| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् ॥ संनह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम् ॥ १ ॥
ईदृग्विधम् महा-दिव्यम् नाना आश्चर्य-मयम् रथम् ॥ संनह्य निगमान् अश्वान् तम् ब्रह्मा प्रार्पयत् शिवम् ॥ १ ॥
īdṛgvidham mahā-divyam nānā āścarya-mayam ratham .. saṃnahya nigamān aśvān tam brahmā prārpayat śivam .. 1 ..
शंभवेऽसौ निवेद्याधिरोपयामास शूलिनम् ॥ बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसमतम् ॥ २ ॥
शंभवे असौ निवेद्य अधिरोपयामास शूलिनम् ॥ बहुशस् प्रार्थ्य देवेशम् विष्णु-आदि-सुर-समतम् ॥ २ ॥
śaṃbhave asau nivedya adhiropayāmāsa śūlinam .. bahuśas prārthya deveśam viṣṇu-ādi-sura-samatam .. 2 ..
ततस्तस्मिन्रथे दिव्ये रथप्राकारसंयुते ॥ सर्वदेवमयः शंभुरारुरोह महाप्रभुः ॥ ३ ॥
ततस् तस्मिन् रथे दिव्ये रथ-प्राकार-संयुते ॥ सर्व-देव-मयः शंभुः आरुरोह महा-प्रभुः ॥ ३ ॥
tatas tasmin rathe divye ratha-prākāra-saṃyute .. sarva-deva-mayaḥ śaṃbhuḥ āruroha mahā-prabhuḥ .. 3 ..
ऋषिभिः स्तूयमानश्च देवगंधर्वपन्नगैः ॥ विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह ॥ ४॥
ऋषिभिः स्तूयमानः च देव-गंधर्व-पन्नगैः ॥ विष्णुना ब्रह्मणा च अपि लोकपालैः बभूव ह ॥ ४॥
ṛṣibhiḥ stūyamānaḥ ca deva-gaṃdharva-pannagaiḥ .. viṣṇunā brahmaṇā ca api lokapālaiḥ babhūva ha .. 4..
उपावृतश्चाप्सरसां गणैर्गीतविशारदः ॥ शुशुभे वरदश्शम्भुस्स तं प्रेक्ष्य च सारथिम् ॥ ५ ॥
उपावृतः च अप्सरसाम् गणैः गीत-विशारदः ॥ शुशुभे वर-दः शम्भुः स तम् प्रेक्ष्य च सारथिम् ॥ ५ ॥
upāvṛtaḥ ca apsarasām gaṇaiḥ gīta-viśāradaḥ .. śuśubhe vara-daḥ śambhuḥ sa tam prekṣya ca sārathim .. 5 ..
तस्मिन्नारोऽहतिरथं कल्पितं लोकसंभृतम् ॥ शिरोभिः पतिता भूमौ तुरगा वेदसंभवाः ॥ ६॥
तस्मिन् आरः अहति-रथम् कल्पितम् लोक-संभृतम् ॥ शिरोभिः पतिताः भूमौ तुरगाः वेद-संभवाः ॥ ६॥
tasmin āraḥ ahati-ratham kalpitam loka-saṃbhṛtam .. śirobhiḥ patitāḥ bhūmau turagāḥ veda-saṃbhavāḥ .. 6..
चचाल वसुधा चेलुस्सकलाश्च महीधराः ॥ चकंपे सहसा शेषोऽसोढा तद्भारमातुरः ।७॥
चचाल वसुधा चेलुः सकलाः च महीधराः ॥ चकंपे सहसा शेषः असोढा तद्-भारम् आतुरः ।७॥
cacāla vasudhā celuḥ sakalāḥ ca mahīdharāḥ .. cakaṃpe sahasā śeṣaḥ asoḍhā tad-bhāram āturaḥ .7..
अथाधः स रथस्यास्य भगवान्धरणीधरः ॥ वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम् ॥ ८ ॥
अथ अधस् स रथस्य अस्य भगवान् धरणीधरः ॥ वृष-इन्द्र-रूपी च उत्थाय स्थापयामास वै क्षणम् ॥ ८ ॥
atha adhas sa rathasya asya bhagavān dharaṇīdharaḥ .. vṛṣa-indra-rūpī ca utthāya sthāpayāmāsa vai kṣaṇam .. 8 ..
