| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः ॥ यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया ॥ १ ॥
शृणु व्यास सु संप्रीत्या चरितम् परमेशितुः ॥ यथा अवधीत् स्व-प्रियया दैत्यम् उद्दिश्य संज्ञया ॥ १ ॥
śṛṇu vyāsa su saṃprītyā caritam parameśituḥ .. yathā avadhīt sva-priyayā daityam uddiśya saṃjñayā .. 1 ..
आस्तां पुरा महादैत्यो विदलोत्पलसंज्ञकौ ॥ अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ॥ २॥
आस्ताम् पुरा महा-दैत्यः विदल-उत्पल-संज्ञकौ ॥ अ पुम् वध्यौ महा-वीरौ सु दृप्तौ वरतस् विधेः ॥ २॥
āstām purā mahā-daityaḥ vidala-utpala-saṃjñakau .. a pum vadhyau mahā-vīrau su dṛptau varatas vidheḥ .. 2..
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्ब लात् ॥ ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ॥ ३॥
तृणीकृत-त्रिजगती पुरुषाभ्याम् लात् ॥ ताभ्याम् सर्वे सुराः ब्रह्मन् दैत्याभ्याम् निर्जिताः रणे ॥ ३॥
tṛṇīkṛta-trijagatī puruṣābhyām lāt .. tābhyām sarve surāḥ brahman daityābhyām nirjitāḥ raṇe .. 3..
ताभ्यां पराजिता देवा विधेस्ते शरणं गताः ॥ नत्वा तं विधिवत्सर्वे कथयामासुरादरात ॥ ४ ॥
ताभ्याम् पराजिताः देवाः विधेः ते शरणम् गताः ॥ नत्वा तम् विधिवत् सर्वे कथयामासुः आदरात ॥ ४ ॥
tābhyām parājitāḥ devāḥ vidheḥ te śaraṇam gatāḥ .. natvā tam vidhivat sarve kathayāmāsuḥ ādarāta .. 4 ..
इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् ॥ धैर्य्यं कुरुत संस्मृत्य सशिवं शिवमादरात् ॥ ५ ॥
इति ब्रह्मा हि अवोचत् तान् देव्याः वध्यौ च तौ ध्रुवम् ॥ धैर्यम् कुरुत संस्मृत्य स शिवम् शिवम् आदरात् ॥ ५ ॥
iti brahmā hi avocat tān devyāḥ vadhyau ca tau dhruvam .. dhairyam kuruta saṃsmṛtya sa śivam śivam ādarāt .. 5 ..
भक्तवत्सलनामासौ सशिवश्शंकरश्शिवः ॥ शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ॥ ६ ॥
भक्त-वत्सल-नामा असौ स शिवः शंकरः शिवः ॥ शम् करिष्यति अदीर्घेण कालेन परमेश्वरः ॥ ६ ॥
bhakta-vatsala-nāmā asau sa śivaḥ śaṃkaraḥ śivaḥ .. śam kariṣyati adīrgheṇa kālena parameśvaraḥ .. 6 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् ॥ तेपि देवा मुदं प्राप्य स्वंस्वं धाम ययुस्तदा ॥ ७॥
इति उक्त्वा तान् ततस् ब्रह्मा तूष्णीम् आसीत् शिवम् स्मरन् ॥ ते अपि देवाः मुदम् प्राप्य स्वम् स्वम् धाम ययुः तदा ॥ ७॥
iti uktvā tān tatas brahmā tūṣṇīm āsīt śivam smaran .. te api devāḥ mudam prāpya svam svam dhāma yayuḥ tadā .. 7..
अथ नारददेवर्षिश्शिवप्रेरणया तदा ॥ गत्वा तदीयभवनं शिवासौंदर्यमाजगौ ॥ ८॥
अथ नारद-देवर्षिः शिव-प्रेरणया तदा ॥ गत्वा तदीय-भवनम् शिवा-सौंदर्यम् आजगौ ॥ ८॥
atha nārada-devarṣiḥ śiva-preraṇayā tadā .. gatvā tadīya-bhavanam śivā-sauṃdaryam ājagau .. 8..
श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ ॥ देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥ ९॥
श्रुत्वा तद्-वचनम् दैत्यौ आस्ताम् माया-विमोहितौ ॥ देवीम् परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥ ९॥
śrutvā tad-vacanam daityau āstām māyā-vimohitau .. devīm parijihīrṣū tau viṣameṣu prapīḍitau .. 9..
