| |
|

This overlay will guide you through the buttons:

श्रीगणेशाय नमः ॥
श्री-गणेशाय नमः ॥
śrī-gaṇeśāya namaḥ ..
श्रीगौरीशंकराभ्यां नमः ॥
श्री-गौरी-शंकराभ्याम् नमः ॥
śrī-gaurī-śaṃkarābhyām namaḥ ..
अथ पञ्चम्युमासंहिता प्रारभ्यते ॥
अथ पञ्चमी उमा-संहिता प्रारभ्यते ॥
atha pañcamī umā-saṃhitā prārabhyate ..
यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ॥ सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥ १॥
यः धत्ते भुवनानि सप्त गुणवान् स्रष्टा रजः-संश्रयः संहर्ता तमसा अन्वितः गुणवतीम् मायाम् अतीत्य स्थितः ॥ सत्य-आनन्दम् अनन्त-बोधम् अमलम् ब्रह्म-आदि-संज्ञा-आस्पदम् नित्यम् सत्त्व-समन्वयात् अधिगतम् पूर्णम् शिवम् धीमहि ॥ १॥
yaḥ dhatte bhuvanāni sapta guṇavān sraṣṭā rajaḥ-saṃśrayaḥ saṃhartā tamasā anvitaḥ guṇavatīm māyām atītya sthitaḥ .. satya-ānandam ananta-bodham amalam brahma-ādi-saṃjñā-āspadam nityam sattva-samanvayāt adhigatam pūrṇam śivam dhīmahi .. 1..
ऋषय ऊचुः ।।
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ॥ चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥ २ ॥
सूत-सूत महा-प्राज्ञ व्यासशिष्यन मो अस्तु ते ॥ चतुर्थी कोटिरुद्र-आख्या श्राविता संहिता त्वया ॥ २ ॥
sūta-sūta mahā-prājña vyāsaśiṣyana mo astu te .. caturthī koṭirudra-ākhyā śrāvitā saṃhitā tvayā .. 2 ..
अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ॥ ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः ॥ ३॥
अथ उमा-संहिता-अन्तर् स्थ नाना आख्यान-समन्वितम् ॥ ब्रूहि शंभोः चरित्रम् वै साम्बस्य परमात्मनः ॥ ३॥
atha umā-saṃhitā-antar stha nānā ākhyāna-samanvitam .. brūhi śaṃbhoḥ caritram vai sāmbasya paramātmanaḥ .. 3..
सूत उवाच ।।
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ॥ शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥ ४ ॥
महा-ऋषयः शौनक-आद्याः शृणुत प्रेमतः शुभम् ॥ शांकरम् चरितम् दिव्यम् भुक्ति-मुक्ति-प्रदम् परम् ॥ ४ ॥
mahā-ṛṣayaḥ śaunaka-ādyāḥ śṛṇuta premataḥ śubham .. śāṃkaram caritam divyam bhukti-mukti-pradam param .. 4 ..
इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ॥ व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ ॥ ५ ॥
इति ईदृशम् पुण्य-प्रश्नम् पृष्टवान् मुनि-सत्तमः ॥ व्यासः सनत्कुमारम् वै शैवम् सत्-चरितम् जगौ ॥ ५ ॥
iti īdṛśam puṇya-praśnam pṛṣṭavān muni-sattamaḥ .. vyāsaḥ sanatkumāram vai śaivam sat-caritam jagau .. 5 ..
सनत्कुमार उवाच ।।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ॥ तदुच्यते मया व्यास चरितं हि महेशितुः ॥ ६ ॥
वासुदेवाय यत् प्रोक्तम् उपमन्यु-महा-ऋषिणा ॥ तत् उच्यते मया व्यास चरितम् हि महेशितुः ॥ ६ ॥
vāsudevāya yat proktam upamanyu-mahā-ṛṣiṇā .. tat ucyate mayā vyāsa caritam hi maheśituḥ .. 6 ..
पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ॥ वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥ ७ ॥
पुरा पुत्र-अर्थम् अगमत् कैलासम् शंकर-आलयम् ॥ वसुदेव-सुतः कृष्णः तपः तप्तुम् शिवस्य हि ॥ ७ ॥
purā putra-artham agamat kailāsam śaṃkara-ālayam .. vasudeva-sutaḥ kṛṣṇaḥ tapaḥ taptum śivasya hi .. 7 ..
अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ॥ प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥ ८ ॥
अत्र उपमन्युम् संदृष्ट्वा तपंतम् शृंगे उत्तमे ॥ प्रणम्य भक्त्या स मुनिम् पर्यपृच्छत् कृताञ्जलिः ॥ ८ ॥
atra upamanyum saṃdṛṣṭvā tapaṃtam śṛṃge uttame .. praṇamya bhaktyā sa munim paryapṛcchat kṛtāñjaliḥ .. 8 ..
श्रीकृष्ण उवाच ।।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ॥ पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥ ९ ॥
उपमन्यो महा-प्राज्ञ शैव-प्रवर सत्-मते ॥ पुत्र-अर्थम् अगमम् तप्तुम् तपः अत्र गिरिशस्य हि ॥ ९ ॥
upamanyo mahā-prājña śaiva-pravara sat-mate .. putra-artham agamam taptum tapaḥ atra giriśasya hi .. 9 ..
ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ॥ यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम् ॥ 5.1.१० ॥
ब्रूहि शंकर-माहात्म्यम् सदा आनन्द-करम् मुने ॥ यत् श्रुत्वा भक्तितः कुर्य्याम् तपः ऐश्वरम् उत्तमम् ॥ ५।१।१० ॥
brūhi śaṃkara-māhātmyam sadā ānanda-karam mune .. yat śrutvā bhaktitaḥ kuryyām tapaḥ aiśvaram uttamam .. 5.1.10 ..
।। सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ॥ प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम् ॥ ११ ॥
इति श्रुत्वा वचः तस्य वासुदेवस्य धीमतः ॥ प्रत्युवाच प्रसन्न-आत्मा हि उपमन्युः स्मरन् शिवम् ॥ ११ ॥
iti śrutvā vacaḥ tasya vāsudevasya dhīmataḥ .. pratyuvāca prasanna-ātmā hi upamanyuḥ smaran śivam .. 11 ..
।। उपमन्युरुवाच ।।
शृणु कृष्ण महाशैव महिमानं महेशितुः ॥ यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम् ॥ १२ ॥
शृणु कृष्ण महाशैव महिमानम् महेशितुः ॥ यम् अद्राक्षम् अहम् शंभोः भक्ति-वर्द्धनम् उत्तमम् ॥ १२ ॥
śṛṇu kṛṣṇa mahāśaiva mahimānam maheśituḥ .. yam adrākṣam aham śaṃbhoḥ bhakti-varddhanam uttamam .. 12 ..
तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ॥ परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥ १३ ॥
तपः-स्थः अहम् समद्राक्षम् शंकरम् च तद्-आयुधान् ॥ परिवारम् समस्तम् च विष्णु-आदीन् अमर-आदिकान् ॥ १३ ॥
tapaḥ-sthaḥ aham samadrākṣam śaṃkaram ca tad-āyudhān .. parivāram samastam ca viṣṇu-ādīn amara-ādikān .. 13 ..
त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम्॥एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥ १४॥
त्रिभिः अंशैः शोभमानम् अजस्र-सुखम् अव्ययम्॥एक-पादम् महा-दंष्ट्रम् स ज्वाल-कवलैः मुखैः ॥ १४॥
tribhiḥ aṃśaiḥ śobhamānam ajasra-sukham avyayam..eka-pādam mahā-daṃṣṭram sa jvāla-kavalaiḥ mukhaiḥ .. 14..
द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ॥ सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥ १५ ॥
द्वि-सहस्र-मयूखानाम् ज्योतिषा अतिविराजितम् ॥ सर्व-अस्त्र-प्रवर-आबाधम् अनेक-अक्षम् सहस्रपाद् ॥ १५ ॥
dvi-sahasra-mayūkhānām jyotiṣā ativirājitam .. sarva-astra-pravara-ābādham aneka-akṣam sahasrapād .. 15 ..
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ॥ नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥ १६ ॥
यः च कल्पान्त-समये विश्वम् संहरति ध्रुवम् ॥ न अवध्यः यस्य च भवेत् त्रैलौक्ये सचराचरे ॥ १६ ॥
yaḥ ca kalpānta-samaye viśvam saṃharati dhruvam .. na avadhyaḥ yasya ca bhavet trailaukye sacarācare .. 16 ..
