ दैत्य-इन्द्र तपः-सिद्धः असि माहिषे ॥ प्राप्तः अहम् वर-दः तात वरम् वृणु यथा ईप्सितम्॥ १५॥
uttiṣṭha uttiṣṭha daitya-indra tapaḥ-siddhaḥ asi māhiṣe .. prāptaḥ aham vara-daḥ tāta varam vṛṇu yathā īpsitam.. 15..
सनत्कुमार उवाच ।।
उत्थायोत्थाय दैत्येन्द्र ईक्षमाणो दृशा विभुम्॥ गिरा गद्गदया प्रीतोऽगृणाद्देवं स माहिषिः ॥ ।३५।
उत्थाय उत्थाय दैत्य-इन्द्रः ईक्षमाणः दृशा विभुम्॥ गिरा गद्गदया प्रीतः अगृणात् देवम् स माहिषिः ॥ ।३५।
utthāya utthāya daitya-indraḥ īkṣamāṇaḥ dṛśā vibhum.. girā gadgadayā prītaḥ agṛṇāt devam sa māhiṣiḥ .. .35.
गजासुर उवाच ।।
नमस्ते देवदेवेश यदि दास्यसि मे वरम्॥ अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः ॥ १७॥
नमः ते देवदेवेश यदि दास्यसि मे वरम्॥ अवध्यः अहम् भवेयम् वै स्त्रीपुंसैः काम-निर्जितैः ॥ १७॥
namaḥ te devadeveśa yadi dāsyasi me varam.. avadhyaḥ aham bhaveyam vai strīpuṃsaiḥ kāma-nirjitaiḥ .. 17..
महाबलो महावीर्योऽजेयो देवादिभिस्सदा ॥ सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो ॥ १८॥
महा-बलः महा-वीर्यः अजेयः देव-आदिभिः सदा ॥ सर्वेषाम् लोकपालानाम् निखिल-ऋद्धि-सुभुज् विभो ॥ १८॥
mahā-balaḥ mahā-vīryaḥ ajeyaḥ deva-ādibhiḥ sadā .. sarveṣām lokapālānām nikhila-ṛddhi-subhuj vibho .. 18..
सनत्कुमार उवाच ।।
एवं वृतश्शतधृतिर्दानवेन स तेन वै ॥ प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम् ॥ १९॥
एवम् वृतः शतधृतिः दानवेन स तेन वै ॥ प्रादात् तद्-तपसा प्रीतः वरम् तस्य सु दुर्लभम् ॥ १९॥
evam vṛtaḥ śatadhṛtiḥ dānavena sa tena vai .. prādāt tad-tapasā prītaḥ varam tasya su durlabham .. 19..
एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः ॥ सुप्रसन्नमनास्सोऽथ स्वधाम प्रत्यपद्यत ॥ 2.5.57.२० ॥
एवम् लब्ध-वरः दैत्यः माहिषिः च गज-असुरः ॥ सु प्रसन्न-मनाः सः अथ स्व-धाम प्रत्यपद्यत ॥ २।५।५७।२० ॥
evam labdha-varaḥ daityaḥ māhiṣiḥ ca gaja-asuraḥ .. su prasanna-manāḥ saḥ atha sva-dhāma pratyapadyata .. 2.5.57.20 ..
स विजित्य दिशस्सर्वा लोकांश्च त्रीन्महासुरः ॥ देवासुरमनुष्येन्द्रान्गंधर्वगरुडोरगान् ॥ २१ ॥
स विजित्य दिशः सर्वाः लोकान् च त्रीन् महा-असुरः ॥ देव-असुर-मनुष्य-इन्द्रान् गंधर्व-गरुड-उरगान् ॥ २१ ॥
sa vijitya diśaḥ sarvāḥ lokān ca trīn mahā-asuraḥ .. deva-asura-manuṣya-indrān gaṃdharva-garuḍa-uragān .. 21 ..
इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् ॥ जहार लोकपालानां स्थानानि सह तेजसा ॥ २२ ॥
इत्यादीन् निखिलान् जित्वा वशम् आनीय विश्वजित् ॥ जहार लोकपालानाम् स्थानानि सह तेजसा ॥ २२ ॥
ityādīn nikhilān jitvā vaśam ānīya viśvajit .. jahāra lokapālānām sthānāni saha tejasā .. 22 ..
देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ॥ महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥ २३ ॥
देव-उद्यान-श्रिया जुष्टम् अध्यास्ते स्म त्रिविष्टपम् ॥ महा-इन्द्र-भवनम् साक्षात् निर्मितम् विश्वकर्मणा ॥ २३ ॥
deva-udyāna-śriyā juṣṭam adhyāste sma triviṣṭapam .. mahā-indra-bhavanam sākṣāt nirmitam viśvakarmaṇā .. 23 ..
तस्मिन्महेन्द्रस्य गृहे महाबलो महामना निर्जितलोक एकराट्॥ रेमेऽभिवंद्यांघ्रियुगः सुरादिभिः प्रतापितैरूर्जितचंडशासनः॥ २४॥
तस्मिन् महा-इन्द्रस्य गृहे महा-बलः महामनाः निर्जित-लोकः एकराज्॥ रेमे अभिवंद्य अंघ्रि-युगः सुर-आदिभिः प्रतापितैः ऊर्जित-चंड-शासनः॥ २४॥
tasmin mahā-indrasya gṛhe mahā-balaḥ mahāmanāḥ nirjita-lokaḥ ekarāj.. reme abhivaṃdya aṃghri-yugaḥ sura-ādibhiḥ pratāpitaiḥ ūrjita-caṃḍa-śāsanaḥ.. 24..
स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् ॥ यथोपजोषं भुंजानो नातृप्यदजितेन्द्रियः ॥ २५ ॥
सः इत्थम् विषयान् प्रियान् ॥ यथोपजोषम् भुंजानः न अतृप्यत् अजित-इन्द्रियः ॥ २५ ॥
saḥ ittham viṣayān priyān .. yathopajoṣam bhuṃjānaḥ na atṛpyat ajita-indriyaḥ .. 25 ..
एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ॥ काले व्यतीते महति पापबुद्धिरभूत्ततः ॥ २६ ॥
एवम् ऐश्वर्य-मत्तस्य दृप्तस्य उच्छास्त्र-वर्तिनः ॥ काले व्यतीते महति पाप-बुद्धिः अभूत् ततस् ॥ २६ ॥
evam aiśvarya-mattasya dṛptasya ucchāstra-vartinaḥ .. kāle vyatīte mahati pāpa-buddhiḥ abhūt tatas .. 26 ..
महिषासुरपुत्रोऽसौ संचिक्लेश द्विजान्वरान् ॥ तापसान्नितरां पृथ्व्यां दानवस्सुखमर्दनः ॥ २७ ॥
महिष-असुर-पुत्रः असौ संचिक्लेश द्विजान् वरान् ॥ तापसान् नितराम् पृथ्व्याम् दानवः सुख-मर्दनः ॥ २७ ॥
mahiṣa-asura-putraḥ asau saṃcikleśa dvijān varān .. tāpasān nitarām pṛthvyām dānavaḥ sukha-mardanaḥ .. 27 ..
सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेश दुर्मतिः ॥ धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन् ॥ २८ ॥
सुरान् नरान् च प्रमथान् सर्वान् चिक्लेश दुर्मतिः ॥ धर्म-अन्वितान् विशेषेण पूर्व-वैरम् अनुस्मरन् ॥ २८ ॥
surān narān ca pramathān sarvān cikleśa durmatiḥ .. dharma-anvitān viśeṣeṇa pūrva-vairam anusmaran .. 28 ..
एकस्मिन्समये तात दानवोऽसौ महाबलः ॥ अगच्छद्राजधानीं व शंकरस्य गजासुरः ॥ २९ ॥
एकस्मिन् समये तात दानवः असौ महा-बलः ॥ अगच्छत् राजधानीम् वः शंकरस्य गज-असुरः ॥ २९ ॥
ekasmin samaye tāta dānavaḥ asau mahā-balaḥ .. agacchat rājadhānīm vaḥ śaṃkarasya gaja-asuraḥ .. 29 ..
