| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते ॥ अद्भुतेयं कथा तात श्राविता परिमेशितुः ॥ १॥
सनत्कुमार सर्वज्ञ शैव-प्रवर सत्-मते ॥ अद्भुता इयम् कथा तात श्राविता परिमेशितुः ॥ १॥
sanatkumāra sarvajña śaiva-pravara sat-mate .. adbhutā iyam kathā tāta śrāvitā parimeśituḥ .. 1..
इदानीं रथनिर्माणं ब्रूहि देवमयं परम् ॥ शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा ॥ २ ॥
इदानीम् रथ-निर्माणम् ब्रूहि देव-मयम् परम् ॥ शिव-अर्थम् यत् कृतम् दिव्यम् धीमता विश्वकर्मणा ॥ २ ॥
idānīm ratha-nirmāṇam brūhi deva-mayam param .. śiva-artham yat kṛtam divyam dhīmatā viśvakarmaṇā .. 2 ..
।। सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ॥ ३॥
इति आकर्ण्य वचः तस्य व्यासस्य स मुनि-ईश्वरः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिव-पद-अंबुजम् ॥ ३॥
iti ākarṇya vacaḥ tasya vyāsasya sa muni-īśvaraḥ .. sanatkumāraḥ provāca smṛtvā śiva-pada-aṃbujam .. 3..
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने ॥ यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम् ॥ ४ ॥
शृणु व्यास महा-प्राज्ञ रथ-आदेः निर्मितिम् मुने ॥ यथामति प्रवक्ष्ये अहम् स्मृत्वा शिव-पद-अम्बुजम् ॥ ४ ॥
śṛṇu vyāsa mahā-prājña ratha-ādeḥ nirmitim mune .. yathāmati pravakṣye aham smṛtvā śiva-pada-ambujam .. 4 ..
अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा ॥ सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥ ५ ॥
अथ देवस्य रुद्रस्य निर्मितः विश्वकर्मणा ॥ सर्व-लोक-मयः दिव्यः रथः यत्नेन सादरम् ॥ ५ ॥
atha devasya rudrasya nirmitaḥ viśvakarmaṇā .. sarva-loka-mayaḥ divyaḥ rathaḥ yatnena sādaram .. 5 ..
सर्वभूतमयश्चैव सौवर्णस्सर्वसंमतः ॥ रथांगं दक्षिणं सूर्यस्तद्वामं सोम एव च ॥ ६॥
सर्व-भूत-मयः च एव सौवर्णः सर्व-संमतः ॥ रथांगम् दक्षिणम् सूर्यः तद्-वामम् सोमः एव च ॥ ६॥
sarva-bhūta-mayaḥ ca eva sauvarṇaḥ sarva-saṃmataḥ .. rathāṃgam dakṣiṇam sūryaḥ tad-vāmam somaḥ eva ca .. 6..
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ॥ अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु ॥ ९॥
दक्षिणम् द्वादश-अरम् हि षोडश-अरम् तथा उत्तरम् ॥ अरेषु तेषु विप्र-इन्द्र आदित्याः द्वादश एव तु ॥ ९॥
dakṣiṇam dvādaśa-aram hi ṣoḍaśa-aram tathā uttaram .. areṣu teṣu vipra-indra ādityāḥ dvādaśa eva tu .. 9..
शशिनः षोडशारास्तु कला वामस्य सुव्रत ॥ ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ८ ॥
शशिनः षोडश-अराः तु कलाः वामस्य सुव्रत ॥ ऋक्षाणि तु तथा तस्य वामस्य एव विभूषणम् ॥
śaśinaḥ ṣoḍaśa-arāḥ tu kalāḥ vāmasya suvrata .. ṛkṣāṇi tu tathā tasya vāmasya eva vibhūṣaṇam ..
ऋतवो नेमयः षट् च तयोर्वै विप्रपुंगव ॥ पुष्करं चांतरिक्षं वै रथनीडश्च मंदरः ॥ ९ ॥
ऋतवः नेमयः षट् च तयोः वै विप्र-पुंगव ॥ पुष्करम् च अंतरिक्षम् वै रथनीडः च मंदरः ॥ ९ ॥
ṛtavaḥ nemayaḥ ṣaṭ ca tayoḥ vai vipra-puṃgava .. puṣkaram ca aṃtarikṣam vai rathanīḍaḥ ca maṃdaraḥ .. 9 ..