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ॥ निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥ १७ ॥
महेश्वर-भुज-उत्सृष्टम् त्रैलोक्यम् सचराचरम् ॥ निर्ददाह द्रुतम् कृत्स्नम् निमेष-अर्द्धात् न संशयः ॥ १७ ॥
maheśvara-bhuja-utsṛṣṭam trailokyam sacarācaram .. nirdadāha drutam kṛtsnam nimeṣa-arddhāt na saṃśayaḥ .. 17 ..
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ॥ गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥ १८॥
तपः-स्थः रुद्र-पार्श्व-स्थम् दृष्टवान् अहम् अव्यम् ॥ गुह्यम् अस्त्रम् परम् च अस्य न तुल्यम् अधिकम् क्वचिद् ॥ १८॥
tapaḥ-sthaḥ rudra-pārśva-stham dṛṣṭavān aham avyam .. guhyam astram param ca asya na tulyam adhikam kvacid .. 18..
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥ १९॥
यत् तत् शूलम् इति ख्यातम् सर्व-लोकेषु शूलिनः ॥ विजय-अभिधम् अति उग्रम् सर्व-शस्त्र-अस्त्र-नाशकम् ॥ १९॥
yat tat śūlam iti khyātam sarva-lokeṣu śūlinaḥ .. vijaya-abhidham ati ugram sarva-śastra-astra-nāśakam .. 19..
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ॥ पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥ 5.1.२०॥
दारयेत् यत् महीम् कृत्स्नाम् शोषयेत् यत् महा-उदधिम् ॥ पातयेत् अखिलम् ज्योतिः-चक्रम् यत् न अत्र संशयः ॥ ५।१।२०॥
dārayet yat mahīm kṛtsnām śoṣayet yat mahā-udadhim .. pātayet akhilam jyotiḥ-cakram yat na atra saṃśayaḥ .. 5.1.20..
यौवनाश्वो हतो येन मांधाता सबलः पुरा ॥ चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥ २१॥
यौवनाश्वः हतः येन मांधाता स बलः पुरा ॥ ॥ २१॥
yauvanāśvaḥ hataḥ yena māṃdhātā sa balaḥ purā .. .. 21..
दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ॥ शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः ॥ २२॥
दर्प-आविष्टः हैहयः च निः क्षिप्तः लवण-असुरः ॥ शत्रुघ्नम् नृपतिम् युद्धे समाहूय समंततः ॥ २२॥
darpa-āviṣṭaḥ haihayaḥ ca niḥ kṣiptaḥ lavaṇa-asuraḥ .. śatrughnam nṛpatim yuddhe samāhūya samaṃtataḥ .. 22..
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत्॥तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत् ॥ २३॥
तस्मिन् दैत्ये विनष्टे तु रुद्र-हस्ते गतम् तु यत्॥तत् शूलम् इति तीक्ष्ण-अग्रम् संत्रास-जननम् महत् ॥ २३॥
tasmin daitye vinaṣṭe tu rudra-haste gatam tu yat..tat śūlam iti tīkṣṇa-agram saṃtrāsa-jananam mahat .. 23..
त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ॥ विधूम्रानलसंकाशं बालसूर्यमिवोदितम् ॥ २४॥
त्रि-शिखाम् भृकुटीम् कृत्वा तर्जयंतम् इव स्थितम् ॥ विधूम्र-अनल-संकाशम् बाल-सूर्यम् इव उदितम् ॥ २४॥
tri-śikhām bhṛkuṭīm kṛtvā tarjayaṃtam iva sthitam .. vidhūmra-anala-saṃkāśam bāla-sūryam iva uditam .. 24..
सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम्॥परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम्॥२५॥
सूर्य हस्तम् अनिर्द्देश्यम् पाश-हस्तम् इव अन्तकम्॥परशुम् तीक्ष्ण-धारम् च सर्प-आद्यैः च विभूषितम्॥२५॥
sūrya hastam anirddeśyam pāśa-hastam iva antakam..paraśum tīkṣṇa-dhāram ca sarpa-ādyaiḥ ca vibhūṣitam..25..
कल्पान्तदहनाकारं तथा पुरुषविग्रहम्॥यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥ २६॥
कल्पान्त-दहन-आकारम् तथा पुरुष-विग्रहम्॥यत् तत् भार्गव-रामस्य क्षत्रियान्तकरम् रणे ॥ २६॥
kalpānta-dahana-ākāram tathā puruṣa-vigraham..yat tat bhārgava-rāmasya kṣatriyāntakaram raṇe .. 26..
