| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।। ।।
कृतपापा नरा यांति दुःखेन महतान्विताः ॥ यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो ॥ १ ॥
कृत-पापाः नराः यांति दुःखेन महता अन्विताः ॥ यम-मार्गे सुखम् यैः च तान् धर्मान् वद मे प्रभो ॥ १ ॥
kṛta-pāpāḥ narāḥ yāṃti duḥkhena mahatā anvitāḥ .. yama-mārge sukham yaiḥ ca tān dharmān vada me prabho .. 1 ..
।। सनत्कुमार उवाच ।।
अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः ॥ शुभाशुभमथो वक्ष्ये तान्धर्म्मान्सुखदायकान् ।२॥
अवश्यम् हि कृतम् कर्म भोक्तव्यम् अविचारतः ॥ शुभ-अशुभम् अथो वक्ष्ये तान् धर्मान् सुख-दायकान् ।२॥
avaśyam hi kṛtam karma bhoktavyam avicārataḥ .. śubha-aśubham atho vakṣye tān dharmān sukha-dāyakān .2..
अत्र ये शुभकर्म्माणः सौम्यचित्ता दयान्विताः ॥ सुखेन ते नरा यांति यममार्गं भयावहम् ॥ ३ ॥
अत्र ये शुभ-कर्म्माणः सौम्य-चित्ताः दया-अन्विताः ॥ सुखेन ते नराः यांति यम-मार्गम् भय-आवहम् ॥ ३ ॥
atra ye śubha-karmmāṇaḥ saumya-cittāḥ dayā-anvitāḥ .. sukhena te narāḥ yāṃti yama-mārgam bhaya-āvaham .. 3 ..
यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके ॥ स नरोऽश्वेन महता सुखं याति यमालयम् ॥ ४ ॥ ॥
यः प्रदद्यात् द्विजेन्द्राणाम् उपानह् काष्ठ-पादुके ॥ स नरः अश्वेन महता सुखम् याति यम-आलयम् ॥ ४ ॥ ॥
yaḥ pradadyāt dvijendrāṇām upānah kāṣṭha-pāduke .. sa naraḥ aśvena mahatā sukham yāti yama-ālayam .. 4 .. ..
छत्रदानेन गच्छंति यथा छत्रेण देहिनः ॥ शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत् ॥ ५ ॥
छत्र-दानेन गच्छंति यथा छत्रेण देहिनः ॥ शिबिकायाः प्रदानेन तद्-रथेन सुखम् व्रजेत् ॥ ५ ॥
chatra-dānena gacchaṃti yathā chatreṇa dehinaḥ .. śibikāyāḥ pradānena tad-rathena sukham vrajet .. 5 ..
शय्यासनप्रदानेन सुखं याति सुविश्रमम् ॥ आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः ॥ व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः ॥ ६॥
शय्या-आसन-प्रदानेन सुखम् याति सु विश्रमम् ॥ आराम-छाया-कर्तारः मार्गे वा वृक्ष-रोपकाः ॥ व्रजन्ति यम-लोकम् च आतपे अति गत-क्लमाः ॥ ६॥
śayyā-āsana-pradānena sukham yāti su viśramam .. ārāma-chāyā-kartāraḥ mārge vā vṛkṣa-ropakāḥ .. vrajanti yama-lokam ca ātape ati gata-klamāḥ .. 6..
यांति पुष्पगयानेन पुष्पारामकरा नराः ॥ देवायतनकर्तारः क्रीडंति च गृहोदरे ॥ ७॥
यांति पुष्पग-यानेन पुष्प-आराम-कराः नराः ॥ देवायतन-कर्तारः क्रीडंति च गृह-उदरे ॥ ७॥
yāṃti puṣpaga-yānena puṣpa-ārāma-karāḥ narāḥ .. devāyatana-kartāraḥ krīḍaṃti ca gṛha-udare .. 7..