क्षणांतरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ॥ रथारूढमहेशस्य सुतेजस्सोढुमक्षमः ॥ ९ ॥
क्षण-अन्तरे वृष-इन्द्रः अपि जानुभ्याम् अगमत् धराम् ॥ रथ-आरूढ-महेशस्य सु तेजः सोढुम् अक्षमः ॥ ९ ॥
kṣaṇa-antare vṛṣa-indraḥ api jānubhyām agamat dharām .. ratha-ārūḍha-maheśasya su tejaḥ soḍhum akṣamaḥ .. 9 ..
अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा ॥ स्थापयामास देवस्य पचनाद्वैरथं वरम्॥ 2.5.9.१०॥
अभीषु-हस्तः भगवान् उद्यम्य च हयान् तदा ॥ स्थापयामास देवस्य पचनात् वैरथम् वरम्॥ २।५।९।१०॥
abhīṣu-hastaḥ bhagavān udyamya ca hayān tadā .. sthāpayāmāsa devasya pacanāt vairatham varam.. 2.5.9.10..
ततोऽसौ नोदयामास मनोमारुतरंहसः ॥ ब्रह्मा हयान्वेदमयान्नद्धान्रथवरे स्थितः ॥ ११॥
ततस् असौ नोदयामास मनः-मारुत-रंहसः ॥ ब्रह्मा हयान् वेद-मयान् नद्धान् रथ-वरे स्थितः ॥ ११॥
tatas asau nodayāmāsa manaḥ-māruta-raṃhasaḥ .. brahmā hayān veda-mayān naddhān ratha-vare sthitaḥ .. 11..
पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि॥ अधिष्ठिते महेशे तु दानवानां तरस्विनाम्॥ १२॥
पुराणि उद्दिश्य वै त्रीणि तेषाम् ख-स्थानि तानि हि॥ अधिष्ठिते महेशे तु दानवानाम् तरस्विनाम्॥ १२॥
purāṇi uddiśya vai trīṇi teṣām kha-sthāni tāni hi.. adhiṣṭhite maheśe tu dānavānām tarasvinām.. 12..
अथाह भगवान्रुद्रो देवानालोक्य शंकरः॥ पशूनामाधिपत्यं मे धद्ध्वं हन्मि ततोऽसुरान्॥ १३॥
अथ आह भगवान् रुद्रः देवान् आलोक्य शंकरः॥ पशूनाम् आधिपत्यम् मे हन्मि ततस् असुरान्॥ १३॥
atha āha bhagavān rudraḥ devān ālokya śaṃkaraḥ.. paśūnām ādhipatyam me hanmi tatas asurān.. 13..
पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः॥ कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः ॥ १४ ॥
पृथक् पशु-त्वम् देवानाम् तथा अन्येषाम् सुर-उत्तमाः॥ कल्पयित्वा एव वध्याः ते न अन्यथा दैत्य-सत्तमाः ॥ १४ ॥
pṛthak paśu-tvam devānām tathā anyeṣām sura-uttamāḥ.. kalpayitvā eva vadhyāḥ te na anyathā daitya-sattamāḥ .. 14 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः ॥ विषादमगमन्सर्वे पशुत्वं प्रतिशंकिताः ॥ १५ ॥
इति श्रुत्वा वचः तस्य देवदेवस्य धीमतः ॥ विषादम् अगमन् सर्वे पशु-त्वम् प्रतिशंकिताः ॥ १५ ॥
iti śrutvā vacaḥ tasya devadevasya dhīmataḥ .. viṣādam agaman sarve paśu-tvam pratiśaṃkitāḥ .. 15 ..
तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः ॥ विहस्य कृपया देवाञ्छंभुस्तानिदमब्रवीत् ॥ १६ ॥
तेषाम् भावम् अथ ज्ञात्वा देवदेवः अम्बिकापतिः ॥ विहस्य कृपया देवान् शंभुः तान् इदम् अब्रवीत् ॥ १६ ॥
teṣām bhāvam atha jñātvā devadevaḥ ambikāpatiḥ .. vihasya kṛpayā devān śaṃbhuḥ tān idam abravīt .. 16 ..
