| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्ये च गच्छति ॥ जिह्वार्द्धकोशविस्तीर्णहलैस्तीक्ष्णः प्रपीड्यते॥१॥
मिथ्या आगमम् प्रवृत्तः तु द्विजिह्व-आख्ये च गच्छति ॥ जिह्वा-अर्द्ध-कोश-विस्तीर्ण-हलैः तीक्ष्णः प्रपीड्यते॥१॥
mithyā āgamam pravṛttaḥ tu dvijihva-ākhye ca gacchati .. jihvā-arddha-kośa-vistīrṇa-halaiḥ tīkṣṇaḥ prapīḍyate..1..
निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ॥ विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य्य हन्यते ॥ २॥
निर्भर्त्सयति यः क्रूरः मातरम् पितरम् गुरुम् ॥ विष्ठाभिः कृमि-मिश्राभिः मुखम् आपूर्य्य हन्यते ॥ २॥
nirbhartsayati yaḥ krūraḥ mātaram pitaram gurum .. viṣṭhābhiḥ kṛmi-miśrābhiḥ mukham āpūryya hanyate .. 2..
ये शिवायतनारामवापीकूपतडागकान्॥विद्रवंति द्विजस्थानं नरास्तत्र रमंति च ॥ ३॥
ये शिवायतन-आराम-वापी-कूप-तडागकान्॥विद्रवन्ति द्विज-स्थानम् नराः तत्र रमंति च ॥ ३॥
ye śivāyatana-ārāma-vāpī-kūpa-taḍāgakān..vidravanti dvija-sthānam narāḥ tatra ramaṃti ca .. 3..
कामायोद्वर्तनाभ्यंग स्नानपानाम्बुभोजनम् ॥ क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धता॥४॥
स्नान-पान-अम्बु-भोजनम् ॥ क्रीडनम् मैथुनम् द्यूतम् आचरन्ति मद-उद्धता॥४॥
snāna-pāna-ambu-bhojanam .. krīḍanam maithunam dyūtam ācaranti mada-uddhatā..4..
पेचिरे विविधैर्घेरैरिक्षुयंत्रादिपीडनैः ॥ निरयाग्निषु पच्यंते यावदाभूतसंप्लवम्॥५॥
पेचिरे विविधैः घेरैः इक्षु-यंत्र-आदि-पीडनैः ॥ निरय-अग्निषु पच्यंते यावत् आभूतसंप्लवम्॥५॥
pecire vividhaiḥ gheraiḥ ikṣu-yaṃtra-ādi-pīḍanaiḥ .. niraya-agniṣu pacyaṃte yāvat ābhūtasaṃplavam..5..
तेन तेनैव रूपेण ताड्यते पारदारिकाः ॥ गाढमालिंग्य ते नारीं सुतप्तां लोहनिर्मिताम् ॥ ६ ॥
तेन तेन एव रूपेण ताड्यते पारदारिकाः ॥ गाढम् आलिंग्य ते नारीम् सु तप्ताम् लोह-निर्मिताम् ॥ ६ ॥
tena tena eva rūpeṇa tāḍyate pāradārikāḥ .. gāḍham āliṃgya te nārīm su taptām loha-nirmitām .. 6 ..
पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समंततः ॥ दुश्चारिणीं स्त्रियं गाढमालिंगंति रुदंति च ॥ ७ ॥
पूर्व-आकाराः च पुरुषाः प्रज्वलन्ति समंततः ॥ दुश्चारिणीम् स्त्रियम् गाढम् आलिंगंति रुदंति च ॥ ७ ॥
pūrva-ākārāḥ ca puruṣāḥ prajvalanti samaṃtataḥ .. duścāriṇīm striyam gāḍham āliṃgaṃti rudaṃti ca .. 7 ..
