| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ॥ अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः॥ १॥
एतत् शुत्वा तु सर्वेषाम् देव-आदीनाम् वचः हरः ॥ अंगीचकार सु प्रीत्या शरण्यः भक्त-वत्सलः॥ १॥
etat śutvā tu sarveṣām deva-ādīnām vacaḥ haraḥ .. aṃgīcakāra su prītyā śaraṇyaḥ bhakta-vatsalaḥ.. 1..
एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा॥ आजगाम मुने तत्र यत्र देवान्वितो हरः ॥ २॥
एतस्मिन् अन्तरे देवी पुत्राभ्याम् संयुता शिवा॥ आजगाम मुने तत्र यत्र देव-अन्वितः हरः ॥ २॥
etasmin antare devī putrābhyām saṃyutā śivā.. ājagāma mune tatra yatra deva-anvitaḥ haraḥ .. 2..
अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम्॥ प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः ॥ ३॥
अथ आगताम् शिवाम् दृष्ट्वा सर्वे विष्णु-आदयः द्रुतम्॥ प्रणेमुः अति नम्राः ते विस्मिताः गत-संभ्रमाः ॥ ३॥
atha āgatām śivām dṛṣṭvā sarve viṣṇu-ādayaḥ drutam.. praṇemuḥ ati namrāḥ te vismitāḥ gata-saṃbhramāḥ .. 3..
प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ॥ तूष्णीमासन्नजानंतस्तदागमनकारणम् ॥ ४॥
प्रोचुः जय इति सत्-वाक्यम् मुने सर्वे सु लक्षणम् ॥ तूष्णीम् आसन्-अ जानंतः तद्-आगमन-कारणम् ॥ ४॥
procuḥ jaya iti sat-vākyam mune sarve su lakṣaṇam .. tūṣṇīm āsan-a jānaṃtaḥ tad-āgamana-kāraṇam .. 4..
अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ॥ उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥ ५॥
अथ सर्वैः स्तुता देवैः देवी अद्भुत-कुतूहला ॥ उवाच स्वामिनम् प्रीत्या नाना लीला-विशारदम् ॥ ५॥
atha sarvaiḥ stutā devaiḥ devī adbhuta-kutūhalā .. uvāca svāminam prītyā nānā līlā-viśāradam .. 5..
देव्युवाच ।।
क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ॥ पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥ ६॥
क्रीडमानम् विभो पश्य षण्मुखम् रवि-संनिभम् ॥ पुत्रम् पुत्रवताम् श्रेष्ठ भूषितम् भूषणैः वरैः ॥ ६॥
krīḍamānam vibho paśya ṣaṇmukham ravi-saṃnibham .. putram putravatām śreṣṭha bhūṣitam bhūṣaṇaiḥ varaiḥ .. 6..
इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ॥ न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम् ॥ ७ ॥
इति एवम् लोकमात्रा च वाग्भिः संबोधितः शिवः ॥ न ययौ तृप्तिम् ईशानः पिबन् स्कंद-आनन-अमृतम् ॥ ७ ॥
iti evam lokamātrā ca vāgbhiḥ saṃbodhitaḥ śivaḥ .. na yayau tṛptim īśānaḥ piban skaṃda-ānana-amṛtam .. 7 ..
न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ॥ स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः ॥ ८॥
न सस्मार आगतान् दैत्यान् निज-तेजः-निपीडितान् ॥ स्कंदम् आलिंग्य च आघ्राय मुगोदाति महेश्वरः ॥ ८॥
na sasmāra āgatān daityān nija-tejaḥ-nipīḍitān .. skaṃdam āliṃgya ca āghrāya mugodāti maheśvaraḥ .. 8..
जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ॥ स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥ ९॥
जगदम्बा अथ तत्र एव संमंत्र्य प्रभुणा च सा ॥ स्थित्वा किञ्चिद् समुत्तस्थौ नाना लीला-विशारदा ॥ ९॥
jagadambā atha tatra eva saṃmaṃtrya prabhuṇā ca sā .. sthitvā kiñcid samuttasthau nānā līlā-viśāradā .. 9..
ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ॥ विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः ॥ 2.5.7.१०॥
ततस् सनंदी सह षण्मुखेन तया च सार्द्धम् गिरिराजपुत्र्या ॥ विवेश शम्भुः भवनम् सु लीलः सुरैः समस्तैः अभिवंद्यमानः ॥ २।५।७।१०॥
tatas sanaṃdī saha ṣaṇmukhena tayā ca sārddham girirājaputryā .. viveśa śambhuḥ bhavanam su līlaḥ suraiḥ samastaiḥ abhivaṃdyamānaḥ .. 2.5.7.10..
द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ॥ तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः ॥ ११ ॥
द्वारस्य पार्श्वतस् तस्थुः देवदेवस्य धीमतः ॥ ते अथ देवाः महा-व्यग्राः विमनस्काः मुने अखिलः ॥ ११ ॥
dvārasya pārśvatas tasthuḥ devadevasya dhīmataḥ .. te atha devāḥ mahā-vyagrāḥ vimanaskāḥ mune akhilaḥ .. 11 ..
किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ॥ किं तु किंत्विति संजातं हा हताः स्मेति वादिनम् ॥ १२ ॥
किम् कर्तव्यम् क्व गंतव्यम् कः स्यात् अस्मद्-सुख-प्रदः ॥ किम् तु किंतु इति संजातम् हा हताः स्म इति वादिनम् ॥ १२ ॥
kim kartavyam kva gaṃtavyam kaḥ syāt asmad-sukha-pradaḥ .. kim tu kiṃtu iti saṃjātam hā hatāḥ sma iti vādinam .. 12 ..
अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ॥ प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥ १३ ॥
अन्योन्यम् प्रेक्ष्य शक्र-आद्याः बभूवुः च अति विह्वलाः ॥ प्रोचुः विकल-वाक्यम् ते धिक् कुर्वन्तः निजम् विधिम् ॥ १३ ॥
anyonyam prekṣya śakra-ādyāḥ babhūvuḥ ca ati vihvalāḥ .. procuḥ vikala-vākyam te dhik kurvantaḥ nijam vidhim .. 13 ..
पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ॥ ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥ १४ ॥
पापाः वयम् इह इति अन्ये हि अभाग्याः च इति च अपरे ॥ ते भाग्यवंतः दैत्य-इन्द्राः इति च अन्ये अब्रुवन् सुराः ॥ १४ ॥
pāpāḥ vayam iha iti anye hi abhāgyāḥ ca iti ca apare .. te bhāgyavaṃtaḥ daitya-indrāḥ iti ca anye abruvan surāḥ .. 14 ..
तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ॥ कुंभोदरो महातेजा दंडेनाताडयत्सुरान् ॥ १५ ॥
तस्मिन् एव अन्तरे तेषाम् श्रुत्वा शब्दान् अनेकशस् ॥ कुंभोदरः महा-तेजाः दंडेन अताडयत् सुरान् ॥ १५ ॥
tasmin eva antare teṣām śrutvā śabdān anekaśas .. kuṃbhodaraḥ mahā-tejāḥ daṃḍena atāḍayat surān .. 15 ..
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ॥ अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥ १६ ॥
दुद्रुवुः ते भय-आविष्टाः देवाः हाहा इति वादिनः ॥ अपतन् मुनयः च अन्ये विह्वल-त्वम् बभूव ह ॥ १६ ॥
dudruvuḥ te bhaya-āviṣṭāḥ devāḥ hāhā iti vādinaḥ .. apatan munayaḥ ca anye vihvala-tvam babhūva ha .. 16 ..
इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ॥ अन्ये देवर्षयोतीव विकलाः पतिता भुवि ॥ १७ ॥
इन्द्रः तु जानुभ्याम् अवनीम् गतः ॥ अन्ये देवर्षया उतीव विकलाः पतिताः भुवि ॥ १७ ॥
indraḥ tu jānubhyām avanīm gataḥ .. anye devarṣayā utīva vikalāḥ patitāḥ bhuvi .. 17 ..
सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ॥ संगता विधिहर्योस्तु समीपं मित्रचेतसोः ॥ १८ ॥
सर्वे मिलित्वा मुनयः सुराः च समम् आकुलाः ॥ संगताः विधि-हर्योः तु समीपम् मित्र-चेतसोः ॥ १८ ॥
sarve militvā munayaḥ surāḥ ca samam ākulāḥ .. saṃgatāḥ vidhi-haryoḥ tu samīpam mitra-cetasoḥ .. 18 ..