समागतेऽसुरेन्द्रे हि महान्कलकलो मुने ॥ त्रातत्रातेति तत्रासीदानंदनवासिनाम् ॥ 2.5.57.३० ॥
समागते असुर-इन्द्रे हि महान् कलकलः मुने ॥ त्रात-त्रात-इति तत्र आसीत् आनन्दन-वासिनाम् ॥ २।५।५७।३० ॥
samāgate asura-indre hi mahān kalakalaḥ mune .. trāta-trāta-iti tatra āsīt ānandana-vāsinām .. 2.5.57.30 ..
महिषाऽसुरपुत्रोऽसौ यदा पुर्यां समागतः ॥ प्रमथन्प्रमथान्सर्वान्निजवीर्यमदोद्धतः॥ ३१॥
महिष-असुर-पुत्रः असौ यदा पुर्याम् समागतः ॥ प्रमथन् प्रमथान् सर्वान् निज-वीर्य-मद-उद्धतः॥ ३१॥
mahiṣa-asura-putraḥ asau yadā puryām samāgataḥ .. pramathan pramathān sarvān nija-vīrya-mada-uddhataḥ.. 31..
तस्मिन्नवसरे देवाश्शक्राद्यास्तत्पराजिताः ॥ शिवस्य शरणं जग्मुर्नत्वा तुष्टुवुरादरात् ॥ ३२ ॥
तस्मिन् अवसरे देवाः शक्र-आद्याः तद्-पराजिताः ॥ शिवस्य शरणम् जग्मुः नत्वा तुष्टुवुः आदरात् ॥ ३२ ॥
tasmin avasare devāḥ śakra-ādyāḥ tad-parājitāḥ .. śivasya śaraṇam jagmuḥ natvā tuṣṭuvuḥ ādarāt .. 32 ..
न्यवेदयन्दानवस्य तस्य काश्यां समागमम् ॥ क्लेशाधिक्यं तत्रत्यानां तन्नाथानां विशेषतः ॥ ३३ ॥
न्यवेदयन् दानवस्य तस्य काश्याम् समागमम् ॥ क्लेश-आधिक्यम् तत्रत्यानाम् तद्-नाथानाम् विशेषतः ॥ ३३ ॥
nyavedayan dānavasya tasya kāśyām samāgamam .. kleśa-ādhikyam tatratyānām tad-nāthānām viśeṣataḥ .. 33 ..
देवा ऊचुः ।।
देवदेव महादेव तव पुर्यां गतोसुरः ॥ कष्टं दत्ते त्वज्जनानां तं जहि त्वं कृपानिधे ॥ ३४ ॥
देवदेव महादेव तव पुर्याम् गत-उसुरः ॥ कष्टम् दत्ते त्वद्-जनानाम् तम् जहि त्वम् कृपा-निधे ॥ ३४ ॥
devadeva mahādeva tava puryām gata-usuraḥ .. kaṣṭam datte tvad-janānām tam jahi tvam kṛpā-nidhe .. 34 ..
यत्रयत्र धरायां च चरणं प्रमिणोति हि ॥ अचलां सचलां तत्र करोति निज भारतः ॥ ३५ ॥
यत्र यत्र धरायाम् च चरणम् प्रमिणोति हि ॥ अचलाम् स चलाम् तत्र करोति निज भारतः ॥ ३५ ॥
yatra yatra dharāyām ca caraṇam pramiṇoti hi .. acalām sa calām tatra karoti nija bhārataḥ .. 35 ..
ऊरुवेगेन तरवः पतंति शिखरैस्सह ॥ यस्य दोर्दंडघातेन चूर्णा स्युश्च शिलोच्चयाः ॥ ३६ ॥
ऊरु-वेगेन तरवः पतन्ति शिखरैः सह ॥ यस्य दोस्-दंड-घातेन चूर्णा स्युः च शिलोच्चयाः ॥ ३६ ॥
ūru-vegena taravaḥ patanti śikharaiḥ saha .. yasya dos-daṃḍa-ghātena cūrṇā syuḥ ca śiloccayāḥ .. 36 ..
यस्य मौलिजसंघर्षाद्घना व्योम त्यजंत्यपि ॥ नीलिमानं न चाद्यापि जह्युस्तत्केशसंगजम् ॥ ३७ ॥
यस्य मौलि-ज-संघर्षात् घनाः व्योम त्यजंति अपि ॥ नीलिमानम् न च अद्य अपि जह्युः तद्-केश-संग-जम् ॥ ३७ ॥
yasya mauli-ja-saṃgharṣāt ghanāḥ vyoma tyajaṃti api .. nīlimānam na ca adya api jahyuḥ tad-keśa-saṃga-jam .. 37 ..