ये शृण्वंति सतां निंदां तेषां कर्णप्रपूरणम् ॥ अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ॥ ६॥
ये शृण्वंति सताम् निंदाम् तेषाम् कर्ण-प्रपूरणम् ॥ अग्नि-वर्णैः अयःकीलैः तप्तैः ताम्र-आदि-निर्मितैः ॥ ६॥
ye śṛṇvaṃti satām niṃdām teṣām karṇa-prapūraṇam .. agni-varṇaiḥ ayaḥkīlaiḥ taptaiḥ tāmra-ādi-nirmitaiḥ .. 6..
त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः॥सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ॥ ९॥
त्रपु-सीस-आरकूट-अद्भिः क्षीरेण च पुनर् पुनर्॥सु तप्त-तीक्ष्ण-तैलेन वज्र-लेपेन वा पुनर् ॥ ९॥
trapu-sīsa-ārakūṭa-adbhiḥ kṣīreṇa ca punar punar..su tapta-tīkṣṇa-tailena vajra-lepena vā punar .. 9..
क्रमादापूर्य्यकर्णांस्तु नरकेषु च यातनाः ॥ अनुक्रमेण सर्वेषु भवंत्येताः समंततः ॥ 5.10.१०॥
क्रमात् आपूर्य्य-कर्णान् तु नरकेषु च यातनाः ॥ अनुक्रमेण सर्वेषु भवन्ति एताः समंततः ॥ ५।१०।१०॥
kramāt āpūryya-karṇān tu narakeṣu ca yātanāḥ .. anukrameṇa sarveṣu bhavanti etāḥ samaṃtataḥ .. 5.10.10..
सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ॥ भवंति घोराः प्रत्येकं शरीरेण कृतेन च ॥ ११ ॥
सर्व-इन्द्रियाणाम् अपि एवम् क्रमात् पापेन यातनाः ॥ भवन्ति घोराः प्रत्येकम् शरीरेण कृतेन च ॥ ११ ॥
sarva-indriyāṇām api evam kramāt pāpena yātanāḥ .. bhavanti ghorāḥ pratyekam śarīreṇa kṛtena ca .. 11 ..
स्पर्शदोषेण ये मूढास्स्पृशंति च परस्त्रियम् ॥ तेषां करोऽग्निवर्णाभिः पांशुभिः पूर्य्यते भृशम् ॥ १२ ॥
स्पर्श-दोषेण ये मूढाः स्पृशंति च पर-स्त्रियम् ॥ तेषाम् करः अग्नि-वर्णाभिः पांशुभिः पूर्य्यते भृशम् ॥ १२ ॥
sparśa-doṣeṇa ye mūḍhāḥ spṛśaṃti ca para-striyam .. teṣām karaḥ agni-varṇābhiḥ pāṃśubhiḥ pūryyate bhṛśam .. 12 ..
तेषां क्षारादिभिस्सर्वैश्शरीरमनुलिप्यते ॥ यातनाश्च महाकष्टास्सर्वेषु नरकेषु च ॥ १३ ॥
तेषाम् क्षार-आदिभिः सर्वैः शरीरम् अनुलिप्यते ॥ यातनाः च महा-कष्टाः सर्वेषु नरकेषु च ॥ १३ ॥
teṣām kṣāra-ādibhiḥ sarvaiḥ śarīram anulipyate .. yātanāḥ ca mahā-kaṣṭāḥ sarveṣu narakeṣu ca .. 13 ..
कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नरा ॥ वक्त्राणि तेषां सांतानि कीर्य्यंते शंकुभिर्दृढम् ॥ १४ ॥
कुर्वन्ति पित्रोः भृकुटिम् कर-नेत्राणि ये नरा ॥ वक्त्राणि तेषाम् सांतानि कीर्य्यंते शंकुभिः दृढम् ॥ १४ ॥
kurvanti pitroḥ bhṛkuṭim kara-netrāṇi ye narā .. vaktrāṇi teṣām sāṃtāni kīryyaṃte śaṃkubhiḥ dṛḍham .. 14 ..
