| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
एषु पापाः प्रपच्यंते शोष्यंते नरकाग्निषु ॥ यातनाभिर्विचित्राभिरास्वकर्म्मक्षयाद्भृशम् ॥ १॥
एषु पापाः प्रपच्यंते शोष्यंते नरक-अग्निषु ॥ यातनाभिः विचित्राभिः आ स्व-कर्म्म-क्षयात् भृशम् ॥ १॥
eṣu pāpāḥ prapacyaṃte śoṣyaṃte naraka-agniṣu .. yātanābhiḥ vicitrābhiḥ ā sva-karmma-kṣayāt bhṛśam .. 1..
स्वमलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ॥ तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ॥ २॥
स्व-मल-प्रक्षयात् यद्वत् अग्नौ धास्यंति धातवः ॥ तत्र पाप-क्षयात् पापाः नराः कर्म-अनुरूपतः ॥ २॥
sva-mala-prakṣayāt yadvat agnau dhāsyaṃti dhātavaḥ .. tatra pāpa-kṣayāt pāpāḥ narāḥ karma-anurūpataḥ .. 2..
सुगाढं हस्तयोर्बद्ध्वा ततश्शृंखलया नराः ॥ महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिंकरैः ॥ ३ ॥
सु गाढम् हस्तयोः बद्ध्वा ततस् शृंखलया नराः ॥ महा-वृक्ष-अग्र-शाखासु लम्ब्यन्ते यम-किंकरैः ॥ ३ ॥
su gāḍham hastayoḥ baddhvā tatas śṛṃkhalayā narāḥ .. mahā-vṛkṣa-agra-śākhāsu lambyante yama-kiṃkaraiḥ .. 3 ..
ततस्ते सर्वयत्नेन क्षिप्ता दोलंति किंकरैः ॥ दोलंतश्चातिवेगेन विसंज्ञा यांति योजनम् ॥ ४ ॥
ततस् ते सर्व-यत्नेन क्षिप्ताः दोलंति किंकरैः ॥ दोलंतः च अतिवेगेन विसंज्ञाः यांति योजनम् ॥ ४ ॥
tatas te sarva-yatnena kṣiptāḥ dolaṃti kiṃkaraiḥ .. dolaṃtaḥ ca ativegena visaṃjñāḥ yāṃti yojanam .. 4 ..
अंतरिक्षस्थितानां च लोहभारशतं पुनः ॥ पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ५ ॥
अंतरिक्ष-स्थितानाम् च लोह-भार-शतम् पुनर् ॥ पादयोः बध्यते तेषाम् यमदूतैः महा-बलैः ॥ ५ ॥
aṃtarikṣa-sthitānām ca loha-bhāra-śatam punar .. pādayoḥ badhyate teṣām yamadūtaiḥ mahā-balaiḥ .. 5 ..
तेन भारेण महता प्रभृशं ताडिता नराः ॥ ध्यायंति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ ६ ॥
तेन भारेण महता प्रभृशम् ताडिताः नराः ॥ ध्यायंति स्वानि कर्माणि तूष्णीम् तिष्ठन्ति निश्चलाः ॥ ६ ॥
tena bhāreṇa mahatā prabhṛśam tāḍitāḥ narāḥ .. dhyāyaṃti svāni karmāṇi tūṣṇīm tiṣṭhanti niścalāḥ .. 6 ..
ततोंऽकुशैरग्निवर्णैर्लोह दण्डैश्च दारुणैः ॥ हन्यंते किंकरैघोरैस्समन्तात्पापकर्म्मिणः ॥ ७॥
ततस् उंऽकुशैः अग्नि-वर्णैः लोह दण्डैः च दारुणैः ॥ हन्यंते किंकरैः घोरैः समन्तात् पाप-कर्म्मिणः ॥ ७॥
tatas uṃ'kuśaiḥ agni-varṇaiḥ loha daṇḍaiḥ ca dāruṇaiḥ .. hanyaṃte kiṃkaraiḥ ghoraiḥ samantāt pāpa-karmmiṇaḥ .. 7..