यस्य विश्वाससंभारैरुत्तरंगा महाब्धयः ॥ नद्योप्यमन्दकल्लोला भवंति तिमिभिस्सह ॥ ३८ ॥
यस्य विश्वास-संभारैः उत्तरंगाः महा-अब्धयः ॥ नद्या उपि अमन्द-कल्लोलाः भवन्ति तिमिभिः सह ॥ ३८ ॥
yasya viśvāsa-saṃbhāraiḥ uttaraṃgāḥ mahā-abdhayaḥ .. nadyā upi amanda-kallolāḥ bhavanti timibhiḥ saha .. 38 ..
योजनानां सहस्राणि नव यस्य समुच्छ्रयः ॥ तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि ॥ ३९ ॥
योजनानाम् सहस्राणि नव यस्य समुच्छ्रयः ॥ तावान् एव हि विस्तारः तनोः मायाविनः अस्य हि ॥ ३९ ॥
yojanānām sahasrāṇi nava yasya samucchrayaḥ .. tāvān eva hi vistāraḥ tanoḥ māyāvinaḥ asya hi .. 39 ..
यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ॥ विद्युताः नोह्यतेऽद्यापि सोऽयं स्माऽऽयाति सत्वरम् ॥ 2.5.57.४० ॥
यत् नेत्रयोः पिंगलिमा तथा तरलिमा पुनर् ॥ विद्युताः न उह्यते अद्य अपि सः अयम् स्मा आयाति सत्वरम् ॥ २।५।५७।४० ॥
yat netrayoḥ piṃgalimā tathā taralimā punar .. vidyutāḥ na uhyate adya api saḥ ayam smā āyāti satvaram .. 2.5.57.40 ..
यां यां दिशं समभ्येति सोयं दुस्सह दानवः ॥ अवध्योऽहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥ ४१ ॥
याम् याम् दिशम् समभ्येति सः उयम् दुस्सह दानवः ॥ अवध्यः अहम् भवामि इति स्त्रीपुंसैः काम-निर्जितैः ॥ ४१ ॥
yām yām diśam samabhyeti saḥ uyam dussaha dānavaḥ .. avadhyaḥ aham bhavāmi iti strīpuṃsaiḥ kāma-nirjitaiḥ .. 41 ..
इत्येवं चेष्टितं तस्य दानवस्य निवेदितम् ॥ रक्षस्व भक्तान्देवेश काशीरक्षणतत्पर ॥ ४२ ॥
इति एवम् चेष्टितम् तस्य दानवस्य निवेदितम् ॥ रक्षस्व भक्तान् देवेश काशी-रक्षण-तत्पर ॥ ४२ ॥
iti evam ceṣṭitam tasya dānavasya niveditam .. rakṣasva bhaktān deveśa kāśī-rakṣaṇa-tatpara .. 42 ..
सनत्कुमार उवाच ।।
इति संप्रार्थितो देवैर्भक्तरक्षणतत्परः ॥ तत्राऽऽजगाम सोरं तद्वधकामनया हरः ॥ ४३ ॥
इति संप्रार्थितः देवैः भक्त-रक्षण-तत्परः ॥ तत्र आजगाम सोरम् तद्-वध-कामनया हरः ॥ ४३ ॥
iti saṃprārthitaḥ devaiḥ bhakta-rakṣaṇa-tatparaḥ .. tatra ājagāma soram tad-vadha-kāmanayā haraḥ .. 43 ..
आगतं तं समालोक्य शंकरं भक्तवत्सलम् ॥ त्रिशूलहस्तं गर्जंतं जगर्ज स गजासुरः ॥ ४४ ॥
आगतम् तम् समालोक्य शंकरम् भक्त-वत्सलम् ॥ त्रिशूल-हस्तम् गर्जंतम् जगर्ज स गज-असुरः ॥ ४४ ॥
āgatam tam samālokya śaṃkaram bhakta-vatsalam .. triśūla-hastam garjaṃtam jagarja sa gaja-asuraḥ .. 44 ..