यैरिन्द्रियैर्नरा ये च कुर्वन्ति परस्त्रियम् ॥ इन्द्रियाणि च तेषां वै विकुर्वंति तथैव च ॥ १५ ॥
यैः इन्द्रियैः नराः ये च कुर्वन्ति पर-स्त्रियम् ॥ इन्द्रियाणि च तेषाम् वै विकुर्वंति तथा एव च ॥ १५ ॥
yaiḥ indriyaiḥ narāḥ ye ca kurvanti para-striyam .. indriyāṇi ca teṣām vai vikurvaṃti tathā eva ca .. 15 ..
परदारांश्च पश्यन्ति लुब्धास्स्तब्धेन चक्षुषा ॥ सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ॥ १६ ॥
पर-दारान् च पश्यन्ति लुब्धाः स्तब्धेन चक्षुषा ॥ सूचीभिः च अग्नि-वर्णाभिः तेषाम् नेत्र-प्रपूरणम् ॥ १६ ॥
para-dārān ca paśyanti lubdhāḥ stabdhena cakṣuṣā .. sūcībhiḥ ca agni-varṇābhiḥ teṣām netra-prapūraṇam .. 16 ..
क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ॥ भवंति मुनिशार्दूल सत्यंसत्यं न संशयः ॥ १७ ॥
क्षार-आद्यैः च क्रमात् सर्वाः इह एव यम-यातनाः ॥ भवन्ति मुनि-शार्दूल सत्यम् सत्यम् न संशयः ॥ १७ ॥
kṣāra-ādyaiḥ ca kramāt sarvāḥ iha eva yama-yātanāḥ .. bhavanti muni-śārdūla satyam satyam na saṃśayaḥ .. 17 ..
देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुंजते ॥ लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्य्यते ॥ १८ ॥
देव-अग्नि-गुरु-विप्रेभ्यः च अ निवेद्य प्रभुंजते ॥ लोह-कील-शतैः तप्तैः तत् जिह्वा-आस्यम् च पूर्य्यते ॥ १८ ॥
deva-agni-guru-viprebhyaḥ ca a nivedya prabhuṃjate .. loha-kīla-śataiḥ taptaiḥ tat jihvā-āsyam ca pūryyate .. 18 ..
ये देवारामपुष्पाणि लोभात्संगृह्य पाणिना ॥ जिघ्रंति च नरा भूयः शिरसा धारयंति च ॥ १९ ॥
ये देव-आराम-पुष्पाणि लोभात् संगृह्य पाणिना ॥ जिघ्रंति च नराः भूयस् शिरसा धारयंति च ॥ १९ ॥
ye deva-ārāma-puṣpāṇi lobhāt saṃgṛhya pāṇinā .. jighraṃti ca narāḥ bhūyas śirasā dhārayaṃti ca .. 19 ..
आपूर्य्यते शिरस्तेषां तप्तैर्लोहस्य शंकुभिः ॥ नासिका वातिबहुलैस्ततः क्षारादिभिर्भृशम् ॥ 5.10.२०॥
आपूर्य्यते शिरः तेषाम् तप्तैः लोहस्य शंकुभिः ॥ नासिका वा अति बहुलैः ततस् क्षार-आदिभिः भृशम् ॥ ५।१०।२०॥
āpūryyate śiraḥ teṣām taptaiḥ lohasya śaṃkubhiḥ .. nāsikā vā ati bahulaiḥ tatas kṣāra-ādibhiḥ bhṛśam .. 5.10.20..
ये निंदन्ति महात्मानं वाचकं धर्म्मदेशिकम् ॥ देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ॥ २१ ॥
ये निंदन्ति महात्मानम् वाचकम् धर्म्म-देशिकम् ॥ देव-अग्नि-गुरु-भक्तान् च धर्मशास्त्रम् च शाश्वतम् ॥ २१ ॥
ye niṃdanti mahātmānam vācakam dharmma-deśikam .. deva-agni-guru-bhaktān ca dharmaśāstram ca śāśvatam .. 21 ..