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ॥ समंततः प्रलिप्यंते तीवेण तु पुनः पुनः ॥ ८ ॥
ततस् क्षारेण दीप्तेन वह्नेः अपि विशेषतः ॥ समंततः प्रलिप्यंते तीवेण तु पुनर् पुनर् ॥ ८ ॥
tatas kṣāreṇa dīptena vahneḥ api viśeṣataḥ .. samaṃtataḥ pralipyaṃte tīveṇa tu punar punar .. 8 ..
द्रुतेनात्यंतलिप्तेन कृत्तांगा जर्जरीकृताः ॥ पुनर्विदार्य्य चांगानि शिरसः प्रभृति क्रमात् ॥ ९॥
द्रुतेन अत्यन्त-लिप्तेन कृत्त-अंगाः जर्जरीकृताः ॥ पुनर् विदार्य्य च अंगानि शिरसः प्रभृति क्रमात् ॥ ९॥
drutena atyanta-liptena kṛtta-aṃgāḥ jarjarīkṛtāḥ .. punar vidāryya ca aṃgāni śirasaḥ prabhṛti kramāt .. 9..
वृताकवत्प्रपच्यंते तप्तलोहकटाहकैः॥विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ॥ 5.9.१०॥
वृताक-वत् प्रपच्यंते तप्त-लोह-कटाहकैः॥विष्ठा-पूर्णे तथा कूपे कृमीणाम् निचये पुनर् ॥ ५।९।१०॥
vṛtāka-vat prapacyaṃte tapta-loha-kaṭāhakaiḥ..viṣṭhā-pūrṇe tathā kūpe kṛmīṇām nicaye punar .. 5.9.10..
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ॥ भक्ष्यंते कृमिभिस्तीक्ष्णैर्लोंहतुंडैश्च वायसैः॥११॥
मेदः-असृज्-पूय-पूर्णायाम् वाप्याम् क्षिप्यंति ते पुनर् ॥ भक्ष्यंते कृमिभिः तीक्ष्णैः लोंह-तुंडैः च वायसैः॥११॥
medaḥ-asṛj-pūya-pūrṇāyām vāpyām kṣipyaṃti te punar .. bhakṣyaṃte kṛmibhiḥ tīkṣṇaiḥ loṃha-tuṃḍaiḥ ca vāyasaiḥ..11..
श्वभिर्द्दंशैर्वृकैर्व्याघ्रैर्रौद्रैश्च विकृताननैः ॥ पच्यंते मत्स्यवच्चापि प्रदीप्तांगारराशिषु ॥ १२॥
श्वभिः द्दंशैः वृकैः व्याघ्रैः रौद्रैः च विकृत-आननैः ॥ पच्यंते मत्स्य-वत् च अपि प्रदीप्त-अंगार-राशिषु ॥ १२॥
śvabhiḥ ddaṃśaiḥ vṛkaiḥ vyāghraiḥ raudraiḥ ca vikṛta-ānanaiḥ .. pacyaṃte matsya-vat ca api pradīpta-aṃgāra-rāśiṣu .. 12..
भिन्नाः शूलैस्तु तीक्ष्णैश्च नराः पापेन कर्म्मणा ॥ तैलयन्त्रेषु चाक्रम्य घोरैः कर्म्मभिरात्मनः॥१३॥
भिन्नाः शूलैः तु तीक्ष्णैः च नराः पापेन कर्म्मणा ॥ तैल-यन्त्रेषु च आक्रम्य घोरैः कर्म्मभिः आत्मनः॥१३॥
bhinnāḥ śūlaiḥ tu tīkṣṇaiḥ ca narāḥ pāpena karmmaṇā .. taila-yantreṣu ca ākramya ghoraiḥ karmmabhiḥ ātmanaḥ..13..
