| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ॥ यथा दुंदुभिनिर्ह्रादमवधीद्दितिजं हरः ॥ १ ॥
शृणु व्यास प्रवक्ष्यामि चरितम् शशिमौलिनः ॥ यथा दुंदुभि-निर्ह्रादम् अवधीत् दितिजम् हरः ॥ १ ॥
śṛṇu vyāsa pravakṣyāmi caritam śaśimaulinaḥ .. yathā duṃdubhi-nirhrādam avadhīt ditijam haraḥ .. 1 ..
हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ॥ विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः? ॥ २ ॥
हिरण्याक्षे हते दैत्ये दितिपुत्रे महा-बले ॥ विष्णु-देवेन कालेन प्राप दुखम्? ॥ २ ॥
hiraṇyākṣe hate daitye ditiputre mahā-bale .. viṣṇu-devena kālena prāpa dukham? .. 2 ..
दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥ सांत्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥ ३॥
॥ सांत्वयामास ताम् वाग्भिः दुःखिताम् देव-दुःख-दः ॥ ३॥
.. sāṃtvayāmāsa tām vāgbhiḥ duḥkhitām deva-duḥkha-daḥ .. 3..
अथ दैत्यस्स मायावी दितिमाश्वास्य दैत्यराट् ॥ देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत् ॥ ४ ॥
अथ दैत्यः स मायावी दितिम् आश्वास्य दैत्य-राज् ॥ देवाः कथम् सु जेयाः स्युः इति उपायम् अर्चितयत् ॥ ४ ॥
atha daityaḥ sa māyāvī ditim āśvāsya daitya-rāj .. devāḥ katham su jeyāḥ syuḥ iti upāyam arcitayat .. 4 ..
देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ॥ विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः ॥ ५ ॥
देवैः च घातितः वीरः हिरण्याक्षः महा-असुरः ॥ विष्णुना च सह भ्रात्रा स छलैः देत्य-वैरिभिः ॥ ५ ॥
devaiḥ ca ghātitaḥ vīraḥ hiraṇyākṣaḥ mahā-asuraḥ .. viṣṇunā ca saha bhrātrā sa chalaiḥ detya-vairibhiḥ .. 5 ..
किंबलाश्च किमाहारा किमाधारा हि निर्जराः ॥ मया कथं सुजेयास्स्युरित्युपायमचिंतयत् ॥ ६ ॥
किंबलाः च किमाहाराः किमाधाराः हि निर्जराः ॥ मया कथम् सु जेयाः स्युः इति उपायम् अचिंतयत् ॥ ६ ॥
kiṃbalāḥ ca kimāhārāḥ kimādhārāḥ hi nirjarāḥ .. mayā katham su jeyāḥ syuḥ iti upāyam aciṃtayat .. 6 ..
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ॥ अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥ ७ ॥
विचार्य बहुशस् दैत्यः तत्त्वम् विज्ञाय निश्चितम् ॥ अवश्यम् अग्रजन्मानः हेतवः अत्र विचारतः ॥ ७ ॥
vicārya bahuśas daityaḥ tattvam vijñāya niścitam .. avaśyam agrajanmānaḥ hetavaḥ atra vicārataḥ .. 7 ..
ब्राह्मणान्हंतुमसकृदन्वधावत वै ततः ॥ दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥ ८॥
ब्राह्मणान् हंतुम् असकृत् अन्वधावत वै ततस् ॥ ॥ ८॥
brāhmaṇān haṃtum asakṛt anvadhāvata vai tatas .. .. 8..
यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः॥ ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः॥ ९॥
यतस् क्रतु-भुजः देवाः क्रतवः वेद-संभवाः॥ ते वेदाः ब्राह्मण-आधाराः ततस् देव-बलम् द्विजाः॥ ९॥
yatas kratu-bhujaḥ devāḥ kratavaḥ veda-saṃbhavāḥ.. te vedāḥ brāhmaṇa-ādhārāḥ tatas deva-balam dvijāḥ.. 9..
निश्चितं ब्राह्मणाधारास्सर्वे वेदास्सवासवाः॥ गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥ 2.5.58.१०॥
निश्चितम् ब्राह्मण-आधाराः सर्वे वेदाः स वासवाः॥ गीर्वाणाः ब्राह्मण-बलाः न अत्र कार्या विचारणा ॥ २।५।५८।१०॥
niścitam brāhmaṇa-ādhārāḥ sarve vedāḥ sa vāsavāḥ.. gīrvāṇāḥ brāhmaṇa-balāḥ na atra kāryā vicāraṇā .. 2.5.58.10..
