| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
पानीयदानं परमं दानानामुत्तमं सदा ॥ सर्वेषां जीवपुंजानां तर्पणं जीवनं स्मृतम् ॥ १ ॥
पानीय-दानम् परमम् दानानाम् उत्तमम् सदा ॥ सर्वेषाम् जीव-पुंजानाम् तर्पणम् जीवनम् स्मृतम् ॥ १ ॥
pānīya-dānam paramam dānānām uttamam sadā .. sarveṣām jīva-puṃjānām tarpaṇam jīvanam smṛtam .. 1 ..
प्रपादानमतः कुर्यात्सुस्नेहादनिवारितम् ॥ जलाश्रयविनिर्माणं महानन्दकरं भवेत् ॥ २॥
प्रपा-दानम् अतस् कुर्यात् सुस्नेहात् अनिवारितम् ॥ जलाश्रय-विनिर्माणम् महा-आनन्द-करम् भवेत् ॥ २॥
prapā-dānam atas kuryāt susnehāt anivāritam .. jalāśraya-vinirmāṇam mahā-ānanda-karam bhavet .. 2..
इह लोके परे वापि सत्यं सत्यं न संशयः॥तस्माद्वापीश्च कूपांश्च तडागान्कारयेन्नरः ॥ ३॥
इह लोके परे वा अपि सत्यम् सत्यम् न संशयः॥तस्मात् वापीः च कूपान् च तडागान् कारयेत् नरः ॥ ३॥
iha loke pare vā api satyam satyam na saṃśayaḥ..tasmāt vāpīḥ ca kūpān ca taḍāgān kārayet naraḥ .. 3..
अर्द्धं पापस्य हरति पुरुषस्य विकर्मणः ॥ कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ॥ ४ ॥
अर्द्धम् पापस्य हरति पुरुषस्य विकर्मणः ॥ कूपः प्रवृत्त-पानीयः सु प्रवृत्तस्य नित्यशस् ॥ ४ ॥
arddham pāpasya harati puruṣasya vikarmaṇaḥ .. kūpaḥ pravṛtta-pānīyaḥ su pravṛttasya nityaśas .. 4 ..
सर्वं तारयते वंशं यस्य खाते जलाशये ॥ गावः पिबंति विप्राश्च साधवश्च नरास्सदा ॥ ५ ॥
सर्वम् तारयते वंशम् यस्य खाते जलाशये ॥ गावः पिबंति विप्राः च साधवः च नराः सदा ॥ ५ ॥
sarvam tārayate vaṃśam yasya khāte jalāśaye .. gāvaḥ pibaṃti viprāḥ ca sādhavaḥ ca narāḥ sadā .. 5 ..
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ॥ सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ॥ ६ ॥
निदाघ-काले पानीयम् यस्य तिष्ठति अ वारितम् ॥ सु दुर्गम् विषमम् कृच्छ्रम् न कदाचिद् अवाप्यते ॥ ६ ॥
nidāgha-kāle pānīyam yasya tiṣṭhati a vāritam .. su durgam viṣamam kṛcchram na kadācid avāpyate .. 6 ..
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ॥ त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ७ ॥
तडागानाम् च वक्ष्यामि कृतानाम् ये गुणाः स्मृता ॥ त्रिषु लोकेषु सर्वत्र पूजितः यः तडागवान् ॥ ७ ॥
taḍāgānām ca vakṣyāmi kṛtānām ye guṇāḥ smṛtā .. triṣu lokeṣu sarvatra pūjitaḥ yaḥ taḍāgavān .. 7 ..
अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ॥ कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥ ८॥
अथवा मित्र-सदने मैत्रम् मित्र-आर्ति-वर्जितम् ॥ कीर्ति-संजननम् श्रेष्ठम् तडागानाम् निवेशनम् ॥ ८॥
athavā mitra-sadane maitram mitra-ārti-varjitam .. kīrti-saṃjananam śreṣṭham taḍāgānām niveśanam .. 8..
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ॥ तडागं सुकृते येन तस्य पुण्यमनन्तकम् ॥ ९ ॥
धर्मस्य अर्थस्य कामस्य फलम् आहुः मनीषिणः ॥ तडागम् सु कृते येन तस्य पुण्यम् अनन्तकम् ॥ ९ ॥
dharmasya arthasya kāmasya phalam āhuḥ manīṣiṇaḥ .. taḍāgam su kṛte yena tasya puṇyam anantakam .. 9 ..