तिला इव प्रपीड्यंते चक्राख्ये जनपिंडकाः ॥ भ्रज्यंते चातपे तप्ते लोहभाण्डेष्वनेकधा ॥ १४॥
तिलाः इव प्रपीड्यंते चक्र-आख्ये जन-पिंडकाः ॥ भ्रज्यंते च आतपे तप्ते लोह-भाण्डेषु अनेकधा ॥ १४॥
tilāḥ iva prapīḍyaṃte cakra-ākhye jana-piṃḍakāḥ .. bhrajyaṃte ca ātape tapte loha-bhāṇḍeṣu anekadhā .. 14..
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः॥बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः ॥ १५ ॥
तैल-पूर्ण-कटाहेषु सु तप्तेषु पुनर् पुनर्॥बहुधा पच्यते जिह्वा प्रपीड्य उरसि पादयोः ॥ १५ ॥
taila-pūrṇa-kaṭāheṣu su tapteṣu punar punar..bahudhā pacyate jihvā prapīḍya urasi pādayoḥ .. 15 ..
यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः ॥ निश्शेषनरकेष्वेवं क्रमंति क्रमशो नराः ॥ १६ ॥
यातनाः च महत्यः अत्र शरीरस्य अति सर्वतस् ॥ निश्शेष-नरकेषु एवम् क्रमन्ति क्रमशस् नराः ॥ १६ ॥
yātanāḥ ca mahatyaḥ atra śarīrasya ati sarvatas .. niśśeṣa-narakeṣu evam kramanti kramaśas narāḥ .. 16 ..
नरकेषु च सर्वेषु विचित्रा यमयातना॥याम्यैश्च दीयते व्यास सर्वांगेषु सुकष्टदा ॥ १७॥
नरकेषु च सर्वेषु विचित्रा यम-यातना॥याम्यैः च दीयते व्यास सर्व-अंगेषु सु कष्ट-दा ॥ १७॥
narakeṣu ca sarveṣu vicitrā yama-yātanā..yāmyaiḥ ca dīyate vyāsa sarva-aṃgeṣu su kaṣṭa-dā .. 17..
ज्वलदंगारमादाय मुखमापूर्य्य ताड्यते ॥ ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः ॥ १८ ॥
ज्वलत्-अंगारम् आदाय मुखम् आपूर्य ताड्यते ॥ ततस् क्षारेण दीप्तेन ताम्रेण च पुनर् पुनर् ॥ १८ ॥
jvalat-aṃgāram ādāya mukham āpūrya tāḍyate .. tatas kṣāreṇa dīptena tāmreṇa ca punar punar .. 18 ..
घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् ॥ इतस्ततः पीडयित्वा भृशमापूर्य्य हन्यते ॥ १९॥
घृतेन अत्यन्त-तप्तेन तदा तैलेन तद्-मुखम् ॥ इतस् ततस् पीडयित्वा भृशम् आपूर्य्य हन्यते ॥ १९॥
ghṛtena atyanta-taptena tadā tailena tad-mukham .. itas tatas pīḍayitvā bhṛśam āpūryya hanyate .. 19..
विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित्क्वचित् ॥ परिष्वजंति चात्युग्रां प्रदीप्तां लोहशाल्मलीम्॥5.9.२०॥
विष्ठाभिः कृमिभिः च अपि पूर्यमाणाः क्वचिद् क्वचिद् ॥ परिष्वजंति च अति उग्राम् प्रदीप्ताम् लोह-शाल्मलीम्॥५।९।२०॥
viṣṭhābhiḥ kṛmibhiḥ ca api pūryamāṇāḥ kvacid kvacid .. pariṣvajaṃti ca ati ugrām pradīptām loha-śālmalīm..5.9.20..