तेषामुरसि कण्ठे च जिह्वायां दंतसन्धिषु ॥ तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ॥ २२ ॥
तेषाम् उरसि कण्ठे च जिह्वायाम् दंत-सन्धिषु ॥ तालुनि ओष्ठे नासिकायाम् मूर्ध्नि सर्व-अङ्ग-सन्धिषु ॥ २२ ॥
teṣām urasi kaṇṭhe ca jihvāyām daṃta-sandhiṣu .. tāluni oṣṭhe nāsikāyām mūrdhni sarva-aṅga-sandhiṣu .. 22 ..
अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशंकवः ॥ आखिद्यंते च बहुशः स्थानेष्वेतेषु मुद्गरैः ॥ २३ ॥
अग्नि-वर्णाः तु तप्ताः च त्रि-शाखाः लोह-शंकवः ॥ आखिद्यंते च बहुशस् स्थानेषु एतेषु मुद्गरैः ॥ २३ ॥
agni-varṇāḥ tu taptāḥ ca tri-śākhāḥ loha-śaṃkavaḥ .. ākhidyaṃte ca bahuśas sthāneṣu eteṣu mudgaraiḥ .. 23 ..
ततः क्षारेण दीप्तेन पूर्यते हि समं ततः ॥ यातनाश्च महत्यो वै शरीरस्याति सर्वतः ॥ २४ ॥
ततस् क्षारेण दीप्तेन पूर्यते हि समम् ततस् ॥ यातनाः च महत्यः वै शरीरस्य अति सर्वतस् ॥ २४ ॥
tatas kṣāreṇa dīptena pūryate hi samam tatas .. yātanāḥ ca mahatyaḥ vai śarīrasya ati sarvatas .. 24 ..
अशेषनरकेष्वेव क्रमंति क्रमशः पुनः ॥ ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशंति च ॥ २५ ॥
अशेष-नरकेषु एव क्रमंति क्रमशस् पुनर् ॥ ये गृह्णन्ति पर-द्रव्यम् पद्भ्याम् विप्रम् स्पृशंति च ॥ २५ ॥
aśeṣa-narakeṣu eva kramaṃti kramaśas punar .. ye gṛhṇanti para-dravyam padbhyām vipram spṛśaṃti ca .. 25 ..
शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ॥ हस्तपादादिभिस्तेषामापूर्य्यंते समंततः ॥ २६ ॥
शिव-उपकरणम् गाम् च ज्ञान-आदि-लिखितम् च यत् ॥ हस्त-पाद-आदिभिः तेषाम् आपूर्य्यंते समंततः ॥ २६ ॥
śiva-upakaraṇam gām ca jñāna-ādi-likhitam ca yat .. hasta-pāda-ādibhiḥ teṣām āpūryyaṃte samaṃtataḥ .. 26 ..
नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥ भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः ॥ २७ ॥
नरकेषु च सर्वेषु विचित्राः देह-यातनाः ॥ भवन्ति बहुशस् कष्टाः पाणि-पाद-समुद्भवाः ॥ २७ ॥
narakeṣu ca sarveṣu vicitrāḥ deha-yātanāḥ .. bhavanti bahuśas kaṣṭāḥ pāṇi-pāda-samudbhavāḥ .. 27 ..
शिवायतनपर्य्यंते देवारामेषु कुत्रचित्॥समुत्सृजंति ये पापाः पुरीषं मूत्रमेव च॥२८॥
शिवायतन-पर्यन्ते देव-आरामेषु कुत्रचिद्॥समुत्सृजंति ये पापाः पुरीषम् मूत्रम् एव च॥२८॥
śivāyatana-paryante deva-ārāmeṣu kutracid..samutsṛjaṃti ye pāpāḥ purīṣam mūtram eva ca..28..
तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः॥सूचीभिरग्निवर्णाभिस्कथा त्वापूर्य्यते पुनः ॥ २९॥
तेषाम् शिश्नम् स वृषणम् चूर्ण्यते लोह-मुद्गरैः॥सूचीभिः अग्नि-वर्णाभिः स्कथा तु आपूर्य्यते पुनर् ॥ २९॥
teṣām śiśnam sa vṛṣaṇam cūrṇyate loha-mudgaraiḥ..sūcībhiḥ agni-varṇābhiḥ skathā tu āpūryyate punar .. 29..