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ॥ त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः ॥ २७ ॥
रामः यद्-बलम् आश्रित्य शिवदत्तः च वै पुरा ॥ त्रिस् सप्त-कृत्वस् नक्षत्रम् ददाह हृषितः मुनिः ॥ २७ ॥
rāmaḥ yad-balam āśritya śivadattaḥ ca vai purā .. tris sapta-kṛtvas nakṣatram dadāha hṛṣitaḥ muniḥ .. 27 ..
सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ॥ द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ॥ २८ ॥
सुदर्शनम् तथा चक्रम् सहस्र-वदनम् विभुम् ॥ द्वि-सहस्र-भुजम् देवम् अद्राक्षम् पुरुष-आकृतिम् ॥ २८ ॥
sudarśanam tathā cakram sahasra-vadanam vibhum .. dvi-sahasra-bhujam devam adrākṣam puruṣa-ākṛtim .. 28 ..
द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ॥ कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ॥ २९ ॥
द्वि-सहस्र-ईक्षणम् दीप्तम् सहस्र-चरण-आकुलम् ॥ कोटि-सूर्य-प्रतीकाशम् त्रैलोक्य-दहन-क्षमम् ॥ २९ ॥
dvi-sahasra-īkṣaṇam dīptam sahasra-caraṇa-ākulam .. koṭi-sūrya-pratīkāśam trailokya-dahana-kṣamam .. 29 ..
वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ॥ महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ॥ 5.1.३०॥
वज्रम् महा-उज्ज्वलम् तीक्ष्णम् शत-पर्व-प्रनुत्तमम् ॥ महा-धनुः पिनाकम् च स तूणीरम् महा-द्युतिम् ॥ ५।१।३०॥
vajram mahā-ujjvalam tīkṣṇam śata-parva-pranuttamam .. mahā-dhanuḥ pinākam ca sa tūṇīram mahā-dyutim .. 5.1.30..
शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ॥ गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ॥ ३१॥
शक्तिम् खङ्गम् च पाशम् च महा-दीप्तम् सम-अंकुशम् ॥ गदाम् च महतीम् दिव्याम् अन्यानि अस्त्राणि दृष्टवान् ॥ ३१॥
śaktim khaṅgam ca pāśam ca mahā-dīptam sama-aṃkuśam .. gadām ca mahatīm divyām anyāni astrāṇi dṛṣṭavān .. 31..
तथा च लोकपालानामस्त्राण्येतानि यानि च ॥ अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ॥ ३२ ॥
तथा च लोकपालानाम् अस्त्राणि एतानि यानि च ॥ अद्राक्षम् तानि सर्वाणि भगवत्-रुद्र-पार्श्वतः ॥ ३२ ॥
tathā ca lokapālānām astrāṇi etāni yāni ca .. adrākṣam tāni sarvāṇi bhagavat-rudra-pārśvataḥ .. 32 ..
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ॥ विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम् ॥ ३३ ॥
सव्य-देशे तु देवस्य ब्रह्मा लोकपितामहः ॥ विमानम् दिव्यम् आस्थाय हंस-युक्तम् मनोनुगम् ॥ ३३ ॥
savya-deśe tu devasya brahmā lokapitāmahaḥ .. vimānam divyam āsthāya haṃsa-yuktam manonugam .. 33 ..
वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ॥ वैनतेयं समास्थाय तथा नारायणः स्थितः ॥ ३४ ॥
वाम-पार्श्वे तु तस्य एव शंख-चक्र-गदा-धरः ॥ वैनतेयम् समास्थाय तथा नारायणः स्थितः ॥ ३४ ॥
vāma-pārśve tu tasya eva śaṃkha-cakra-gadā-dharaḥ .. vainateyam samāsthāya tathā nārāyaṇaḥ sthitaḥ .. 34 ..
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ॥ शक्राद्या देवताश्चैव सर्व एव समं ययुः ॥ ३५॥
स्वायंभुव-आद्याः मनवः भृगु-आद्याः ऋषयः तथा ॥ शक्र-आद्याः देवताः च एव सर्वे एव समम् ययुः ॥ ३५॥
svāyaṃbhuva-ādyāḥ manavaḥ bhṛgu-ādyāḥ ṛṣayaḥ tathā .. śakra-ādyāḥ devatāḥ ca eva sarve eva samam yayuḥ .. 35..