हन्यंते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः ॥ दन्तुरेणादिकंठेन क्रकचेन बलीसया॥२१॥
हन्यंते पृष्ठ-देशे च पुनर् दीप्तैः महा-घनैः ॥ दन्तुरेण आदि-कंठेन क्रकचेन बलीसया॥२१॥
hanyaṃte pṛṣṭha-deśe ca punar dīptaiḥ mahā-ghanaiḥ .. dantureṇa ādi-kaṃṭhena krakacena balīsayā..21..
शिरःप्रभृति पीड्यंते घोरैः कर्मभिरात्मजैः ॥ खाद्यंते च स्वमांसानि पीयते शोणितं स्वकम्॥२२॥
शिरः-प्रभृति पीड्यंते घोरैः कर्मभिः आत्मजैः ॥ खाद्यंते च स्व-मांसानि पीयते शोणितम् स्वकम्॥२२॥
śiraḥ-prabhṛti pīḍyaṃte ghoraiḥ karmabhiḥ ātmajaiḥ .. khādyaṃte ca sva-māṃsāni pīyate śoṇitam svakam..22..
अन्नं पानं न दत्तं यैस्सर्वदा स्वात्मपोषकैः॥इक्षुवत्ते प्रपीड्यंते जर्जरीकृत्य मुद्गरैः ॥ २३॥
अन्नम् पानम् न दत्तम् यैः सर्वदा स्व-आत्म-पोषकैः॥इक्षु-वत् ते प्रपीड्यंते जर्जरीकृत्य मुद्गरैः ॥ २३॥
annam pānam na dattam yaiḥ sarvadā sva-ātma-poṣakaiḥ..ikṣu-vat te prapīḍyaṃte jarjarīkṛtya mudgaraiḥ .. 23..
असितालवने घोरे छिद्यन्ते खण्डशस्ततः ॥ सूचीभिर्भिन्नसर्वाङ्गास्तप्तशूलाग्ररोपिताः॥२४॥
असिताल-वने घोरे छिद्यन्ते खण्डशस् ततस् ॥ सूचीभिः भिन्न-सर्व-अङ्गाः तप्त-शूल-अग्र-रोपिताः॥२४॥
asitāla-vane ghore chidyante khaṇḍaśas tatas .. sūcībhiḥ bhinna-sarva-aṅgāḥ tapta-śūla-agra-ropitāḥ..24..
संचाल्यमाना बहुशः क्लिश्यंते न म्रियन्ति च ॥ तथा च तच्छरीराणि सुखदुःखसहानि च ॥ २५॥
संचाल्यमानाः बहुशस् क्लिश्यंते न म्रियन्ति च ॥ तथा च तद्-शरीराणि सुख-दुःख-सहानि च ॥ २५॥
saṃcālyamānāḥ bahuśas kliśyaṃte na mriyanti ca .. tathā ca tad-śarīrāṇi sukha-duḥkha-sahāni ca .. 25..
देहादुत्पाट्य मांसानि भिद्यंते स्वैश्च मुद्गरैः॥दंतुराकृतिभिर्र्घोरैर्यमदूतैर्बलोत्कटैः ॥ २६॥
देहात् उत्पाट्य मांसानि भिद्यंते स्वैः च मुद्गरैः॥दन्तुर-आकृतिभिः घोरैः यमदूतैः बल-उत्कटैः ॥ २६॥
dehāt utpāṭya māṃsāni bhidyaṃte svaiḥ ca mudgaraiḥ..dantura-ākṛtibhiḥ ghoraiḥ yamadūtaiḥ bala-utkaṭaiḥ .. 26..
निरुच्छ्वासे निरुछ्वासास्तिष्ठंति नरके चिरम् ॥ उत्ताड्यंते तथोछ्वासे वालुकासदने नराः॥२७॥
निरुच्छ्वासे निरुछ्वासाः तिष्ठंति नरके चिरम् ॥ उत्ताड्यंते तथा उछ्वासे वालुका-सदने नराः॥२७॥
nirucchvāse niruchvāsāḥ tiṣṭhaṃti narake ciram .. uttāḍyaṃte tathā uchvāse vālukā-sadane narāḥ..27..