अस्ताद्रिरुद(दद्र?)याद्रिस्तु तावुभौ कूबरौ स्मृतौ ॥ अधिष्ठानं महामेरुराश्रयाः केशराचलाः ॥ 2.5.8.१० ॥
अस्त अद्रिः उद(दद्र?)याद्रिः तु तौ उभौ कूबरौ स्मृतौ ॥ अधिष्ठानम् महा-मेरुः आश्रयाः केशर-अचलाः ॥ २।५।८।१० ॥
asta adriḥ uda(dadra?)yādriḥ tu tau ubhau kūbarau smṛtau .. adhiṣṭhānam mahā-meruḥ āśrayāḥ keśara-acalāḥ .. 2.5.8.10 ..
वेगस्संवत्सरास्तस्य अयने चक्रसंगमौ ॥ मुहूर्ता वंधुरास्तस्य शम्याश्चैव कलाः स्मृताः ॥ ११ ॥
वेगः संवत्सराः तस्य अयने चक्र-संगमौ ॥ मुहूर्ताः वंधुराः तस्य शम्याः च एव कलाः स्मृताः ॥ ११ ॥
vegaḥ saṃvatsarāḥ tasya ayane cakra-saṃgamau .. muhūrtāḥ vaṃdhurāḥ tasya śamyāḥ ca eva kalāḥ smṛtāḥ .. 11 ..
तस्य काष्ठाः स्मृता घोणाश्चाक्षदंडाः क्षणाश्च वै ॥ निमेषाश्चानुकर्षश्च ईषाश्चानुलवाः स्मृताः ॥ १२ ॥
तस्य काष्ठाः स्मृताः घोणाः च अक्षदंडाः क्षणाः च वै ॥ निमेषाः च अनुकर्षः च ईषाः च अनुलवाः स्मृताः ॥ १२ ॥
tasya kāṣṭhāḥ smṛtāḥ ghoṇāḥ ca akṣadaṃḍāḥ kṣaṇāḥ ca vai .. nimeṣāḥ ca anukarṣaḥ ca īṣāḥ ca anulavāḥ smṛtāḥ .. 12 ..
द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ॥ युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ ॥ १३॥
द्यौः वरूथम् रथस्य अस्य स्वर्ग-मोक्षौ उभौ ध्वजौ ॥ तस्य भ्रम-कामदुघौ स्मृतौ ॥ १३॥
dyauḥ varūtham rathasya asya svarga-mokṣau ubhau dhvajau .. tasya bhrama-kāmadughau smṛtau .. 13..
ईषादंडस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः ॥ कोणास्तस्याप्यहंकारो भूतानि च बलं स्मृतम् ॥ १४ ॥
ईषा-दंडः तथा व्यक्तम् वृद्धिः तस्य एव नड्वलः ॥ कोणाः तस्य अपि अहंकारः भूतानि च बलम् स्मृतम् ॥ १४ ॥
īṣā-daṃḍaḥ tathā vyaktam vṛddhiḥ tasya eva naḍvalaḥ .. koṇāḥ tasya api ahaṃkāraḥ bhūtāni ca balam smṛtam .. 14 ..
इन्द्रियाणि च तस्यैव भूषणानि समंततः ॥ श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम ॥ १५ ॥
इन्द्रियाणि च तस्य एव भूषणानि समंततः ॥ श्रद्धा च गतिः अस्य एव रथस्य मुनि-सत्तम ॥ १५ ॥
indriyāṇi ca tasya eva bhūṣaṇāni samaṃtataḥ .. śraddhā ca gatiḥ asya eva rathasya muni-sattama .. 15 ..
तदानीं भूषणान्येव षडंगान्युपभूषणम् ॥ पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः ॥ १६॥
तदानीम् भूषणानि एव षडंगानि उपभूषणम् ॥ पुराण-न्याय-मीमांसाः धर्म-शास्त्राणि सुव्रताः ॥ १६॥
tadānīm bhūṣaṇāni eva ṣaḍaṃgāni upabhūṣaṇam .. purāṇa-nyāya-mīmāṃsāḥ dharma-śāstrāṇi suvratāḥ .. 16..