ततस्तयोर्महानासीत्समरो दारुणोऽद्भुतः ॥ नानास्त्रशस्त्रसंपातैर्वीरारावं प्रकुर्वतोः ॥ ४५ ॥
ततस् तयोः महान् आसीत् समरः दारुणः अद्भुतः ॥ नाना अस्त्र-शस्त्र-संपातैः वीर-आरावम् प्रकुर्वतोः ॥ ४५ ॥
tatas tayoḥ mahān āsīt samaraḥ dāruṇaḥ adbhutaḥ .. nānā astra-śastra-saṃpātaiḥ vīra-ārāvam prakurvatoḥ .. 45 ..
गजासुरोतितेजस्वी महाबलपराक्रमः ॥ विव्याध गिरिशं बाणैस्तीक्ष्णैर्दानवघातिनम् ॥ ४६ ॥
॥ विव्याध गिरिशम् बाणैः तीक्ष्णैः दानव-घातिनम् ॥ ४६ ॥
.. vivyādha giriśam bāṇaiḥ tīkṣṇaiḥ dānava-ghātinam .. 46 ..
अथ रुद्रो रौद्रतनुः स्वशरैरतिदारुणैः ॥ तच्छरांश्चिच्छिदे तूर्णमप्राप्तांस्तिलशो मुने ॥ ४७ ॥
अथ रुद्रः रौद्र-तनुः स्व-शरैः अति दारुणैः ॥ तद्-शरान् चिच्छिदे तूर्णम् अप्राप्तान् तिलशस् मुने ॥ ४७ ॥
atha rudraḥ raudra-tanuḥ sva-śaraiḥ ati dāruṇaiḥ .. tad-śarān cicchide tūrṇam aprāptān tilaśas mune .. 47 ..
ततो गजासुरः कुद्धोऽभ्यधावत्तं महेश्वरम् ॥ खड्गहस्तः प्रगर्ज्योच्चैर्हतोसीत्यद्य वै मया ॥ ४८ ॥
ततस् गज-असुरः कुद्धः अभ्यधावत् तम् महेश्वरम् ॥ खड्ग-हस्तः प्रगर्ज्य उच्चैस् हतः असि इति अद्य वै मया ॥ ४८ ॥
tatas gaja-asuraḥ kuddhaḥ abhyadhāvat tam maheśvaram .. khaḍga-hastaḥ pragarjya uccais hataḥ asi iti adya vai mayā .. 48 ..
ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ॥ विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥ ॥ ४९ ॥
ततस् त्रिशूल-हेतिः तम् आयांतम् दैत्य-पुंगवम् ॥ विज्ञाय अवध्यम् अन्येन शूलेन अभिजघान तम् ॥ ॥ ४९ ॥
tatas triśūla-hetiḥ tam āyāṃtam daitya-puṃgavam .. vijñāya avadhyam anyena śūlena abhijaghāna tam .. .. 49 ..
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥ छत्रीकृतमिवात्मानं मन्यमाना जगौ हरम् ॥ 2.5.57.५० ॥
प्रोतः तेन त्रिशूलेन स च दैत्यः गज-असुरः ॥ छत्रीकृतम् इव आत्मानम् मन्यमाना जगौ हरम् ॥ २।५।५७।५० ॥
protaḥ tena triśūlena sa ca daityaḥ gaja-asuraḥ .. chatrīkṛtam iva ātmānam manyamānā jagau haram .. 2.5.57.50 ..
गजासुर उवाच ।।
देवदेव महादेव तव भक्तोऽस्मि सर्वथा ॥ जाने त्वां त्रिदिवेशानं त्रिशूलिन्स्मरहारिणम् ॥ ५१ ॥
देवदेव महादेव तव भक्तः अस्मि सर्वथा ॥ जाने त्वाम् त्रिदिव-ईशानम् त्रिशूलिन् स्मर-हारिणम् ॥ ५१ ॥
devadeva mahādeva tava bhaktaḥ asmi sarvathā .. jāne tvām tridiva-īśānam triśūlin smara-hāriṇam .. 51 ..