विचारयामासतुस्तौ कदा कुत्र शिवा च सा ॥ भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा ॥ 2.5.59.१० ॥
विचारयामासतुः तौ कदा कुत्र शिवा च सा ॥ भविष्यति विधेः प्राप्त-उदयात् नौ इति सर्वदा ॥ २।५।५९।१० ॥
vicārayāmāsatuḥ tau kadā kutra śivā ca sā .. bhaviṣyati vidheḥ prāpta-udayāt nau iti sarvadā .. 2.5.59.10 ..
एकस्मिन्समये शंभुर्विजहार सुलीलया ॥ कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ॥ ११ ॥
एकस्मिन् समये शंभुः विजहार सु लीलया ॥ कौतुकेन एव चिक्रीडे शिवा कन्दुक-लीलया ॥ ११ ॥
ekasmin samaye śaṃbhuḥ vijahāra su līlayā .. kautukena eva cikrīḍe śivā kanduka-līlayā .. 11 ..
सखीभिस्सह सुप्रीत्या कौतुकाच्छिवसन्निधौ ॥ १२॥
सखीभिः सह सुप्रीत्या कौतुकात् शिव-सन्निधौ ॥ १२॥
sakhībhiḥ saha suprītyā kautukāt śiva-sannidhau .. 12..
उदंचंत्यंचदंगानां लाघवं परितन्वती ॥ निश्वासामोदमुदितभ्रमराकुलितेक्षणा ॥ १३॥
उदंचंती अंचत् अङ्गानाम् लाघवम् परितन्वती ॥ निश्वास-आमोद-मुदित-भ्रमर-आकुलित-ईक्षणा ॥ १३॥
udaṃcaṃtī aṃcat aṅgānām lāghavam paritanvatī .. niśvāsa-āmoda-mudita-bhramara-ākulita-īkṣaṇā .. 13..
भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका ॥ स्विद्यत्कपोलपत्रालीस्रवदंबुकणोज्ज्वला ॥ १४ ॥
भ्रश्यत्-धम्मिल्ल-सत्-माल्य-स्व-पुरीकृत-भूमिका ॥ स्विद्यत्-कपोल-पत्र-आली-स्रवत्-अंबु-कणा-उज्ज्वला ॥ १४ ॥
bhraśyat-dhammilla-sat-mālya-sva-purīkṛta-bhūmikā .. svidyat-kapola-patra-ālī-sravat-aṃbu-kaṇā-ujjvalā .. 14 ..
स्फुटच्चोलांशुकपथतिर्यदंगप्रभावृता ॥ उल्लसत्कंदुकास्फालातिश्रोणितकराम्बुजा ॥ १५ ॥
स्फुटत्-चोल-अंशुक-पथ-तिर्यद्-अङ्ग-प्रभा-वृता ॥ उल्लसत्-कंदुक-आस्फाल-अति श्रोणित-कर-अम्बुजा ॥ १५ ॥
sphuṭat-cola-aṃśuka-patha-tiryad-aṅga-prabhā-vṛtā .. ullasat-kaṃduka-āsphāla-ati śroṇita-kara-ambujā .. 15 ..
कंदुकानुगसद्दृष्टिनर्तितभ्रूलतांचला ॥ मृडानी किल खेलंती ददृशे जगदम्बिका ॥ १६ ॥
कंदुक-अनुग-सत्-दृष्टि-नर्तित-भ्रू-लता-अंचला ॥ मृडानी किल खेलंती ददृशे जगदम्बिका ॥ १६ ॥
kaṃduka-anuga-sat-dṛṣṭi-nartita-bhrū-latā-aṃcalā .. mṛḍānī kila khelaṃtī dadṛśe jagadambikā .. 16 ..
अंतरिक्षचराभ्यां च दितिजाभ्यां कटा क्षिता ॥ क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ॥ १७॥
अंतरिक्ष-चराभ्याम् च दितिजाभ्याम् कटा क्षिता ॥ क्रोडीकृताभ्याम् इव वै समुपस्थित-मृत्युना ॥ १७॥
aṃtarikṣa-carābhyām ca ditijābhyām kaṭā kṣitā .. kroḍīkṛtābhyām iva vai samupasthita-mṛtyunā .. 17..
विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥ तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥ १८ ॥
विदल-उत्पल-संज्ञाभ्याम् दृप्ताभ्याम् वरतः विधेः ॥ तृणीकृत-त्रिजगती पुरुषाभ्याम् स्व-दोः-बलात् ॥ १८ ॥
vidala-utpala-saṃjñābhyām dṛptābhyām varataḥ vidheḥ .. tṛṇīkṛta-trijagatī puruṣābhyām sva-doḥ-balāt .. 18 ..
देवीं तां संजिहीर्षंतौ विषमेषु प्रपीडितौ ॥ दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ॥ १९ ॥
देवीम् ताम् संजिहीर्षंतौ विषमेषु प्रपीडितौ ॥ दिवः उत्तेरतुः क्षिप्रम् मायाम् स्वीकृत्य शांबरीम् ॥ १९ ॥
devīm tām saṃjihīrṣaṃtau viṣameṣu prapīḍitau .. divaḥ utteratuḥ kṣipram māyām svīkṛtya śāṃbarīm .. 19 ..
धृत्वा पारिषदीं मायामायातावंबिकांतिकम् ॥ तावत्यंतं सुदुर्वृत्तावतिचंचलमानसौ ॥ 2.5.59.२०॥
धृत्वा पारिषदीम् मायाम् आयातौ अंबिका-अन्तिकम् ॥ तौ अत्यंतम् सु दुर्वृत्तौ अति चंचल-मानसौ ॥ २।५।५९।२०॥
dhṛtvā pāriṣadīm māyām āyātau aṃbikā-antikam .. tau atyaṃtam su durvṛttau ati caṃcala-mānasau .. 2.5.59.20..
अथ दुष्टनिहंत्रा वै सावज्ञेन हरेण तौ ॥ विज्ञातौ च क्षणादास्तां चांचल्याल्लोचनोद्भवात् ॥ २१ ॥
अथ दुष्ट-निहंत्रा वै स अवज्ञेन हरेण तौ ॥ विज्ञातौ च क्षणात् आस्ताम् चांचल्यात् लोचनोद्भवात् ॥ २१ ॥
atha duṣṭa-nihaṃtrā vai sa avajñena hareṇa tau .. vijñātau ca kṣaṇāt āstām cāṃcalyāt locanodbhavāt .. 21 ..
कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी ॥ दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा ॥ २२ ॥
कटाक्षिता अथ देवेन दुर्गा दुर्गति-घातिनी ॥ दैत्यौ इमाम् इति गणौ न इति सर्व-स्वरूपिणा ॥ २२ ॥
kaṭākṣitā atha devena durgā durgati-ghātinī .. daityau imām iti gaṇau na iti sarva-svarūpiṇā .. 22 ..
अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह ॥ महाकौतुकिनस्तात शंकरस्य परेशितुः ॥ २३॥
अथ सा नेत्र-संज्ञाम् स्व-स्वामिनः ताम् बुबोध ह ॥ महा-कौतुकिनः तात शंकरस्य परेशितुः ॥ २३॥
atha sā netra-saṃjñām sva-svāminaḥ tām bubodha ha .. mahā-kautukinaḥ tāta śaṃkarasya pareśituḥ .. 23..
ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी ॥ तेनैव कंदुकेनाथ युगपन्निर्जघान तौ ॥ २४॥
ततस् विज्ञाय संज्ञाम् ताम् सर्वज्ञ-अर्द्ध-शरीरिणी ॥ तेन एव कंदुकेन अथ युगपद् निर्जघान तौ ॥ २४॥
tatas vijñāya saṃjñām tām sarvajña-arddha-śarīriṇī .. tena eva kaṃdukena atha yugapad nirjaghāna tau .. 24..
महाबलौ महादेव्या कंदुकेन समाहतौ ॥ परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ २५ ॥
महा-बलौ महादेव्या कंदुकेन समाहतौ ॥ परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ २५ ॥
mahā-balau mahādevyā kaṃdukena samāhatau .. paribhramya paribhramya tau duṣṭau vinipetatuḥ .. 25 ..
वृन्तादिव फले पक्वे तालेनानिललोलिते ॥ दंभोलिना परिहते शृंगे इव महागिरेः ॥ २६॥
वृन्तात् इव फले पक्वे तालेन अनिल-लोलिते ॥ दंभोलिना परिहते शृंगे इव महा-गिरेः ॥ २६॥
vṛntāt iva phale pakve tālena anila-lolite .. daṃbholinā parihate śṛṃge iva mahā-gireḥ .. 26..