कर्तारश्च तथा ये च यतीनामाश्रमस्य च ॥ अनाथमण्डपानां तु क्रीडंति च गृहोदरे ॥ ८ ॥
कर्तारः च तथा ये च यतीनाम् आश्रमस्य च ॥ अनाथ-मण्डपानाम् तु क्रीडंति च गृह-उदरे ॥ ८ ॥
kartāraḥ ca tathā ye ca yatīnām āśramasya ca .. anātha-maṇḍapānām tu krīḍaṃti ca gṛha-udare .. 8 ..
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ॥ पूज्यमाना नरा यांति कामुकेन यथासुखम् ॥ ९ ॥
देव-अग्नि-गुरु-विप्राणाम् माता-पित्रोः च पूजकाः ॥ पूज्यमानाः नराः यांति कामुकेन यथासुखम् ॥ ९ ॥
deva-agni-guru-viprāṇām mātā-pitroḥ ca pūjakāḥ .. pūjyamānāḥ narāḥ yāṃti kāmukena yathāsukham .. 9 ..
द्योतयंतो दिशस्सर्वा यांति दीपप्रदायिनः ॥ प्रतिश्रयप्रदानेन सुखं यांति निरामयाः ॥ 5.11.१० ॥
द्योतयंतः दिशः सर्वाः यांति दीप-प्रदायिनः ॥ प्रतिश्रय-प्रदानेन सुखम् यांति निरामयाः ॥ ५।११।१० ॥
dyotayaṃtaḥ diśaḥ sarvāḥ yāṃti dīpa-pradāyinaḥ .. pratiśraya-pradānena sukham yāṃti nirāmayāḥ .. 5.11.10 ..
विश्राम्यमाणा गच्छंति गुरुशुश्रूषका नराः ॥ आतोद्यविप्रदातारस्सुखं यांति स्वके गृहे ॥ ११ ॥
विश्राम्यमाणाः गच्छन्ति गुरु-शुश्रूषकाः नराः ॥ आतोद्य-विप्रदातारः सुखम् यान्ति स्वके गृहे ॥ ११ ॥
viśrāmyamāṇāḥ gacchanti guru-śuśrūṣakāḥ narāḥ .. ātodya-vipradātāraḥ sukham yānti svake gṛhe .. 11 ..
सर्वकामसमृद्धेन यथा गच्छंति गोप्रदाः ॥ अत्र दत्तान्नपानानि 'तान्याप्नोति नरः पथि ॥ १२ ॥
सर्व-काम-समृद्धेन यथा गच्छन्ति गो-प्रदाः ॥ अत्र दत्त-अन्न-पानानि अतानि आप्नोति नरः पथि ॥ १२ ॥
sarva-kāma-samṛddhena yathā gacchanti go-pradāḥ .. atra datta-anna-pānāni atāni āpnoti naraḥ pathi .. 12 ..
पादशौचप्रदानेन सजलेन पथा व्रजेत् ॥ पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन गच्छति ॥ १३ ॥
पाद-शौच-प्रदानेन स जलेन पथा व्रजेत् ॥ पाद-अभ्यंगम् च यः कुर्यात् अश्व-पृष्ठेन गच्छति ॥ १३ ॥
pāda-śauca-pradānena sa jalena pathā vrajet .. pāda-abhyaṃgam ca yaḥ kuryāt aśva-pṛṣṭhena gacchati .. 13 ..
पादशौचं तथाभ्यंगं दीपमन्नं प्रतिश्रयम् ॥ यो ददाति सदा व्यास नोपसर्पति तं यमः ॥ १४ ॥
पाद-शौचम् तथा अभ्यंगम् दीपम् अन्नम् प्रतिश्रयम् ॥ यः ददाति सदा व्यास न उपसर्पति तम् यमः ॥ १४ ॥
pāda-śaucam tathā abhyaṃgam dīpam annam pratiśrayam .. yaḥ dadāti sadā vyāsa na upasarpati tam yamaḥ .. 14 ..
हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ॥ रौप्यानडुत्स्रग्दानेन यमलोकं सुखेन सः ॥ १५ ॥
हेम-रत्न-प्रदानेन याति दुर्गाणि निस्तरन् ॥ रौप्य-अनडुह्-स्रज्-दानेन यम-लोकम् सुखेन सः ॥ १५ ॥
hema-ratna-pradānena yāti durgāṇi nistaran .. raupya-anaḍuh-sraj-dānena yama-lokam sukhena saḥ .. 15 ..