तव हस्ते मम वधो महाश्रेयस्करो मतः ॥ अंधकारे महेशान त्रिपुरांतक सर्वग ॥ ५२ ॥
तव हस्ते मम वधः महा-श्रेयस्करः मतः ॥ अंधकारे महेशान त्रिपुरांतक सर्वग ॥ ५२ ॥
tava haste mama vadhaḥ mahā-śreyaskaraḥ mataḥ .. aṃdhakāre maheśāna tripurāṃtaka sarvaga .. 52 ..
किंचिद्विज्ञप्तुमिच्छामि तच्छृणुष्व कृपाकर ॥ सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय।५३॥
किंचिद् विज्ञप्तुम् इच्छामि तत् शृणुष्व कृपा-कर ॥ सत्यम् ब्रवीमि न असत्यम् मृत्युंजय विचारय।५३॥
kiṃcid vijñaptum icchāmi tat śṛṇuṣva kṛpā-kara .. satyam bravīmi na asatyam mṛtyuṃjaya vicāraya.53..
त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ॥ कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥ ५४॥
त्वम् एकः जगताम् वंद्यः विश्वस्य उपरि संस्थितः ॥ कालेन सर्वैः मर्तव्यम् श्रेयसे मृत्युः ईदृशः ॥ ५४॥
tvam ekaḥ jagatām vaṃdyaḥ viśvasya upari saṃsthitaḥ .. kālena sarvaiḥ martavyam śreyase mṛtyuḥ īdṛśaḥ .. 54..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य शंकरः करुणानिधिः ॥ प्रहस्य प्रत्युवाचेशो माहिषेयं गजासुरम्॥ ५५॥
इति आकर्ण्य वचः तस्य शंकरः करुणा-निधिः ॥ प्रहस्य प्रत्युवाच ईशः माहिषेयम् गज-असुरम्॥ ५५॥
iti ākarṇya vacaḥ tasya śaṃkaraḥ karuṇā-nidhiḥ .. prahasya pratyuvāca īśaḥ māhiṣeyam gaja-asuram.. 55..
ईश्वर उवाच ।।
महापराक्रमनिधे दानवोत्तम सन्मते ॥ गजासुर प्रसन्नोस्मि स्वानकूलं वरं वृणु ॥ ५६॥
महा-पराक्रम-निधे दानव-उत्तम सन्मते ॥ गज-असुर प्रसन्नः अस्मि स्वानकूलम् वरम् वृणु ॥ ५६॥
mahā-parākrama-nidhe dānava-uttama sanmate .. gaja-asura prasannaḥ asmi svānakūlam varam vṛṇu .. 56..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचनं वरदस्य हि ॥ प्रत्युवाच प्रसन्नात्मा दानवेन्द्रो गजासुरः॥ ५७॥
इति आकर्ण्य महेशस्य वचनम् वर-दस्य हि ॥ प्रत्युवाच प्रसन्न-आत्मा दानव-इन्द्रः गज-असुरः॥ ५७॥
iti ākarṇya maheśasya vacanam vara-dasya hi .. pratyuvāca prasanna-ātmā dānava-indraḥ gaja-asuraḥ.. 57..
गजासुर उवाच ।।
यदि प्रसन्नो दिग्वासस्तदा दित्यं वसान मे॥ इमां कृत्तिं महेशान त्वत्त्रिशूलाग्निपाविताम् ॥ ५८॥
यदि प्रसन्नः दिग्वासः तदा दित्यम् वसान मे॥ इमाम् कृत्तिम् महेशान त्वत् त्रिशूल-अग्नि-पाविताम् ॥ ५८॥
yadi prasannaḥ digvāsaḥ tadā dityam vasāna me.. imām kṛttim maheśāna tvat triśūla-agni-pāvitām .. 58..
स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ॥ दर्शनीयां महादिव्यां सर्वदैव सुखावहाम् ॥ ५९॥
स्व-प्रमाणाम् सुख-स्पर्शाम् रण-अंगण-पणीकृताम् ॥ दर्शनीयाम् महा-दिव्याम् सर्वदा एव सुख-आवहाम् ॥ ५९॥
sva-pramāṇām sukha-sparśām raṇa-aṃgaṇa-paṇīkṛtām .. darśanīyām mahā-divyām sarvadā eva sukha-āvahām .. 59..