ततः क्षारेण महता तीव्रेण च पुनः पुनः ॥ द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः ॥ 5.10.३० ॥
ततस् क्षारेण महता तीव्रेण च पुनर् पुनर् ॥ द्रुतेन पूर्यते गाढम् गुदे शिश्ने च देहिनः ॥ ५।१०।३० ॥
tatas kṣāreṇa mahatā tīvreṇa ca punar punar .. drutena pūryate gāḍham gude śiśne ca dehinaḥ .. 5.10.30 ..
मनस्सर्वेन्द्रियाणां च यस्मा द्दुःखं प्रजायते ॥ धने सत्यपि ये दानं न प्रयच्छंति तृष्णया ॥ ३१ ॥
मनः-सर्व-इन्द्रियाणाम् च यस्मात् दुःखम् प्रजायते ॥ धने सति अपि ये दानम् न प्रयच्छन्ति तृष्णया ॥ ३१ ॥
manaḥ-sarva-indriyāṇām ca yasmāt duḥkham prajāyate .. dhane sati api ye dānam na prayacchanti tṛṣṇayā .. 31 ..
अतिथिं चावमन्यते काले प्राप्ते गृहाश्रमे ॥ तस्मात्ते दुष्कृतं प्राप्य गच्छंति निरयेऽशुचौ ॥ ३२ ॥
अतिथिम् च अवमन्यते काले प्राप्ते गृहाश्रमे ॥ तस्मात् ते दुष्कृतम् प्राप्य गच्छंति निरये अशुचौ ॥ ३२ ॥
atithim ca avamanyate kāle prāpte gṛhāśrame .. tasmāt te duṣkṛtam prāpya gacchaṃti niraye aśucau .. 32 ..
येऽन्नं दत्त्वा हि भुंजंति न श्वभ्यस्सह वायसैः ॥ तेषां च विवृतं वक्त्रं कीलकद्वयताडितम्॥३३॥
ये अन्नम् दत्त्वा हि भुंजंति न श्वभ्यः सह वायसैः ॥ तेषाम् च विवृतम् वक्त्रम् कीलक-द्वय-ताडितम्॥३३॥
ye annam dattvā hi bhuṃjaṃti na śvabhyaḥ saha vāyasaiḥ .. teṣām ca vivṛtam vaktram kīlaka-dvaya-tāḍitam..33..
कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥ उपद्रवैर्बहुविधैरुग्रैरंतः प्रपीड्यते ॥ ३४ ॥
कृमिभिः प्राणिभिः च उग्रैः लोहतुण्डैः च वायसैः ॥ उपद्रवैः बहुविधैः उग्रैः अन्तर् प्रपीड्यते ॥ ३४ ॥
kṛmibhiḥ prāṇibhiḥ ca ugraiḥ lohatuṇḍaiḥ ca vāyasaiḥ .. upadravaiḥ bahuvidhaiḥ ugraiḥ antar prapīḍyate .. 34 ..
श्यामश्च शबलश्चैव यममार्गानुरोधकौ ॥ यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम् ॥ ३५॥
श्यामः च शबलः च एव यम-मार्ग-अनुरोधकौ ॥ यौ स्तः ताभ्याम् प्रयच्छामि तौ गृह्णीताम् इमम् बलिम् ॥ ३५॥
śyāmaḥ ca śabalaḥ ca eva yama-mārga-anurodhakau .. yau staḥ tābhyām prayacchāmi tau gṛhṇītām imam balim .. 35..
ये वा वरुणवायव्या याम्या नैर्ऋत्यवायसाः ॥ वायसा पुण्यकर्माणस्ते प्रगृह्णंतु मे बलिम् ॥ ३६ ॥
ये वा वरुण-वायव्याः याम्याः नैरृत्य-वायसाः ॥ वायसा पुण्य-कर्माणः ते प्रगृह्णंतु मे बलिम् ॥ ३६ ॥
ye vā varuṇa-vāyavyāḥ yāmyāḥ nairṛtya-vāyasāḥ .. vāyasā puṇya-karmāṇaḥ te pragṛhṇaṃtu me balim .. 36 ..
शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् ॥ शैवैर्मन्त्रैर्बलिं ये च ददंते न च ते यमम् ॥ ३७ ॥
शिवाम् अभ्यर्च्य यत्नेन हुत्वा अग्नौ विधि-पूर्वकम् ॥ शैवैः मन्त्रैः बलिम् ये च ददंते न च ते यमम् ॥ ३७ ॥
śivām abhyarcya yatnena hutvā agnau vidhi-pūrvakam .. śaivaiḥ mantraiḥ balim ye ca dadaṃte na ca te yamam .. 37 ..
पश्यंति त्रिदिवं यांति तस्माद्दद्याद्दिनेदिने॥मण्डलं चतुरस्रं तु कृत्वा गंधादिवासितम् ॥ ३८॥
पश्यंति त्रिदिवम् यांति तस्मात् दद्यात् दिने दिने॥मण्डलम् चतुर्-अस्रम् तु कृत्वा गंध-आदि-वासितम् ॥ ३८॥
paśyaṃti tridivam yāṃti tasmāt dadyāt dine dine..maṇḍalam catur-asram tu kṛtvā gaṃdha-ādi-vāsitam .. 38..
धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् ॥ याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे ॥ ३९॥
धन्वन्तरि-अर्थम् ईशान्याम् प्राच्याम् इन्द्राय निःक्षिपेत् ॥ याम्याम् यमाय वारुण्याम् सुदक्षोमाय दक्षिणे ॥ ३९॥
dhanvantari-artham īśānyām prācyām indrāya niḥkṣipet .. yāmyām yamāya vāruṇyām sudakṣomāya dakṣiṇe .. 39..
पितृभ्यस्तु विनिक्षिप्य प्राच्यामर्यमणे ततः ॥ धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत् ॥ 5.10.४० ॥
पितृभ्यः तु विनिक्षिप्य प्राच्याम् अर्यमणे ततस् ॥ धातुः च एव विधातुः च द्वार-देशे विनिःक्षिपेत् ॥ ५।१०।४० ॥
pitṛbhyaḥ tu vinikṣipya prācyām aryamaṇe tatas .. dhātuḥ ca eva vidhātuḥ ca dvāra-deśe viniḥkṣipet .. 5.10.40 ..
श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्भुवि ॥ देवैः पितृमनुष्यैश्च प्रेतैर्भूतैस्सगुह्यकै ॥ ४१ ॥
श्वभ्यः च श्व-पतिभ्यः च वयोभ्यः विक्षिपेत् भुवि ॥ देवैः पितृ-मनुष्यैः च प्रेतैः भूतैः स गुह्यकैः ॥ ४१ ॥
śvabhyaḥ ca śva-patibhyaḥ ca vayobhyaḥ vikṣipet bhuvi .. devaiḥ pitṛ-manuṣyaiḥ ca pretaiḥ bhūtaiḥ sa guhyakaiḥ .. 41 ..
वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते ॥ स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः ॥ ४२॥
वयोभिः कृमि-कीटैः च गृहस्थः च उपजीव्यते ॥ स्वाहाकारः स्वधाकारः वषट्कारः तृतीयकः ॥ ४२॥
vayobhiḥ kṛmi-kīṭaiḥ ca gṛhasthaḥ ca upajīvyate .. svāhākāraḥ svadhākāraḥ vaṣaṭkāraḥ tṛtīyakaḥ .. 42..
हंतकारस्तथैवान्यो धेन्वा स्तनचतुष्टयम्॥स्वाहाकारं स्तनं देवास्स्वधां च पितरस्तथा॥४३॥
हंतकारः तथा एव अन्यः धेन्वाः स्तन-चतुष्टयम्॥स्वाहाकारम् स्तनम् देवाः स्वधाम् च पितरः तथा॥४३॥
haṃtakāraḥ tathā eva anyaḥ dhenvāḥ stana-catuṣṭayam..svāhākāram stanam devāḥ svadhām ca pitaraḥ tathā..43..
वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा ॥ हंतकारं मनुष्याश्च पिबंति सततं स्त नम् ॥ ४४ ॥
वषट्कारम् तथा एव अन्ये देवाः भूत-ईश्वराः तथा ॥ हंतकारम् मनुष्याः च पिबंति सततम् ॥ ४४ ॥
vaṣaṭkāram tathā eva anye devāḥ bhūta-īśvarāḥ tathā .. haṃtakāram manuṣyāḥ ca pibaṃti satatam .. 44 ..
यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् ॥ करोति सततं काले साग्नित्वायोपकल्प्यते ॥ ४५ ॥
यः तु एताम् मानवः धेनुम् श्रद्धया हि अनुपूर्विकाम् ॥ करोति सततम् काले स अग्नि-त्वाय उपकल्प्यते ॥ ४५ ॥
yaḥ tu etām mānavaḥ dhenum śraddhayā hi anupūrvikām .. karoti satatam kāle sa agni-tvāya upakalpyate .. 45 ..
यस्तां जहाति वा स्वस्थस्तामिस्रे स तु मज्जति ॥ तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिंतयेत्क्षणम् ॥ ४६॥
यः ताम् जहाति वा स्वस्थः तामिस्रे स तु मज्जति ॥ तस्मात् दत्त्वा बलिम् तेभ्यः द्वार-स्थः चिंतयेत् क्षणम् ॥ ४६॥
yaḥ tām jahāti vā svasthaḥ tāmisre sa tu majjati .. tasmāt dattvā balim tebhyaḥ dvāra-sthaḥ ciṃtayet kṣaṇam .. 46..
क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् ॥ भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात् ॥ ४७॥
क्षुधा-आर्तम् अतिथिम् सम्यक् एक-ग्राम-निवासिनम् ॥ भोजयेत् तम् शुभ-अन्नेन यथाशक्ति आत्म-भोजनात् ॥ ४७॥
kṣudhā-ārtam atithim samyak eka-grāma-nivāsinam .. bhojayet tam śubha-annena yathāśakti ātma-bhojanāt .. 47..
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ स तस्मै दुष्कृतं दत्त्वा पुण्यमा दाय गच्छति ॥ ४८॥
अतिथिः यस्य भग्न-आशः गृहात् प्रतिनिवर्तते ॥ स तस्मै दुष्कृतम् दत्त्वा पुण्यम् आ दाय गच्छति ॥ ४८॥
atithiḥ yasya bhagna-āśaḥ gṛhāt pratinivartate .. sa tasmai duṣkṛtam dattvā puṇyam ā dāya gacchati .. 48..
ततोऽन्नं प्रियमेवाश्नन्नरः शृंखलवान्पुनः ॥ जिह्वावेगेन विद्धोत्र चिरं कालं स तिष्ठति ॥ ४९॥
ततस् अन्नम् प्रियम् एव अश्नन् नरः शृंखलवान् पुनर् ॥ जिह्वा-वेगेन विद्धः उत्र चिरम् कालम् स तिष्ठति ॥ ४९॥
tatas annam priyam eva aśnan naraḥ śṛṃkhalavān punar .. jihvā-vegena viddhaḥ utra ciram kālam sa tiṣṭhati .. 49..
यतस्तं मांसमुद्धत्य तिलमात्रप्रमाणतः ॥ खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम् ॥ 5.10.५० ॥
यतस् तम् मांसम् उद्धत्य तिल-मात्र-प्रमाणतः ॥ खादितुम् दीयते तेषाम् भित्त्वा च एव तु शोणितम् ॥ ५।१०।५० ॥
yatas tam māṃsam uddhatya tila-mātra-pramāṇataḥ .. khāditum dīyate teṣām bhittvā ca eva tu śoṇitam .. 5.10.50 ..