स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ॥ देव्यास्समीपे संतस्थौ द्वितीय इव पावकः ॥ ३६ ॥
स्कंदः शक्तिम् समादाय मयूर-स्थः स घंटकः ॥ देव्याः समीपे संतस्थौ द्वितीयः इव पावकः ॥ ३६ ॥
skaṃdaḥ śaktim samādāya mayūra-sthaḥ sa ghaṃṭakaḥ .. devyāḥ samīpe saṃtasthau dvitīyaḥ iva pāvakaḥ .. 36 ..
नंदी शूलं समादाय भवाग्रे समवस्थितः ॥ सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः ॥ ३७ ॥
नंदी शूलम् समादाय भव-अग्रे समवस्थितः ॥ सर्व-भूत-गणाः च एवम् मातरः विविधाः स्थिताः ॥ ३७ ॥
naṃdī śūlam samādāya bhava-agre samavasthitaḥ .. sarva-bhūta-gaṇāḥ ca evam mātaraḥ vividhāḥ sthitāḥ .. 37 ..
तेऽभिवाद्य महेशानं परिवार्य्य समंततः ॥ अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ॥ ३८॥
ते अभिवाद्य महेशानम् परिवार्य समंततः ॥ अस्तुवन् विविधैः स्तोत्रैः महादेवम् तदा सुराः ॥ ३८॥
te abhivādya maheśānam parivārya samaṃtataḥ .. astuvan vividhaiḥ stotraiḥ mahādevam tadā surāḥ .. 38..
यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ॥ तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ॥ ३९॥
यत् किंचिद् तु जगति अस्मिन् दृश्यते श्रूयते अथवा ॥ तत् सर्वम् भगवत्-पार्श्वे निरीक्ष्य अहम् सु विस्मितः ॥ ३९॥
yat kiṃcid tu jagati asmin dṛśyate śrūyate athavā .. tat sarvam bhagavat-pārśve nirīkṣya aham su vismitaḥ .. 39..
सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः॥परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे॥5.1.४०॥
सु महत् धैर्यम् आलंब्य प्रांजलिः विविधैः स्तवैः॥परम-आनन्द-संमग्नः अभूवम् कृष्ण अहम् अद्ध्वरे॥५।१।४०॥
su mahat dhairyam ālaṃbya prāṃjaliḥ vividhaiḥ stavaiḥ..parama-ānanda-saṃmagnaḥ abhūvam kṛṣṇa aham addhvare..5.1.40..
संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ॥ अपूजयं सुविधिवदहं श्रद्धासमन्वितः॥४१॥
संमुखे शंकरम् दृष्ट्वा बाष्प-गद्गदया गिरा ॥ अपूजयम् सु विधिवत् अहम् श्रद्धा-समन्वितः॥४१॥
saṃmukhe śaṃkaram dṛṣṭvā bāṣpa-gadgadayā girā .. apūjayam su vidhivat aham śraddhā-samanvitaḥ..41..
भगवानथ सुप्रीतश्शंकरः परमेश्वरः ॥ वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव॥४२॥
भगवान् अथ सु प्रीतः शंकरः परमेश्वरः ॥ वाण्या मधुरया प्रीत्या माम् आह प्रहसन् इव॥४२॥
bhagavān atha su prītaḥ śaṃkaraḥ parameśvaraḥ .. vāṇyā madhurayā prītyā mām āha prahasan iva..42..
न विचालयितुं शक्यो मया विप्र पुनः पुनः ॥ परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः॥४३॥
न विचालयितुम् शक्यः मया विप्र पुनर् पुनर् ॥ परीक्षितः असि भद्रम् ते भवान् भक्त्या अन्वितः दृढः॥४३॥
na vicālayitum śakyaḥ mayā vipra punar punar .. parīkṣitaḥ asi bhadram te bhavān bhaktyā anvitaḥ dṛḍhaḥ..43..
तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ॥ दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ॥ ४४ ॥
तस्मात् ते परितुष्टः अस्मि वरम् वरय सुव्रत ॥ दुर्लभम् सर्व-देवेषु न आदेयम् विद्यते तव ॥ ४४ ॥
tasmāt te parituṣṭaḥ asmi varam varaya suvrata .. durlabham sarva-deveṣu na ādeyam vidyate tava .. 44 ..