ब्राह्मणा यदि नष्टास्स्युर्वेदा नष्टास्ततस्त्वयम्॥ अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः॥ ११॥
ब्राह्मणाः यदि नष्टाः स्युः वेदाः नष्टाः ततस् तु अयम्॥ अतस् तेषु प्रणष्टेषु विनष्टाः सततम् सुराः॥ ११॥
brāhmaṇāḥ yadi naṣṭāḥ syuḥ vedāḥ naṣṭāḥ tatas tu ayam.. atas teṣu praṇaṣṭeṣu vinaṣṭāḥ satatam surāḥ.. 11..
यज्ञेषु नाशं गच्छत्सु हताहारास्ततस्सुराः॥ निर्बलास्सुखजय्याः स्युर्निर्जितेषु सुरेष्वथ।१२॥
यज्ञेषु नाशम् गच्छत्सु हत-आहाराः ततस् सुराः॥ निर्बलाः सुख-जय्याः स्युः निर्जितेषु सुरेषु अथ।१२॥
yajñeṣu nāśam gacchatsu hata-āhārāḥ tatas surāḥ.. nirbalāḥ sukha-jayyāḥ syuḥ nirjiteṣu sureṣu atha.12..
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥ अहरिष्यामि देवा नामक्षयास्सर्वसंपदः ॥ १३ ॥
अहम् एव भविष्यामि मान्यः त्रिजगतीपतिः ॥ अहरिष्यामि देवाः नाम-क्षयाः सर्व-संपदः ॥ १३ ॥
aham eva bhaviṣyāmi mānyaḥ trijagatīpatiḥ .. ahariṣyāmi devāḥ nāma-kṣayāḥ sarva-saṃpadaḥ .. 13 ..
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ॥ इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्खलः ॥ १४॥
निर्वेक्ष्यामि सुखानि एव राज्ये निहत-कंटके ॥ इति निश्चित्य दुर्बुद्धिः पुनर् चिंतितवान् खलः ॥ १४॥
nirvekṣyāmi sukhāni eva rājye nihata-kaṃṭake .. iti niścitya durbuddhiḥ punar ciṃtitavān khalaḥ .. 14..
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिता॥ श्रुत्यध्यनसंपन्नास्तपोबलसमन्विताः॥ १५॥
द्विजाः क्व संति भूयांसः ब्रह्म-तेजः-उति-बृंहिता॥ श्रुति-अध्यन-संपन्नाः तपः-बल-समन्विताः॥ १५॥
dvijāḥ kva saṃti bhūyāṃsaḥ brahma-tejaḥ-uti-bṛṃhitā.. śruti-adhyana-saṃpannāḥ tapaḥ-bala-samanvitāḥ.. 15..
भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ॥ तामादावुपसंहृत्य यायां तीर्थांतरं ततः ॥ १६॥
भूयसाम् ब्राह्मणानाम् तु स्थानम् वाराणसी खलु ॥ ताम् आदौ उपसंहृत्य यायाम् तीर्थ-अंतरम् ततस् ॥ १६॥
bhūyasām brāhmaṇānām tu sthānam vārāṇasī khalu .. tām ādau upasaṃhṛtya yāyām tīrtha-aṃtaram tatas .. 16..
यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ॥ संति सर्वेऽग्रजन्मानस्ते मयाद्यास्समंततः ॥ १७ ॥
यत्र यत्र हि तीर्थेषु यत्र यत्र आश्रमेषु च ॥ संति सर्वे अग्रजन्मानः ते मया आद्याः समंततः ॥ १७ ॥
yatra yatra hi tīrtheṣu yatra yatra āśrameṣu ca .. saṃti sarve agrajanmānaḥ te mayā ādyāḥ samaṃtataḥ .. 17 ..
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥ प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ॥ १८ ॥
इति दुंदुभि-निर्ह्रादः मतिम् कृत्वा कुल-उचिताम् ॥ प्राप्य अपि काशीम् दुर्वृत्तः मायावी न्यवधीत् द्विजान् ॥ १८ ॥
iti duṃdubhi-nirhrādaḥ matim kṛtvā kula-ucitām .. prāpya api kāśīm durvṛttaḥ māyāvī nyavadhīt dvijān .. 18 ..