बलाशया वराश्चैव सर्वलक्षणसंयुताः ॥ मंत्रा घं(घ?)टाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः ॥ १७॥
बलाशयाः वराः च एव सर्व-लक्षण-संयुताः ॥ मंत्राः घं(घ?)टाः स्मृताः तेषाम् वर्ण-पादाः तद्-आश्रमाः ॥ १७॥
balāśayāḥ varāḥ ca eva sarva-lakṣaṇa-saṃyutāḥ .. maṃtrāḥ ghaṃ(gha?)ṭāḥ smṛtāḥ teṣām varṇa-pādāḥ tad-āśramāḥ .. 17..
अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः ॥ दिशः पादा रथस्यास्य तथा चोपदिशश्चह ॥ १८॥
अथो बन्धः हि अनन्तः तु सहस्र-फण-भूषितः ॥ दिशः पादाः रथस्य अस्य तथा च उपदिशः चह ॥ १८॥
atho bandhaḥ hi anantaḥ tu sahasra-phaṇa-bhūṣitaḥ .. diśaḥ pādāḥ rathasya asya tathā ca upadiśaḥ caha .. 18..
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ॥ समुद्रास्तस्य चत्वारो रथकंबलिनस्स्मृताः ॥ १९॥
पुष्कर-आद्याः पताकाः च सौवर्णाः रत्न-भूषिताः ॥ समुद्राः तस्य चत्वारः रथकंबलिनः स्मृताः ॥ १९॥
puṣkara-ādyāḥ patākāḥ ca sauvarṇāḥ ratna-bhūṣitāḥ .. samudrāḥ tasya catvāraḥ rathakaṃbalinaḥ smṛtāḥ .. 19..
गंगाद्यास्सरित श्रेष्ठाः सर्वाभरणभूषिताः ॥ चामरासक्तहस्ताग्रास्सर्वास्त्रीरूपशोभिताः ॥ 2.5.8.२०॥
श्रेष्ठाः सर्व-आभरण-भूषिताः ॥ चामर-आसक्त-हस्त-अग्राः सर्व-अस्त्री-रूप-शोभिताः ॥ २।५।८।२०॥
śreṣṭhāḥ sarva-ābharaṇa-bhūṣitāḥ .. cāmara-āsakta-hasta-agrāḥ sarva-astrī-rūpa-śobhitāḥ .. 2.5.8.20..
तत्र तत्र कृतस्थानाः शोभयांचक्रिरे रथम् ॥ आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ॥ २१ ॥
तत्र तत्र कृत-स्थानाः शोभयांचक्रिरे रथम् ॥ आवह-आद्याः तथा सप्त सोपानम् हैमम् उत्तमम् ॥ २१ ॥
tatra tatra kṛta-sthānāḥ śobhayāṃcakrire ratham .. āvaha-ādyāḥ tathā sapta sopānam haimam uttamam .. 21 ..
लोकालोकाचलस्तस्योपसोपानस्समंततः ॥ विषयश्च तथा बाह्यो मानसादिस्तु शोभनः ॥ २२ ॥
लोकालोक-अचलः तस्य उपसोपानः समंततः ॥ विषयः च तथा बाह्यः मानस-आदिः तु शोभनः ॥ २२ ॥
lokāloka-acalaḥ tasya upasopānaḥ samaṃtataḥ .. viṣayaḥ ca tathā bāhyaḥ mānasa-ādiḥ tu śobhanaḥ .. 22 ..
पाशास्समंततस्तस्य सर्वे वर्षाचलास्स्मृताः ॥ तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः ॥ २३ ॥
पाशाः समंततः तस्य सर्वे वर्ष-अचलाः स्मृताः ॥ तलाः तस्य रथस्य अथ सर्वे तल-निवासिनः ॥ २३ ॥
pāśāḥ samaṃtataḥ tasya sarve varṣa-acalāḥ smṛtāḥ .. talāḥ tasya rathasya atha sarve tala-nivāsinaḥ .. 23 ..
सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः ॥ प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ॥ २४ ॥
सारथिः भगवान् ब्रह्मा देवाः रश्मिधराः स्मृताः ॥ प्रतोदः ब्रह्मणः तस्य प्रणवः ब्रह्म-दैवतम् ॥ २४ ॥
sārathiḥ bhagavān brahmā devāḥ raśmidharāḥ smṛtāḥ .. pratodaḥ brahmaṇaḥ tasya praṇavaḥ brahma-daivatam .. 24 ..
अकारश्च महच्छत्रं मंदरः पार्श्वदंडभाक् ॥ शैलेन्द्रः कार्मुकं तस्य ज्या भुजंगाधिपस्स्वयम् ॥ २५ ॥
अकारः च महत् छत्रम् मंदरः पार्श्व-दंड-भाज् ॥ शैल-इन्द्रः कार्मुकम् तस्य ज्या भुजंग-अधिपः स्वयम् ॥ २५ ॥
akāraḥ ca mahat chatram maṃdaraḥ pārśva-daṃḍa-bhāj .. śaila-indraḥ kārmukam tasya jyā bhujaṃga-adhipaḥ svayam .. 25 ..
घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी ॥ इषुर्विष्णुर्महातेजास्त्वग्निश्शल्यं प्रकीर्तितम् ॥ २६ ॥
घंटा सरस्वती देवी धनुषः श्रुति-रूपिणी ॥ इषुः विष्णुः महा-तेजाः तु अग्निः शल्यम् प्रकीर्तितम् ॥ २६ ॥
ghaṃṭā sarasvatī devī dhanuṣaḥ śruti-rūpiṇī .. iṣuḥ viṣṇuḥ mahā-tejāḥ tu agniḥ śalyam prakīrtitam .. 26 ..
हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने ॥ ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम् ॥ २७॥
हयाः तस्य तथा प्रोक्ताः चत्वारः निगमाः मुने ॥ ज्योतींषि भूषणम् तेषाम् अवशिष्टानि अतस् परम् ॥ २७॥
hayāḥ tasya tathā proktāḥ catvāraḥ nigamāḥ mune .. jyotīṃṣi bhūṣaṇam teṣām avaśiṣṭāni atas param .. 27..
अनीकं विषसंभूतं वायवो वाजका स्मृताः ॥ ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन्॥ २८॥
अनीकम् विष-संभूतम् वायवः वाजका स्मृताः ॥ ऋषयः व्यास-मुख्याः च वाह-वाहाः तथा अभवन्॥ २८॥
anīkam viṣa-saṃbhūtam vāyavaḥ vājakā smṛtāḥ .. ṛṣayaḥ vyāsa-mukhyāḥ ca vāha-vāhāḥ tathā abhavan.. 28..
स्वल्पाक्षरैस्संब्रवीमि किं बहूक्त्या मुनीश्वर ॥ ब्रह्मांडे चैव यत्किंचिद्वस्तुतद्वै रथे स्मृतम् ॥ २९ ॥
सु अल्प-अक्षरैः संब्रवीमि किम् बहु-उक्त्या मुनि-ईश्वर ॥ ब्रह्मांडे च एव यत् किंचिद् वस्तु तत् वै रथे स्मृतम् ॥ २९ ॥
su alpa-akṣaraiḥ saṃbravīmi kim bahu-uktyā muni-īśvara .. brahmāṃḍe ca eva yat kiṃcid vastu tat vai rathe smṛtam .. 29 ..
एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा ॥ सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः ॥ 2.5.8.३० ॥
एवम् सम्यक् कृतः तेन धीमता विश्वकर्मणा ॥ स रथ-आदि-प्रकारः हि ब्रह्म-विष्णु-आज्ञया शुभः ॥ २।५।८।३० ॥
evam samyak kṛtaḥ tena dhīmatā viśvakarmaṇā .. sa ratha-ādi-prakāraḥ hi brahma-viṣṇu-ājñayā śubhaḥ .. 2.5.8.30 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे रथादियुद्धप्रकारवर्णनम् नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe rathādiyuddhaprakāravarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In