स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम्॥देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम् ॥ ४५ ॥
स च अहम् तत् वचः श्रुत्वा शंभोः सत्-प्रेम-संयुतम्॥देवम् तम् प्रांजलिः भूत्वा अब्रुवम् भक्त-अनुकंपिनम् ॥ ४५ ॥
sa ca aham tat vacaḥ śrutvā śaṃbhoḥ sat-prema-saṃyutam..devam tam prāṃjaliḥ bhūtvā abruvam bhakta-anukaṃpinam .. 45 ..
।। उपमन्युरुवाच ।।
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ॥ तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ॥ ४६ ॥
भगवन् यदि तुष्टः असि यदि भक्तिः स्थिरा मयि ॥ तेन सत्येन मे ज्ञानम् त्रि-काल-विषयम् भवेत् ॥ ४६ ॥
bhagavan yadi tuṣṭaḥ asi yadi bhaktiḥ sthirā mayi .. tena satyena me jñānam tri-kāla-viṣayam bhavet .. 46 ..
प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ॥ सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ॥ ४७ ॥
प्रयच्छ भक्तिम् विपुलाम् त्वयि च अव्यभिचारिणीम् ॥ स अन्वयस्य अपि नित्यम् मे भूरि क्षीरौदनम् भवेत् ॥ ४७ ॥
prayaccha bhaktim vipulām tvayi ca avyabhicāriṇīm .. sa anvayasya api nityam me bhūri kṣīraudanam bhavet .. 47 ..
ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ॥ तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत् ॥ ४८ ॥
मम अस्तु तव सान्निध्यम् नित्यम् च एव आश्रमे विभो ॥ तव भक्तेषु सख्यम् स्यात् अन्योन्येषु सदा भवेत् ॥ ४८ ॥
mama astu tava sānnidhyam nityam ca eva āśrame vibho .. tava bhakteṣu sakhyam syāt anyonyeṣu sadā bhavet .. 48 ..
एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ॥ कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ॥ ४९ ॥
एवम् उक्तः मया शंभुः विहस्य परमेश्वरः ॥ कृपा-दृष्ट्या निरीक्ष्य आशु माम् स प्राह यदु-उद्वह ॥ ४९ ॥
evam uktaḥ mayā śaṃbhuḥ vihasya parameśvaraḥ .. kṛpā-dṛṣṭyā nirīkṣya āśu mām sa prāha yadu-udvaha .. 49 ..
।। श्रीशिव उवाच ।।
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ॥ जरामरणजैर्दोषैस्सर्वकामान्वितो भव ॥ 5.1.५० ॥
उपमन्यो मुने तात वर्ज्जितः त्वम् भविष्यसि ॥ जरा-मरण-जैः दोषैः सर्व-काम-अन्वितः भव ॥ ५।१।५० ॥
upamanyo mune tāta varjjitaḥ tvam bhaviṣyasi .. jarā-maraṇa-jaiḥ doṣaiḥ sarva-kāma-anvitaḥ bhava .. 5.1.50 ..
मुनीनां पूजनीयश्च यशोधनसमन्वितः ॥ शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे ॥ ५१ ॥
मुनीनाम् पूजनीयः च यशः-धन-समन्वितः ॥ शील-रूप-गुण-ऐश्वर्यम् मद्-प्रसादात् पदे पदे ॥ ५१ ॥
munīnām pūjanīyaḥ ca yaśaḥ-dhana-samanvitaḥ .. śīla-rūpa-guṇa-aiśvaryam mad-prasādāt pade pade .. 51 ..
क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ॥ तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने ॥ ५२ ॥
क्षीरोद-सागरस्य एव सान्निध्यम् पयसाम् निधेः ॥ तत्र ते भविता नित्यम् यत्र यत्र इच्छसे मुने ॥ ५२ ॥
kṣīroda-sāgarasya eva sānnidhyam payasām nidheḥ .. tatra te bhavitā nityam yatra yatra icchase mune .. 52 ..
अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ॥ इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह॥५३॥
अमृत-आत्मकम् तु तत् क्षीरम् यावत् संयाम्यते ततस् ॥ इमम् वैवस्वतम् कल्पम् पश्यसे बन्धुभिः सह॥५३॥
amṛta-ātmakam tu tat kṣīram yāvat saṃyāmyate tatas .. imam vaivasvatam kalpam paśyase bandhubhiḥ saha..53..