अहो विधिबलं चैतन्मुनयः कश्यपादयः ॥ वदंति स्म तदा सर्वे हरि लोकभयापदम् ॥ १९॥
अहो विधि-बलम् च एतत् मुनयः कश्यप-आदयः ॥ वदंति स्म तदा सर्वे हरि लोक-भय-आपदम् ॥ १९॥
aho vidhi-balam ca etat munayaḥ kaśyapa-ādayaḥ .. vadaṃti sma tadā sarve hari loka-bhaya-āpadam .. 19..
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥ कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः ॥ 2.5.7.२० ॥
अभाग्यात् न समाप्तम् तु कार्यम् इति अपरे द्विजाः ॥ कस्मात् विघ्नम् इदम् जातम् इति अन्ये हि अति विस्मिताः ॥ २।५।७।२० ॥
abhāgyāt na samāptam tu kāryam iti apare dvijāḥ .. kasmāt vighnam idam jātam iti anye hi ati vismitāḥ .. 2.5.7.20 ..
इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ॥ आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥ २१ ॥
इति एवम् वचनम् श्रुत्वा कश्यप-आदि-उदितम् मुने ॥ आश्वासयन् मुनीन् देवान् हरिः वाक्यम् उपाददे ॥ २१ ॥
iti evam vacanam śrutvā kaśyapa-ādi-uditam mune .. āśvāsayan munīn devān hariḥ vākyam upādade .. 21 ..
विष्णुरुवाच ।।
हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ॥ किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥ २२ ॥
हे देवाः मुनयः सर्वे मद्-वचः शृणुत आदरात् ॥ किमर्थम् दुःखम् आपन्ना दुखम् तु त्यजत अखिलम् ॥ २२ ॥
he devāḥ munayaḥ sarve mad-vacaḥ śṛṇuta ādarāt .. kimartham duḥkham āpannā dukham tu tyajata akhilam .. 22 ..
महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ॥ महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥ विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् ॥ २३ ॥
महत् आराधनम् देवाः न सुसाध्यम् विचार्य्यताम् ॥ महत्-आराधने पूर्वम् भवेत् दुःखम् इति श्रुतम् ॥ विज्ञाय दृढ-ताम् देवाः प्रसन्नः भवति ध्रुवम् ॥ २३ ॥
mahat ārādhanam devāḥ na susādhyam vicāryyatām .. mahat-ārādhane pūrvam bhavet duḥkham iti śrutam .. vijñāya dṛḍha-tām devāḥ prasannaḥ bhavati dhruvam .. 23 ..
शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ॥ विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥ २४॥
शिवः सर्व-गणायक्षः सहसा परमेश्वरः ॥ विचार्यताम् हृदा सर्वैः कथम् वश्यः भवेत् इति ॥ २४॥
śivaḥ sarva-gaṇāyakṣaḥ sahasā parameśvaraḥ .. vicāryatām hṛdā sarvaiḥ katham vaśyaḥ bhavet iti .. 24..
प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ॥ शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥ २५ ॥
प्रणवम् पूर्वम् उच्चार्य्य नमः पश्चात् उदाहरेत् ॥ शिवाय इति ततस् पश्चात् शुभ-द्वयम् अतस् परम् ॥ २५ ॥
praṇavam pūrvam uccāryya namaḥ paścāt udāharet .. śivāya iti tatas paścāt śubha-dvayam atas param .. 25 ..
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥ नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥ २६ ॥
कुरु-द्वयम् ततस् प्रोक्तम् शिवाय च ततस् पुनर् ॥ नमः च प्रणवः च एव मंत्रम् एवम् सदा बुधाः ॥ २६ ॥
kuru-dvayam tatas proktam śivāya ca tatas punar .. namaḥ ca praṇavaḥ ca eva maṃtram evam sadā budhāḥ .. 26 ..
अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥ कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७ ॥
अवर्तध्वम् पुनर् यूयम् यदि शंभु-कृते तदा ॥ कोटिम् एकम् तथा जप्त्वा शिवः कार्यम् करिष्यति ॥ २७ ॥
avartadhvam punar yūyam yadi śaṃbhu-kṛte tadā .. koṭim ekam tathā japtvā śivaḥ kāryam kariṣyati .. 27 ..
इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥ तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८ ॥
इति उक्ते च तदा तेन हरिणा प्रभविष्णुना ॥ तथा देवाः पुनर् चक्रुः हरस्य आराधनम् मुने ॥ २८ ॥
iti ukte ca tadā tena hariṇā prabhaviṣṇunā .. tathā devāḥ punar cakruḥ harasya ārādhanam mune .. 28 ..
संजजाप हरिश्चापि सविधिश्शिवमानसः ॥ देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥ २९॥
संजजाप हरिः च अपि स विधिः शिव-मानसः ॥ देवानाम् कार्य-सिद्धि-अर्थम् मुनीनाम् च विशेषतः ॥ २९॥
saṃjajāpa hariḥ ca api sa vidhiḥ śiva-mānasaḥ .. devānām kārya-siddhi-artham munīnām ca viśeṣataḥ .. 29..
मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥ कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ 2.5.7.३० ॥
मुहुर् शिव इति भाषंतः देवाः धैर्य-समन्विताः ॥ कोटि-संख्यम् तदा कृत्वा स्थिताः ते मुनि-सत्तम ॥ २।५।७।३० ॥
muhur śiva iti bhāṣaṃtaḥ devāḥ dhairya-samanvitāḥ .. koṭi-saṃkhyam tadā kṛtvā sthitāḥ te muni-sattama .. 2.5.7.30 ..
एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ॥ यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥ ३१ ॥
एतस्मिन् अन्तरे साक्षात् शिवः प्रादुरभूत् स्वयम् ॥ यथा उक्तेन स्व-रूपेण वचनम् च इदम् अब्रवीत् ॥ ३१ ॥
etasmin antare sākṣāt śivaḥ prādurabhūt svayam .. yathā uktena sva-rūpeṇa vacanam ca idam abravīt .. 31 ..
श्रीशिव उवाच ।।
हे हरे हे विधे देवा मुनयश्च शुभव्रताः ॥ प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम् ॥ ३२ ॥
हे हरे हे विधे देवाः मुनयः च शुभ-व्रताः ॥ प्रसन्नः अस्मि वरम् ब्रूत जयेन अनेन च ईप्सितम् ॥ ३२ ॥
he hare he vidhe devāḥ munayaḥ ca śubha-vratāḥ .. prasannaḥ asmi varam brūta jayena anena ca īpsitam .. 32 ..
।। देवा ऊचुः ।।
यदि प्रसन्नो देवेश जगदीश्वर शंकर ॥ सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च ॥ ३३॥
यदि प्रसन्नः देवेश जगत्-ईश्वर शंकर ॥ सुरान् विज्ञाय विकलान् हन्यंताम् त्रिपुराणि च ॥ ३३॥
yadi prasannaḥ deveśa jagat-īśvara śaṃkara .. surān vijñāya vikalān hanyaṃtām tripurāṇi ca .. 33..
रक्षास्मान्परमेशान दीनबंधो कृपाकर ॥ त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः ॥ ३४ ॥
रक्ष अस्मान् परमेशान दीन-बंधो कृपा-कर ॥ त्वया एव रक्षिताः देवाः सत्-आपद्भ्यः मुहुर् मुहुर् ॥ ३४ ॥
rakṣa asmān parameśāna dīna-baṃdho kṛpā-kara .. tvayā eva rakṣitāḥ devāḥ sat-āpadbhyaḥ muhur muhur .. 34 ..
।। सनत्कुमार उवाच ।।
इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ॥ विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥ ३५ ॥
इति उक्तम् वचनम् तेषाम् श्रुत्वा स हरि-वेधसाम् ॥ विहस्य अन्तर् तदा ब्रह्मन् महेशः पुनर् अब्रवीत् ॥ ३५ ॥
iti uktam vacanam teṣām śrutvā sa hari-vedhasām .. vihasya antar tadā brahman maheśaḥ punar abravīt .. 35 ..