चतुर्विधानां भूतानां तडागः परमाश्रयः ॥ तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ 5.12.१० ॥
चतुर्विधानाम् भूतानाम् तडागः परम-आश्रयः ॥ तडाग-आदीनि सर्वाणि दिशन्ति श्रियम् उत्तमाम् ॥ ५।१२।१० ॥
caturvidhānām bhūtānām taḍāgaḥ parama-āśrayaḥ .. taḍāga-ādīni sarvāṇi diśanti śriyam uttamām .. 5.12.10 ..
देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ॥ स्थावराणि च भूतानि संश्रयंति जलाशयम् ॥ ११ ॥
देवाः मनुष्याः गन्धर्वाः पितरः नाग-राक्षसाः ॥ स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ११ ॥
devāḥ manuṣyāḥ gandharvāḥ pitaraḥ nāga-rākṣasāḥ .. sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam .. 11 ..
प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ॥ अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ॥ १२ ॥
प्रावृष्-ऋतौ तडागे तु सलिलम् यस्य तिष्ठति ॥ अग्निहोत्र-फलम् तस्य भवति इति आह च आत्मभूः ॥ १२ ॥
prāvṛṣ-ṛtau taḍāge tu salilam yasya tiṣṭhati .. agnihotra-phalam tasya bhavati iti āha ca ātmabhūḥ .. 12 ..
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ॥ गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ॥ १३ ॥
शरद्-काले तु सलिलम् तडागे यस्य तिष्ठति ॥ गो-सहस्र-फलम् तस्य भवेत् न एव अत्र संशयः ॥ १३ ॥
śarad-kāle tu salilam taḍāge yasya tiṣṭhati .. go-sahasra-phalam tasya bhavet na eva atra saṃśayaḥ .. 13 ..
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ॥ स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १४ ॥
हेमन्ते शिशिरे च एव सलिलम् यस्य तिष्ठति ॥ स वै बहु-सुवर्णस्य यज्ञस्य लभते फलम् ॥ १४ ॥
hemante śiśire ca eva salilam yasya tiṣṭhati .. sa vai bahu-suvarṇasya yajñasya labhate phalam .. 14 ..
वसंते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ॥ अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ॥ १५ ॥
वसंते च तथा ग्रीष्मे सलिलम् यस्य तिष्ठति ॥ अतिरात्र-अश्वमेधानाम् फलम् आहुः मनीषिणः ॥ १५ ॥
vasaṃte ca tathā grīṣme salilam yasya tiṣṭhati .. atirātra-aśvamedhānām phalam āhuḥ manīṣiṇaḥ .. 15 ..
मुने व्यासाथ वृक्षाणां रोपणे च गुणाञ्छृणु ॥ प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ॥ ।१६॥
मुने व्यास अथ वृक्षाणाम् रोपणे च गुणान् शृणु ॥ प्रोक्तम् जलाशय-फलम् जीव-प्रीणनम् उत्तमम् ॥ ।१६॥
mune vyāsa atha vṛkṣāṇām ropaṇe ca guṇān śṛṇu .. proktam jalāśaya-phalam jīva-prīṇanam uttamam .. .16..
अतीतानागतान्सर्वान्पितृवंशांस्तु तारयेत् ॥ कांतारे वृक्षरोपी यस्तस्माद्वृक्षांस्तु रोपयेत् ॥ १७॥
अतीत-अन् आगतान् सर्वान् पितृ-वंशान् तु तारयेत् ॥ कांतारे वृक्ष-रोपी यः तस्मात् वृक्षान् तु रोपयेत् ॥ १७॥
atīta-an āgatān sarvān pitṛ-vaṃśān tu tārayet .. kāṃtāre vṛkṣa-ropī yaḥ tasmāt vṛkṣān tu ropayet .. 17..
तत्र पुत्रा भवंत्येते पादपा नात्र संशयः ॥ परं लोकं गतस्सोऽपि लोकानाप्नोति चाक्षयान् ॥ १८ ॥
तत्र पुत्राः भवन्ति एते पादपाः न अत्र संशयः ॥ परम् लोकम् गतः सः अपि लोकान् आप्नोति च अक्षयान् ॥ १८ ॥
tatra putrāḥ bhavanti ete pādapāḥ na atra saṃśayaḥ .. param lokam gataḥ saḥ api lokān āpnoti ca akṣayān .. 18 ..