समित्कुशान्समादातुं यत्र यांति द्विजोत्तमाः ॥ अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥ १९ ॥
समिध्-कुशान् समादातुम् यत्र यान्ति द्विजोत्तमाः ॥ अरण्ये तत्र तान् सर्वान् स भक्षयति दुर्मतिः ॥ १९ ॥
samidh-kuśān samādātum yatra yānti dvijottamāḥ .. araṇye tatra tān sarvān sa bhakṣayati durmatiḥ .. 19 ..
यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ॥ वने वनेचरो भूत्वा यादोरूपो जलाशये ॥ 2.5.58.२०॥
यथा कः अपि न वेत्ति एवम् तथा अच्छन्नः अभवत् पुनर् ॥ वने वनेचरः भूत्वा यादः-रूपः जलाशये ॥ २।५।५८।२०॥
yathā kaḥ api na vetti evam tathā acchannaḥ abhavat punar .. vane vanecaraḥ bhūtvā yādaḥ-rūpaḥ jalāśaye .. 2.5.58.20..
अदृश्यरूपी मायावी देवानामप्यगोचरः ॥ दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥ २१ ॥
अदृश्य-रूपी मायावी देवानाम् अपि अगोचरः ॥ दिवा ध्यान-परः तिष्ठेत् मुनि-वत् मुनि-मध्य-गः ॥ २१ ॥
adṛśya-rūpī māyāvī devānām api agocaraḥ .. divā dhyāna-paraḥ tiṣṭhet muni-vat muni-madhya-gaḥ .. 21 ..
प्रवेशमुटजानां च निर्गमं हि विलोकयन् ॥ यामिन्यां व्याघ्ररूपेणाभक्षयद्ब्राह्मणान्बहून् ॥ २२ ॥
प्रवेश-मुटजानाम् च निर्गमम् हि विलोकयन् ॥ यामिन्याम् व्याघ्र-रूपेण अभक्षयत् ब्राह्मणान् बहून् ॥ २२ ॥
praveśa-muṭajānām ca nirgamam hi vilokayan .. yāminyām vyāghra-rūpeṇa abhakṣayat brāhmaṇān bahūn .. 22 ..
निश्शंकम्भक्षयत्येवं न त्यजत्यपि कीकशम् ॥ इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥ २३ ॥
निश्शंकम् भक्षयति एवम् न त्यजति अपि कीकशम् ॥ इत्थम् निपातिताः तेन विप्राः दुष्टेन भूरिशस् ॥ २३ ॥
niśśaṃkam bhakṣayati evam na tyajati api kīkaśam .. ittham nipātitāḥ tena viprāḥ duṣṭena bhūriśas .. 23 ..
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥ सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥ २४ ॥
एकदा शिवरात्रौ तु भक्तः तु एकः निज-उटजे ॥ सपर्याम् देवदेवस्य कृत्वा ध्यान-स्थितः अभवत् ॥ २४ ॥
ekadā śivarātrau tu bhaktaḥ tu ekaḥ nija-uṭaje .. saparyām devadevasya kṛtvā dhyāna-sthitaḥ abhavat .. 24 ..
स च दुंदुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ॥ व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥ २५ ॥
स च दुंदुभि-निर्ह्रादः दैत्य-इन्द्रः बल-दर्पितः ॥ व्याघ्र-रूपम् समास्थाय तम् आदातुम् मतिम् दधे ॥ २५ ॥
sa ca duṃdubhi-nirhrādaḥ daitya-indraḥ bala-darpitaḥ .. vyāghra-rūpam samāsthāya tam ādātum matim dadhe .. 25 ..
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ॥ कृतास्त्रमन्त्रविन्यासं तं क्रांतुमशकन्न सः ॥ २६ ॥
तम् भक्तम् ध्यानम् आपन्नम् दृढ-चित्तम् शिव-ईक्षणे ॥ कृत-अस्त्र-मन्त्र-विन्यासम् तम् क्रांतुम् अशकत् न सः ॥ २६ ॥
tam bhaktam dhyānam āpannam dṛḍha-cittam śiva-īkṣaṇe .. kṛta-astra-mantra-vinyāsam tam krāṃtum aśakat na saḥ .. 26 ..