त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ॥ सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ॥ ५४ ॥
त्वद्-गोत्रम् च अक्षयम् च अस्तु मद्-प्रसादात् सदा एव हि ॥ सान्निध्यम् आश्रमे ते अहम् करिष्यामि महा-मुने ॥ ५४ ॥
tvad-gotram ca akṣayam ca astu mad-prasādāt sadā eva hi .. sānnidhyam āśrame te aham kariṣyāmi mahā-mune .. 54 ..
मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ॥ स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ॥ ५५ ॥
मद्-भक्तिः तु स्थिरा च अस्तु सदा दास्यामि दर्शनम् ॥ स्मृतः च भवता वत्स प्रियः त्वम् सर्वथा मम ॥ ५५ ॥
mad-bhaktiḥ tu sthirā ca astu sadā dāsyāmi darśanam .. smṛtaḥ ca bhavatā vatsa priyaḥ tvam sarvathā mama .. 55 ..
यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ॥ सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः ॥ ५६ ॥
यथाकाम-सुखम् तिष्ठ न उत्कण्ठाम् कर्तुम् अर्हसि ॥ सर्वम् प्रपूर्ण-ताम् यातु चिंतितम् न अत्र संशयः ॥ ५६ ॥
yathākāma-sukham tiṣṭha na utkaṇṭhām kartum arhasi .. sarvam prapūrṇa-tām yātu ciṃtitam na atra saṃśayaḥ .. 56 ..
उपमन्युरुवाच।।
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः॥ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत॥५७॥
एवम् उक्त्वा स भगवान् सूर्य्य-कोटि-सम-प्रभः॥मम ईशानः वरान् दत्त्वा तत्र एव अन्तरधीयत॥५७॥
evam uktvā sa bhagavān sūryya-koṭi-sama-prabhaḥ..mama īśānaḥ varān dattvā tatra eva antaradhīyata..57..
एवं दृष्टो मया कृष्ण परिवारसमन्वितः ॥ शंकरः परमेशानो भक्तिमुक्तिप्रदायकः॥५८॥
एवम् दृष्टः मया कृष्ण परिवार-समन्वितः ॥ शंकरः परमेशानः भक्ति-मुक्ति-प्रदायकः॥५८॥
evam dṛṣṭaḥ mayā kṛṣṇa parivāra-samanvitaḥ .. śaṃkaraḥ parameśānaḥ bhakti-mukti-pradāyakaḥ..58..
शंभुना परमेशेन यदुक्तं तेन धीमता॥तदवाप्तं च मे सर्वं देवदेवसमाधिना॥५९॥
शंभुना परमेशेन यत् उक्तम् तेन धीमता॥तत् अवाप्तम् च मे सर्वम् देवदेव-समाधिना॥५९॥
śaṃbhunā parameśena yat uktam tena dhīmatā..tat avāptam ca me sarvam devadeva-samādhinā..59..
प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा॥ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान्॥5.1.६०॥
प्रत्यक्षम् च एव तैः जातान् गन्धर्व-अप्सरसः तथा॥ऋषीन् विद्याधरान् च एव पश्य सिद्धान् व्यवस्थितान्॥५।१।६०॥
pratyakṣam ca eva taiḥ jātān gandharva-apsarasaḥ tathā..ṛṣīn vidyādharān ca eva paśya siddhān vyavasthitān..5.1.60..
पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः॥सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान्॥६१॥
पश्य वृक्षान् मनः-रम्यान् स्निग्ध-पत्रान् सुगंधिनः॥सर्व-ऋतु-कुसुमैः युक्तान् सदा पुष्प-फल-अन्वितान्॥६१॥
paśya vṛkṣān manaḥ-ramyān snigdha-patrān sugaṃdhinaḥ..sarva-ṛtu-kusumaiḥ yuktān sadā puṣpa-phala-anvitān..61..
सर्वमेतन्महाबाहो शंकरस्य महात्मनः ॥ प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम॥६२॥
सर्वम् एतत् महा-बाहो शंकरस्य महात्मनः ॥ प्रसादात् देवदेवस्य विश्वम् भाव-समन्वितम॥६२॥
sarvam etat mahā-bāho śaṃkarasya mahātmanaḥ .. prasādāt devadevasya viśvam bhāva-samanvitama..62..
ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ॥ भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ॥ ६३ ॥
मम अस्ति तु अखिलम् ज्ञानम् प्रसादात् शूलपाणिनः ॥ भूतम् भव्यम् भविष्यम् च सर्वम् जानामि तत्त्वतः ॥ ६३ ॥
mama asti tu akhilam jñānam prasādāt śūlapāṇinaḥ .. bhūtam bhavyam bhaviṣyam ca sarvam jānāmi tattvataḥ .. 63 ..
तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ॥ यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया ॥ ६४ ॥
तम् अहम् दृष्टवान् देवम् अपि देवाः सुर-ईश्वराः ॥ यम् न पश्यंति अन् आराध्य कः अन्यः धन्यतरः मया ॥ ६४ ॥
tam aham dṛṣṭavān devam api devāḥ sura-īśvarāḥ .. yam na paśyaṃti an ārādhya kaḥ anyaḥ dhanyataraḥ mayā .. 64 ..
षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ॥ एवं ध्यायंति विद्वांसौ महत्परममक्षरम् ॥ ६५ ॥
षड्विंशकम् इति ख्यातम् परम् तत्त्वम् सनातनम् ॥ एवम् ध्यायंति विद्वांसौ महत् परमम् अक्षरम् ॥ ६५ ॥
ṣaḍviṃśakam iti khyātam param tattvam sanātanam .. evam dhyāyaṃti vidvāṃsau mahat paramam akṣaram .. 65 ..
सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ॥ स एव भगवान्देवः प्रधानपुरुषेश्वरः ॥ ६६॥
सर्व तत्त्व विधान-ज्ञः सर्व तत्त्व-अर्थ-दर्शनः ॥ सः एव भगवान् देवः प्रधान-पुरुष-ईश्वरः ॥ ६६॥
sarva tattva vidhāna-jñaḥ sarva tattva-artha-darśanaḥ .. saḥ eva bhagavān devaḥ pradhāna-puruṣa-īśvaraḥ .. 66..
यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम्॥वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ॥ ६७॥
यः निजात् दक्षिणात् पार्श्वात् ब्रह्माणम् लोक-कारणम्॥वामात् अपि असृजत् विष्णुम् लोक-रक्षा-अर्थम् ईश्वरः ॥ ६७॥
yaḥ nijāt dakṣiṇāt pārśvāt brahmāṇam loka-kāraṇam..vāmāt api asṛjat viṣṇum loka-rakṣā-artham īśvaraḥ .. 67..
कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ॥ ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम् ॥ ६८॥
कल्प-अन्ते च एव संप्राप्ते असृजत् रुद्रम् हृदः प्रभुः ॥ ततस् समहरत् कृत्स्नम् जगत् स्थावर-जंगमम् ॥ ६८॥
kalpa-ante ca eva saṃprāpte asṛjat rudram hṛdaḥ prabhuḥ .. tatas samaharat kṛtsnam jagat sthāvara-jaṃgamam .. 68..
युगांते सर्वभूतानि संवर्तक इवानलः ॥ कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति ॥ ६९॥
युग-अन्ते सर्व-भूतानि संवर्तकः इव अनलः ॥ कालः भूत्वा महादेवः ग्रसमानः स तिष्ठति ॥ ६९॥
yuga-ante sarva-bhūtāni saṃvartakaḥ iva analaḥ .. kālaḥ bhūtvā mahādevaḥ grasamānaḥ sa tiṣṭhati .. 69..
सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ॥ आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः ॥ 5.1.७०॥
॥ आस्ते सर्व-गतः देवः दृश्यः सर्वैः च दैवतैः ॥ ५।१।७०॥
.. āste sarva-gataḥ devaḥ dṛśyaḥ sarvaiḥ ca daivataiḥ .. 5.1.70..
अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ॥ शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ॥ ७१ ॥
अतस् त्वम् पुत्र-लाभाय समाराधय शंकरम् ॥ शीघ्रम् प्रसन्नः भविता शिवः ते भक्त-वत्सलः ॥ ७१ ॥
atas tvam putra-lābhāya samārādhaya śaṃkaram .. śīghram prasannaḥ bhavitā śivaḥ te bhakta-vatsalaḥ .. 71 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् कृष्ण-उपमन्यु-संवादे स्वगतिवर्णनम् नाम प्रथमः अध्यायः ॥ १ ॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām kṛṣṇa-upamanyu-saṃvāde svagativarṇanam nāma prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In