इत्येवमादिभिर्दानैस्सुखं यांति यमालयम् ॥ स्वर्गे तु विविधान्भोगान्प्राप्नुवंति सदा नराः ॥ १६ ॥
इति एवमादिभिः दानैः सुखम् यांति यम-आलयम् ॥ स्वर्गे तु विविधान् भोगान् प्राप्नुवन्ति सदा नराः ॥ १६ ॥
iti evamādibhiḥ dānaiḥ sukham yāṃti yama-ālayam .. svarge tu vividhān bhogān prāpnuvanti sadā narāḥ .. 16 ..
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ॥ सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम् ॥ १७॥
सर्वेषाम् एव दानानाम् अन्न-दानम् परम् स्मृतम् ॥ सद्यस् प्रीति-करम् हृद्यम् बल-बुद्धि-विवर्धनम् ॥ १७॥
sarveṣām eva dānānām anna-dānam param smṛtam .. sadyas prīti-karam hṛdyam bala-buddhi-vivardhanam .. 17..
नान्नदानसमं दानं विद्यते मुनिसत्तम ॥ अन्नाद्भवंति भूतानि तदभावे म्रियंति च ॥ १८॥
न अन्न-दान-समम् दानम् विद्यते मुनि-सत्तम ॥ अन्नात् भवन्ति भूतानि तद्-अभावे म्रियंति च ॥ १८॥
na anna-dāna-samam dānam vidyate muni-sattama .. annāt bhavanti bhūtāni tad-abhāve mriyaṃti ca .. 18..
रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते ॥ शुक्राद्भवंति भूतानि तस्मादन्नमयं जगत् ॥ १९ ॥
रक्तम् मांसम् वसा शुक्रम् क्रमात् अन्नात् प्रवर्धते ॥ शुक्रात् भवन्ति भूतानि तस्मात् अन्न-मयम् जगत् ॥ १९ ॥
raktam māṃsam vasā śukram kramāt annāt pravardhate .. śukrāt bhavanti bhūtāni tasmāt anna-mayam jagat .. 19 ..
हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चंदनादिभिः ॥ समस्तैरपि संप्राप्तैर्न रमंति बुभुक्षिताः ॥ 5.11.२०॥
हेम-रत्न-अश्व-नाग-इन्द्रैः नारी-स्रज्-चंदन-आदिभिः ॥ समस्तैः अपि संप्राप्तैः न रमंति बुभुक्षिताः ॥ ५।११।२०॥
hema-ratna-aśva-nāga-indraiḥ nārī-sraj-caṃdana-ādibhiḥ .. samastaiḥ api saṃprāptaiḥ na ramaṃti bubhukṣitāḥ .. 5.11.20..
गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः ॥ आहारमभिकांक्षंति देवदानवराक्षसाः॥२१॥
गर्भ-स्थाः जायमानाः च बाल-वृद्धाः च मध्यमाः ॥ आहारम् अभिकांक्षंति देव-दानव-राक्षसाः॥२१॥
garbha-sthāḥ jāyamānāḥ ca bāla-vṛddhāḥ ca madhyamāḥ .. āhāram abhikāṃkṣaṃti deva-dānava-rākṣasāḥ..21..
क्षुधा निश्शेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ॥ स चान्नौषधिलेपेन नश्यतीह न संशयः ॥ २२ ॥
क्षुधा निश्शेष-रोगाणाम् व्याधिः श्रेष्ठतमः स्मृतः ॥ स च अन्न-ओषधि-लेपेन नश्यति इह न संशयः ॥ २२ ॥
kṣudhā niśśeṣa-rogāṇām vyādhiḥ śreṣṭhatamaḥ smṛtaḥ .. sa ca anna-oṣadhi-lepena naśyati iha na saṃśayaḥ .. 22 ..