रौरवे रोदमानाश्च पीड्यंते विविधै वधैः ॥ महारौरवपीडाभिर्महांतोऽपि रुदंति च ॥ २८ ॥
रौरवे रोदमानाः च पीड्यंते विविधैः वधैः ॥ महारौरव-पीडाभिः महान्तः अपि रुदंति च ॥ २८ ॥
raurave rodamānāḥ ca pīḍyaṃte vividhaiḥ vadhaiḥ .. mahāraurava-pīḍābhiḥ mahāntaḥ api rudaṃti ca .. 28 ..
पत्सु वक्त्रे गुदे मुंडे नेत्रयोश्चैव मस्तके ॥ निहन्यंते घनैस्तीक्ष्णैस्सुतप्तैर्लोह शंकुभिः ॥ २९॥
पत्सु वक्त्रे गुदे मुंडे नेत्रयोः च एव मस्तके ॥ निहन्यंते घनैः तीक्ष्णैः सु तप्तैः लोह-शंकुभिः ॥ २९॥
patsu vaktre gude muṃḍe netrayoḥ ca eva mastake .. nihanyaṃte ghanaiḥ tīkṣṇaiḥ su taptaiḥ loha-śaṃkubhiḥ .. 29..
सुतप्तावालुकायां तु प्रयोज्यंते मुहुर्मुहुः ॥ जंतुपंके भृशं तप्ते क्षिप्ताः क्रन्दंति विस्वरम् ॥ 5.9.३०॥
सुतप्ता-वालुकायाम् तु प्रयोज्यंते मुहुर् मुहुर् ॥ जंतु-पंके भृशम् तप्ते क्षिप्ताः क्रन्दंति विस्वरम् ॥ ५।९।३०॥
sutaptā-vālukāyām tu prayojyaṃte muhur muhur .. jaṃtu-paṃke bhṛśam tapte kṣiptāḥ krandaṃti visvaram .. 5.9.30..
कुंभीपाकेषु च तथा तप्ततैलेषु वै मुने॥पापिनः कूरकर्म्माणोऽसह्येषु सर्वथा पुनः॥३१॥
कुंभीपाकेषु च तथा तप्त-तैलेषु वै मुने॥पापिनः कूर-कर्म्माणः असह्येषु सर्वथा पुनर्॥३१॥
kuṃbhīpākeṣu ca tathā tapta-taileṣu vai mune..pāpinaḥ kūra-karmmāṇaḥ asahyeṣu sarvathā punar..31..
लालाभक्षेषु पापास्ते पात्यंते दुःखदेषु वै ॥ नानास्थानेषु पच्यंते नरकेषु पुनःपुनः ॥ ३२॥
लाला-भक्षेषु पापाः ते पात्यंते दुःख-देषु वै ॥ नाना स्थानेषु पच्यंते नरकेषु पुनर् पुनर् ॥ ३२॥
lālā-bhakṣeṣu pāpāḥ te pātyaṃte duḥkha-deṣu vai .. nānā sthāneṣu pacyaṃte narakeṣu punar punar .. 32..
सूचीमुखे महाक्लेशे नरके पात्यते नरः ॥ पापी पुण्यविहीनश्च ताड्यते यमकिंकरैः ॥ ३३॥
सूचीमुखे महा-क्लेशे नरके पात्यते नरः ॥ पापी पुण्य-विहीनः च ताड्यते यम-किंकरैः ॥ ३३॥
sūcīmukhe mahā-kleśe narake pātyate naraḥ .. pāpī puṇya-vihīnaḥ ca tāḍyate yama-kiṃkaraiḥ .. 33..
लौहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैःशनैः ॥ महाग्निना प्रपच्यंते स्वपापैरेव मानवाः॥३४॥
लौह-कुम्भे विनिःक्षिप्ताः श्वसन्तः च शनैस् शनैस् ॥ महा-अग्निना प्रपच्यंते स्व-पापैः एव मानवाः॥३४॥
lauha-kumbhe viniḥkṣiptāḥ śvasantaḥ ca śanais śanais .. mahā-agninā prapacyaṃte sva-pāpaiḥ eva mānavāḥ..34..
दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यंते शिलासु च ॥ क्षिप्यंते चान्धकूपेषु दश्यंते भ्रमरैर्भृशम् ॥ ३५॥
दृढम् रज्जु-आदिभिः बद्ध्वा प्रपीड्यंते शिलासु च ॥ क्षिप्यंते च अन्धकूपेषु दश्यंते भ्रमरैः भृशम् ॥ ३५॥
dṛḍham rajju-ādibhiḥ baddhvā prapīḍyaṃte śilāsu ca .. kṣipyaṃte ca andhakūpeṣu daśyaṃte bhramaraiḥ bhṛśam .. 35..
कृमिभिर्भिन्नसर्वांगाश्शतशो जर्जरीकृताः ॥ सुतीक्ष्णक्षारकूपेषु क्षिप्यंते तदनंतरम् ॥ ३६ ॥
कृमिभिः भिन्न-सर्व-अंगाः शतशस् जर्जरीकृताः ॥ सु तीक्ष्ण-क्षार-कूपेषु क्षिप्यंते तद्-अनन्तरम् ॥ ३६ ॥
kṛmibhiḥ bhinna-sarva-aṃgāḥ śataśas jarjarīkṛtāḥ .. su tīkṣṇa-kṣāra-kūpeṣu kṣipyaṃte tad-anantaram .. 36 ..
महाज्वालेऽत्र नरके पापाः क्रन्दंति दुःखिताः ॥ इतश्चेतश्च धावंति दह्यमानास्तदर्चिषा ॥ ३७ ॥
महाज्वाले अत्र नरके पापाः क्रन्दंति दुःखिताः ॥ इतस् च इतस् च धावंति दह्यमानाः तद्-अर्चिषा ॥ ३७ ॥
mahājvāle atra narake pāpāḥ krandaṃti duḥkhitāḥ .. itas ca itas ca dhāvaṃti dahyamānāḥ tad-arciṣā .. 37 ..
पृष्ठे चानीय तुण्डाभ्यां विन्यस्त स्कंधयोजिते ॥ तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः ॥ ३८॥
पृष्ठे च आनीय तुण्डाभ्याम् विन्यस्त-स्कंध-योजिते ॥ तयोः मध्येन वा आकृष्य बाहु-पृष्ठेन गाढतः ॥ ३८॥
pṛṣṭhe ca ānīya tuṇḍābhyām vinyasta-skaṃdha-yojite .. tayoḥ madhyena vā ākṛṣya bāhu-pṛṣṭhena gāḍhataḥ .. 38..
बद्ध्वा परस्परं सर्वे सुभृशं पापरज्जुभिः ॥ बद्धपिंडास्तु दृश्यंते महा ज्वाले तु यातनाः ॥ ३९ ॥
बद्ध्वा परस्परम् सर्वे सु भृशम् पाप-रज्जुभिः ॥ बद्ध-पिंडाः तु दृश्यंते महा-ज्वाले तु यातनाः ॥ ३९ ॥
baddhvā parasparam sarve su bhṛśam pāpa-rajjubhiḥ .. baddha-piṃḍāḥ tu dṛśyaṃte mahā-jvāle tu yātanāḥ .. 39 ..
रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्द्दमेन च ॥ करीषतुषवह्नौ च पच्यंते न म्रियंति च ॥ 5.9.४० ॥
रज्जुभिः वेष्टिताः च एव प्रलिप्ताः कर्द्दमेन च ॥ करीष-तुष-वह्नौ च पच्यंते न म्रियंति च ॥ ५।९।४० ॥
rajjubhiḥ veṣṭitāḥ ca eva praliptāḥ karddamena ca .. karīṣa-tuṣa-vahnau ca pacyaṃte na mriyaṃti ca .. 5.9.40 ..