निश्शेषतः कशाभिस्तु पीड्यते क्रमशः पुनः ॥ बुभुक्षयातिकष्टं हि तथायाति पिपासया ॥ ५१ ॥
निश्शेषतः कशाभिः तु पीड्यते क्रमशस् पुनर् ॥ बुभुक्षया अति कष्टम् हि तथा आयाति पिपासया ॥ ५१ ॥
niśśeṣataḥ kaśābhiḥ tu pīḍyate kramaśas punar .. bubhukṣayā ati kaṣṭam hi tathā āyāti pipāsayā .. 51 ..
एवमाद्या महाघोरा यातनाः पापकर्मणाम् ॥ अंते यत्प्रतिपन्नं हि तत्संक्षेपेण संशृणु ॥ ५२ ॥
एवमाद्याः महा-घोराः यातनाः पाप-कर्मणाम् ॥ अन्ते यत् प्रतिपन्नम् हि तत् संक्षेपेण संशृणु ॥ ५२ ॥
evamādyāḥ mahā-ghorāḥ yātanāḥ pāpa-karmaṇām .. ante yat pratipannam hi tat saṃkṣepeṇa saṃśṛṇu .. 52 ..
यः करोति महापापं धर्म्मं चरति वै लघु ॥ धर्म्मं गुरुतरं वापि तथावस्थे तयोः शृणु ॥ ५३॥
यः करोति महा-पापम् धर्म्मम् चरति वै लघु ॥ धर्म्मम् गुरुतरम् वा अपि तथा अवस्थे तयोः शृणु ॥ ५३॥
yaḥ karoti mahā-pāpam dharmmam carati vai laghu .. dharmmam gurutaram vā api tathā avasthe tayoḥ śṛṇu .. 53..
सुकृतस्य फलं नोक्तं गुरुपा पप्रभावतः ॥ न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः ॥ ५४ ॥
सुकृतस्य फलम् न उक्तम् ॥ न मिनोति सुखम् तत्र भोगैः बहुभिः अन्वितः ॥ ५४ ॥
sukṛtasya phalam na uktam .. na minoti sukham tatra bhogaiḥ bahubhiḥ anvitaḥ .. 54 ..
तथोद्विग्नोतिसंतप्तो न भक्ष्यैर्मन्यते सुखम् ॥ अभावादग्रतोऽन्यस्य प्रतिकल्पं दिनेदिने ॥ ५५॥
तथा उद्विग्न-उति संतप्तः न भक्ष्यैः मन्यते सुखम् ॥ अभावात् अग्रतस् अन्यस्य प्रतिकल्पम् दिने दिने ॥ ५५॥
tathā udvigna-uti saṃtaptaḥ na bhakṣyaiḥ manyate sukham .. abhāvāt agratas anyasya pratikalpam dine dine .. 55..
पुमान्यो गुरुधर्म्माऽपि सोपवासो यथा गृही ॥ वित्तवान्न विजानाति पीडां नियमसंस्थितः ॥ ५६ ॥
पुमान् यः गुरु-धर्म्मा अपि स उपवासः यथा गृही ॥ वित्तवान् न विजानाति पीडाम् नियम-संस्थितः ॥ ५६ ॥
pumān yaḥ guru-dharmmā api sa upavāsaḥ yathā gṛhī .. vittavān na vijānāti pīḍām niyama-saṃsthitaḥ .. 56 ..
तानि पापानि घोराणि संति यैश्च नरो भुवि ॥ शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५७ ॥ ॥
तानि पापानि घोराणि संति यैः च नरः भुवि ॥ शतधा भेदम् आप्नोति गिरिः वज्र-हतः यथा ॥ ५७ ॥ ॥
tāni pāpāni ghorāṇi saṃti yaiḥ ca naraḥ bhuvi .. śatadhā bhedam āpnoti giriḥ vajra-hataḥ yathā .. 57 .. ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् नरकगतिभोगवर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām narakagatibhogavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In