शंभुरुवाच ।।
मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः ॥ श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥ १७ ॥
मा वः अस्तु पशु-भावे अपि पातः विबुध-सत्तमाः ॥ श्रूयताम् पशु-भावस्य विमोक्षः क्रियताम् च सः ॥ १७ ॥
mā vaḥ astu paśu-bhāve api pātaḥ vibudha-sattamāḥ .. śrūyatām paśu-bhāvasya vimokṣaḥ kriyatām ca saḥ .. 17 ..
यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ॥ पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः ॥ १८ ॥
यौ वै पाशुपतम् दिव्यम् चरिष्यति स मोक्ष्यति ॥ पशु-त्वात् इति सत्यम् वः प्रतिज्ञातम् समाहिताः ॥ १८ ॥
yau vai pāśupatam divyam cariṣyati sa mokṣyati .. paśu-tvāt iti satyam vaḥ pratijñātam samāhitāḥ .. 18 ..
ये चाप्यन्ये करिष्यंति व्रतं पाशुपतं मम ॥ मोक्ष्यंति ते न संदेहः पशुत्वात्सुरसत्तमाः ॥ १९ ॥
ये च अपि अन्ये करिष्यन्ति व्रतम् पाशुपतम् मम ॥ मोक्ष्यन्ति ते न संदेहः पशु-त्वात् सुर-सत्तमाः ॥ १९ ॥
ye ca api anye kariṣyanti vratam pāśupatam mama .. mokṣyanti te na saṃdehaḥ paśu-tvāt sura-sattamāḥ .. 19 ..
नैष्ठिकं द्वादशाब्दं वा तदर्थं वर्षकत्रयम् ॥ शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ॥ 2.5.9.२० ॥
नैष्ठिकम् द्वादश-अब्दम् वा तद्-अर्थम् वर्षक-त्रयम् ॥ शुश्रूषाम् कारयेत् यः तु स पशु-त्वात् विमुच्यते ॥ २।५।९।२० ॥
naiṣṭhikam dvādaśa-abdam vā tad-artham varṣaka-trayam .. śuśrūṣām kārayet yaḥ tu sa paśu-tvāt vimucyate .. 2.5.9.20 ..
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ॥ पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः ॥ २१॥
तस्मात् परम् इदम् दिव्यम् चरिष्यथ सुर-उत्तमाः ॥ पशु-त्वात् मोक्ष्यथ तदा यूयम् अत्र न संशयः ॥ २१॥
tasmāt param idam divyam cariṣyatha sura-uttamāḥ .. paśu-tvāt mokṣyatha tadā yūyam atra na saṃśayaḥ .. 21..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः ॥ तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा ॥ २२ ॥
इति आकर्ण्य वचः तस्य महेशस्य परात्मनः ॥ तथा इति च अब्रुवन् देवाः हरि-ब्रह्म-आदयः तथा ॥ २२ ॥
iti ākarṇya vacaḥ tasya maheśasya parātmanaḥ .. tathā iti ca abruvan devāḥ hari-brahma-ādayaḥ tathā .. 22 ..
तस्माद्वै पशवस्सर्वे देवासुरवराः प्रभोः ॥ रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ॥ २३ ॥
तस्मात् वै पशवः सर्वे देव-असुर-वराः प्रभोः ॥ रुद्रः पशुपतिः च एव पशु-पाश-विमोचकः ॥ २३ ॥
tasmāt vai paśavaḥ sarve deva-asura-varāḥ prabhoḥ .. rudraḥ paśupatiḥ ca eva paśu-pāśa-vimocakaḥ .. 23 ..
तदा पक्षुपतीत्येतत्तस्य नाम महेशितुः ॥ प्रसिद्धमभवद्वध्वा सर्वलोकेषु शर्मदम् ॥ २४ ॥
तदा पक्षुपति-इति एतत् तस्य नाम महेशितुः ॥ प्रसिद्धम् अभवत् वध्वा सर्व-लोकेषु शर्म-दम् ॥ २४ ॥
tadā pakṣupati-iti etat tasya nāma maheśituḥ .. prasiddham abhavat vadhvā sarva-lokeṣu śarma-dam .. 24 ..