इष्टगंधिस्सदैवास्तु सदैवास्त्वतिकोमला ॥ सदैव निर्मला चास्तु सदैवास्त्वतिमंडनाम् ॥ 2.5.57.६०॥
इष्ट-गंधिः सदा एव अस्तु सदा एव अस्तु अति कोमला ॥ सदा एव निर्मला च अस्तु सदा एव अस्तु अति मंडनाम् ॥ २।५।५७।६०॥
iṣṭa-gaṃdhiḥ sadā eva astu sadā eva astu ati komalā .. sadā eva nirmalā ca astu sadā eva astu ati maṃḍanām .. 2.5.57.60..
महातपोनलज्वालां प्राप्यापि सुचिरं विभो ॥ न दग्धा कृत्तिरेषा मे पुण्यगंधनिधेस्ततः ॥ ६१ ॥
महा-तपः-नल-ज्वालाम् प्राप्य अपि सु चिरम् विभो ॥ न दग्धा कृत्तिः एषा मे पुण्य-गंध-निधेः ततस् ॥ ६१ ॥
mahā-tapaḥ-nala-jvālām prāpya api su ciram vibho .. na dagdhā kṛttiḥ eṣā me puṇya-gaṃdha-nidheḥ tatas .. 61 ..
यदि पुण्यवती नैषा मम कृत्ति दिगंबर ॥ तदा त्वदंगसंगोस्याः कथं जातो रणांगणे ॥ ६२॥
यदि पुण्यवती ना एषा मम कृत्ति दिश्-अंबर ॥ तदा त्वद्-अंग-संगः उस्याः कथम् जातः रण-अंगणे ॥ ६२॥
yadi puṇyavatī nā eṣā mama kṛtti diś-aṃbara .. tadā tvad-aṃga-saṃgaḥ usyāḥ katham jātaḥ raṇa-aṃgaṇe .. 62..
अन्यं च मे वरं देहि यदि तुष्टोऽसि शंकर ॥ नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥ ६३॥
अन्यम् च मे वरम् देहि यदि तुष्टः असि शंकर ॥ नाम अस्तु कृत्तिवासाः ते प्रारभ्य अद्यतनम् दिनम् ॥ ६३॥
anyam ca me varam dehi yadi tuṣṭaḥ asi śaṃkara .. nāma astu kṛttivāsāḥ te prārabhya adyatanam dinam .. 63..
सनत्कुमार उवाच ।।
श्रुत्वेति स वचस्तस्य शंकरो भक्तवत्सलः॥ तथेत्युवाच सुप्रीतो महिषासुरजं च तम् ॥ ६४॥
श्रुत्वा इति स वचः तस्य शंकरः भक्त-वत्सलः॥ तथा इति उवाच सु प्रीतः महिष-असुर-जम् च तम् ॥ ६४॥
śrutvā iti sa vacaḥ tasya śaṃkaraḥ bhakta-vatsalaḥ.. tathā iti uvāca su prītaḥ mahiṣa-asura-jam ca tam .. 64..
पुनः प्रोवाच प्रीतात्मा दानवं तं गजासुरम् ॥ भक्तप्रियो महेशानो भक्तिनिर्मलमानसम्॥ ६५॥
पुनर् प्रोवाच प्रीत-आत्मा दानवम् तम् गज-असुरम् ॥ ॥ ६५॥
punar provāca prīta-ātmā dānavam tam gaja-asuram .. .. 65..
ईश्वर उवाच।।
इदं पुण्यं शरीरं ते क्षेत्रेऽस्मिन्मुक्तिसाधने॥ मम लिंगं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥ ६६॥
इदम् पुण्यम् शरीरम् ते क्षेत्रे अस्मिन् मुक्ति-साधने॥ मम लिंगम् भवतु अत्र सर्वेषाम् मुक्ति-दायकम् ॥ ६६॥
idam puṇyam śarīram te kṣetre asmin mukti-sādhane.. mama liṃgam bhavatu atra sarveṣām mukti-dāyakam .. 66..
कृत्तिवासेश्वरं नाम महापातकनाशनम्॥ सर्वेषामेव लिंगानां शिरोभूतं विमुक्तिदम्॥ ६७॥
कृत्तिवासेश्वरम् नाम महापातक-नाशनम्॥ सर्वेषाम् एव लिंगानाम् शिरः-भूतम् विमुक्ति-दम्॥ ६७॥
kṛttivāseśvaram nāma mahāpātaka-nāśanam.. sarveṣām eva liṃgānām śiraḥ-bhūtam vimukti-dam.. 67..