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥ ततः परिणतिं यातो लिंगरूपेण कंदुकः॥ २७॥
तौ निपात्य महा-दैत्यौ अकार्य-करण-उद्यतौ ॥ ततस् परिणतिम् यातः लिंग-रूपेण कंदुकः॥ २७॥
tau nipātya mahā-daityau akārya-karaṇa-udyatau .. tatas pariṇatim yātaḥ liṃga-rūpeṇa kaṃdukaḥ.. 27..
कंदुकेश्वरसंज्ञां च तल्लिंगमभवत्तदा॥ ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्॥ २८॥
कंदुकेश्वर-संज्ञाम् च तत् लिंगम् अभवत् तदा॥ ज्येष्ठेश्वर-समीपे तु सर्व-दुष्ट-निवारणम्॥ २८॥
kaṃdukeśvara-saṃjñām ca tat liṃgam abhavat tadā.. jyeṣṭheśvara-samīpe tu sarva-duṣṭa-nivāraṇam.. 28..
एतस्मिन्नेव समये हरिब्रह्मादयस्सुराः ॥ शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः॥ २९॥
एतस्मिन् एव समये हरि-ब्रह्म-आदयः सुराः ॥ शिव-आविर्भावम् आज्ञाय ऋषयः च समाययुः॥ २९॥
etasmin eva samaye hari-brahma-ādayaḥ surāḥ .. śiva-āvirbhāvam ājñāya ṛṣayaḥ ca samāyayuḥ.. 29..
अथ सर्वे सुराश्शम्भोर्वरान्प्राप्य तदाज्ञया॥ स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः॥ 2.5.59.३०॥
अथ सर्वे सुराः शम्भोः वरान् प्राप्य तद्-आज्ञया॥ स्व-धामानि ययुः प्रीताः तथा काशी-निवासिनः॥ २।५।५९।३०॥
atha sarve surāḥ śambhoḥ varān prāpya tad-ājñayā.. sva-dhāmāni yayuḥ prītāḥ tathā kāśī-nivāsinaḥ.. 2.5.59.30..
सांबिकं शंकरं दृष्ट्वा कृतांजलिपुटाश्च ते॥ प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ॥ ३१॥
स अंबिकम् शंकरम् दृष्ट्वा कृत-अंजलि-पुटाः च ते॥ प्रणम्य तुष्टुवुः भक्त्या वाग्भिः इष्टाभिः आदरात् ॥ ३१॥
sa aṃbikam śaṃkaram dṛṣṭvā kṛta-aṃjali-puṭāḥ ca te.. praṇamya tuṣṭuvuḥ bhaktyā vāgbhiḥ iṣṭābhiḥ ādarāt .. 31..
सांबिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित्॥ जगाम स्वालयं प्रीतस्सगणो भक्तवत्सलः ॥ ३२॥
स अंबिकः अपि शिवः व्यास क्रीडित्वा सुविहार-विद्॥ जगाम स्व-आलयम् प्रीतः स गणः भक्त-वत्सलः ॥ ३२॥
sa aṃbikaḥ api śivaḥ vyāsa krīḍitvā suvihāra-vid.. jagāma sva-ālayam prītaḥ sa gaṇaḥ bhakta-vatsalaḥ .. 32..
कंदुकेश्वरलिंगं च काश्यां दुष्टनिबर्हणम्॥ भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ॥ ।३३॥
कंदुकेश्वरलिंगम् च काश्याम् दुष्ट-निबर्हणम्॥ भुक्ति-मुक्ति-प्रदम् सर्व-काम-दम् सर्वदा सताम् ॥ ।३३॥
kaṃdukeśvaraliṃgam ca kāśyām duṣṭa-nibarhaṇam.. bhukti-mukti-pradam sarva-kāma-dam sarvadā satām .. .33..
इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः ॥ श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ॥ ३४ ॥
इदम् आख्यानम् अतुलम् शृणुयात् यः मुदा अन्वितः ॥ श्रावयेत् वा पठेत् यः च तस्य दुःख-भयम् कुतस् ॥ ३४ ॥
idam ākhyānam atulam śṛṇuyāt yaḥ mudā anvitaḥ .. śrāvayet vā paṭhet yaḥ ca tasya duḥkha-bhayam kutas .. 34 ..
इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् ॥ परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ॥ ३५ ॥
इह सर्व-सुखम् भुक्त्वा नानाविधम् अनुत्तमम् ॥ परत्र लभते दिव्याम् गतिम् वै देव-दुर्लभाम् ॥ ३५ ॥
iha sarva-sukham bhuktvā nānāvidham anuttamam .. paratra labhate divyām gatim vai deva-durlabhām .. 35 ..
इति तं वर्णितं तात चरितं परमाद्भुतम् ॥ शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम् ॥ ३६ ॥
इति तम् वर्णितम् तात चरितम् परम-अद्भुतम् ॥ शिवयोः भक्त-वात्सल्य-सूचकम् शिव-दम् सताम् ॥ ३६ ॥
iti tam varṇitam tāta caritam parama-adbhutam .. śivayoḥ bhakta-vātsalya-sūcakam śiva-dam satām .. 36 ..
ब्रह्मोवाच ।।
इत्युक्त्वामंत्र्य तं व्यासं तन्नुतो मद्वरात्मजः ॥ ययौ विहायसा काशीं चरितं शशिमौलिनः ॥ ३७॥
इति उक्त्वा आमंत्र्य तम् व्यासम् तद्-नुतः मद्-वर-आत्मजः ॥ ययौ विहायसा काशीम् चरितम् शशिमौलिनः ॥ ३७॥
iti uktvā āmaṃtrya tam vyāsam tad-nutaḥ mad-vara-ātmajaḥ .. yayau vihāyasā kāśīm caritam śaśimaulinaḥ .. 37..
युद्धखंडमिदं प्रोक्तं मया ते मुनिसत्तम ॥ रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ॥ ३८॥
युद्ध-खंडम् इदम् प्रोक्तम् मया ते मुनि-सत्तम ॥ सर्व ॥ ३८॥
yuddha-khaṃḍam idam proktam mayā te muni-sattama .. sarva .. 38..
इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया ॥ सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ॥ ३९॥
इयम् हि संहिता रौद्री सम्पूर्णा वर्णिता मया ॥ ॥ ३९॥
iyam hi saṃhitā raudrī sampūrṇā varṇitā mayā .. .. 39..
इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् ॥ सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ॥ 2.5.59.४०॥
इमाम् यः च पठेत् नित्यम् शत्रु-बाधा-निवारिकाम् ॥ सर्वान् कामान् अवाप्नोति ततस् मुक्तिम् लभेत ना ॥ २।५।५९।४०॥
imām yaḥ ca paṭhet nityam śatru-bādhā-nivārikām .. sarvān kāmān avāpnoti tatas muktim labheta nā .. 2.5.59.40..
सूत उवाच ।।
इति ब्रह्मसुतश्श्रुत्वा पित्रा शिवयशः परम् ॥ शतनामाप्य शंभोश्च कृतार्थोऽभूच्छिवानुगः ॥ ४१॥
इति ब्रह्म-सुतः श्रुत्वा पित्रा शिव-यशः परम् ॥ शत-नामा आप्य शंभोः च कृतार्थः अभूत् शिव-अनुगः ॥ ४१॥
iti brahma-sutaḥ śrutvā pitrā śiva-yaśaḥ param .. śata-nāmā āpya śaṃbhoḥ ca kṛtārthaḥ abhūt śiva-anugaḥ .. 41..
ब्रह्मनारदसम्वादः सम्पूर्णः कथितो मया ॥ शिवस्सर्वप्रधानो हि किं भूयश्श्रोतुमिच्छसि ॥ ४२॥
ब्रह्म-नारद-सम्वादः सम्पूर्णः कथितः मया ॥ शिवः सर्व-प्रधानः हि किम् भूयस् श्रोतुम् इच्छसि ॥ ४२॥
brahma-nārada-samvādaḥ sampūrṇaḥ kathitaḥ mayā .. śivaḥ sarva-pradhānaḥ hi kim bhūyas śrotum icchasi .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे विदलोत्पलदैत्यवधवर्णनम् नाम एकोनषष्टितमः अध्यायः ॥ ५९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe vidalotpaladaityavadhavarṇanam nāma ekonaṣaṣṭitamaḥ adhyāyaḥ .. 59 ..
समाप्तोयं युद्धखण्डः ॥ समाप्तेयं द्वितीया रुद्रसंहिता ॥ २ ॥
समाप्तः यम् युद्ध-खण्डः ॥ समाप्ता इयम् द्वितीया रुद्र-संहिता ॥ २ ॥
samāptaḥ yam yuddha-khaṇḍaḥ .. samāptā iyam dvitīyā rudra-saṃhitā .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In