मुदा जयेति भाषंतस्सर्वे देवर्षयस्तदा ॥ अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च ॥ २५॥
मुदा जय इति भाषंतः सर्वे देवर्षयः तदा ॥ अमुदन् च अति देवेशः ब्रह्मा विष्णुः परे अपि च ॥ २५॥
mudā jaya iti bhāṣaṃtaḥ sarve devarṣayaḥ tadā .. amudan ca ati deveśaḥ brahmā viṣṇuḥ pare api ca .. 25..
तस्मिंश्च समये यच्च रूपं तस्य महात्मनः ॥ जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि ॥ २६॥
तस्मिन् च समये यत् च रूपम् तस्य महात्मनः ॥ जातम् तत् वर्णितुम् शक्यम् न हि वर्ष-शतैः अपि ॥ २६॥
tasmin ca samaye yat ca rūpam tasya mahātmanaḥ .. jātam tat varṇitum śakyam na hi varṣa-śataiḥ api .. 26..
एवं विधो महेशानो महेशान्यखिलेश्वरः ॥ जगाम त्रिपुरं हंतुं सर्वेषां सुखदायकः ॥ २७ ॥
एवंविधः महेशानः महेशानी अखिल-ईश्वरः ॥ जगाम त्रिपुरम् हंतुम् सर्वेषाम् सुख-दायकः ॥ २७ ॥
evaṃvidhaḥ maheśānaḥ maheśānī akhila-īśvaraḥ .. jagāma tripuram haṃtum sarveṣām sukha-dāyakaḥ .. 27 ..
तं देवदेवं त्रिपुरं निहंतुं तदानु सर्वे तु रविप्रकाशाः ॥ गजैर्हयैस्सिंहवरै रथैश्च वृषैर्ययुस्तेऽमरराजमुख्याः॥ २८॥
तम् देवदेवम् त्रिपुरम् निहंतुम् तदा अनु सर्वे तु रवि-प्रकाशाः ॥ गजैः हयैः सिंह-वरैः रथैः च वृषैः ययुः ते अमर-राज-मुख्याः॥ २८॥
tam devadevam tripuram nihaṃtum tadā anu sarve tu ravi-prakāśāḥ .. gajaiḥ hayaiḥ siṃha-varaiḥ rathaiḥ ca vṛṣaiḥ yayuḥ te amara-rāja-mukhyāḥ.. 28..
हलैश्च शालैर्मुशलैर्भुशुण्डैर्गिरीन्द्रकल्पैर्गिरिसंनिभाश्च॥ नानायुधैस्संयुतबाहवस्ते ततो नु हृष्टाः प्रययुस्सुरेशाः ॥ २९ ॥
हलैः च शालैः मुशलैः भुशुण्डैः गिरि-इन्द्र-कल्पैः गिरि-संनिभाः च॥ नाना आयुधैः संयुत-बाहवः ते ततस् नु हृष्टाः प्रययुः सुरेशाः ॥ २९ ॥
halaiḥ ca śālaiḥ muśalaiḥ bhuśuṇḍaiḥ giri-indra-kalpaiḥ giri-saṃnibhāḥ ca.. nānā āyudhaiḥ saṃyuta-bāhavaḥ te tatas nu hṛṣṭāḥ prayayuḥ sureśāḥ .. 29 ..
नानायुधाढ्याः परमप्रकाशा महोत्सवश्शंभुजयं वदंतः ॥ ययुः पुरस्तस्य महेश्वरस्य तदेन्द्रपद्मोद्भवविष्णुमुख्याः॥ 2.5.9.३०॥
नाना आयुध-आढ्याः परम-प्रकाशाः महा-उत्सवः शंभु-जयम् वदंतः ॥ ययुः पुरस् तस्य महेश्वरस्य तदा इन्द्र-पद्मोद्भव-विष्णु-मुख्याः॥ २।५।९।३०॥
nānā āyudha-āḍhyāḥ parama-prakāśāḥ mahā-utsavaḥ śaṃbhu-jayam vadaṃtaḥ .. yayuḥ puras tasya maheśvarasya tadā indra-padmodbhava-viṣṇu-mukhyāḥ.. 2.5.9.30..