कथयित्वेति देवेशस्तत्कृतिं परिगृह्य च॥ गजासुरस्य महतीं प्रावृणोद्धि दिगंबरः॥ ६८॥
कथयित्वा इति देवेशः तद्-कृतिम् परिगृह्य च॥ गज-असुरस्य महतीम् प्रावृणोत् हि दिश्-अंबरः॥ ६८॥
kathayitvā iti deveśaḥ tad-kṛtim parigṛhya ca.. gaja-asurasya mahatīm prāvṛṇot hi diś-aṃbaraḥ.. 68..
महामहोत्सवो जातस्तस्मिन्नह्नि मुनीश्वर॥ हर्षमापुर्जनास्सर्वे काशीस्थाः प्रमथास्तथा॥ ६९॥
महा-महा-उत्सवः जातः तस्मिन् अह्नि मुनि-ईश्वर॥ हर्षम् आपुः जनाः सर्वे काशी-स्थाः प्रमथाः तथा॥ ६९॥
mahā-mahā-utsavaḥ jātaḥ tasmin ahni muni-īśvara.. harṣam āpuḥ janāḥ sarve kāśī-sthāḥ pramathāḥ tathā.. 69..
हरि ब्रह्मादयो देवा हर्षनिर्भरमानसाः॥ तुष्टुवुस्तं महेशानं नत्वा सांजलयस्ततः॥ 2.5.57.७०॥
हरि ब्रह्म-आदयः देवाः हर्ष-निर्भर-मानसाः॥ तुष्टुवुः तम् महेशानम् नत्वा स अंजलयः ततस्॥ २।५।५७।७०॥
hari brahma-ādayaḥ devāḥ harṣa-nirbhara-mānasāḥ.. tuṣṭuvuḥ tam maheśānam natvā sa aṃjalayaḥ tatas.. 2.5.57.70..
हते तस्मिन्दानवेशे माहिषे हि गजासुरे॥ स्वस्थानं भेजिरे देवा जगत्स्वास्थ्यमवाप च ॥ ७१॥
हते तस्मिन् दानव-ईशे माहिषे हि गज-असुरे॥ स्व-स्थानम् भेजिरे देवाः जगत् स्वास्थ्यम् अवाप च ॥ ७१॥
hate tasmin dānava-īśe māhiṣe hi gaja-asure.. sva-sthānam bhejire devāḥ jagat svāsthyam avāpa ca .. 71..
इत्युक्तं चरितं शंभोर्भक्तवात्सल्यसूचकम् ॥ स्वर्ग्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धनम् ॥ ७२ ॥
इति उक्तम् चरितम् शंभोः भक्त-वात्सल्य-सूचकम् ॥ स्वर्ग्यम् यशस्यम् आयुष्यम् धन-धान्य-प्रवर्द्धनम् ॥ ७२ ॥
iti uktam caritam śaṃbhoḥ bhakta-vātsalya-sūcakam .. svargyam yaśasyam āyuṣyam dhana-dhānya-pravarddhanam .. 72 ..
य इदं शृणुयात्प्रीत्या श्रावयेद्वा शुचिव्रतः ॥ स भुक्त्वा च महासौख्यं लभेतांते परं सुखम् ॥ ७३ ॥
यः इदम् शृणुयात् प्रीत्या श्रावयेत् वा शुचि-व्रतः ॥ स भुक्त्वा च महा-सौख्यम् लभेत अन्ते परम् सुखम् ॥ ७३ ॥
yaḥ idam śṛṇuyāt prītyā śrāvayet vā śuci-vrataḥ .. sa bhuktvā ca mahā-saukhyam labheta ante param sukham .. 73 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गजासुरवधो नाम सप्तपंचाशत्तमोऽध्यायः ॥ ५७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे गजासुरवधः नाम सप्तपंचाशत्तमः अध्यायः ॥ ५७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe gajāsuravadhaḥ nāma saptapaṃcāśattamaḥ adhyāyaḥ .. 57 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In