पुष्पैस्सुरगणान्सर्वान्फलैश्चापि तथा पितॄन् ॥ छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ॥ १९ ॥
पुष्पैः सुर-गणान् सर्वान् फलैः च अपि तथा पितॄन् ॥ छायया च अतिथीन् सर्वान् पूजयंति महीरुहाः ॥ १९ ॥
puṣpaiḥ sura-gaṇān sarvān phalaiḥ ca api tathā pitṝn .. chāyayā ca atithīn sarvān pūjayaṃti mahīruhāḥ .. 19 ..
किन्नरोरगरक्षांसि देवगंधर्वमानवाः ॥ तथैवर्षिगणाश्चैव संश्रयंति महीरुहान् ॥ 5.12.२०॥
किन्नर-उरग-रक्षांसि देव-गंधर्व-मानवाः ॥ तथा एव ऋषि-गणाः च एव संश्रयन्ति महीरुहान् ॥ ५।१२।२०॥
kinnara-uraga-rakṣāṃsi deva-gaṃdharva-mānavāḥ .. tathā eva ṛṣi-gaṇāḥ ca eva saṃśrayanti mahīruhān .. 5.12.20..
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ॥ इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ॥ २१ ॥
पुष्पिताः फलवंतः च तर्पयंति इह मानवान् ॥ इह लोके परे च एव पुत्राः ते धर्मतः स्मृताः ॥ २१ ॥
puṣpitāḥ phalavaṃtaḥ ca tarpayaṃti iha mānavān .. iha loke pare ca eva putrāḥ te dharmataḥ smṛtāḥ .. 21 ..
तडागकृद्वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ॥ एते स्वर्गान्न हीयंते ये चान्ये सत्यवादिनः ॥ २२॥
तडाग-कृत् वृक्ष-रोपी च इष्ट-यज्ञः च यः द्विजः ॥ एते स्वर्गात् न हीयंते ये च अन्ये सत्य-वादिनः ॥ २२॥
taḍāga-kṛt vṛkṣa-ropī ca iṣṭa-yajñaḥ ca yaḥ dvijaḥ .. ete svargāt na hīyaṃte ye ca anye satya-vādinaḥ .. 22..
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ॥ २३॥
सत्यम् एव परम् ब्रह्म सत्यम् एव परम् तपः ॥ सत्यम् एव परः यज्ञः सत्यम् एव परम् श्रुतम् ॥ २३॥
satyam eva param brahma satyam eva param tapaḥ .. satyam eva paraḥ yajñaḥ satyam eva param śrutam .. 23..
सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ॥ सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥ २४॥
सत्यम् सुप्तेषु जागर्ति सत्यम् च परमम् पदम् ॥ सत्येन एव धृता पृथ्वी सत्ये सर्वम् प्रतिष्ठितम् ॥ २४॥
satyam supteṣu jāgarti satyam ca paramam padam .. satyena eva dhṛtā pṛthvī satye sarvam pratiṣṭhitam .. 24..
ततो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ॥ आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ॥ २५॥
ततस् यज्ञः च पुण्यम् च देव-ऋषि-पितृ-पूजने ॥ आपः विद्या च ते सर्वे सर्वम् सत्ये प्रतिष्ठितम् ॥ २५॥
tatas yajñaḥ ca puṇyam ca deva-ṛṣi-pitṛ-pūjane .. āpaḥ vidyā ca te sarve sarvam satye pratiṣṭhitam .. 25..
सत्यं यज्ञस्तपो दानं मंत्रा देवी सरस्वती॥ब्रह्मचर्य्यं तथा सत्यमोंकारस्सत्यमेव च ॥ २६॥
सत्यम् यज्ञः तपः दानम् मंत्राः देवी सरस्वती॥ब्रह्मचर्यम् तथा सत्यम् ओंकारः सत्यम् एव च ॥ २६॥
satyam yajñaḥ tapaḥ dānam maṃtrāḥ devī sarasvatī..brahmacaryam tathā satyam oṃkāraḥ satyam eva ca .. 26..
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ सत्येनाग्निर्निर्दहति स्वर्गस्सत्येन तिष्ठति ॥ २७॥
सत्येन वायुः अभ्येति सत्येन तपते रविः ॥ सत्येन अग्निः निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २७॥
satyena vāyuḥ abhyeti satyena tapate raviḥ .. satyena agniḥ nirdahati svargaḥ satyena tiṣṭhati .. 27..
पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ॥ सत्येन वहते लोके सर्वमाप्नोत्यसंशयम्॥२८॥
पालनम् सर्व-वेदानाम् सर्व-तीर्थ-अवगाहनम् ॥ सत्येन वहते लोके सर्वम् आप्नोति असंशयम्॥२८॥
pālanam sarva-vedānām sarva-tīrtha-avagāhanam .. satyena vahate loke sarvam āpnoti asaṃśayam..28..