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ॥ नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ २३॥
न अस्ति क्षुधा-समम् दुःखम् न अस्ति रोगः क्षुधा-समः ॥ ना अस्ति अरोग-समम् सौख्यम् ना अस्ति क्रोध-समः रिपुः ॥ २३॥
na asti kṣudhā-samam duḥkham na asti rogaḥ kṣudhā-samaḥ .. nā asti aroga-samam saukhyam nā asti krodha-samaḥ ripuḥ .. 23..
अतएव महत्पुण्यमन्नदाने प्रकीर्तितम्॥तथा क्षुधाग्निना तप्ता म्रियंते सर्वदेहिनः॥२४॥
अतस् एव महत् पुण्यम् अन्न-दाने प्रकीर्तितम्॥तथा क्षुधा-अग्निना तप्ताः म्रियंते सर्व-देहिनः॥२४॥
atas eva mahat puṇyam anna-dāne prakīrtitam..tathā kṣudhā-agninā taptāḥ mriyaṃte sarva-dehinaḥ..24..
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः॥तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ॥ २५॥
अन्नदः प्राणदः प्रोक्तः प्राणदः च अपि सर्व-दः॥तस्मात् अन्न-प्रदानेन सर्व-दान-फलम् लभेत् ॥ २५॥
annadaḥ prāṇadaḥ proktaḥ prāṇadaḥ ca api sarva-daḥ..tasmāt anna-pradānena sarva-dāna-phalam labhet .. 25..
यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसंचयम्॥अन्नप्रदातुस्तस्यार्द्धं कर्तुश्चार्द्धं न संशयः ॥ २६ ॥
यस्य अन्न-पान-पुष्ट-अङ्गः कुरुते पुण्य-संचयम्॥अन्न-प्रदातुः तस्य अर्द्धम् कर्तुः च अर्द्धम् न संशयः ॥ २६ ॥
yasya anna-pāna-puṣṭa-aṅgaḥ kurute puṇya-saṃcayam..anna-pradātuḥ tasya arddham kartuḥ ca arddham na saṃśayaḥ .. 26 ..
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ॥ अन्नदानप्रदस्सर्वमिहामुत्र च तल्लभेत् ॥ २७ ॥
त्रैलोक्ये यानि रत्नानि भोग-स्त्री-वाहनानि च ॥ अन्न-दान-प्रदः सर्वम् इह अमुत्र च तत् लभेत् ॥ २७ ॥
trailokye yāni ratnāni bhoga-strī-vāhanāni ca .. anna-dāna-pradaḥ sarvam iha amutra ca tat labhet .. 27 ..
धर्म्मार्थकाममोक्षाणां देहः परमसाधनम् ॥ तस्मादन्नेन पानेन पालयेद्देहमात्मनः ॥ २८ ॥
धर्म्म-अर्थ-काम-मोक्षाणाम् देहः परम-साधनम् ॥ तस्मात् अन्नेन पानेन पालयेत् देहम् आत्मनः ॥ २८ ॥
dharmma-artha-kāma-mokṣāṇām dehaḥ parama-sādhanam .. tasmāt annena pānena pālayet deham ātmanaḥ .. 28 ..
अन्नमेव प्रशंसंति सर्वमेव प्रतिष्ठितम् ॥ अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ २९ ॥
अन्नम् एव प्रशंसंति सर्वम् एव प्रतिष्ठितम् ॥ अन्नेन सदृशम् दानम् न भूतम् न भविष्यति ॥ २९ ॥
annam eva praśaṃsaṃti sarvam eva pratiṣṭhitam .. annena sadṛśam dānam na bhūtam na bhaviṣyati .. 29 ..
अन्नेन धार्य्यते सर्वं विश्वं जगदिदं मुने ॥ अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ॥ 5.11.३० ॥
अन्नेन धार्य्यते सर्वम् विश्वम् जगत् इदम् मुने ॥ अन्नम् ऊर्जस्करम् लोके प्राणाः हि अन्ने प्रतिष्ठिताः ॥ ५।११।३० ॥
annena dhāryyate sarvam viśvam jagat idam mune .. annam ūrjaskaram loke prāṇāḥ hi anne pratiṣṭhitāḥ .. 5.11.30 ..
दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने ॥ कुटुंबं पीडयित्वापि ह्यात्मनो भूतिमिच्छता ॥ ३१॥
दातव्यम् भिक्षवे च अन्नम् ब्राह्मणाय महात्मने ॥ कुटुंबम् पीडयित्वा अपि हि आत्मनः भूतिम् इच्छता ॥ ३१॥
dātavyam bhikṣave ca annam brāhmaṇāya mahātmane .. kuṭuṃbam pīḍayitvā api hi ātmanaḥ bhūtim icchatā .. 31..
विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने॥ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ॥ ३२॥
विददाति निधि-श्रेष्ठम् यः दद्यात् अन्नम् अर्थिने॥ब्राह्मणाय आर्त-रूपाय पारलौकिकम् आत्मनः ॥ ३२॥
vidadāti nidhi-śreṣṭham yaḥ dadyāt annam arthine..brāhmaṇāya ārta-rūpāya pāralaukikam ātmanaḥ .. 32..
अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् ॥ श्रांतमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम् ॥ ॥ ३३ ॥
अर्चयेत् भूतिम् अन्विच्छन् काले द्विजम् उपस्थितम् ॥ श्रांतम् अध्वनि वृत्ति-अर्थम् गृहस्थः गृहम् आगतम् ॥ ॥ ३३ ॥
arcayet bhūtim anvicchan kāle dvijam upasthitam .. śrāṃtam adhvani vṛtti-artham gṛhasthaḥ gṛham āgatam .. .. 33 ..
अन्नदः पूजयेद्व्यासः सुशीलस्तु विमत्सरः ॥ क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम् ॥ ३४॥
अन्न-दः पूजयेत् व्यासः सुशीलः तु विमत्सरः ॥ क्रोधम् उत्पतितम् हित्वा दिवि च इह महत् सुखम् ॥ ३४॥
anna-daḥ pūjayet vyāsaḥ suśīlaḥ tu vimatsaraḥ .. krodham utpatitam hitvā divi ca iha mahat sukham .. 34..
नाभिनिंदेदधिगतं न प्रणुद्यात्कथंचन ॥ अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति॥३५॥ ।
न अभिनिंदेत् अधिगतम् न प्रणुद्यात् कथंचन ॥ अपि श्वपाके शुनि वा न अन्न-दानम् प्रणश्यति॥३५॥ ।
na abhiniṃdet adhigatam na praṇudyāt kathaṃcana .. api śvapāke śuni vā na anna-dānam praṇaśyati..35.. .
श्रांतायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते ॥ यो दद्यादपरिक्लिष्टं स समृद्धिमवाप्नुयात ॥ ३६॥
श्रांताय अ दृष्ट-पूर्वाय हि अन्नम् अध्वनि वर्तते ॥ यः दद्यात् अपरिक्लिष्टम् स समृद्धिम् अवाप्नुयात ॥ ३६॥
śrāṃtāya a dṛṣṭa-pūrvāya hi annam adhvani vartate .. yaḥ dadyāt aparikliṣṭam sa samṛddhim avāpnuyāta .. 36..
पितॄन्देवांस्तथा विप्रानतिथींश्च महामुने ॥ यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ ३७ ॥
पितॄन् देवान् तथा विप्रान् अतिथीन् च महा-मुने ॥ यः नरः प्रीणयति अन्नैः तस्य पुण्य-फलम् महत् ॥ ३७ ॥
pitṝn devān tathā viprān atithīn ca mahā-mune .. yaḥ naraḥ prīṇayati annaiḥ tasya puṇya-phalam mahat .. 37 ..
अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते ॥ न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ॥ ३८ ॥
अन्नम् पानम् च शूद्रे अपि ब्राह्मणे च विशिष्यते ॥ न पृच्छेत् गोत्र-चरणम् स्वाध्यायम् देशम् एव च ॥ ३८ ॥
annam pānam ca śūdre api brāhmaṇe ca viśiṣyate .. na pṛcchet gotra-caraṇam svādhyāyam deśam eva ca .. 38 ..
भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् ॥ स याति परमं स्वर्गं यावदाभूतसंप्लवम् ॥ ३९॥
भिक्षितः ब्राह्मणेन इह दद्यात् अन्नम् च यः पुमान् ॥ स याति परमम् स्वर्गम् यावत् आभूतसंप्लवम् ॥ ३९॥
bhikṣitaḥ brāhmaṇena iha dadyāt annam ca yaḥ pumān .. sa yāti paramam svargam yāvat ābhūtasaṃplavam .. 39..
अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः ॥ भवंतीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे ॥ 5.11.४०॥
अन्न-दस्य च वृक्षाः च सर्व-काम-फल-अन्विताः ॥ भवन्ति इह यथा विप्राः हर्ष-युक्ताः त्रिविष्टपे ॥ ५।११।४०॥
anna-dasya ca vṛkṣāḥ ca sarva-kāma-phala-anvitāḥ .. bhavanti iha yathā viprāḥ harṣa-yuktāḥ triviṣṭape .. 5.11.40..
अन्नदानेन ये लोकास्स्वर्गे विरचिता मुने ॥ अन्नदातुर्महादिव्यास्ताञ्छृणुष्व महामुने ॥ ४१ ॥
अन्न-दानेन ये लोकाः स्वर्गे विरचिताः मुने ॥ अन्न-दातुः महा-दिव्याः तान् शृणुष्व महा-मुने ॥ ४१ ॥
anna-dānena ye lokāḥ svarge viracitāḥ mune .. anna-dātuḥ mahā-divyāḥ tān śṛṇuṣva mahā-mune .. 41 ..
भवनानि प्रकाशंते दिवि तेषां महात्मनाम् ॥ नानासंस्थानरूपाणि नाना कामान्वितानि च ॥ ४२ ॥
भवनानि प्रकाशन्ते दिवि तेषाम् महात्मनाम् ॥ नाना संस्थान-रूपाणि नाना काम-अन्वितानि च ॥ ४२ ॥
bhavanāni prakāśante divi teṣām mahātmanām .. nānā saṃsthāna-rūpāṇi nānā kāma-anvitāni ca .. 42 ..
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः॥४३॥
सर्व-काम-फलाः च अपि वृक्षाः भवन-संस्थिताः ॥ हेम-वाप्यः शुभाः कूपाः दीर्घिकाः च एव सर्वशस्॥४३॥
sarva-kāma-phalāḥ ca api vṛkṣāḥ bhavana-saṃsthitāḥ .. hema-vāpyaḥ śubhāḥ kūpāḥ dīrghikāḥ ca eva sarvaśas..43..
घोषयंति च पानानि शुभान्यथ सहस्रशः ॥ भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च ॥ ४४ ॥
घोषयंति च पानानि शुभानि अथ सहस्रशस् ॥ भक्ष्य-भोज्य-मयाः शैलाः वासांसि आभरणानि च ॥ ४४ ॥
ghoṣayaṃti ca pānāni śubhāni atha sahasraśas .. bhakṣya-bhojya-mayāḥ śailāḥ vāsāṃsi ābharaṇāni ca .. 44 ..
क्षीरं स्रवंत्यस्सरितस्तथैवाज्यस्य पर्वताः ॥ प्रासादाः पाण्डुराभासाश्शय्याश्च कनकोज्ज्वलाः ॥ ४५॥
क्षीरम् स्रवन्त्यः सरितः तथा एव आज्यस्य पर्वताः ॥ प्रासादाः पाण्डुर-आभासाः शय्याः च कनक-उज्ज्वलाः ॥ ४५॥
kṣīram sravantyaḥ saritaḥ tathā eva ājyasya parvatāḥ .. prāsādāḥ pāṇḍura-ābhāsāḥ śayyāḥ ca kanaka-ujjvalāḥ .. 45..
तानन्नदाश्च गच्छंति तस्मादन्नप्रदो भवेत् ॥ यदीच्छेदात्मनो भव्यमिह लोके परत्र च ॥ ४६ ॥
तान् अन्न-दाः च गच्छन्ति तस्मात् अन्न-प्रदः भवेत् ॥ यदि इच्छेत् आत्मनः भव्यम् इह लोके परत्र च ॥ ४६ ॥
tān anna-dāḥ ca gacchanti tasmāt anna-pradaḥ bhavet .. yadi icchet ātmanaḥ bhavyam iha loke paratra ca .. 46 ..
एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः ॥ तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम् ॥ ४७ ॥
एते लोकाः पुण्य-कृताम् अन्न-दानाम् महा-प्रभाः ॥ तस्मात् अन्नम् विशेषेण दातव्यम् मानवैः ध्रुवम् ॥ ४७ ॥
ete lokāḥ puṇya-kṛtām anna-dānām mahā-prabhāḥ .. tasmāt annam viśeṣeṇa dātavyam mānavaiḥ dhruvam .. 47 ..
अन्नं प्रजापतिस्साक्षादन्नं विष्णुस्स्वयं हरः ॥ तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ ४८ ॥
अन्नम् प्रजापतिः साक्षात् अन्नम् विष्णुः स्वयम् हरः ॥ तस्मात् अन्न-समम् दानम् न भूतम् न भविष्यति ॥ ४८ ॥
annam prajāpatiḥ sākṣāt annam viṣṇuḥ svayam haraḥ .. tasmāt anna-samam dānam na bhūtam na bhaviṣyati .. 48 ..
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥ विमुक्तस्सर्वपापेभ्यस्स्वर्गलोकं स गच्छति ॥ ४९ ॥
कृत्वा अपि सु महत् पापम् यः पश्चात् अन्न-दः भवेत् ॥ विमुक्तः सर्व-पापेभ्यः स्वर्ग-लोकम् स गच्छति ॥ ४९ ॥
kṛtvā api su mahat pāpam yaḥ paścāt anna-daḥ bhavet .. vimuktaḥ sarva-pāpebhyaḥ svarga-lokam sa gacchati .. 49 ..
अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च ॥ प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥ 5.11.५० ॥
अन्न-पान-अश्व-गो-वस्त्र-शय्या-छत्र-आसनानि च ॥ प्रेत-लोके प्रशस्तानि दानानि अष्टौ विशेषतः ॥ ५।११।५० ॥
anna-pāna-aśva-go-vastra-śayyā-chatra-āsanāni ca .. preta-loke praśastāni dānāni aṣṭau viśeṣataḥ .. 5.11.50 ..
एवं दानविशेषेण धर्मराजपुरं नरः ॥ यस्माद्याति विमानेन तस्माद्दानं समाचरेत् ॥ ५१ ॥
एवम् दान-विशेषेण धर्मराज-पुरम् नरः ॥ यस्मात् याति विमानेन तस्मात् दानम् समाचरेत् ॥ ५१ ॥
evam dāna-viśeṣeṇa dharmarāja-puram naraḥ .. yasmāt yāti vimānena tasmāt dānam samācaret .. 51 ..
एतदाख्यानमनघमन्नदानप्रभावतः ॥ यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते ॥ ५२ ॥
एतत् आख्यानम् अनघम् अन्न-दान-प्रभावतः ॥ यः पठेत् पाठयेत् अन्यान् स समृद्धः प्रजायते ॥ ५२ ॥
etat ākhyānam anagham anna-dāna-prabhāvataḥ .. yaḥ paṭhet pāṭhayet anyān sa samṛddhaḥ prajāyate .. 52 ..
शृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने ॥ ।अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति॥५३॥
शृणुयात् श्रावयेत् श्राद्धे ब्राह्मणान् यः महा-मुने ॥ ।अक्षय्यम् अन्न-दानम् च पितॄणाम् उपतिष्ठति॥५३॥
śṛṇuyāt śrāvayet śrāddhe brāhmaṇān yaḥ mahā-mune .. .akṣayyam anna-dānam ca pitṝṇām upatiṣṭhati..53..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायामन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः। ॥ ११ ॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् अन्नदानमाहात्म्यवर्णनम् नाम एकादशः अध्यायः। ॥ ११ ॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām annadānamāhātmyavarṇanam nāma ekādaśaḥ adhyāyaḥ. .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In