सुतीक्ष्णं चरितास्ते हि कर्कशासु शिलासु च ॥ आस्फाल्य शतशः पापाः पच्यंते तृणवत्ततः॥४१॥
सु तीक्ष्णम् चरिताः ते हि कर्कशासु शिलासु च ॥ आस्फाल्य शतशस् पापाः पच्यंते तृण-वत् ततस्॥४१॥
su tīkṣṇam caritāḥ te hi karkaśāsu śilāsu ca .. āsphālya śataśas pāpāḥ pacyaṃte tṛṇa-vat tatas..41..
शरीराभ्यंतरगतैः प्रभूतैः कृमिभिर्नराः ॥ भक्ष्यंते तीक्ष्णवदनैरात्मदेहक्षयाद्भृशम् ॥ ४२॥
शरीर-अभ्यंतर-गतैः प्रभूतैः कृमिभिः नराः ॥ भक्ष्यंते तीक्ष्ण-वदनैः आत्म-देह-क्षयात् भृशम् ॥ ४२॥
śarīra-abhyaṃtara-gataiḥ prabhūtaiḥ kṛmibhiḥ narāḥ .. bhakṣyaṃte tīkṣṇa-vadanaiḥ ātma-deha-kṣayāt bhṛśam .. 42..
कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु॥तिष्ठंत्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः ॥ ४३॥
कृमीणाम् निचये क्षिप्ताः पूय-मांस-अस्थि-राशिषु॥तिष्ठन्ति उद्विग्न-हृदयाः पर्वताभ्याम् निपीडिताः ॥ ४३॥
kṛmīṇām nicaye kṣiptāḥ pūya-māṃsa-asthi-rāśiṣu..tiṣṭhanti udvigna-hṛdayāḥ parvatābhyām nipīḍitāḥ .. 43..
तप्तेन वज्रलेपेन शरीरमनुलिप्यते ॥ अधोमुखोर्ध्वपादाश्च तातप्यंते स्म वह्निना ॥ ४४ ॥
तप्तेन वज्र-लेपेन शरीरम् अनुलिप्यते ॥ अधोमुख-ऊर्ध्व-पादाः च स्म वह्निना ॥ ४४ ॥
taptena vajra-lepena śarīram anulipyate .. adhomukha-ūrdhva-pādāḥ ca sma vahninā .. 44 ..
वदनांतः प्रविन्यस्तां सुप्रतप्तामयोगदाम् ॥ ते खादन्ति पराधीनास्तैस्ताड्यंते समुद्गरैः ॥ ४५॥
वदन-अंतर् प्रविन्यस्ताम् सु प्रतप्ताम् अयोग-दाम् ॥ ते खादन्ति पर-अधीनाः तैः ताड्यंते स मुद्गरैः ॥ ४५॥
vadana-aṃtar pravinyastām su prataptām ayoga-dām .. te khādanti para-adhīnāḥ taiḥ tāḍyaṃte sa mudgaraiḥ .. 45..
इत्थं व्यास कुकर्म्माणो नरकेषु पचंति हि॥वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्म्मिणाम्॥४६॥
इत्थम् व्यास कु कर्म्माणः नरकेषु पचंति हि॥वर्णयामि विवर्ण-त्वम् तेषाम् तत्त्वाय कर्म्मिणाम्॥४६॥
ittham vyāsa ku karmmāṇaḥ narakeṣu pacaṃti hi..varṇayāmi vivarṇa-tvam teṣām tattvāya karmmiṇām..46..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनंनाम नवमोऽध्यायः॥९॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् सामान्यतस् नरकगतिवर्णनम् नाम नवमः अध्यायः॥९॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām sāmānyatas narakagativarṇanam nāma navamaḥ adhyāyaḥ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In