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ॥ लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ॥ २९ ॥
अश्वमेध-सहस्रम् च सत्यम् च तुलया धृतम् ॥ लक्षाणि क्रतवः च एव सत्यम् एव विशिष्यते ॥ २९ ॥
aśvamedha-sahasram ca satyam ca tulayā dhṛtam .. lakṣāṇi kratavaḥ ca eva satyam eva viśiṣyate .. 29 ..
सत्येन देवाः पितरो मानवोरगराक्षसाः ॥ प्रीयंते सत्यतस्सर्वे लोकाश्च सचराचराः ॥ ॥ 5.12.३० ॥
सत्येन देवाः पितरः मानव-उरग-राक्षसाः ॥ प्रीयंते सत्यतः सर्वे लोकाः च स चराचराः ॥ ॥ ५।१२।३० ॥
satyena devāḥ pitaraḥ mānava-uraga-rākṣasāḥ .. prīyaṃte satyataḥ sarve lokāḥ ca sa carācarāḥ .. .. 5.12.30 ..
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ॥ ३१ ॥
सत्यम् आहुः परम् धर्मम् सत्यम् आहुः परम् पदम् ॥ सत्यम् आहुः परम् ब्रह्म तस्मात् सत्यम् सदा वदेत् ॥ ३१ ॥
satyam āhuḥ param dharmam satyam āhuḥ param padam .. satyam āhuḥ param brahma tasmāt satyam sadā vadet .. 31 ..
मुनयस्सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ॥ सत्यधर्मरतास्सिद्धास्ततस्स्वर्गं च ते गताः ॥ ३२॥
मुनयः सत्य-निरताः तपः तप्त्वा सु दुश्चरम् ॥ सत्य-धर्म-रताः सिद्धाः ततस् स्वर्गम् च ते गताः ॥ ३२॥
munayaḥ satya-niratāḥ tapaḥ taptvā su duścaram .. satya-dharma-ratāḥ siddhāḥ tatas svargam ca te gatāḥ .. 32..
अप्सरोगणसंविष्टैर्विमानैःपरिमातृभिः ॥ वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३३॥
अप्सरः-गण-संविष्टैः विमानैः परिमातृभिः ॥ वक्तव्यम् च सदा सत्यम् न सत्यात् विद्यते परम् ॥ ३३॥
apsaraḥ-gaṇa-saṃviṣṭaiḥ vimānaiḥ parimātṛbhiḥ .. vaktavyam ca sadā satyam na satyāt vidyate param .. 33..
अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ॥ स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ॥ ३४॥
अगाधे विपुले सिद्धे सत्यतीर्थे शुचि-ह्रदे ॥ स्नातव्यम् मनसा युक्तम् स्थानम् तत् परमम् स्मृतम् ॥ ३४॥
agādhe vipule siddhe satyatīrthe śuci-hrade .. snātavyam manasā yuktam sthānam tat paramam smṛtam .. 34..
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ॥ अनृतं ये न भाषंते ते नरास्स्वर्गगामिनः ॥ ३५॥
आत्म-अर्थे वा पर-अर्थे वा पुत्र-अर्थे वा अपि मानवाः ॥ अनृतम् ये न भाषंते ते नराः स्वर्ग-गामिनः ॥ ३५॥
ātma-arthe vā para-arthe vā putra-arthe vā api mānavāḥ .. anṛtam ye na bhāṣaṃte te narāḥ svarga-gāminaḥ .. 35..
वेदा यज्ञास्तथा मंत्रास्संति विप्रेषु नित्यशः ॥ नोभांत्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ॥ ३६ ॥
वेदाः यज्ञाः तथा मंत्राः संति विप्रेषु नित्यशस् ॥ न उभान्ति अपि हि असत्येषु तस्मात् सत्यम् समाचरेत् ॥ ३६ ॥
vedāḥ yajñāḥ tathā maṃtrāḥ saṃti vipreṣu nityaśas .. na ubhānti api hi asatyeṣu tasmāt satyam samācaret .. 36 ..