।। महेश उवाच ।।
हे हरे हे विधे देवा मुनयश्चाखिला वचः ॥ मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥ ३६॥
हे हरे हे विधे देवाः मुनयः च अखिलाः वचः ॥ मदीयम् शृणुत आदृत्य नष्टम् मत्वा पुरत्रयम् ॥ ३६॥
he hare he vidhe devāḥ munayaḥ ca akhilāḥ vacaḥ .. madīyam śṛṇuta ādṛtya naṣṭam matvā puratrayam .. 36..
रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ॥ पूर्वमंगीकृतं सर्वमुपपादयताचिरम् ॥ ३७ ॥
रथम् च सारथिम् दिव्यम् कार्मुकम् शरम् उत्तमम् ॥ पूर्वम् अंगीकृतम् सर्वम् उपपादयत अचिरम् ॥ ३७ ॥
ratham ca sārathim divyam kārmukam śaram uttamam .. pūrvam aṃgīkṛtam sarvam upapādayata aciram .. 37 ..
हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ॥ सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥ ३८ ॥
हे विष्णो हे विधे त्वम् हि त्रि-लोक-अधिपतिः ध्रुवम् ॥ सर्व-सम्राज्-प्रकारम् मे कर्तुम् अर्हसि यत्नतः ॥ ३८ ॥
he viṣṇo he vidhe tvam hi tri-loka-adhipatiḥ dhruvam .. sarva-samrāj-prakāram me kartum arhasi yatnataḥ .. 38 ..
नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ॥ करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥ ३९ ॥
नष्टम् पुरत्रयम् मत्वा देव-साहाय्यम् इति उत ॥ करिष्यथः प्रयत्नेन अधिकृतौ सर्ग-पालने ॥ ३९ ॥
naṣṭam puratrayam matvā deva-sāhāyyam iti uta .. kariṣyathaḥ prayatnena adhikṛtau sarga-pālane .. 39 ..
अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ॥ भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह ॥ 2.5.7.४०॥
अयम् मंत्रः महा-पुण्यः मद्-प्रीति-जनकः शुभः ॥ भुक्ति-मुक्ति-प्रदः सर्व-काम-दः शैवक-आवह ॥ २।५।७।४०॥
ayam maṃtraḥ mahā-puṇyaḥ mad-prīti-janakaḥ śubhaḥ .. bhukti-mukti-pradaḥ sarva-kāma-daḥ śaivaka-āvaha .. 2.5.7.40..
धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ॥ अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥ ४१ ॥
धन्यः यशस्यः आयुष्यः स्वर्ग-काम-अर्थिनाम् नृणाम् ॥ अपवर्गः हि अकामानाम् मुक्तानाम् भुक्ति-मुक्ति-दः ॥ ४१ ॥
dhanyaḥ yaśasyaḥ āyuṣyaḥ svarga-kāma-arthinām nṛṇām .. apavargaḥ hi akāmānām muktānām bhukti-mukti-daḥ .. 41 ..
य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ॥ शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ४२ ॥
यः इमम् कीर्तयेत् मंत्रम् शुचिः भूत्वा सदा नरः ॥ शृणुयात् श्रावयेत् वा अपि सर्वान् कामान् अवाप्नुयात् ॥ ४२ ॥
yaḥ imam kīrtayet maṃtram śuciḥ bhūtvā sadā naraḥ .. śṛṇuyāt śrāvayet vā api sarvān kāmān avāpnuyāt .. 42 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ॥ सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥ ४३ ॥
इति श्रुत्वा वचः तस्य शिवस्य परमात्मनः ॥ सर्वे देवाः मुदम् प्रापुः हरिः ब्रह्मा अधिकम् तथा ॥ ४३ ॥
iti śrutvā vacaḥ tasya śivasya paramātmanaḥ .. sarve devāḥ mudam prāpuḥ hariḥ brahmā adhikam tathā .. 43 ..
सर्वदेवमयं दिव्यं रथं परमशोभनम्॥ रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥ ४४ ॥
सर्व-देव-मयम् दिव्यम् रथम् परम-शोभनम्॥ रचयामास विश्व-अर्थे विश्वकर्मा तद्-आज्ञया ॥ ४४ ॥
sarva-deva-mayam divyam ratham parama-śobhanam.. racayāmāsa viśva-arthe viśvakarmā tad-ājñayā .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे देवस्तुतिवर्णनम् नाम सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe devastutivarṇanam nāma saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In