जहृषुर्मुनयस्सर्वे दंडहस्ता जटाधराः ॥ ववृषुः पुष्पवर्षाणि खेचरा सिद्धचारणाः ॥ ३१ ॥
जहृषुः मुनयः सर्वे दंड-हस्ताः जटा-धराः ॥ ववृषुः पुष्प-वर्षाणि खेचरा सिद्ध-चारणाः ॥ ३१ ॥
jahṛṣuḥ munayaḥ sarve daṃḍa-hastāḥ jaṭā-dharāḥ .. vavṛṣuḥ puṣpa-varṣāṇi khecarā siddha-cāraṇāḥ .. 31 ..
पुत्रत्रयं च विप्रेन्द्रा व्रजन्सर्वे गणेश्वराः ॥ तेषां संख्या च कः कर्तुं समर्थो वच्मि कांश्चन ॥ ३२ ॥
पुत्र-त्रयम् च विप्र-इन्द्राः व्रजन् सर्वे गणेश्वराः ॥ तेषाम् संख्या च कः कर्तुम् समर्थः वच्मि कांश्चन ॥ ३२ ॥
putra-trayam ca vipra-indrāḥ vrajan sarve gaṇeśvarāḥ .. teṣām saṃkhyā ca kaḥ kartum samarthaḥ vacmi kāṃścana .. 32 ..
गणेश्वरैर्देवगणैश्च भृङ्गी समावृतस्सर्वगणेन्द्रवर्यः ॥ जगाम योगांस्त्रिपुरं निहंतुं विमानमारुह्य यथा महेन्द्रः ॥ ३३॥ ।
गण-ईश्वरैः देव-गणैः च भृङ्गी समावृतः सर्व-गण-इन्द्र-वर्यः ॥ जगाम योगान् त्रिपुरम् निहंतुम् विमानम् आरुह्य यथा महा-इन्द्रः ॥ ३३॥ ।
gaṇa-īśvaraiḥ deva-gaṇaiḥ ca bhṛṅgī samāvṛtaḥ sarva-gaṇa-indra-varyaḥ .. jagāma yogān tripuram nihaṃtum vimānam āruhya yathā mahā-indraḥ .. 33.. .
केशो विगतवासश्च महाकेशो महाज्वरः ॥ सोमवल्लीसवर्णश्च सोमदस्सनकस्तथा ॥ ३४ ॥
केशः विगतवासः च महाकेशः महाज्वरः ॥ सोमवल्लीसवर्णः च सोमदः सनकः तथा ॥ ३४ ॥
keśaḥ vigatavāsaḥ ca mahākeśaḥ mahājvaraḥ .. somavallīsavarṇaḥ ca somadaḥ sanakaḥ tathā .. 34 ..
सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा ॥ सूर्याक्षस्सूरिनामा च सुरस्सुन्दर एव च॥ ३५॥
सूर्यवर्चाः च सूर्यप्रेषणकः तथा ॥ सूर्याक्षः सूरि-नामा च सुरः सुन्दरः एव च॥ ३५॥
sūryavarcāḥ ca sūryapreṣaṇakaḥ tathā .. sūryākṣaḥ sūri-nāmā ca suraḥ sundaraḥ eva ca.. 35..
प्रस्कंदः कुन्दरश्चंडः कंपनश्चातिकंपनः ॥ इन्द्रश्चेन्द्रजवश्चैव यंता हिमकरस्तथा॥ ३६॥
प्रस्कंदः कुन्दरः चंडः कंपनः च अतिकंपनः ॥ इन्द्रः च इन्द्रजवः च एव यंता हिमकरः तथा॥ ३६॥
praskaṃdaḥ kundaraḥ caṃḍaḥ kaṃpanaḥ ca atikaṃpanaḥ .. indraḥ ca indrajavaḥ ca eva yaṃtā himakaraḥ tathā.. 36..
शताक्षश्चैव पंचाक्षः सहस्राक्षो महोदरः ॥ सतीजहुश्शतास्यश्च रंकः कर्पूरपूतनः ॥ ३७॥
शताक्षः च एव पंचाक्षः सहस्राक्षः महोदरः ॥ रंकः कर्पूरपूतनः ॥ ३७॥
śatākṣaḥ ca eva paṃcākṣaḥ sahasrākṣaḥ mahodaraḥ .. raṃkaḥ karpūrapūtanaḥ .. 37..