।। व्यास उवाच ।।
तपसो मे फलं ब्रूहि पुनरेव विशेषतः ॥ सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ॥ ३७ ॥
तपसः मे फलम् ब्रूहि पुनर् एव विशेषतः ॥ सर्वेषाम् च एव वर्णानाम् ब्राह्मणानाम् तपोधन ॥ ३७ ॥
tapasaḥ me phalam brūhi punar eva viśeṣataḥ .. sarveṣām ca eva varṇānām brāhmaṇānām tapodhana .. 37 ..
सनत्कुमार उवाच ।।
प्रवक्ष्यामि तपोऽध्यायं सर्व कामार्थसाधकम् ॥ सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३८ ॥
प्रवक्ष्यामि तपः-अध्यायम् काम-अर्थ-साधकम् ॥ सु दुश्चरम् द्विजातीनाम् तत् मे निगदतः शृणु ॥ ३८ ॥
pravakṣyāmi tapaḥ-adhyāyam kāma-artha-sādhakam .. su duścaram dvijātīnām tat me nigadataḥ śṛṇu .. 38 ..
तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ॥ तपोरता हि ये नित्यं मोदंते सह दैवतैः ॥ ३९ ॥
तपः हि परमम् प्रोक्तम् तपसा विद्यते फलम् ॥ तपः-रताः हि ये नित्यम् मोदंते सह दैवतैः ॥ ३९ ॥
tapaḥ hi paramam proktam tapasā vidyate phalam .. tapaḥ-ratāḥ hi ye nityam modaṃte saha daivataiḥ .. 39 ..
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥ तपसा प्राप्यते कामस्तपस्सर्वार्थसाधनम् ॥ 5.12.४० ॥
तपसा प्राप्यते स्वर्गः तपसा प्राप्यते यशः ॥ तपसा प्राप्यते कामः तपः सर्व-अर्थ-साधनम् ॥ ५।१२।४० ॥
tapasā prāpyate svargaḥ tapasā prāpyate yaśaḥ .. tapasā prāpyate kāmaḥ tapaḥ sarva-artha-sādhanam .. 5.12.40 ..
तपसा मोक्षमाप्नोति तपसा विंदते महत् ॥ ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ॥ ४१ ॥
तपसा मोक्षम् आप्नोति तपसा विंदते महत् ॥ ज्ञान-विज्ञान-संपत्तिः सौभाग्यम् रूपम् एव च ॥ ४१ ॥
tapasā mokṣam āpnoti tapasā viṃdate mahat .. jñāna-vijñāna-saṃpattiḥ saubhāgyam rūpam eva ca .. 41 ..
नानाविधानि वस्तूनि तपसा लभते नरः ॥ तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ४२ ॥
नानाविधानि वस्तूनि तपसा लभते नरः ॥ तपसा लभते सर्वम् मनसा यत् यत् इच्छति ॥ ४२ ॥
nānāvidhāni vastūni tapasā labhate naraḥ .. tapasā labhate sarvam manasā yat yat icchati .. 42 ..
नातप्ततपसो यांति ब्रह्मलोकं कदाचन ॥ नातप्ततपसां प्राप्यश्शंकरः परमेश्वरः ॥ ४३॥
न अतप्त-तपसः यांति ब्रह्म-लोकम् कदाचन ॥ न अ तप्त-तपसाम् प्राप्यः शंकरः परमेश्वरः ॥ ४३॥
na atapta-tapasaḥ yāṃti brahma-lokam kadācana .. na a tapta-tapasām prāpyaḥ śaṃkaraḥ parameśvaraḥ .. 43..
यत्कार्यं किंचिदास्थाय पुरुषस्तपते तपः ॥ तत्सर्वं समवाप्नोति परत्रेह च मानवः ॥ ४४॥
यत् कार्यम् किंचिद् आस्थाय पुरुषः तपते तपः ॥ तत् सर्वम् समवाप्नोति परत्र इह च मानवः ॥ ४४॥
yat kāryam kiṃcid āsthāya puruṣaḥ tapate tapaḥ .. tat sarvam samavāpnoti paratra iha ca mānavaḥ .. 44..
सुरापः पारदारी च ब्रह्महा गुरुतल्पगः ॥ तपसा तरते सर्वं सर्वतश्च विमुंचति॥४५॥
सुरापः पारदारी च ब्रह्म-हा गुरुतल्प-गः ॥ तपसा तरते सर्वम् सर्वतस् च विमुंचति॥४५॥
surāpaḥ pāradārī ca brahma-hā gurutalpa-gaḥ .. tapasā tarate sarvam sarvatas ca vimuṃcati..45..