अथ सर्वं गतश्शम्भुर्ज्ञात्वा तस्याशयं हरः ॥ दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥ २७ ॥
अथ सर्वम् गतः शम्भुः ज्ञात्वा तस्य आशयम् हरः ॥ दैत्यस्य दुष्ट-रूपस्य वधाय विदधे धियम् ॥ २७ ॥
atha sarvam gataḥ śambhuḥ jñātvā tasya āśayam haraḥ .. daityasya duṣṭa-rūpasya vadhāya vidadhe dhiyam .. 27 ..
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥ जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥ २८ ॥
यावत् आदित्सति व्याघ्रः तावत् आविरभूत् हरः ॥ ॥ २८ ॥
yāvat āditsati vyāghraḥ tāvat āvirabhūt haraḥ .. .. 28 ..
रुद्रमायांतमालोक्य तद्भक्तार्चितलिंगतः ॥ दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥ २९ ॥
रुद्र-माया-अन्तम् आलोक्य तद्-भक्त-अर्चित-लिंगतः ॥ दैत्यः तेन एव रूपेण ववृधे भूधर-उपमः ॥ २९ ॥
rudra-māyā-antam ālokya tad-bhakta-arcita-liṃgataḥ .. daityaḥ tena eva rūpeṇa vavṛdhe bhūdhara-upamaḥ .. 29 ..
सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ॥ तावदायातमादाय कक्षायंत्रे न्यपीडयत् ॥ 2.5.58.३० ॥
स अवज्ञम् अथ सर्वज्ञम् यावत् पश्यति दानवः ॥ तावत् आयातम् आदाय कक्षायंत्रे न्यपीडयत् ॥ २।५।५८।३० ॥
sa avajñam atha sarvajñam yāvat paśyati dānavaḥ .. tāvat āyātam ādāya kakṣāyaṃtre nyapīḍayat .. 2.5.58.30 ..
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्द्धन्यताडयत॥ भक्तवत्सलनामासौ वज्रादपि कठोरया॥ ३१॥
पंचास्यः तु अथ पंचास्यम् मुष्ट्या मूर्द्धनि अताडयत॥ भक्त-वत्सल-नामा असौ वज्रात् अपि कठोरया॥ ३१॥
paṃcāsyaḥ tu atha paṃcāsyam muṣṭyā mūrddhani atāḍayata.. bhakta-vatsala-nāmā asau vajrāt api kaṭhorayā.. 31..
स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ॥ अत्यार्तमारटद्व्याघ्रो रोदसीं पूरयन्मृतः ॥ ३२ ॥
स तेन मुष्टि-घातेन कक्षा-निष्पेषणेन च ॥ अति आर्तम् आरटत् व्याघ्रः रोदसीम् पूरयन् मृतः ॥ ३२ ॥
sa tena muṣṭi-ghātena kakṣā-niṣpeṣaṇena ca .. ati ārtam āraṭat vyāghraḥ rodasīm pūrayan mṛtaḥ .. 32 ..
तेन नादेन महता संप्रवेपितमानसाः ॥ तपोधनास्समाजग्मुर्निशि शब्दानुसारतः ॥ ३३॥
तेन नादेन महता संप्रवेपित-मानसाः ॥ तपोधनाः समाजग्मुः निशि शब्द-अनुसारतः ॥ ३३॥
tena nādena mahatā saṃpravepita-mānasāḥ .. tapodhanāḥ samājagmuḥ niśi śabda-anusārataḥ .. 33..
अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ॥ तुष्टुवुः प्रणतास्सर्वे शर्वं जयजयाक्षरैः ॥ ३४॥
अत्र ईश्वरम् समालोक्य कक्षीकृत-मृगेश्वरम् ॥ तुष्टुवुः प्रणताः सर्वे शर्वम् जय जय अक्षरैः ॥ ३४॥
atra īśvaram samālokya kakṣīkṛta-mṛgeśvaram .. tuṣṭuvuḥ praṇatāḥ sarve śarvam jaya jaya akṣaraiḥ .. 34..
ब्राह्मणा ऊचुः ।।
परित्राताः परित्राताः प्रत्यूहाद्दारुणादितः ॥ अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्गुरो ॥ ३५॥
परित्राताः परित्राताः प्रत्यूहात् दारुणात् इतः ॥ अनुग्रहम् कुरुष्व ईश तिष्ठ अत्र एव जगद्गुरो ॥ ३५॥
paritrātāḥ paritrātāḥ pratyūhāt dāruṇāt itaḥ .. anugraham kuruṣva īśa tiṣṭha atra eva jagadguro .. 35..
अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ॥ कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥ ३६॥
अनेन एव स्वरूपेण व्याघ्रेशः इति नामतः ॥ कुरु रक्षाम् महादेव ज्येष्ठस्थानस्य सर्वदा ॥ ३६॥
anena eva svarūpeṇa vyāghreśaḥ iti nāmataḥ .. kuru rakṣām mahādeva jyeṣṭhasthānasya sarvadā .. 36..
अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ॥ दुष्टानष्टास्य? गौरीश भक्तेभ्यो देहि चाभयम् ॥ ॥ ३७ ॥
अन्येभ्यः हि उपसर्गेभ्यः रक्ष नः तीर्थ-वासिनः ॥ दुष्ट-अ नष्ट-अस्य? गौरीश भक्तेभ्यः देहि च अभयम् ॥ ॥ ३७ ॥
anyebhyaḥ hi upasargebhyaḥ rakṣa naḥ tīrtha-vāsinaḥ .. duṣṭa-a naṣṭa-asya? gaurīśa bhaktebhyaḥ dehi ca abhayam .. .. 37 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ॥ तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥ ३८ ।
इति आकर्ण्य वचः तेषाम् भक्तानाम् चन्द्रशेखरः ॥ तथा इति उक्त्वा पुनर् प्राह स भक्तान् भक्त-वत्सलः ॥ ३८ ।
iti ākarṇya vacaḥ teṣām bhaktānām candraśekharaḥ .. tathā iti uktvā punar prāha sa bhaktān bhakta-vatsalaḥ .. 38 .
महेश्वर उवाच ।।
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥ तस्योपसर्गसंधानं पातयिष्याम्यसंशयम् ॥ ३९ ॥
यः माम् अनेन रूपेण द्रक्ष्यति श्रद्धया अत्र वै ॥ तस्य उपसर्ग-संधानम् पातयिष्यामि असंशयम् ॥ ३९ ॥
yaḥ mām anena rūpeṇa drakṣyati śraddhayā atra vai .. tasya upasarga-saṃdhānam pātayiṣyāmi asaṃśayam .. 39 ..
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ॥ संग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥ 2.5.58.४०॥
मद्-चरित्रम् इदम् श्रुत्वा स्मृत्वा लिंगम् इदम् हृदि ॥ संग्रामे प्रविशन् मर्त्यः जयम् आप्नोति असंशयम् ॥ २।५।५८।४०॥
mad-caritram idam śrutvā smṛtvā liṃgam idam hṛdi .. saṃgrāme praviśan martyaḥ jayam āpnoti asaṃśayam .. 2.5.58.40..
एतस्मिन्नंतरे देवास्समाजग्मुस्सवासवाः ।जयेति शब्दं कुर्वंतो महोत्सवपुरस्सरम् ॥ ४१ ॥
एतस्मिन् अन्तरे देवाः समाजग्मुः स वासवाः ।जय इति शब्दम् कुर्वंतः महा-उत्सव-पुरस्सरम् ॥ ४१ ॥
etasmin antare devāḥ samājagmuḥ sa vāsavāḥ .jaya iti śabdam kurvaṃtaḥ mahā-utsava-purassaram .. 41 ..
प्रणम्य शंकरं प्रेम्णा सर्वे सांजलयस्सुराः ॥ नतस्कंधाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥ ४२ ॥
प्रणम्य शंकरम् प्रेम्णा सर्वे सांजलयः सुराः ॥ नत-स्कंधाः सु वाग्भिः ते तुष्टुवुः भक्त-वत्सलम् ॥ ४२ ॥
praṇamya śaṃkaram premṇā sarve sāṃjalayaḥ surāḥ .. nata-skaṃdhāḥ su vāgbhiḥ te tuṣṭuvuḥ bhakta-vatsalam .. 42 ..
देवा ऊचुः ।।
जय शंकर देवेश प्रणतार्तिहर प्रभो ॥ एतद्दुंदुभिनिर्ह्रादवधात्त्राता वयं सुराः ॥ ४३ ॥
जय शंकर देवेश प्रणत-आर्ति-हर प्रभो ॥ एतद्-दुंदुभि-निर्ह्राद-वधात् त्राताः वयम् सुराः ॥ ४३ ॥
jaya śaṃkara deveśa praṇata-ārti-hara prabho .. etad-duṃdubhi-nirhrāda-vadhāt trātāḥ vayam surāḥ .. 43 ..
सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ॥ वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥ ४४ ॥
सदा रक्षा प्रकर्तव्या भक्तानाम् भक्त-वत्सल ॥ वध्याः खलाः च देवेश त्वया सर्व-ईश्वर प्रभो ॥ ४४ ॥
sadā rakṣā prakartavyā bhaktānām bhakta-vatsala .. vadhyāḥ khalāḥ ca deveśa tvayā sarva-īśvara prabho .. 44 ..
इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ॥ तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिंगे लयं ययौ ॥ ४५ ॥
इति आकर्ण्य वचः तेषाम् सुराणाम् परमेश्वरः ॥ तथा इति उक्त्वा प्रसन्न-आत्मा तस्मिन् लिंगे लयम् ययौ ॥ ४५ ॥
iti ākarṇya vacaḥ teṣām surāṇām parameśvaraḥ .. tathā iti uktvā prasanna-ātmā tasmin liṃge layam yayau .. 45 ..
सविस्मयास्ततो देवास्स्वंस्वं धाम ययुर्मुदा ॥ तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥ ४६ ॥
स विस्मयाः ततस् देवाः स्वम् स्वम् धाम ययुः मुदा ॥ ते अपि विप्राः महा-हर्षात् पुनर् याताः यथागतम् ॥ ४६ ॥
sa vismayāḥ tatas devāḥ svam svam dhāma yayuḥ mudā .. te api viprāḥ mahā-harṣāt punar yātāḥ yathāgatam .. 46 ..
इदं चरित्रं परम व्याघ्रेश्वरसमुद्भवम् ॥ शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥ ४७ ॥
इदम् चरित्रम् परम व्याघ्र-ईश्वर-समुद्भवम् ॥ शृणुयात् श्रावयेत् वा अपि पठेत् वा पाठयेत् तथा ॥ ४७ ॥
idam caritram parama vyāghra-īśvara-samudbhavam .. śṛṇuyāt śrāvayet vā api paṭhet vā pāṭhayet tathā .. 47 ..
सर्वान्कामानवाप्नोति नरस्स्वमनसेसितान् ॥ परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥ ४८॥
सर्वान् कामान् अवाप्नोति नरः स्व-मनसा ईसितान् ॥ परत्र लभते मोक्षम् सर्व-दुःख-विवर्जितः ॥ ४८॥
sarvān kāmān avāpnoti naraḥ sva-manasā īsitān .. paratra labhate mokṣam sarva-duḥkha-vivarjitaḥ .. 48..
इदमाख्यानमतुलं शिवलीला मृताक्षरम्॥ स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥ ४९॥
इदम् आख्यानम् अतुलम् शिव-लीला मृत-अक्षरम्॥ स्वर्ग्यम् यशस्यम् आयुष्यम् पुत्र-पौत्र-प्रवर्द्धनम् ॥ ४९॥
idam ākhyānam atulam śiva-līlā mṛta-akṣaram.. svargyam yaśasyam āyuṣyam putra-pautra-pravarddhanam .. 49..
परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम्॥ परमज्ञानदं रम्यं विकारहरणं परम् ॥ 2.5.58.५० ॥
परम् भक्ति-प्रदम् धन्यम् शिव-प्रीति-करम् शिवम्॥ परम-ज्ञान-दम् रम्यम् विकार-हरणम् परम् ॥ २।५।५८।५० ॥
param bhakti-pradam dhanyam śiva-prīti-karam śivam.. parama-jñāna-dam ramyam vikāra-haraṇam param .. 2.5.58.50 ..
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्च० युद्धखण्डे दुंदुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
इति श्री-शिवमहापुराणे द्वि-रुद्रसंहितायाम् पञ्च-युद्धखण्डे दुंदुभिनिर्ह्राददैत्यवधवर्णनम् नाम अष्टपञ्चाशत्तमः अध्यायः ॥ ५८ ॥
iti śrī-śivamahāpurāṇe dvi-rudrasaṃhitāyām pañca-yuddhakhaṇḍe duṃdubhinirhrādadaityavadhavarṇanam nāma aṣṭapañcāśattamaḥ adhyāyaḥ .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In