द्विशिखस्त्रिशिखश्चैव तथाहंकारकारकः॥ अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः ॥ ३८॥
द्विशिखः त्रिशिखः च एव तथा अहंकारकारकः॥ अजवक्त्रः अष्टवक्त्रः च हयवक्त्रः अर्द्धवक्त्रकः ॥ ३८॥
dviśikhaḥ triśikhaḥ ca eva tathā ahaṃkārakārakaḥ.. ajavaktraḥ aṣṭavaktraḥ ca hayavaktraḥ arddhavaktrakaḥ .. 38..
इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः ॥ प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः॥ ३९॥
इत्याद्याः गणपाः वीराः बहवः अपरिमेयकाः ॥ प्रययुः परिवार्य ईशम् लक्ष्य-लक्षण-वर्जिताः॥ ३९॥
ityādyāḥ gaṇapāḥ vīrāḥ bahavaḥ aparimeyakāḥ .. prayayuḥ parivārya īśam lakṣya-lakṣaṇa-varjitāḥ.. 39..
समावृत्य महादेवं तदापुस्ते पिनाकिनम् ॥ दग्धुं समर्था मनसा क्षणेन सचराचरम् ॥ 2.5.9.४० ॥
समावृत्य महादेवम् तदा आपुः ते पिनाकिनम् ॥ दग्धुम् समर्थाः मनसा क्षणेन सचराचरम् ॥ २।५।९।४० ॥
samāvṛtya mahādevam tadā āpuḥ te pinākinam .. dagdhum samarthāḥ manasā kṣaṇena sacarācaram .. 2.5.9.40 ..
दग्धुं जगत्सर्वमिदं समर्थाः किंत्वत्र दग्धुं त्रिपुरं पिनाकी ॥ रथेन किं चात्र शरेण तस्य गणैश्च किं देवगणैश्च शम्भोः ॥ ४१॥
दग्धुम् जगत् सर्वम् इदम् समर्थाः किंतु अत्र दग्धुम् त्रिपुरम् पिनाकी ॥ रथेन किम् च अत्र शरेण तस्य गणैः च किम् देव-गणैः च शम्भोः ॥ ४१॥
dagdhum jagat sarvam idam samarthāḥ kiṃtu atra dagdhum tripuram pinākī .. rathena kim ca atra śareṇa tasya gaṇaiḥ ca kim deva-gaṇaiḥ ca śambhoḥ .. 41..
स एव दग्धुं त्रिपुराणि तानि देवद्विषां व्यास पिनाकपाणिः ॥ स्वयं गतस्तत्र गणैश्च सार्द्धं निजैस्सुराणामपि सोऽद्भुतोतिः ॥ ४२॥
सः एव दग्धुम् त्रिपुराणि तानि देव-द्विषाम् व्यास पिनाकपाणिः ॥ स्वयम् गतः तत्र गणैः च सार्द्धम् निजैः सुराणाम् अपि सः अद्भुत-ऊतिः ॥ ४२॥
saḥ eva dagdhum tripurāṇi tāni deva-dviṣām vyāsa pinākapāṇiḥ .. svayam gataḥ tatra gaṇaiḥ ca sārddham nijaiḥ surāṇām api saḥ adbhuta-ūtiḥ .. 42..
किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम ॥ लोकेषु ख्यापनार्थं वै यशः परमलापहम् ॥ ४३॥
किम् तत्र कारणम् च अन्यत् वच्मि ते ऋषि-सत्तम ॥ लोकेषु ख्यापन-अर्थम् वै यशः पर-मल-अपहम् ॥ ४३॥
kim tatra kāraṇam ca anyat vacmi te ṛṣi-sattama .. lokeṣu khyāpana-artham vai yaśaḥ para-mala-apaham .. 43..
अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै॥ सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते॥ ४४॥
अन्यत् च कारणम् हि एतत् दुष्टानाम् प्रत्ययाय वै॥ सर्वेषु अपि च देवेषु यस्मात् न अन्यः विशिष्यते॥ ४४॥
anyat ca kāraṇam hi etat duṣṭānām pratyayāya vai.. sarveṣu api ca deveṣu yasmāt na anyaḥ viśiṣyate.. 44..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शिवयात्रावर्णनं नाम नवमोऽध्यायः॥ ९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे शिवयात्रावर्णनम् नाम नवमः अध्यायः॥ ९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe śivayātrāvarṇanam nāma navamaḥ adhyāyaḥ.. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In