अपि सर्वेश्वरः स्थाणुर्विष्णु श्चैव सनातनः ॥ ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ४६॥
अपि सर्व-ईश्वरः स्थाणुः विष्णुः च एव सनातनः ॥ ब्रह्मा हुताशनः शक्रः ये च अन्ये तपसा अन्विताः ॥ ४६॥
api sarva-īśvaraḥ sthāṇuḥ viṣṇuḥ ca eva sanātanaḥ .. brahmā hutāśanaḥ śakraḥ ye ca anye tapasā anvitāḥ .. 46..
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ॥ तपसा दिवि मोदंते समेता दैवतैस्सह ॥ ४७॥
अष्टाशीति-सहस्राणि मुनीनाम् ऊर्द्ध्वरेतसाम् ॥ तपसा दिवि मोदंते समेताः दैवतैः सह ॥ ४७॥
aṣṭāśīti-sahasrāṇi munīnām ūrddhvaretasām .. tapasā divi modaṃte sametāḥ daivataiḥ saha .. 47..
तपसा लभ्यते राज्यं स च शक्रस्सुरेश्वरः ॥ तपसाऽपालयत्सर्वमहन्यहनि वृत्रहा ॥ ४८॥
तपसा लभ्यते राज्यम् स च शक्रः सुर-ईश्वरः ॥ तपसा अपालयत् सर्वम् अहनि अहनि वृत्रहा ॥ ४८॥
tapasā labhyate rājyam sa ca śakraḥ sura-īśvaraḥ .. tapasā apālayat sarvam ahani ahani vṛtrahā .. 48..
सूर्य्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ॥ तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ॥ ४९॥
सूर्य्याचन्द्रमसौ देवौ सर्वलोक-हिते रतौ ॥ तपसा एव प्रकाशंते नक्षत्राणि ग्रहाः तथा ॥ ४९॥
sūryyācandramasau devau sarvaloka-hite ratau .. tapasā eva prakāśaṃte nakṣatrāṇi grahāḥ tathā .. 49..
न चास्ति तत्सुखं लोके यद्विना तपसा किल॥तपसैव सुखं सर्वमिति वेदविदो विदुः ॥ 5.12.५० ॥
न च अस्ति तत् सुखम् लोके यत् विना तपसा किल॥तपसा एव सुखम् सर्वम् इति वेद-विदः विदुः ॥ ५।१२।५० ॥
na ca asti tat sukham loke yat vinā tapasā kila..tapasā eva sukham sarvam iti veda-vidaḥ viduḥ .. 5.12.50 ..
ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ॥ सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ॥ ५१ ॥
ज्ञानम् विज्ञानम् आरोग्यम् रूपवत्-त्वम् तथा एव च ॥ सौभाग्यम् च एव तपसा प्राप्यते सर्वदा सुखम् ॥ ५१ ॥
jñānam vijñānam ārogyam rūpavat-tvam tathā eva ca .. saubhāgyam ca eva tapasā prāpyate sarvadā sukham .. 51 ..
तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ॥ पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥ ५२ ॥
तपसा सृज्यते विश्वम् ब्रह्मा विश्वम् विना आश्रमम् ॥ पाति विष्णुः हरः अपि अत्ति धत्ते शेषः अखिलाम् महीम् ॥ ५२ ॥
tapasā sṛjyate viśvam brahmā viśvam vinā āśramam .. pāti viṣṇuḥ haraḥ api atti dhatte śeṣaḥ akhilām mahīm .. 52 ..
विश्वामित्रो गाधिसुतस्तपसैव महामुने ॥ क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवेत्विदम् ॥ ५३ ॥
विश्वामित्रः गाधि-सुतः तपसा एव महा-मुने ॥ क्षत्रियः अथ अभवत् विप्रः प्रसिद्धम् त्रि-भवेतु इदम् ॥ ५३ ॥
viśvāmitraḥ gādhi-sutaḥ tapasā eva mahā-mune .. kṣatriyaḥ atha abhavat vipraḥ prasiddham tri-bhavetu idam .. 53 ..
इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ॥ शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ॥ ५४ ॥
इति उक्तम् ते महा-प्राज्ञ तपः-माहात्म्यम् उत्तमम् ॥ शृणु अध्ययन-माहात्म्यम् तपसः अधिकम् उत्तमम् ॥ ५४ ॥
iti uktam te mahā-prājña tapaḥ-māhātmyam uttamam .. śṛṇu adhyayana-māhātmyam tapasaḥ adhikam uttamam .. 54 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् तपोमाहात्म्यवर्णनम् नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām tapomāhātmyavarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In